एतेषु पुण्येषु मनोहरेषु ब्र्प् ३८।१७अ देशेषु विद्याधरभूषितेषु ब्र्प् ३८।१७ब् गन्धर्वयक्षामरसेवितेषु ब्र्प् ३८।१७च् रेमे स देव्या सहितस् त्रिनेत्रः ब्र्प् ३८।१७द् देवैः सहेन्द्रैर् मुनियक्षसिद्धैर् ब्र्प् ३८।१८अ गन्धर्वविद्याधरदैत्यमुख्यैः ब्र्प् ३८।१८ब् अन्यैश् च सर्वैर् विविधैर् वृतो ऽसौ ब्र्प् ३८।१८च् तस्मिन् नगे हर्षम् अवाप शंभुः ब्र्प् ३८।१८द् नृत्यन्ति तत्राप्सरसः सुरेशा ब्र्प् ३८।१९अ गायन्ति गन्धर्वगणाः प्रहृष्टाः ब्र्प् ३८।१९ब् दिव्यानि वाद्यान्य् अथ वादयन्ति ब्र्प् ३८।१९च् केचिद् द्रुतं देववरं स्तुवन्ति ब्र्प् ३८।१९द् एवं स देवः स्वगणैर् उपेतो ब्र्प् ३८।२०अ महाबलैः शक्रयमाग्नितुल्यैः ब्र्प् ३८।२०ब् देव्याः प्रियार्थं भगनेत्रहन्ता ब्र्प् ३८।२०च् गिरिं न तत्याज तदा महात्मा ब्र्प् ३८।२०द् ऋषय ऊचुः: देव्याः समं तु भगवांस् तिष्ठंस् तत्र स कामहा । अकरोत् किं महादेव एतद् इच्छाम वेदितुम्
eteṣu puṇyeṣu manohareṣu BrP 38.17a deśeṣu vidyādharabhūṣiteṣu BrP 38.17b gandharvayakṣāmaraseviteṣu BrP 38.17c reme sa devyā sahitas trinetraḥ BrP 38.17d devaiḥ sahendrair muniyakṣasiddhair BrP 38.18a gandharvavidyādharadaityamukhyaiḥ BrP 38.18b anyaiś ca sarvair vividhair vṛto 'sau BrP 38.18c tasmin nage harṣam avāpa śaṃbhuḥ BrP 38.18d nṛtyanti tatrāpsarasaḥ sureśā BrP 38.19a gāyanti gandharvagaṇāḥ prahṛṣṭāḥ BrP 38.19b divyāni vādyāny atha vādayanti BrP 38.19c kecid drutaṃ devavaraṃ stuvanti BrP 38.19d evaṃ sa devaḥ svagaṇair upeto BrP 38.20a mahābalaiḥ śakrayamāgnitulyaiḥ BrP 38.20b devyāḥ priyārthaṃ bhaganetrahantā BrP 38.20c giriṃ na tatyāja tadā mahātmā BrP 38.20d ṛṣaya ūcuḥ: devyāḥ samaṃ tu bhagavāṃs tiṣṭhaṃs tatra sa kāmahā / akarot kiṃ mahādeva etad icchāma veditum
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.