* काञ्चुकीयः * - अथ किम् (भ्स्व् ६।६:१) कुशली महासेनः (भ्स्व् ६।६:२) इहापि सर्वगतं कुशलं पृच्छति (भ्स्व् ६।६:३) * राजा * - आसनाद् उत्थाय (भ्स्व् ६।६:४) किम् आज्ञापयति महासेनः (भ्स्व् ६।६:५) * काञ्चुकीयः * - सदृशम् एतद् वैदेहीपुत्रस्य (भ्स्व् ६।६:६) नन्व् आसनस्थेनैव भवता श्रोतव्यो महासेनस्य सन्देशः (भ्स्व् ६।६:७) * राजा * - यद् आज्ञापयति महासेनः (भ्स्व् ६।६:८) उपविशति (भ्स्व् ६।६:९) * काञ्चुकीयः * - दिष्ट्या परैर् अपहृतं राज्यं पुनः प्रत्यानीतम् इति (भ्स्व् ६।६:१०) कुतः कातरा ये ऽप्य् अशक्ता वा नोत्साहस् तेषु जायते & प्रायेण हि नरेन्द्रश्रीः सोत्साहैर् एव भुज्यते
* kāñcukīyaḥ * - atha kim (BhSv 6.6:1) kuśalī mahāsenaḥ (BhSv 6.6:2) ihāpi sarvagataṃ kuśalaṃ pṛcchati (BhSv 6.6:3) * rājā * - āsanād utthāya (BhSv 6.6:4) kim ājñāpayati mahāsenaḥ (BhSv 6.6:5) * kāñcukīyaḥ * - sadṛśam etad vaidehīputrasya (BhSv 6.6:6) nanv āsanasthenaiva bhavatā śrotavyo mahāsenasya sandeśaḥ (BhSv 6.6:7) * rājā * - yad ājñāpayati mahāsenaḥ (BhSv 6.6:8) upaviśati (BhSv 6.6:9) * kāñcukīyaḥ * - diṣṭyā parair apahṛtaṃ rājyaṃ punaḥ pratyānītam iti (BhSv 6.6:10) kutaḥ kātarā ye 'py aśaktā vā notsāhas teṣu jāyate & prāyeṇa hi narendraśrīḥ sotsāhair eva bhujyate
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.