परं हि तद् ब्रह्ममयं मुनीन्द्रा ब्र्प् २३९।५८अ ब्रह्माणम् ईशं वरदं च विष्णुम् ब्र्प् २३९।५८ब् भवं च धर्मं च महानुभावं ब्र्प् २३९।५८च् यद् ब्रह्मपुत्रान् सुमहानुभावान् ब्र्प् २३९।५८द् तमश् च कष्टं सुमहद् रजश् च ब्र्प् २३९।५९अ सत्त्वं च शुद्धं प्रकृतिं परां च ब्र्प् २३९।५९ब् सिद्धिं च देवीं वरुणस्य पत्नीं ब्र्प् २३९।५९च् तेजश् च कृत्स्नं सुमहच् च धैर्यम् ब्र्प् २३९।५९द् ताराधिपं खे विमलं सुतारं ब्र्प् २३९।६०अ विश्वांश् च देवान् उरगान् पितॄंश् च ब्र्प् २३९।६०ब् शैलांश् च कृत्स्नान् उदधींश् च वाचलान् ब्र्प् २३९।६०च् नदीश् च सर्वाः सनगांश् च नागान् ब्र्प् २३९।६०द् साध्यांस् तथा यक्षगणान् दिशश् च ब्र्प् २३९।६१अ गन्धर्वसिद्धान् पुरुषान् स्त्रियश् च ब्र्प् २३९।६१ब् परस्परं प्राप्य महान् महात्मा ब्र्प् २३९।६१च् विशेत योगी नचिराद् विमुक्तः ब्र्प् २३९।६१द् कथा च या विप्रवराः प्रसक्ता ब्र्प् २३९।६२अ दैवे महावीर्यमतौ शुभेयम् ब्र्प् २३९।६२ब् योगान् स सर्वान् अनुभूय मर्त्या ब्र्प् २३९।६२च् नारायणं तं द्रुतम् आप्नुवन्ति ब्र्प् २३९।६२द् मुनय ऊचुः: सम्यक् क्रियेयं विप्रेन्द्र वर्णिता शिष्टसंमता । योगमार्गो यथान्यायं शिष्यायेह हितैषिणा
paraṃ hi tad brahmamayaṃ munīndrā BrP 239.58a brahmāṇam īśaṃ varadaṃ ca viṣṇum BrP 239.58b bhavaṃ ca dharmaṃ ca mahānubhāvaṃ BrP 239.58c yad brahmaputrān sumahānubhāvān BrP 239.58d tamaś ca kaṣṭaṃ sumahad rajaś ca BrP 239.59a sattvaṃ ca śuddhaṃ prakṛtiṃ parāṃ ca BrP 239.59b siddhiṃ ca devīṃ varuṇasya patnīṃ BrP 239.59c tejaś ca kṛtsnaṃ sumahac ca dhairyam BrP 239.59d tārādhipaṃ khe vimalaṃ sutāraṃ BrP 239.60a viśvāṃś ca devān uragān pitṝṃś ca BrP 239.60b śailāṃś ca kṛtsnān udadhīṃś ca vācalān BrP 239.60c nadīś ca sarvāḥ sanagāṃś ca nāgān BrP 239.60d sādhyāṃs tathā yakṣagaṇān diśaś ca BrP 239.61a gandharvasiddhān puruṣān striyaś ca BrP 239.61b parasparaṃ prāpya mahān mahātmā BrP 239.61c viśeta yogī nacirād vimuktaḥ BrP 239.61d kathā ca yā vipravarāḥ prasaktā BrP 239.62a daive mahāvīryamatau śubheyam BrP 239.62b yogān sa sarvān anubhūya martyā BrP 239.62c nārāyaṇaṃ taṃ drutam āpnuvanti BrP 239.62d munaya ūcuḥ: samyak kriyeyaṃ viprendra varṇitā śiṣṭasaṃmatā / yogamārgo yathānyāyaṃ śiṣyāyeha hitaiṣiṇā
Sanskrit only: no published translation is held for this verse.
सांख्ये त्व् इदानीं धर्मस्य विधिं प्रब्रूहि तत्त्वतः । त्रिषु लोकेषु यज् ज्ञानं सर्वं तद् विदितं हि ते
sāṃkhye tv idānīṃ dharmasya vidhiṃ prabrūhi tattvataḥ / triṣu lokeṣu yaj jñānaṃ sarvaṃ tad viditaṃ hi te
Sanskrit only: no published translation is held for this verse.
व्यास उवाच: शृणुध्वं मुनयः सर्वम् आख्यानं विदितात्मनाम् । विहितं यतिभिर् वृद्धैः कपिलादिभिर् ईश्वरैः
vyāsa uvāca: śṛṇudhvaṃ munayaḥ sarvam ākhyānaṃ viditātmanām / vihitaṃ yatibhir vṛddhaiḥ kapilādibhir īśvaraiḥ
Sanskrit only: no published translation is held for this verse.
यस्मिन् सुविभ्रमाः केचिद् दृश्यन्ते मुनिसत्तमाः । गुणाश् च यस्मिन् बहवो दोषहानिश् च केवला
yasmin suvibhramāḥ kecid dṛśyante munisattamāḥ / guṇāś ca yasmin bahavo doṣahāniś ca kevalā
Sanskrit only: no published translation is held for this verse.
ज्ञानेन परिसंख्याय सदोषान् विषयान् द्विजाः । मानुषान् दुर्जयान् कृत्स्नान् पैशाचान् विषयांस् तथा
jñānena parisaṃkhyāya sadoṣān viṣayān dvijāḥ / mānuṣān durjayān kṛtsnān paiśācān viṣayāṃs tathā
Sanskrit only: no published translation is held for this verse.
विषयान् औरगाञ् ज्ञात्वा गन्धर्वविषयांस् तथा । पितॄणां विषयाञ् ज्ञात्वा तिर्यक्त्वं चरतां द्विजाः
viṣayān auragāñ jñātvā gandharvaviṣayāṃs tathā / pitṝṇāṃ viṣayāñ jñātvā tiryaktvaṃ caratāṃ dvijāḥ
Sanskrit only: no published translation is held for this verse.
सुपर्णविषयाञ् ज्ञात्वा मरुतां विषयांस् तथा । महर्षिविषयांश् चैव राजर्षिविषयांस् तथा
suparṇaviṣayāñ jñātvā marutāṃ viṣayāṃs tathā / maharṣiviṣayāṃś caiva rājarṣiviṣayāṃs tathā
Sanskrit only: no published translation is held for this verse.
आसुरान् विषयाञ् ज्ञात्वा वैश्वदेवांस् तथैव च । देवर्षिविषयाञ् ज्ञात्वा योगानाम् अपि वै परान्
āsurān viṣayāñ jñātvā vaiśvadevāṃs tathaiva ca / devarṣiviṣayāñ jñātvā yogānām api vai parān
Sanskrit only: no published translation is held for this verse.
विषयांश् च प्रमाणस्य ब्रह्मणो विषयांस् तथा । आयुषश् च परं कालं लोकैर् विज्ञाय तत्त्वतः
viṣayāṃś ca pramāṇasya brahmaṇo viṣayāṃs tathā / āyuṣaś ca paraṃ kālaṃ lokair vijñāya tattvataḥ
Sanskrit only: no published translation is held for this verse.
सुखस्य च परं कालं विज्ञाय मुनिसत्तमाः । प्राप्तकाले च यद् दुःखं पततां विषयैषिणाम्
sukhasya ca paraṃ kālaṃ vijñāya munisattamāḥ / prāptakāle ca yad duḥkhaṃ patatāṃ viṣayaiṣiṇām
Sanskrit only: no published translation is held for this verse.
तिर्यक्त्वे पततां विप्रास् तथैव नरकेषु यत् । स्वर्गस्य च गुणाञ् ज्ञात्वा दोषान् सर्वांश् च भो द्विजाः
tiryaktve patatāṃ viprās tathaiva narakeṣu yat / svargasya ca guṇāñ jñātvā doṣān sarvāṃś ca bho dvijāḥ
Sanskrit only: no published translation is held for this verse.
वेदवादे च ये दोषा गुणा ये चापि वैदिकाः । ज्ञानयोगे च ये दोषा ज्ञानयोगे च ये गुणाः
vedavāde ca ye doṣā guṇā ye cāpi vaidikāḥ / jñānayoge ca ye doṣā jñānayoge ca ye guṇāḥ
Sanskrit only: no published translation is held for this verse.
सांख्यज्ञाने च ये दोषांस् तथैव च गुणा द्विजाः । सत्त्वं दशगुणं ज्ञात्वा रजो नवगुणं तथा
sāṃkhyajñāne ca ye doṣāṃs tathaiva ca guṇā dvijāḥ / sattvaṃ daśaguṇaṃ jñātvā rajo navaguṇaṃ tathā
Sanskrit only: no published translation is held for this verse.
तमश् चाष्टगुणं ज्ञात्वा बुद्धिं सप्तगुणां तथा । षड्गुणं च नभो ज्ञात्वा तमश् च त्रिगुणं महत्
tamaś cāṣṭaguṇaṃ jñātvā buddhiṃ saptaguṇāṃ tathā / ṣaḍguṇaṃ ca nabho jñātvā tamaś ca triguṇaṃ mahat
Sanskrit only: no published translation is held for this verse.
द्विगुणं च रजो ज्ञात्वा सत्त्वं चैकगुणं पुनः । मार्गं विज्ञाय तत्त्वेन प्रलयप्रेक्षणेन तु
dviguṇaṃ ca rajo jñātvā sattvaṃ caikaguṇaṃ punaḥ / mārgaṃ vijñāya tattvena pralayaprekṣaṇena tu
Sanskrit only: no published translation is held for this verse.
ज्ञानविज्ञानसंपन्नाः कारणैर् भावितात्मभिः । प्राप्नुवन्ति शुभं मोक्षं सूक्ष्मा इव नभः परम्
jñānavijñānasaṃpannāḥ kāraṇair bhāvitātmabhiḥ / prāpnuvanti śubhaṃ mokṣaṃ sūkṣmā iva nabhaḥ param
Sanskrit only: no published translation is held for this verse.
रूपेण दृष्टिं संयुक्तां घ्राणं गन्धगुणेन च । शब्दग्राह्यं तथा श्रोत्रं जिह्वां रसगुणेन च
rūpeṇa dṛṣṭiṃ saṃyuktāṃ ghrāṇaṃ gandhaguṇena ca / śabdagrāhyaṃ tathā śrotraṃ jihvāṃ rasaguṇena ca
Sanskrit only: no published translation is held for this verse.
त्वचं स्पर्शं तथा शक्यं वायुं चैव तदाश्रितम् । मोहं तमसि संयुक्तं लोभं मोहेषु संश्रितम्
tvacaṃ sparśaṃ tathā śakyaṃ vāyuṃ caiva tadāśritam / mohaṃ tamasi saṃyuktaṃ lobhaṃ moheṣu saṃśritam
Sanskrit only: no published translation is held for this verse.
विष्णुं क्रान्ते बले शक्रं कोष्ठे सक्तं तथानलम् । अप्सु देवीं समायुक्ताम् आपस् तेजसि संश्रिताः
viṣṇuṃ krānte bale śakraṃ koṣṭhe saktaṃ tathānalam / apsu devīṃ samāyuktām āpas tejasi saṃśritāḥ
Sanskrit only: no published translation is held for this verse.
तेजो वायौ तु संयुक्तं वायुं नभसि चाश्रितम् । नभो महति संयुक्तं तमो महसि संस्थितम्
tejo vāyau tu saṃyuktaṃ vāyuṃ nabhasi cāśritam / nabho mahati saṃyuktaṃ tamo mahasi saṃsthitam
Sanskrit only: no published translation is held for this verse.
रजः सत्त्वं तथा सक्तं सत्त्वं सक्तं तथात्मनि । सक्तम् आत्मानम् ईशे च देवे नारायणे तथा
rajaḥ sattvaṃ tathā saktaṃ sattvaṃ saktaṃ tathātmani / saktam ātmānam īśe ca deve nārāyaṇe tathā
Sanskrit only: no published translation is held for this verse.
देवं मोक्षे च संयुक्तं ततो मोक्षं च न क्वचित् । ज्ञात्वा सत्त्वगुणं देहं वृतं षोडशभिर् गुणैः
devaṃ mokṣe ca saṃyuktaṃ tato mokṣaṃ ca na kvacit / jñātvā sattvaguṇaṃ dehaṃ vṛtaṃ ṣoḍaśabhir guṇaiḥ
Sanskrit only: no published translation is held for this verse.
स्वभावं भावनां चैव ज्ञात्वा देहसमाश्रिताम् । मध्यस्थम् इव चात्मानं पापं यस्मिन् न विद्यते
svabhāvaṃ bhāvanāṃ caiva jñātvā dehasamāśritām / madhyastham iva cātmānaṃ pāpaṃ yasmin na vidyate
Sanskrit only: no published translation is held for this verse.
द्वितीयं कर्म वै ज्ञात्वा विप्रेन्द्रा विषयैषिणाम् । इन्द्रियाणीन्द्रियार्थांश् च सर्वान् आत्मनि संश्रितान्
dvitīyaṃ karma vai jñātvā viprendrā viṣayaiṣiṇām / indriyāṇīndriyārthāṃś ca sarvān ātmani saṃśritān
Sanskrit only: no published translation is held for this verse.
दुर्लभत्वं च मोक्षस्य विज्ञाय श्रुतिपूर्वकम् । प्राणापानौ समानं च व्यानोदानौ च तत्त्वतः
durlabhatvaṃ ca mokṣasya vijñāya śrutipūrvakam / prāṇāpānau samānaṃ ca vyānodānau ca tattvataḥ
Sanskrit only: no published translation is held for this verse.
आद्यं चैवानिलं ज्ञात्वा प्रभवं चानिलं पुनः । सप्तधा तांस् तथा शेषान् सप्तधा विधिवत् पुनः
ādyaṃ caivānilaṃ jñātvā prabhavaṃ cānilaṃ punaḥ / saptadhā tāṃs tathā śeṣān saptadhā vidhivat punaḥ
Sanskrit only: no published translation is held for this verse.
प्रजापतीन् ऋषींश् चैव सर्गांश् च सुबहून् वरान् । सप्तर्षींश् च बहूञ् ज्ञात्वा राजर्षींश् च परंतपान्
prajāpatīn ṛṣīṃś caiva sargāṃś ca subahūn varān / saptarṣīṃś ca bahūñ jñātvā rājarṣīṃś ca paraṃtapān
Sanskrit only: no published translation is held for this verse.
सुरर्षीन् मरुतश् चान्यान् ब्रह्मर्षीन् सूर्यसंनिभान् । ऐश्वर्याच् च्यावितान् दृष्ट्वा कालेन महता द्विजाः
surarṣīn marutaś cānyān brahmarṣīn sūryasaṃnibhān / aiśvaryāc cyāvitān dṛṣṭvā kālena mahatā dvijāḥ
Sanskrit only: no published translation is held for this verse.
महतां भूतसंघानां श्रुत्वा नाशं च भो द्विजाः । गतिं वाचां शुभां ज्ञात्वा अर्चार्हाः पापकर्मणाम्
mahatāṃ bhūtasaṃghānāṃ śrutvā nāśaṃ ca bho dvijāḥ / gatiṃ vācāṃ śubhāṃ jñātvā arcārhāḥ pāpakarmaṇām
Sanskrit only: no published translation is held for this verse.
वैतरण्यां च यद् दुःखं पतितानां यमक्षये । योनिषु च विचित्रासु संचारान् अशुभांस् तथा
vaitaraṇyāṃ ca yad duḥkhaṃ patitānāṃ yamakṣaye / yoniṣu ca vicitrāsu saṃcārān aśubhāṃs tathā
Sanskrit only: no published translation is held for this verse.
जठरे चाशुभे वासं शोणितोदकभाजने । श्लेष्ममूत्रपुरीषे च तीव्रगन्धसमन्विते
jaṭhare cāśubhe vāsaṃ śoṇitodakabhājane / śleṣmamūtrapurīṣe ca tīvragandhasamanvite
Sanskrit only: no published translation is held for this verse.
शुक्रशोणितसंघाते मज्जास्नायुपरिग्रहे । शिराशतसमाकीर्णे नवद्वारे पुरे ऽथ वै
śukraśoṇitasaṃghāte majjāsnāyuparigrahe / śirāśatasamākīrṇe navadvāre pure 'tha vai
Sanskrit only: no published translation is held for this verse.
विज्ञाय हितम् आत्मानं योगांश् च विविधान् द्विजाः । तामसानां च जन्तूनां रमणीयानृतात्मनाम्
vijñāya hitam ātmānaṃ yogāṃś ca vividhān dvijāḥ / tāmasānāṃ ca jantūnāṃ ramaṇīyānṛtātmanām
Sanskrit only: no published translation is held for this verse.
सात्त्विकानां च जन्तूनां कुत्सितं मुनिसत्तमाः । गर्हितं महताम् अर्थे सांख्यानां विदितात्मनाम्
sāttvikānāṃ ca jantūnāṃ kutsitaṃ munisattamāḥ / garhitaṃ mahatām arthe sāṃkhyānāṃ viditātmanām
Sanskrit only: no published translation is held for this verse.
उपप्लवांस् तथा घोराञ् शशिनस् तेजसस् तथा । ताराणां पतनं दृष्ट्वा नक्षत्राणां च पर्ययम्
upaplavāṃs tathā ghorāñ śaśinas tejasas tathā / tārāṇāṃ patanaṃ dṛṣṭvā nakṣatrāṇāṃ ca paryayam
Sanskrit only: no published translation is held for this verse.
द्वंद्वानां विप्रयोगं च विज्ञाय कृपणं द्विजाः । अन्योन्यभक्षणं दृष्ट्वा भूतानाम् अपि चाशुभम्
dvaṃdvānāṃ viprayogaṃ ca vijñāya kṛpaṇaṃ dvijāḥ / anyonyabhakṣaṇaṃ dṛṣṭvā bhūtānām api cāśubham
Sanskrit only: no published translation is held for this verse.
बाल्ये मोहं च विज्ञाय पक्षदेहस्य चाशुभम् । रागं मोहं च संप्राप्तं क्वचित् सत्त्वं समाश्रितम्
bālye mohaṃ ca vijñāya pakṣadehasya cāśubham / rāgaṃ mohaṃ ca saṃprāptaṃ kvacit sattvaṃ samāśritam
Sanskrit only: no published translation is held for this verse.
सहस्रेषु नरः कश्चिन् मोक्षबुद्धिं समाश्रितः । दुर्लभत्वं च मोक्षस्य विज्ञानं श्रुतिपूर्वकम्
sahasreṣu naraḥ kaścin mokṣabuddhiṃ samāśritaḥ / durlabhatvaṃ ca mokṣasya vijñānaṃ śrutipūrvakam
Sanskrit only: no published translation is held for this verse.
बहुमानम् अलब्धेषु लब्धे मध्यस्थतां पुनः । विषयाणां च दौरात्म्यं विज्ञाय च पुनर् द्विजाः
bahumānam alabdheṣu labdhe madhyasthatāṃ punaḥ / viṣayāṇāṃ ca daurātmyaṃ vijñāya ca punar dvijāḥ
Sanskrit only: no published translation is held for this verse.
गतासूनां च सत्त्वानां देहान् भित्त्वा तथा शुभान् । वासं कुलेषु जन्तूनां मरणाय धृतात्मनाम्
gatāsūnāṃ ca sattvānāṃ dehān bhittvā tathā śubhān / vāsaṃ kuleṣu jantūnāṃ maraṇāya dhṛtātmanām
Sanskrit only: no published translation is held for this verse.
सात्त्विकानां च जन्तूनां दुःखं विज्ञाय भो द्विजाः । ब्रह्मघ्नानां गतिं ज्ञात्वा पतितानां सुदारुणाम्
sāttvikānāṃ ca jantūnāṃ duḥkhaṃ vijñāya bho dvijāḥ / brahmaghnānāṃ gatiṃ jñātvā patitānāṃ sudāruṇām
Sanskrit only: no published translation is held for this verse.
सुरापाने च सक्तानां ब्राह्मणानां दुरात्मनाम् । गुरुदारप्रसक्तानां गतिं विज्ञाय चाशुभाम्
surāpāne ca saktānāṃ brāhmaṇānāṃ durātmanām / gurudāraprasaktānāṃ gatiṃ vijñāya cāśubhām
Sanskrit only: no published translation is held for this verse.
जननीषु च वर्तन्ते येन सम्यग् द्विजोत्तमाः । सदेवकेषु लोकेषु येन वर्तन्ति मानवाः
jananīṣu ca vartante yena samyag dvijottamāḥ / sadevakeṣu lokeṣu yena vartanti mānavāḥ
Sanskrit only: no published translation is held for this verse.
तेन ज्ञानेन विज्ञाय गतिं चाशुभकर्मणाम् । तिर्यग्योनिगतानां च विज्ञाय च गतीः पृथक्
tena jñānena vijñāya gatiṃ cāśubhakarmaṇām / tiryagyonigatānāṃ ca vijñāya ca gatīḥ pṛthak
Sanskrit only: no published translation is held for this verse.
वेदवादांस् तथा चित्रान् ऋतूनां पर्ययांस् तथा । क्षयं संवत्सराणां च मासानां च क्षयं तथा
vedavādāṃs tathā citrān ṛtūnāṃ paryayāṃs tathā / kṣayaṃ saṃvatsarāṇāṃ ca māsānāṃ ca kṣayaṃ tathā
Sanskrit only: no published translation is held for this verse.
पक्षक्षयं तथा दृष्ट्वा दिवसानां च संक्षयम् । क्षयं वृद्धिं च चन्द्रस्य दृष्ट्वा प्रत्यक्षतस् तथा
pakṣakṣayaṃ tathā dṛṣṭvā divasānāṃ ca saṃkṣayam / kṣayaṃ vṛddhiṃ ca candrasya dṛṣṭvā pratyakṣatas tathā
Sanskrit only: no published translation is held for this verse.
वृद्धिं दृष्ट्वा समुद्राणां क्षयं तेषां तथा पुनः । क्षयं धनानां दृष्ट्वा च पुनर् वृद्धिं तथैव च
vṛddhiṃ dṛṣṭvā samudrāṇāṃ kṣayaṃ teṣāṃ tathā punaḥ / kṣayaṃ dhanānāṃ dṛṣṭvā ca punar vṛddhiṃ tathaiva ca
Sanskrit only: no published translation is held for this verse.
संयोगानां तथा दृष्ट्वा युगानां च विशेषतः । देहवैक्लव्यतां चैव सम्यग् विज्ञाय तत्त्वतः
saṃyogānāṃ tathā dṛṣṭvā yugānāṃ ca viśeṣataḥ / dehavaiklavyatāṃ caiva samyag vijñāya tattvataḥ
Sanskrit only: no published translation is held for this verse.
आत्मदोषांश् च विज्ञाय सर्वान् आत्मनि संस्थितान् । स्वदेहाद् उत्थितान् गन्धांस् तथा विज्ञाय चाशुभान्
ātmadoṣāṃś ca vijñāya sarvān ātmani saṃsthitān / svadehād utthitān gandhāṃs tathā vijñāya cāśubhān
Sanskrit only: no published translation is held for this verse.
मुनय ऊचुः: कान् उत्पातभवान् दोषान् पश्यसि ब्रह्मवित्तम । एतं नः संशयं कृत्स्नं वक्तुम् अर्हस्य् अशेषतः
munaya ūcuḥ: kān utpātabhavān doṣān paśyasi brahmavittama / etaṃ naḥ saṃśayaṃ kṛtsnaṃ vaktum arhasy aśeṣataḥ
Sanskrit only: no published translation is held for this verse.
व्यास उवाच: पञ्च दोषान् द्विजा देहे प्रवदन्ति मनीषिणः । मार्गज्ञाः कापिलाः सांख्याः शृणुध्वं मुनिसत्तमाः
vyāsa uvāca: pañca doṣān dvijā dehe pravadanti manīṣiṇaḥ / mārgajñāḥ kāpilāḥ sāṃkhyāḥ śṛṇudhvaṃ munisattamāḥ
Sanskrit only: no published translation is held for this verse.
कामक्रोधौ भयं निद्रा पञ्चमः श्वास उच्यते । एते दोषाः शरीरेषु दृश्यन्ते सर्वदेहिनाम्
kāmakrodhau bhayaṃ nidrā pañcamaḥ śvāsa ucyate / ete doṣāḥ śarīreṣu dṛśyante sarvadehinām
Sanskrit only: no published translation is held for this verse.
छिन्दन्ति क्षमया क्रोधं कामं संकल्पवर्जनात् । सत्त्वसंसेवनान् निद्राम् अप्रमादाद् भयं तथा
chindanti kṣamayā krodhaṃ kāmaṃ saṃkalpavarjanāt / sattvasaṃsevanān nidrām apramādād bhayaṃ tathā
Sanskrit only: no published translation is held for this verse.
छिन्दन्ति पञ्चमं श्वासम् अल्पाहारतया द्विजाः । गुणान् गुणशतैर् ज्ञात्वा दोषान् दोषशतैर् अपि
chindanti pañcamaṃ śvāsam alpāhāratayā dvijāḥ / guṇān guṇaśatair jñātvā doṣān doṣaśatair api
Sanskrit only: no published translation is held for this verse.
हेतून् हेतुशतैश् चित्रैश् चित्रान् विज्ञाय तत्त्वतः । अपां फेनोपमं लोकं विष्णोर् मायाशतैः कृतम्
hetūn hetuśataiś citraiś citrān vijñāya tattvataḥ / apāṃ phenopamaṃ lokaṃ viṣṇor māyāśataiḥ kṛtam
Sanskrit only: no published translation is held for this verse.
चित्रभित्तिप्रतीकाशं नलसारम् अनर्थकम् । तमःसंभ्रमितं दृष्ट्वा वर्षबुद्बुदसंनिभम्
citrabhittipratīkāśaṃ nalasāram anarthakam / tamaḥsaṃbhramitaṃ dṛṣṭvā varṣabudbudasaṃnibham
Sanskrit only: no published translation is held for this verse.
नाशप्रायं सुखाधानं नाशोत्तरमहाभयम् । रजस् तमसि संमग्नं पङ्के द्विपम् इवावशम्
nāśaprāyaṃ sukhādhānaṃ nāśottaramahābhayam / rajas tamasi saṃmagnaṃ paṅke dvipam ivāvaśam
Sanskrit only: no published translation is held for this verse.
सांख्या विप्रा महाप्राज्ञास् त्यक्त्वा स्नेहं प्रजाकृतम् । ज्ञानज्ञेयेन सांख्येन व्यापिना महता द्विजाः
sāṃkhyā viprā mahāprājñās tyaktvā snehaṃ prajākṛtam / jñānajñeyena sāṃkhyena vyāpinā mahatā dvijāḥ
Sanskrit only: no published translation is held for this verse.
राजसान् अशुभान् गन्धांस् तामसांश् च तथाविधान् । पुण्यांश् च सात्त्विकान् गन्धान् स्पर्शजान् देहसंश्रितान्
rājasān aśubhān gandhāṃs tāmasāṃś ca tathāvidhān / puṇyāṃś ca sāttvikān gandhān sparśajān dehasaṃśritān
Sanskrit only: no published translation is held for this verse.
छित्त्वात्मज्ञानशस्त्रेण तपोदण्डेन सत्तमाः । ततो दुःखादिकं घोरं चिन्ताशोकमहाह्रदम्
chittvātmajñānaśastreṇa tapodaṇḍena sattamāḥ / tato duḥkhādikaṃ ghoraṃ cintāśokamahāhradam
Sanskrit only: no published translation is held for this verse.
व्याधिमृत्युमहाघोरं महाभयमहोरगम् । तमःकूर्मं रजोमीनं प्रज्ञया संतरन्त्य् उत
vyādhimṛtyumahāghoraṃ mahābhayamahoragam / tamaḥkūrmaṃ rajomīnaṃ prajñayā saṃtaranty uta
Sanskrit only: no published translation is held for this verse.
स्नेहपङ्कं जरादुर्गं स्पर्शद्वीपं द्विजोत्तमाः । कर्मागाधं सत्यतीरं स्थितं व्रतमनीषिणः
snehapaṅkaṃ jarādurgaṃ sparśadvīpaṃ dvijottamāḥ / karmāgādhaṃ satyatīraṃ sthitaṃ vratamanīṣiṇaḥ
Sanskrit only: no published translation is held for this verse.
हर्षसंघमहावेगं नानारससमाकुलम् । नानाप्रीतिमहारत्नं दुःखज्वरसमीरितम्
harṣasaṃghamahāvegaṃ nānārasasamākulam / nānāprītimahāratnaṃ duḥkhajvarasamīritam
Sanskrit only: no published translation is held for this verse.
शोकतृष्णामहावर्तं तीक्ष्णव्याधिमहारुजम् । अस्थिसंघातसंघट्टं श्लेष्मयोगं द्विजोत्तमाः
śokatṛṣṇāmahāvartaṃ tīkṣṇavyādhimahārujam / asthisaṃghātasaṃghaṭṭaṃ śleṣmayogaṃ dvijottamāḥ
Sanskrit only: no published translation is held for this verse.
दानमुक्ताकरं घोरं शोणितोद्गारविद्रुमम् । हसितोत्क्रुष्टनिर्घोषं नानाज्ञानसुदुष्करम्
dānamuktākaraṃ ghoraṃ śoṇitodgāravidrumam / hasitotkruṣṭanirghoṣaṃ nānājñānasuduṣkaram
Sanskrit only: no published translation is held for this verse.
रोदनाश्रुमलक्षारं सङ्गयोगपरायणम् । प्रलब्ध्वा जन्मलोको यं पुत्रबान्धवपत्तनम्
rodanāśrumalakṣāraṃ saṅgayogaparāyaṇam / pralabdhvā janmaloko yaṃ putrabāndhavapattanam
Sanskrit only: no published translation is held for this verse.
अहिंसासत्यमर्यादं प्राणयोगमयोर्मिलम् । वृन्दानुगामिनं क्षीरं सर्वभूतपयोदधिम्
ahiṃsāsatyamaryādaṃ prāṇayogamayormilam / vṛndānugāminaṃ kṣīraṃ sarvabhūtapayodadhim
Sanskrit only: no published translation is held for this verse.
मोक्षदुर्लभविषयं वाडवासुखसागरम् । तरन्ति यतयः सिद्धा ज्ञानयोगेन चानघाः
mokṣadurlabhaviṣayaṃ vāḍavāsukhasāgaram / taranti yatayaḥ siddhā jñānayogena cānaghāḥ
Sanskrit only: no published translation is held for this verse.
तीर्त्वा च दुस्तरं जन्म विशन्ति विमलं नभः । ततस् तान् सुकृतीञ् ज्ञात्वा सूर्यो वहति रश्मिभिः
tīrtvā ca dustaraṃ janma viśanti vimalaṃ nabhaḥ / tatas tān sukṛtīñ jñātvā sūryo vahati raśmibhiḥ
Sanskrit only: no published translation is held for this verse.
पद्मतन्तुवद् आविश्य प्रवहन् विषयान् द्विजाः । तत्र तान् प्रवहो वायुः प्रतिगृह्णाति चानघाः
padmatantuvad āviśya pravahan viṣayān dvijāḥ / tatra tān pravaho vāyuḥ pratigṛhṇāti cānaghāḥ
Sanskrit only: no published translation is held for this verse.
वीतरागान् यतीन् सिद्धान् वीर्ययुक्तांस् तपोधनान् । सूक्ष्मः शीतः सुगन्धश् च सुखस्पर्शश् च भो द्विजाः
vītarāgān yatīn siddhān vīryayuktāṃs tapodhanān / sūkṣmaḥ śītaḥ sugandhaś ca sukhasparśaś ca bho dvijāḥ
Sanskrit only: no published translation is held for this verse.
सप्तानां मरुतां श्रेष्ठो लोकान् गच्छति यः शुभान् । स तान् वहति विप्रेन्द्रा नभसः परमां गतिम्
saptānāṃ marutāṃ śreṣṭho lokān gacchati yaḥ śubhān / sa tān vahati viprendrā nabhasaḥ paramāṃ gatim
Sanskrit only: no published translation is held for this verse.
नभो वहति लोकेशान् रजसः परमां गतिम् । रजो वहति विप्रेन्द्राः सत्त्वस्य परमां गतिम्
nabho vahati lokeśān rajasaḥ paramāṃ gatim / rajo vahati viprendrāḥ sattvasya paramāṃ gatim
Sanskrit only: no published translation is held for this verse.
सत्त्वं वहति शुद्धात्मा परं नारायणं प्रभुम् । प्रभुर् वहति शुद्धात्मा परमात्मानम् आत्मना
sattvaṃ vahati śuddhātmā paraṃ nārāyaṇaṃ prabhum / prabhur vahati śuddhātmā paramātmānam ātmanā
Sanskrit only: no published translation is held for this verse.
परमात्मानम् आसाद्य तद्भूता यतयो ऽमलाः । अमृतत्वाय कल्पन्ते न निवर्तन्ति च द्विजाः
paramātmānam āsādya tadbhūtā yatayo 'malāḥ / amṛtatvāya kalpante na nivartanti ca dvijāḥ
Sanskrit only: no published translation is held for this verse.
परमा सा गतिर् विप्रा निर्द्वंद्वानां महात्मनाम् । सत्यार्जवरतानां वै सर्वभूतदयावताम्
paramā sā gatir viprā nirdvaṃdvānāṃ mahātmanām / satyārjavaratānāṃ vai sarvabhūtadayāvatām
Sanskrit only: no published translation is held for this verse.
मुनय ऊचुः: स्थानम् उत्तमम् आसाद्य भगवन्तं स्थिरव्रताः । आजन्ममरणं वा ते रमन्ते तत्र वा न वा
munaya ūcuḥ: sthānam uttamam āsādya bhagavantaṃ sthiravratāḥ / ājanmamaraṇaṃ vā te ramante tatra vā na vā
Sanskrit only: no published translation is held for this verse.
यद् अत्र तथ्यं तत्त्वं नो यथावद् वक्तुम् अर्हसि । त्वदृते मानवं नान्यं प्रष्टुम् अर्हाम सत्तम
yad atra tathyaṃ tattvaṃ no yathāvad vaktum arhasi / tvadṛte mānavaṃ nānyaṃ praṣṭum arhāma sattama
Sanskrit only: no published translation is held for this verse.
मोक्षदोषो महान् एष प्राप्य सिद्धिं गतान् ऋषीन् । यदि तत्रैव विज्ञाने वर्तन्ते यतयः परे
mokṣadoṣo mahān eṣa prāpya siddhiṃ gatān ṛṣīn / yadi tatraiva vijñāne vartante yatayaḥ pare
Sanskrit only: no published translation is held for this verse.
प्रवृत्तिलक्षणं धर्मं पश्याम परमं द्विज । मग्नस्य हि परे ज्ञाने किंतु दुःखान्तरं भवेत्
pravṛttilakṣaṇaṃ dharmaṃ paśyāma paramaṃ dvija / magnasya hi pare jñāne kiṃtu duḥkhāntaraṃ bhavet
Sanskrit only: no published translation is held for this verse.
व्यास उवाच: यथान्यायं मुनिश्रेष्ठाः प्रश्नः पृष्टश् च संकटः । बुधानाम् अपि संमोहः प्रश्ने ऽस्मिन् मुनिसत्तमाः
vyāsa uvāca: yathānyāyaṃ muniśreṣṭhāḥ praśnaḥ pṛṣṭaś ca saṃkaṭaḥ / budhānām api saṃmohaḥ praśne 'smin munisattamāḥ
Sanskrit only: no published translation is held for this verse.
अत्रापि तत्त्वं परमं शृणुध्वं वचनं मम । बुद्धिश् च परमा यत्र कपिलानां महात्मनाम्
atrāpi tattvaṃ paramaṃ śṛṇudhvaṃ vacanaṃ mama / buddhiś ca paramā yatra kapilānāṃ mahātmanām
Sanskrit only: no published translation is held for this verse.
इन्द्रियाण्य् अपि बुध्यन्ते स्वदेहं देहिनां द्विजाः । करणान्य् आत्मनस् तानि सूक्ष्मं पश्यन्ति तैस् तु सः
indriyāṇy api budhyante svadehaṃ dehināṃ dvijāḥ / karaṇāny ātmanas tāni sūkṣmaṃ paśyanti tais tu saḥ
Sanskrit only: no published translation is held for this verse.
आत्मना विप्रहीणानि काष्ठकुड्यसमानि तु । विनश्यन्ति न संदेहो वेला इव महार्णवे
ātmanā viprahīṇāni kāṣṭhakuḍyasamāni tu / vinaśyanti na saṃdeho velā iva mahārṇave
Sanskrit only: no published translation is held for this verse.
इन्द्रियैः सह सुप्तस्य देहिनो द्विजसत्तमाः । सूक्ष्मश् चरति सर्वत्र नभसीव समीरणः
indriyaiḥ saha suptasya dehino dvijasattamāḥ / sūkṣmaś carati sarvatra nabhasīva samīraṇaḥ
Sanskrit only: no published translation is held for this verse.
स पश्यति यथान्यायं स्मृत्वा स्पृशति चानघाः । बुध्यमानो यथापूर्वम् अखिलेनेह भो द्विजाः
sa paśyati yathānyāyaṃ smṛtvā spṛśati cānaghāḥ / budhyamāno yathāpūrvam akhileneha bho dvijāḥ
Sanskrit only: no published translation is held for this verse.
इन्द्रियाणि ह सर्वाणि स्वे स्वे स्थाने यथाविधि । अनीशत्वात् प्रलीयन्ते सर्पा विषहता इव
indriyāṇi ha sarvāṇi sve sve sthāne yathāvidhi / anīśatvāt pralīyante sarpā viṣahatā iva
Sanskrit only: no published translation is held for this verse.
इन्द्रियाणां तु सर्वेषां स्वस्थानेष्व् एव सर्वशः । आक्रम्य गतयः सूक्ष्मा वरत्य् आत्मा न संशयः
indriyāṇāṃ tu sarveṣāṃ svasthāneṣv eva sarvaśaḥ / ākramya gatayaḥ sūkṣmā varaty ātmā na saṃśayaḥ
Sanskrit only: no published translation is held for this verse.
सत्त्वस्य च गुणान् कृत्स्नान् रजसश् च गुणान् पुनः । गुणांश् च तमसः सर्वान् गुणान् बुद्धेश् च सत्तमाः
sattvasya ca guṇān kṛtsnān rajasaś ca guṇān punaḥ / guṇāṃś ca tamasaḥ sarvān guṇān buddheś ca sattamāḥ
Sanskrit only: no published translation is held for this verse.
गुणांश् च मनसश् चापि नभसश् च गुणांस् तथा । गुणान् वायोश् च सर्वज्ञाः स्नेहजांश् च गुणान् पुनः
guṇāṃś ca manasaś cāpi nabhasaś ca guṇāṃs tathā / guṇān vāyoś ca sarvajñāḥ snehajāṃś ca guṇān punaḥ
Sanskrit only: no published translation is held for this verse.
अपां गुणास् तथा विप्राः पार्थिवांश् च गुणान् अपि । सर्वान् एव गुणैर् व्याप्य क्षेत्रज्ञेषु द्विजोत्तमाः
apāṃ guṇās tathā viprāḥ pārthivāṃś ca guṇān api / sarvān eva guṇair vyāpya kṣetrajñeṣu dvijottamāḥ
Sanskrit only: no published translation is held for this verse.
आत्मा चरति क्षेत्रज्ञः कर्मणा च शुभाशुभे । शिष्या इव महात्मानम् इन्द्रियाणि च तं द्विजाः
ātmā carati kṣetrajñaḥ karmaṇā ca śubhāśubhe / śiṣyā iva mahātmānam indriyāṇi ca taṃ dvijāḥ
Sanskrit only: no published translation is held for this verse.
प्रकृतिं चाप्य् अतिक्रम्य शुद्धं सूक्ष्मं परात् परम् । नारायणं महात्मानं निर्विकारं परात् परम्
prakṛtiṃ cāpy atikramya śuddhaṃ sūkṣmaṃ parāt param / nārāyaṇaṃ mahātmānaṃ nirvikāraṃ parāt param
Sanskrit only: no published translation is held for this verse.
विमुक्तं सर्वपापेभ्यः प्रविष्टं च ह्य् अनामयम् । परमात्मानम् अगुणं निर्वृतं तं च सत्तमाः
vimuktaṃ sarvapāpebhyaḥ praviṣṭaṃ ca hy anāmayam / paramātmānam aguṇaṃ nirvṛtaṃ taṃ ca sattamāḥ
Sanskrit only: no published translation is held for this verse.
श्रेष्ठं तत्र मनो विप्रा इन्द्रियाणि च भो द्विजाः । आगच्छन्ति यथाकालं गुरोः संदेशकारिणः
śreṣṭhaṃ tatra mano viprā indriyāṇi ca bho dvijāḥ / āgacchanti yathākālaṃ guroḥ saṃdeśakāriṇaḥ
Sanskrit only: no published translation is held for this verse.
शक्यं वाल्पेन कालेन शान्तिं प्राप्तुं गुणांस् तथा । एवम् उक्तेन विप्रेन्द्राः सांख्ययोगेन मोक्षिणीम्
śakyaṃ vālpena kālena śāntiṃ prāptuṃ guṇāṃs tathā / evam uktena viprendrāḥ sāṃkhyayogena mokṣiṇīm
Sanskrit only: no published translation is held for this verse.
सांख्या विप्रा महाप्राज्ञा गच्छन्ति परमां गतिम् । ज्ञानेनानेन विप्रेन्द्रास् तुल्यं ज्ञानं न विद्यते
sāṃkhyā viprā mahāprājñā gacchanti paramāṃ gatim / jñānenānena viprendrās tulyaṃ jñānaṃ na vidyate
Sanskrit only: no published translation is held for this verse.
अत्र वः संशयो मा भूज् ज्ञानं सांख्यं परं मतम् । अक्षरं ध्रुवम् एवोक्तं पूर्वं ब्रह्म सनातनम्
atra vaḥ saṃśayo mā bhūj jñānaṃ sāṃkhyaṃ paraṃ matam / akṣaraṃ dhruvam evoktaṃ pūrvaṃ brahma sanātanam
Sanskrit only: no published translation is held for this verse.
अनादिमध्यनिधनं निर्द्वंद्वं कर्तृ शाश्वतम् । कूटस्थं चैव नित्यं च यद् वदन्ति शमात्मकाः
anādimadhyanidhanaṃ nirdvaṃdvaṃ kartṛ śāśvatam / kūṭasthaṃ caiva nityaṃ ca yad vadanti śamātmakāḥ
Sanskrit only: no published translation is held for this verse.
यतः सर्वाः प्रवर्तन्ते सर्गप्रलयविक्रियाः । एवं शंसन्ति शास्त्रेषु प्रवक्तारो महर्षयः
yataḥ sarvāḥ pravartante sargapralayavikriyāḥ / evaṃ śaṃsanti śāstreṣu pravaktāro maharṣayaḥ
Sanskrit only: no published translation is held for this verse.
सर्वे विप्राश् च वेदाश् च तथा सामविदो जनाः । ब्रह्मण्यं परमं देवम् अनन्तं परमाच्युतम्
sarve viprāś ca vedāś ca tathā sāmavido janāḥ / brahmaṇyaṃ paramaṃ devam anantaṃ paramācyutam
Sanskrit only: no published translation is held for this verse.
प्रार्थयन्तश् च तं विप्रा वदन्ति गुणबुद्धयः । सम्यग् उक्तास् तथा योगाः सांख्याश् चामितदर्शनाः
prārthayantaś ca taṃ viprā vadanti guṇabuddhayaḥ / samyag uktās tathā yogāḥ sāṃkhyāś cāmitadarśanāḥ
Sanskrit only: no published translation is held for this verse.
अमूर्तिस् तस्य विप्रेन्द्राः सांख्यं मूर्तिर् इति श्रुतिः । अभिज्ञानानि तस्याहुर् महान्ति मुनिसत्तमाः
amūrtis tasya viprendrāḥ sāṃkhyaṃ mūrtir iti śrutiḥ / abhijñānāni tasyāhur mahānti munisattamāḥ
Sanskrit only: no published translation is held for this verse.
द्विविधानि हि भूतानि पृथिव्यां द्विजसत्तमाः । अगम्यगम्यसंज्ञानि गम्यं तत्र विशिष्यते
dvividhāni hi bhūtāni pṛthivyāṃ dvijasattamāḥ / agamyagamyasaṃjñāni gamyaṃ tatra viśiṣyate
Sanskrit only: no published translation is held for this verse.