सोम उवाच: गृहाण विद्यां विधिवत् समग्रां ब्र्प् ११०।८८अ तपःसमृद्धिं च शुभां च वाचम् ब्र्प् ११०।८८ब् शौर्यं च रूपं च बलं च बुद्धिं ब्र्प् ११०।८८च् संप्राप्स्यसे पुत्र मदाज्ञया त्वम् ब्र्प् ११०।८८द् ब्रह्मोवाच: पिप्पलादस् तम् अप्य् आह ओषधीशं विनीतवत् ॥* ब्र्प् ११०।८९ ॥ पिप्पलाद उवाच: सर्वम् एतद् वृथा मन्ये पितृहन्तृविनिष्कृतिम् । न करोम्य् अत्र यावच् च तस्मात् तत् प्रथमं वद
soma uvāca: gṛhāṇa vidyāṃ vidhivat samagrāṃ BrP 110.88a tapaḥsamṛddhiṃ ca śubhāṃ ca vācam BrP 110.88b śauryaṃ ca rūpaṃ ca balaṃ ca buddhiṃ BrP 110.88c saṃprāpsyase putra madājñayā tvam BrP 110.88d brahmovāca: pippalādas tam apy āha oṣadhīśaṃ vinītavat //* BrP 110.89 // pippalāda uvāca: sarvam etad vṛthā manye pitṛhantṛviniṣkṛtim / na karomy atra yāvac ca tasmāt tat prathamaṃ vada
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.