परं हि तद् ब्रह्ममयं मुनीन्द्रा ब्र्प् २३९।५८अ ब्रह्माणम् ईशं वरदं च विष्णुम् ब्र्प् २३९।५८ब् भवं च धर्मं च महानुभावं ब्र्प् २३९।५८च् यद् ब्रह्मपुत्रान् सुमहानुभावान् ब्र्प् २३९।५८द् तमश् च कष्टं सुमहद् रजश् च ब्र्प् २३९।५९अ सत्त्वं च शुद्धं प्रकृतिं परां च ब्र्प् २३९।५९ब् सिद्धिं च देवीं वरुणस्य पत्नीं ब्र्प् २३९।५९च् तेजश् च कृत्स्नं सुमहच् च धैर्यम् ब्र्प् २३९।५९द् ताराधिपं खे विमलं सुतारं ब्र्प् २३९।६०अ विश्वांश् च देवान् उरगान् पितॄंश् च ब्र्प् २३९।६०ब् शैलांश् च कृत्स्नान् उदधींश् च वाचलान् ब्र्प् २३९।६०च् नदीश् च सर्वाः सनगांश् च नागान् ब्र्प् २३९।६०द् साध्यांस् तथा यक्षगणान् दिशश् च ब्र्प् २३९।६१अ गन्धर्वसिद्धान् पुरुषान् स्त्रियश् च ब्र्प् २३९।६१ब् परस्परं प्राप्य महान् महात्मा ब्र्प् २३९।६१च् विशेत योगी नचिराद् विमुक्तः ब्र्प् २३९।६१द् कथा च या विप्रवराः प्रसक्ता ब्र्प् २३९।६२अ दैवे महावीर्यमतौ शुभेयम् ब्र्प् २३९।६२ब् योगान् स सर्वान् अनुभूय मर्त्या ब्र्प् २३९।६२च् नारायणं तं द्रुतम् आप्नुवन्ति ब्र्प् २३९।६२द् मुनय ऊचुः: सम्यक् क्रियेयं विप्रेन्द्र वर्णिता शिष्टसंमता । योगमार्गो यथान्यायं शिष्यायेह हितैषिणा
paraṃ hi tad brahmamayaṃ munīndrā BrP 239.58a brahmāṇam īśaṃ varadaṃ ca viṣṇum BrP 239.58b bhavaṃ ca dharmaṃ ca mahānubhāvaṃ BrP 239.58c yad brahmaputrān sumahānubhāvān BrP 239.58d tamaś ca kaṣṭaṃ sumahad rajaś ca BrP 239.59a sattvaṃ ca śuddhaṃ prakṛtiṃ parāṃ ca BrP 239.59b siddhiṃ ca devīṃ varuṇasya patnīṃ BrP 239.59c tejaś ca kṛtsnaṃ sumahac ca dhairyam BrP 239.59d tārādhipaṃ khe vimalaṃ sutāraṃ BrP 239.60a viśvāṃś ca devān uragān pitṝṃś ca BrP 239.60b śailāṃś ca kṛtsnān udadhīṃś ca vācalān BrP 239.60c nadīś ca sarvāḥ sanagāṃś ca nāgān BrP 239.60d sādhyāṃs tathā yakṣagaṇān diśaś ca BrP 239.61a gandharvasiddhān puruṣān striyaś ca BrP 239.61b parasparaṃ prāpya mahān mahātmā BrP 239.61c viśeta yogī nacirād vimuktaḥ BrP 239.61d kathā ca yā vipravarāḥ prasaktā BrP 239.62a daive mahāvīryamatau śubheyam BrP 239.62b yogān sa sarvān anubhūya martyā BrP 239.62c nārāyaṇaṃ taṃ drutam āpnuvanti BrP 239.62d munaya ūcuḥ: samyak kriyeyaṃ viprendra varṇitā śiṣṭasaṃmatā / yogamārgo yathānyāyaṃ śiṣyāyeha hitaiṣiṇā
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.