परो व्यतिरिक्तो भिन्नः । कुतः ? तस्मात् पूर्वोक्तात् । तु-शब्दो ऽक्षरस्य विवक्षितस्याव्यक्ताद् वैलक्षण्य-विशेषणार्थः । भावो ऽक्षराख्यं परं ब्रह्म । व्यतिरिक्तत्वे सत्य् अपि सालक्षण्य-प्रसङ्गो ऽस्तीति तद्-विनिवृत्त्य्-अर्थम् आह - अन्य इति । अन्यो विलक्षणः । स चाव्यक्तो ऽनिन्द्रिय-गोचरः । परस् तस्माद् इत्य् उक्तम् । कस्मात् पुनः परः ? पूर्वोक्ताद् भूत-ग्राम-बीज-भूताद् अविद्या-लक्षणाद् अव्यक्तात् । अन्यो विलक्षणो भाव इत्य् अभिप्रायः । सनातनश् चिरन्तनो यः स भावः सर्वेषु भूतेषु ब्रह्मादिषु नश्यत्सु न विनश्यति
paro vyatirikto bhinnaḥ | kutaḥ ? tasmāt pūrvoktāt | tu-śabdo 'kṣarasya vivakṣitasyāvyaktād vailakṣaṇya-viśeṣaṇārthaḥ | bhāvo 'kṣarākhyaṃ paraṃ brahma | vyatiriktatve saty api sālakṣaṇya-prasaṅgo 'stīti tad-vinivṛtty-artham āha - anya iti | anyo vilakṣaṇaḥ | sa cāvyakto 'nindriya-gocaraḥ | paras tasmād ity uktam | kasmāt punaḥ paraḥ ? pūrvoktād bhūta-grāma-bīja-bhūtād avidyā-lakṣaṇād avyaktāt | anyo vilakṣaṇo bhāva ity abhiprāyaḥ | sanātanaś cirantano yaḥ sa bhāvaḥ sarveṣu bhūteṣu brahmādiṣu naśyatsu na vinaśyati
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.