यथा योनिर्यंस्य द्रुहिणचरण इति पूर्वस्मिन्नुदाहरणे । योनिरित्यसभ्यार्थत्वे ऽपि योनिरिव योनिरिति गौणवृच्या न दुष्टत्वम् । जन्मभूमिभगवच्छब्दयोरसभ्यार्थान्तरत्वे ऽपि लोकसंवीतत्वाद्गुणत्वम् । ब्रह्माण्डेत्यस्य चोत्तरवर्णंद्वयेनासभ्यार्थस्मृतिहेतुत्वे ऽप्यण्डमिवाण्डमिति गौणवृच्या गुप्तत्वाद्गुणत्वम् ॥ न वाच्यमेषां सर्वेषां हेयार्थत्वादिसाम्यतः । गुणत्वमगुणत्वं वा केवलं तर्ककर्कशैः
yathā yoniryaṃsya druhiṇacaraṇa iti pūrvasminnudāharaṇe / yonirityasabhyārthatve 'pi yoniriva yoniriti gauṇavṛcyā na duṣṭatvam / janmabhūmibhagavacchabdayorasabhyārthāntaratve 'pi lokasaṃvītatvādguṇatvam / brahmāṇḍetyasya cottaravarṇaṃdvayenāsabhyārthasmṛtihetutve 'pyaṇḍamivāṇḍamiti gauṇavṛcyā guptatvādguṇatvam // na vācyameṣāṃ sarveṣāṃ heyārthatvādisāmyataḥ / guṇatvamaguṇatvaṃ vā kevalaṃ tarkakarkaśaiḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.