इदं ब्रह्म-ज्ञानं वक्ष्यमाणम् उक्तं च पूर्वेषु अध्यायेषु, तत् बुद्धौ संनिधीकृत्य इदम् इत्य् आह । तु-शब्दो विशेष-निर्धारणार्थः । इदम् एव तु सम्यग्-ज्ञानं साक्षात् मोक्ष-प्राप्ति-साधनम् वासुदेवः सर्वम् इति [गीता ७।१२], आत्मैवेदं सर्वम् [छाउ ७।२५।२] एकम् एवाद्वितीयम् [छाउ ६।२।१] इत्य् आदि-श्रुति-स्मृतिभ्यः । नान्यत्, अथ ते ये ऽन्यथातो विदुर् अन्य-राजानस् ते क्षय्य-लोका भवन्ति [छाउ ७।२५।२] इत्य् आदि-श्रुतिभ्यश् च । ते तुभ्यं गुह्यतमं गोप्यतमं प्रवक्ष्यामि कथयिष्याम्य् अनसूयवे ऽसूया-रहिताय । किं तत् ? ज्ञानम् । किं-विशिष्टम् ? विज्ञान-सहितम् अनुभव-युक्तम्, यज् ज्ञात्वा प्राप्य मोक्ष्यसे ऽशुभात् संसार-बन्धनात्
idaṃ brahma-jñānaṃ vakṣyamāṇam uktaṃ ca pūrveṣu adhyāyeṣu, tat buddhau saṃnidhīkṛtya idam ity āha | tu-śabdo viśeṣa-nirdhāraṇārthaḥ | idam eva tu samyag-jñānaṃ sākṣāt mokṣa-prāpti-sādhanam vāsudevaḥ sarvam iti [Gītā 7.12], ātmaivedaṃ sarvam [ChāU 7.25.2] ekam evādvitīyam [ChāU 6.2.1] ity ādi-śruti-smṛtibhyaḥ | nānyat, atha te ye 'nyathāto vidur anya-rājānas te kṣayya-lokā bhavanti [ChāU 7.25.2] ity ādi-śrutibhyaś ca | te tubhyaṃ guhyatamaṃ gopyatamaṃ pravakṣyāmi kathayiṣyāmy anasūyave 'sūyā-rahitāya | kiṃ tat ? jñānam | kiṃ-viśiṣṭam ? vijñāna-sahitam anubhava-yuktam, yaj jñātvā prāpya mokṣyase 'śubhāt saṃsāra-bandhanāt
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.