Library·Dasabhumikasutram·1

Dasabhumikasutram 1

एवं मया श्रुतम् । एकस्मिन् समये भगवान् परनिर्मितवशवर्तिषु देवभुवनेषु विहरति स्म अचिराभिसंबुद्धो द्वितीये सप्ताहे वशवर्तिनो देवराजस्य विमाने मणिरत्नगर्भे प्रभास्वरे प्रासादे महता बोधिसत्त्वगणेन सार्धं सर्वैरवैवर्तिकैरेकजातिप्रतिबद्धैः । यदुत अनुत्तरायां सम्यक्संबोधावन्योन्यलोकधातुसंनिपतितैः । सर्वैः सर्वबोधिसत्त्वज्ञानविषयगोचरप्रतिलब्धविहारिभिः सर्वतथागतज्ञानविषयप्रवेशावताराप्रतिप्रस्रब्धगोचरैः सर्वजगत्परिपाचनविनययथाकालक्षणाधिष्ठानसर्वक्रियासंदर्शनकुशलैः सर्वबोधिसत्त्वप्रणिधानाभिनिर्हाराप्रतिप्रस्रब्धगोचरैः कल्पार्थक्षेत्रचर्यासंवासिभिः सर्वबोधिसत्त्वपुण्यज्ञानर्द्धिसंभारसुपरिपूर्णाक्षयसर्वजगदुपजीव्यताप्रतिपन्नैः सर्वबोधिसत्त्वप्रज्ञोपायपरमपारमिताप्राप्तैः संसारनिर्वाणमुखसंदर्शनकुशलैः बोधिसत्त्वचर्योपादानाव्यवच्छिन्नैः सर्वबोधिसत्त्वध्यानविमोक्षसमाधिसमापत्यभिज्ञाज्ञानविक्रीडिताभिज्ञासर्वक्रियासंदर्शनकुशलैः सर्वबोधिसत्त्वर्द्धिबलवशिताप्राप्तानभिसंस्कारचित्तक्षणसर्वतथागतपर्षन्मण्डलोपसंक्रमणपूर्वंगमकथापुरुषैः सर्वतथागतधर्मचक्रसंधारणविपुलबुद्धपूजोपस्थानाभ्युत्थितैः सर्वबोधिसत्त्वकर्मसमादानसमताप्रयोगसर्वलोकधातुकायप्रतिभासप्राप्तैः सर्वधर्मधात्वसङ्गस्वररुतघोषानुरवितसर्वत्र्यध्वासङ्गचित्तज्ञानविषयस्फरणैः सर्वबोधिसत्त्वगुणप्रतिपत्तिसुपरिपूर्णानभिलाप्यकल्पाधिष्ठानसंप्रकाशनापरिक्षीणगुणवर्णनिर्देशकैः । यदिदम्वज्रगर्भेण च बोधिसत्त्वेन महासत्त्वेन । रत्नगर्भेण च । पद्मगर्भेण च । श्रीगर्भेण च । पद्मश्रीगर्भेण च । आदित्यगर्भेण च । सूर्यगर्भेण च । क्षितिगर्भेण च । शशिविमलगर्भेण च । सर्वव्यूहालंकारप्रतिभाससंदर्शनगर्भेण च । ज्ञानवैरोचनगर्भेण च । रुचिरश्रीगर्भेण च । चन्दनश्रीगर्भेण च । पुष्पश्रीगर्भेण च । कुसुमश्रीगर्भेण च । उत्पलश्रीगर्भेण च । देवश्रीगर्भेण च । पुण्यश्रीगर्भेण च । अनावरणज्ञानविशुद्धिगर्भेण च । गुणश्रीगर्भेण च । नारायणश्रीगर्भेण च । अमलगर्भेण च । विमलगर्भेण च । विचित्रप्रतिभानालंकारगर्भेण च । महारश्मिजालावभासगर्भेण च । विमलप्रभासश्रीतेजोराजगर्भेण च । सर्वलक्षणप्रतिमण्डितविशुद्धिश्रीगर्भेण च । वज्रार्चिःश्रीवत्सालंकारगर्भेण च । ज्योतिर्ज्वलनार्चिःश्रीगर्भेण च । नक्षत्रराजप्रभावभासगर्भेण च । गगनकोशानावरणज्ञानगर्भेण च । अनावरणस्वरमण्डलमधुरनिर्घोषगर्भेण च । धारणीमुखसर्वजगत्प्रणिधिसंधारणगर्भेण च । सागरव्यूहगर्भेण च । (द्भ् २) मेरुश्रीगर्भेण च । सर्वगुणविशुद्धिगर्भेण च । तथागतश्रीगर्भेण च । बुद्धश्रीगर्भेण च । विमुक्तिचन्द्रेण च बोधिसत्त्वेन महासत्त्वेन । एवंप्रमुखैर् अपरिमाणाप्रमेयासंख्येयाचिन्त्यातुल्यामाप्यानन्तापर्यन्तासीमाप्राप्तानभिलाप्यानभिलाप्यैर्बोधिसत्त्वैर्महासत्त्वैः सार्धं नानाबुद्धक्षेत्रसंनिपतितैर्वज्रगर्भबोधिसत्त्वपूर्वंगमैः ॥ अथ खलु वज्रगर्भो बोधिसत्त्वयां वेलायां बुद्धानुभावेन महायानप्रभासं नाम बोधिसत्त्वसमाधिं समापद्यते स्म । समनन्तरसमापन्नश्च वज्रगर्भो बोधिसत्त्व इमं महायानप्रभासं नाम बोधिसत्त्वसमाधिम्,अथ तावदेव दशसु दिक्षु दशबुद्धक्षेत्रकोटिपरमाणुरजःसमानां लोकधातूनामपरेण दशबुद्धक्षेत्रकोटिपरमाणुरजःसमास्तथागता मुखान्युपर्दषयामासुं यदिदं वज्रगर्भसमनामका एव । ते चैनं बुद्धा भगवन्त एवमूचुः - साधु साधु भो जिनपुत्र, यस्त्वमिमं महायानप्रभासं बोधिसत्त्वसमाधिं समापद्यसे । अपि तु खलु पुनस्त्वं कुलपुत्र, अमी दशसु दिक्षु दशबुद्धक्षेत्रकोटिपरमाणुरजःसमानां लोकधातूनामपरेण दशबुद्धक्षेत्रकोटिपरमाणुरजःसमास्तथागता अधितिष्ठन्ति सर्वे वज्रगर्भसमनामानः अस्यैव भगवतो वैरोचनस्य पूर्वप्रणिधानाधिष्ठानेन तव च पुण्यज्ञानविशेषेण सर्वबोधिसत्त्वानां च अचिन्त्यबुद्धधर्मालोकप्रभावनाज्ञानभूम्यवतारणाय । सर्वकुशलमूलसंग्रहणाय । सर्वबुद्धधर्मनिर्देशाय । असंभिन्नज्ञानव्यवदानाय । सर्वलोकधर्मानुपलेपाय । लोकोत्तरकुशलमूलपरिशोधनाय । अचिन्त्यज्ञानविषयाधिगमाय । यावत्सर्वज्ञानविषयाधिगमाय । यदिदं दशानां बोधिसत्त्वभूमीनामारम्भप्रतिलम्भाय । यथावद्बोधिसत्त्वभूमिव्यवस्थाननिर्देशाय । सर्वबुद्धधर्माध्यालम्बनाय । अनास्रवधर्मप्रविभागविभावनाय । सुविचितविचयमहाप्रज्ञालोककौशल्याय । सुनिस्तीरितकौशल्यज्ञानमुखावतारणाय । यथार्हस्थानान्तरप्रभावनामन्दप्रतिभानालोकाय । महाप्रतिसंविद्भूमिनिस्तीरणाय । बोधिचित्तस्मृत्यसंप्रमोषाय । सर्वसत्त्वधातुपरिपाचनाय । सर्वत्रानुगतविनिश्चयकौशल्यप्रतिलम्भाय । अपि तु खलु पुनः कुलपुत्र प्रतिभातु ते ऽयं धर्मालोकमुखप्रभेदकौशल्यधर्मपर्यायो बुद्धानुभावेन तथागतज्ञानालोकाधिष्ठानेन स्वकुशलमूलपरिशोधनाय धर्मधातुसुपर्यवदापनाय सत्त्वधात्वनुग्रहाय धर्मकायज्ञानशारीराय सर्वबुद्धाभिषेकसंप्रतीच्छनाय सर्वलोकाभ्युद्गतात्मभावसंदर्शनाय सर्वलोकगतिसमतिक्रमाय लोकोत्तधर्मगतिपरिशोधनाय सर्वज्ञज्ञानपरिपूरणाय ॥ अथ खलु ते बुद्धा भगवन्तो वज्रगर्भस्य बोधिसत्त्वस्य अनभिभूतात्मभावतां चोपसंहरन्ति स्म । असङ्गप्रतिभाननिर्देशतां च सुविशोभितज्ञानविभक्तिप्रवेशतां च स्मृत्यसंप्रभोषाधिष्ठानतां च सुविनिश्चितमतिकौशल्यतां च सर्वत्रानुगतबुद्ध्यनुत्सर्गतां च सम्यक्संबुद्धबलानवमृद्यतां च तथागतवैशारद्यानवलीनतां च सर्वज्ञज्ञानप्रतिसंविद्विभागधर्मनयनिस्तीरणतां च सर्वतथागतसुविभक्तकायवाक्चित्तालंकाराभिनिर्हारतां चोपसंहरन्ति स्म । तत्कस्माद्धेतोः? यथापि नाम अस्यैव समाधेर्धर्मताप्रतिलम्भेन पूर्वं प्रणिधानाभिर्हारेण च सुपरिशोधिताध्याशयतया च स्ववदातज्ञानमण्डलतया च सुसंभृतसंभारतया च सुकृतपरिकर्मतया (द्भ् ३) च अप्रमाणस्मृतिभाजनतया च प्रभास्वराधिमुक्तिविशोधनतया च सुप्रतिविद्वधारणीमुखासंभेदनतया च धर्मधातुज्ञानमुद्रासुमुद्रिततया च ॥ अथ खलु ते बुद्धा भगवन्तस्तत्रस्था एव ऋद्ध्यनुभावेन दक्षिणान् पाणीन् प्रसार्य वज्रगर्भस्य बोधिसत्त्वस्य शीर्षं संप्रमार्जयन्ति स्म । समनन्तरस्पृष्टश्च वज्रगर्भो बोधिसत्त्वस्तैर्बुद्धैर्भगवद्भिः, अथ तावदेव समाधेस्तस्माद् व्युत्थाय तान् बोधिसत्त्वानामन्त्रयते स्म - सुविनिश्चितमिदं भवन्तो जिनपुत्रा बोधिसत्त्वप्रणिधानमसंभिन्नमनवलोक्यं धर्मधातुविपुलं आकाशधातुपर्यवसानमपरान्तकोटिनिष्ठं सर्वसत्त्वधातुपरित्राणम् । यत्र हि नाम भवन्तो जिनपुत्रा बोधिसत्त्वा अतीतानामपि बुद्धानां भगवतां ज्ञानभूमिमवतरन्ति, अनागतानामपि बुद्धानां भगवतां ज्ञानभूमिमवतरन्ति प्रत्युत्पन्नानामपि बुद्धानां भगवतां ज्ञानभूमिमवतरन्ति, तत्र भवन्तो जिनपुत्रा दश बोधिसत्त्वभूमयो बुद्धानां भगवतां ज्ञानभूमिमवतरन्ति, तत्र भवन्तो जिनपुत्राश्च दश बोधिसत्त्वभूमयो ऽतीतानागतप्रत्युत्पन्नैर्बुद्धैर्भगद्भिर्भाषिताश्च भाषिष्यन्ते च भाष्यन्ते च, याः संधाय अहं एवं वदामि । कतमा दश? यदुत प्रमुदिता च नाम बोधिसत्त्वभूमिः । विमला च नाम । प्रभाकरी च नाम । अर्चिष्मती च नाम । सुदुर्जया च नाम । अभिमुखी च नाम । दूरंगमा च नाम । अचला च नाम । साधुमती च नाम । धर्ममेघा च नाम बोधिसत्त्वभूमिः । इमा भवन्तो जिनपुत्रा दश बोधिसत्त्वानां बोधिसत्त्वभूमयः, या अतीतानागतप्रत्युत्पन्नईर्बुद्धैर्भगवद्भिर्भाषिताश्च भाषिष्यन्ते च भाष्यन्ते च । नाहं भवन्तो जिनपुत्रास्तं बुद्धक्षेत्रप्रसरं समनुपश्यामि, यत्र तथागता इमा दश बोधिसत्त्वभूमीर्न प्रकाशयन्ति । तत्कस्य हेतोः? सामुत्कर्षिको ऽयं भवन्तो जिनपुत्रा बोधिसत्त्वानां महासत्त्वानां बोधि(सत्त्व)मार्गपरिशोधनधर्ममुखालोको यदिदं दशभूमिप्रभेदव्यवस्थानम् । अचिन्त्यमिदं भवन्तो जिनपुत्राः स्थानं यदिदं भूमिज्ञानमिति ॥ अथ खलु वज्रगर्भो बोधिसत्त्व आसां दशानां बोधिसत्त्वभूमीनां नामधेयमात्रं परिकीर्त्य तूष्णीं बभूव, न भूयः प्रभेदशो निर्दिशति स्म । अथ खलु सा सर्वावती बोधिसत्त्वपर्षत् परितृषिता बभूव आसां दशानां बोधिसत्त्वभूमीनां नामधेयमात्रश्रवणेन भूमिविभागानुदीरणेन च । तस्या एतदभवत् - को नु खल्वत्र हेतुः कश्च प्रत्ययः, यद्वज्रगर्भो बोधिसत्त्व आसां बोधिसत्त्वभूमीनां नामधेयमात्रं परिकीर्त्य तूष्णींभावेन अतिनामयति, न भूयः प्रभेदशो निर्दिशतीति? तेन खलु पुनः समयेन तस्मिन्नेव बोधिसत्त्वपर्षत्संनिपाते विमुक्तिचन्द्रो नाम बोधिसत्त्वस्तस्या बोधिसत्त्वपर्षदश्चित्ताशयविचारमाज्ञाय वज्रगर्भं बोधिसत्त्वं गाथाभिगीतेन परिगृच्छति स्म- किमर्थं शुद्धसंकल्पस्मृतिज्ञानगुणान्वित । समुदीर्योत्तमा भूमीर्न प्रकाशयसे विभो

evaṃ mayā śrutam / ekasmin samaye bhagavān paranirmitavaśavartiṣu devabhuvaneṣu viharati sma acirābhisaṃbuddho dvitīye saptāhe vaśavartino devarājasya vimāne maṇiratnagarbhe prabhāsvare prāsāde mahatā bodhisattvagaṇena sārdhaṃ sarvairavaivartikairekajātipratibaddhaiḥ / yaduta anuttarāyāṃ samyaksaṃbodhāvanyonyalokadhātusaṃnipatitaiḥ / sarvaiḥ sarvabodhisattvajñānaviṣayagocarapratilabdhavihāribhiḥ sarvatathāgatajñānaviṣayapraveśāvatārāpratiprasrabdhagocaraiḥ sarvajagatparipācanavinayayathākālakṣaṇādhiṣṭhānasarvakriyāsaṃdarśanakuśalaiḥ sarvabodhisattvapraṇidhānābhinirhārāpratiprasrabdhagocaraiḥ kalpārthakṣetracaryāsaṃvāsibhiḥ sarvabodhisattvapuṇyajñānarddhisaṃbhārasuparipūrṇākṣayasarvajagadupajīvyatāpratipannaiḥ sarvabodhisattvaprajñopāyaparamapāramitāprāptaiḥ saṃsāranirvāṇamukhasaṃdarśanakuśalaiḥ bodhisattvacaryopādānāvyavacchinnaiḥ sarvabodhisattvadhyānavimokṣasamādhisamāpatyabhijñājñānavikrīḍitābhijñāsarvakriyāsaṃdarśanakuśalaiḥ sarvabodhisattvarddhibalavaśitāprāptānabhisaṃskāracittakṣaṇasarvatathāgataparṣanmaṇḍalopasaṃkramaṇapūrvaṃgamakathāpuruṣaiḥ sarvatathāgatadharmacakrasaṃdhāraṇavipulabuddhapūjopasthānābhyutthitaiḥ sarvabodhisattvakarmasamādānasamatāprayogasarvalokadhātukāyapratibhāsaprāptaiḥ sarvadharmadhātvasaṅgasvararutaghoṣānuravitasarvatryadhvāsaṅgacittajñānaviṣayaspharaṇaiḥ sarvabodhisattvaguṇapratipattisuparipūrṇānabhilāpyakalpādhiṣṭhānasaṃprakāśanāparikṣīṇaguṇavarṇanirdeśakaiḥ / yadidamvajragarbheṇa ca bodhisattvena mahāsattvena / ratnagarbheṇa ca / padmagarbheṇa ca / śrīgarbheṇa ca / padmaśrīgarbheṇa ca / ādityagarbheṇa ca / sūryagarbheṇa ca / kṣitigarbheṇa ca / śaśivimalagarbheṇa ca / sarvavyūhālaṃkārapratibhāsasaṃdarśanagarbheṇa ca / jñānavairocanagarbheṇa ca / ruciraśrīgarbheṇa ca / candanaśrīgarbheṇa ca / puṣpaśrīgarbheṇa ca / kusumaśrīgarbheṇa ca / utpalaśrīgarbheṇa ca / devaśrīgarbheṇa ca / puṇyaśrīgarbheṇa ca / anāvaraṇajñānaviśuddhigarbheṇa ca / guṇaśrīgarbheṇa ca / nārāyaṇaśrīgarbheṇa ca / amalagarbheṇa ca / vimalagarbheṇa ca / vicitrapratibhānālaṃkāragarbheṇa ca / mahāraśmijālāvabhāsagarbheṇa ca / vimalaprabhāsaśrītejorājagarbheṇa ca / sarvalakṣaṇapratimaṇḍitaviśuddhiśrīgarbheṇa ca / vajrārciḥśrīvatsālaṃkāragarbheṇa ca / jyotirjvalanārciḥśrīgarbheṇa ca / nakṣatrarājaprabhāvabhāsagarbheṇa ca / gaganakośānāvaraṇajñānagarbheṇa ca / anāvaraṇasvaramaṇḍalamadhuranirghoṣagarbheṇa ca / dhāraṇīmukhasarvajagatpraṇidhisaṃdhāraṇagarbheṇa ca / sāgaravyūhagarbheṇa ca / (Dbh 2) meruśrīgarbheṇa ca / sarvaguṇaviśuddhigarbheṇa ca / tathāgataśrīgarbheṇa ca / buddhaśrīgarbheṇa ca / vimukticandreṇa ca bodhisattvena mahāsattvena / evaṃpramukhair aparimāṇāprameyāsaṃkhyeyācintyātulyāmāpyānantāparyantāsīmāprāptānabhilāpyānabhilāpyairbodhisattvairmahāsattvaiḥ sārdhaṃ nānābuddhakṣetrasaṃnipatitairvajragarbhabodhisattvapūrvaṃgamaiḥ // atha khalu vajragarbho bodhisattvayāṃ velāyāṃ buddhānubhāvena mahāyānaprabhāsaṃ nāma bodhisattvasamādhiṃ samāpadyate sma / samanantarasamāpannaśca vajragarbho bodhisattva imaṃ mahāyānaprabhāsaṃ nāma bodhisattvasamādhim,atha tāvadeva daśasu dikṣu daśabuddhakṣetrakoṭiparamāṇurajaḥsamānāṃ lokadhātūnāmapareṇa daśabuddhakṣetrakoṭiparamāṇurajaḥsamāstathāgatā mukhānyupardaṣayāmāsuṃ yadidaṃ vajragarbhasamanāmakā eva / te cainaṃ buddhā bhagavanta evamūcuḥ - sādhu sādhu bho jinaputra, yastvamimaṃ mahāyānaprabhāsaṃ bodhisattvasamādhiṃ samāpadyase / api tu khalu punastvaṃ kulaputra, amī daśasu dikṣu daśabuddhakṣetrakoṭiparamāṇurajaḥsamānāṃ lokadhātūnāmapareṇa daśabuddhakṣetrakoṭiparamāṇurajaḥsamāstathāgatā adhitiṣṭhanti sarve vajragarbhasamanāmānaḥ asyaiva bhagavato vairocanasya pūrvapraṇidhānādhiṣṭhānena tava ca puṇyajñānaviśeṣeṇa sarvabodhisattvānāṃ ca acintyabuddhadharmālokaprabhāvanājñānabhūmyavatāraṇāya / sarvakuśalamūlasaṃgrahaṇāya / sarvabuddhadharmanirdeśāya / asaṃbhinnajñānavyavadānāya / sarvalokadharmānupalepāya / lokottarakuśalamūlapariśodhanāya / acintyajñānaviṣayādhigamāya / yāvatsarvajñānaviṣayādhigamāya / yadidaṃ daśānāṃ bodhisattvabhūmīnāmārambhapratilambhāya / yathāvadbodhisattvabhūmivyavasthānanirdeśāya / sarvabuddhadharmādhyālambanāya / anāsravadharmapravibhāgavibhāvanāya / suvicitavicayamahāprajñālokakauśalyāya / sunistīritakauśalyajñānamukhāvatāraṇāya / yathārhasthānāntaraprabhāvanāmandapratibhānālokāya / mahāpratisaṃvidbhūministīraṇāya / bodhicittasmṛtyasaṃpramoṣāya / sarvasattvadhātuparipācanāya / sarvatrānugataviniścayakauśalyapratilambhāya / api tu khalu punaḥ kulaputra pratibhātu te 'yaṃ dharmālokamukhaprabhedakauśalyadharmaparyāyo buddhānubhāvena tathāgatajñānālokādhiṣṭhānena svakuśalamūlapariśodhanāya dharmadhātusuparyavadāpanāya sattvadhātvanugrahāya dharmakāyajñānaśārīrāya sarvabuddhābhiṣekasaṃpratīcchanāya sarvalokābhyudgatātmabhāvasaṃdarśanāya sarvalokagatisamatikramāya lokottadharmagatipariśodhanāya sarvajñajñānaparipūraṇāya // atha khalu te buddhā bhagavanto vajragarbhasya bodhisattvasya anabhibhūtātmabhāvatāṃ copasaṃharanti sma / asaṅgapratibhānanirdeśatāṃ ca suviśobhitajñānavibhaktipraveśatāṃ ca smṛtyasaṃprabhoṣādhiṣṭhānatāṃ ca suviniścitamatikauśalyatāṃ ca sarvatrānugatabuddhyanutsargatāṃ ca samyaksaṃbuddhabalānavamṛdyatāṃ ca tathāgatavaiśāradyānavalīnatāṃ ca sarvajñajñānapratisaṃvidvibhāgadharmanayanistīraṇatāṃ ca sarvatathāgatasuvibhaktakāyavākcittālaṃkārābhinirhāratāṃ copasaṃharanti sma / tatkasmāddhetoḥ? yathāpi nāma asyaiva samādherdharmatāpratilambhena pūrvaṃ praṇidhānābhirhāreṇa ca supariśodhitādhyāśayatayā ca svavadātajñānamaṇḍalatayā ca susaṃbhṛtasaṃbhāratayā ca sukṛtaparikarmatayā (Dbh 3) ca apramāṇasmṛtibhājanatayā ca prabhāsvarādhimuktiviśodhanatayā ca supratividvadhāraṇīmukhāsaṃbhedanatayā ca dharmadhātujñānamudrāsumudritatayā ca // atha khalu te buddhā bhagavantastatrasthā eva ṛddhyanubhāvena dakṣiṇān pāṇīn prasārya vajragarbhasya bodhisattvasya śīrṣaṃ saṃpramārjayanti sma / samanantaraspṛṣṭaśca vajragarbho bodhisattvastairbuddhairbhagavadbhiḥ, atha tāvadeva samādhestasmād vyutthāya tān bodhisattvānāmantrayate sma - suviniścitamidaṃ bhavanto jinaputrā bodhisattvapraṇidhānamasaṃbhinnamanavalokyaṃ dharmadhātuvipulaṃ ākāśadhātuparyavasānamaparāntakoṭiniṣṭhaṃ sarvasattvadhātuparitrāṇam / yatra hi nāma bhavanto jinaputrā bodhisattvā atītānāmapi buddhānāṃ bhagavatāṃ jñānabhūmimavataranti, anāgatānāmapi buddhānāṃ bhagavatāṃ jñānabhūmimavataranti pratyutpannānāmapi buddhānāṃ bhagavatāṃ jñānabhūmimavataranti, tatra bhavanto jinaputrā daśa bodhisattvabhūmayo buddhānāṃ bhagavatāṃ jñānabhūmimavataranti, tatra bhavanto jinaputrāśca daśa bodhisattvabhūmayo 'tītānāgatapratyutpannairbuddhairbhagadbhirbhāṣitāśca bhāṣiṣyante ca bhāṣyante ca, yāḥ saṃdhāya ahaṃ evaṃ vadāmi / katamā daśa? yaduta pramuditā ca nāma bodhisattvabhūmiḥ / vimalā ca nāma / prabhākarī ca nāma / arciṣmatī ca nāma / sudurjayā ca nāma / abhimukhī ca nāma / dūraṃgamā ca nāma / acalā ca nāma / sādhumatī ca nāma / dharmameghā ca nāma bodhisattvabhūmiḥ / imā bhavanto jinaputrā daśa bodhisattvānāṃ bodhisattvabhūmayaḥ, yā atītānāgatapratyutpannaīrbuddhairbhagavadbhirbhāṣitāśca bhāṣiṣyante ca bhāṣyante ca / nāhaṃ bhavanto jinaputrāstaṃ buddhakṣetraprasaraṃ samanupaśyāmi, yatra tathāgatā imā daśa bodhisattvabhūmīrna prakāśayanti / tatkasya hetoḥ? sāmutkarṣiko 'yaṃ bhavanto jinaputrā bodhisattvānāṃ mahāsattvānāṃ bodhi(sattva)mārgapariśodhanadharmamukhāloko yadidaṃ daśabhūmiprabhedavyavasthānam / acintyamidaṃ bhavanto jinaputrāḥ sthānaṃ yadidaṃ bhūmijñānamiti // atha khalu vajragarbho bodhisattva āsāṃ daśānāṃ bodhisattvabhūmīnāṃ nāmadheyamātraṃ parikīrtya tūṣṇīṃ babhūva, na bhūyaḥ prabhedaśo nirdiśati sma / atha khalu sā sarvāvatī bodhisattvaparṣat paritṛṣitā babhūva āsāṃ daśānāṃ bodhisattvabhūmīnāṃ nāmadheyamātraśravaṇena bhūmivibhāgānudīraṇena ca / tasyā etadabhavat - ko nu khalvatra hetuḥ kaśca pratyayaḥ, yadvajragarbho bodhisattva āsāṃ bodhisattvabhūmīnāṃ nāmadheyamātraṃ parikīrtya tūṣṇīṃbhāvena atināmayati, na bhūyaḥ prabhedaśo nirdiśatīti? tena khalu punaḥ samayena tasminneva bodhisattvaparṣatsaṃnipāte vimukticandro nāma bodhisattvastasyā bodhisattvaparṣadaścittāśayavicāramājñāya vajragarbhaṃ bodhisattvaṃ gāthābhigītena parigṛcchati sma- kimarthaṃ śuddhasaṃkalpasmṛtijñānaguṇānvita / samudīryottamā bhūmīrna prakāśayase vibho

Sanskrit only: no published translation is held for this verse.

विनिश्चिता इमे सर्वे बोधिसत्त्वा महायशः । कस्मादुदीर्य भूमीश्च(स्त्वं) प्रविभागं न भाषसे

viniścitā ime sarve bodhisattvā mahāyaśaḥ / kasmādudīrya bhūmīśca(stvaṃ) pravibhāgaṃ na bhāṣase

Sanskrit only: no published translation is held for this verse.

श्रोतुकामा इमे सर्वे जिनपुत्रा विशारदाः । विभज्यार्थगतिं सम्यरग्भूमीनां समुदाहर

śrotukāmā ime sarve jinaputrā viśāradāḥ / vibhajyārthagatiṃ samyaragbhūmīnāṃ samudāhara

Sanskrit only: no published translation is held for this verse.

पर्षद्वि विप्रसन्नेयं कौसीद्यापगता शुभा । शुद्धा प्रतिष्ठिता सारे गुणज्ञानसमन्विता

parṣadvi viprasanneyaṃ kausīdyāpagatā śubhā / śuddhā pratiṣṭhitā sāre guṇajñānasamanvitā

Sanskrit only: no published translation is held for this verse.

निरीक्षमाणा अन्योन्यं स्थिताः सर्वे सगौरवाः । क्षौद्रं ह्यनेडकं यद्वत्काङ्क्षन्ति त्वमृतोपमम्

nirīkṣamāṇā anyonyaṃ sthitāḥ sarve sagauravāḥ / kṣaudraṃ hyaneḍakaṃ yadvatkāṅkṣanti tvamṛtopamam

Sanskrit only: no published translation is held for this verse.

तस्य श्रुत्वा महाप्रज्ञो वज्रगर्भो विशारदः । पर्षत्संतोषणार्थं हि भाषते स्म जिनात्मजः

tasya śrutvā mahāprajño vajragarbho viśāradaḥ / parṣatsaṃtoṣaṇārthaṃ hi bhāṣate sma jinātmajaḥ

Sanskrit only: no published translation is held for this verse.

दुष्करं परममेतदद्भुतं बोधिसत्त्वचरितप्रदर्शनम् । भूमिकारणविभाग उत्तमो बुद्धभावसमुदागमो यतः

duṣkaraṃ paramametadadbhutaṃ bodhisattvacaritapradarśanam / bhūmikāraṇavibhāga uttamo buddhabhāvasamudāgamo yataḥ

Sanskrit only: no published translation is held for this verse.

सूक्ष्म दुर्दृश विकल्पवर्जितःश्चित्तभूमिविगतो दुरासदः । गोचरो हि विदुषामनास्रवो यत्र मुह्यति जगच्छवे सति

sūkṣma durdṛśa vikalpavarjitaḥścittabhūmivigato durāsadaḥ / gocaro hi viduṣāmanāsravo yatra muhyati jagacchave sati

Sanskrit only: no published translation is held for this verse.

वज्रोपमं हृदयं स्थापयित्वा बुद्धज्ञानं परमं चाधिमुच्य । अनात्मानं चित्तभूमिं विदित्वा शक्यं श्रोतुं ज्ञानमेतत्सुसूक्ष्मम्

vajropamaṃ hṛdayaṃ sthāpayitvā buddhajñānaṃ paramaṃ cādhimucya / anātmānaṃ cittabhūmiṃ viditvā śakyaṃ śrotuṃ jñānametatsusūkṣmam

Sanskrit only: no published translation is held for this verse.

अन्तरीक्ष इव रङ्गचित्रणा मारुतः खगपथाश्रितो यथा । ज्ञानमेवमिह भागशः कृतं दुर्दृशं भगवतामनास्रवम्

antarīkṣa iva raṅgacitraṇā mārutaḥ khagapathāśrito yathā / jñānamevamiha bhāgaśaḥ kṛtaṃ durdṛśaṃ bhagavatāmanāsravam

Sanskrit only: no published translation is held for this verse.

तस्य मे भवति बुद्धिरीदृशी दुर्लभो जगति यो ऽस्य वेदकः । श्रद्धधीत च य एतदुत्तमं न प्रकाशयितुमुत्सहे यतः

tasya me bhavati buddhirīdṛśī durlabho jagati yo 'sya vedakaḥ / śraddhadhīta ca ya etaduttamaṃ na prakāśayitumutsahe yataḥ

Sanskrit only: no published translation is held for this verse.

एवमुक्ते विमुक्तिचन्द्रो बोधिसत्त्वो वज्रगर्भं बोधिसत्त्वमेतदवोचत् - सुपरिशुद्धो बतायं भो जिनपुत्र पर्षत्संनिपातः सुपरिशोधिताध्याशयानां बोधिसत्त्वानां सुपरिशोधितसंकल्पानां सुचरितचरणानां सुपर्युपासितबहुबुद्धकोटिशतसहस्राणां सुसंभृतसंभाराणामपरिमितगुणज्ञानसमन्वागतानामपगतविमतिसंदेहानामनङ्गणानां सुप्रतिष्ठिताध्याशयाधिमुक्तीनामपरप्रत्ययानामेषु बुद्धधर्मेषु । तत्साधु भो जिनपुत्र, प्रभाषस्व । प्रत्यक्षविहारिणो ह्यते बोधिसत्त्वा अत्र स्थाने ॥ वज्रगर्भ आह - किंचापि भो जिनपुत्र अयं बोधिसत्त्वपर्षत्संनिपातः सुपरिशुद्धः । पेयालं । अथ च पुनर्ये ऽन्ये इमान्येवंरूपाण्यचिन्त्यानि स्थानानि शृणुयुः, श्रुत्वा च विमतिसंदेहमुत्पादयेयुः, तेषां तत्स्याद्दीर्घरात्रमनर्थाय अहिताय दुःखाय । इयं मे कारुण्यचित्तता, येन तूष्णींभावमेवाभिरोचयामि ॥ अथ खलु विमुक्तिचन्द्रो बोधिसत्त्वः पुनरेव वज्रगर्भं बोधिसत्त्वमेतमेवार्थमध्येषते स्म - तत्साधु भो जिनपुत्र, प्रभाषस्व । तथागतस्यैवानुभावेन इमान्येवंरूपाण्यचिन्त्यानि स्थानानि स्वारक्षितानि श्रद्धेयानि भविष्यन्ति । तस्कस्य हेतोः? तथा हि भो जिनपुत्र अस्मिन् भूमिनिर्देशे भाष्यमाणे धर्मताप्रतिलम्भ एष यत्सर्वबुद्धसमन्वाहारो भवति । सर्वे बोधिसत्त्वाश्च अस्या एव ज्ञानभूमेरारक्षार्थमौत्सुक्यमापद्यन्ते । तत्कस्य हेतोः? एषा ह्यादिचर्या । एष समुदागमो बुद्धधर्माणाम् । तद्यथापि नाम भो जिनपुत्र सर्वलिप्यक्षरसंख्यानिर्देशो मातृकापूर्वंगमो मातृकापर्यवसानः नास्ति स लिप्यक्षरसंख्यानिर्देशो यो विना मातृकानिर्देशम्, एवमेव भो जिनपुत्र सर्वे बुद्धधर्मा भूमिपूर्वंगमाश्च चर्यापरिनिष्पत्तितो भूमिपर्यवसानाः स्वयंभूज्ञानाधिगमतया । तस्मात्तर्हि भो जिनपुत्र, प्रभाषस्व । तथागता एव अर्हन्तः सम्यक्संबुद्धा आरक्षामधिष्ठास्यन्ति ॥ अथ खलु ते सर्वे बोधिसत्त्वा एकस्वरसंगीतेन तस्यां वेलायां वज्रगर्भं बोधिसत्त्वं गाथाभिगीतेनैव तमर्थमध्येषन्ते स्म- प्रवरवरविमलबुद्धे स्वभिधानानन्तघटितप्रतिभ । प्रव्याहर मधुरवरां वाचं परमार्थसंयुक्ताम्

evamukte vimukticandro bodhisattvo vajragarbhaṃ bodhisattvametadavocat - supariśuddho batāyaṃ bho jinaputra parṣatsaṃnipātaḥ supariśodhitādhyāśayānāṃ bodhisattvānāṃ supariśodhitasaṃkalpānāṃ sucaritacaraṇānāṃ suparyupāsitabahubuddhakoṭiśatasahasrāṇāṃ susaṃbhṛtasaṃbhārāṇāmaparimitaguṇajñānasamanvāgatānāmapagatavimatisaṃdehānāmanaṅgaṇānāṃ supratiṣṭhitādhyāśayādhimuktīnāmaparapratyayānāmeṣu buddhadharmeṣu / tatsādhu bho jinaputra, prabhāṣasva / pratyakṣavihāriṇo hyate bodhisattvā atra sthāne // vajragarbha āha - kiṃcāpi bho jinaputra ayaṃ bodhisattvaparṣatsaṃnipātaḥ supariśuddhaḥ / peyālaṃ / atha ca punarye 'nye imānyevaṃrūpāṇyacintyāni sthānāni śṛṇuyuḥ, śrutvā ca vimatisaṃdehamutpādayeyuḥ, teṣāṃ tatsyāddīrgharātramanarthāya ahitāya duḥkhāya / iyaṃ me kāruṇyacittatā, yena tūṣṇīṃbhāvamevābhirocayāmi // atha khalu vimukticandro bodhisattvaḥ punareva vajragarbhaṃ bodhisattvametamevārthamadhyeṣate sma - tatsādhu bho jinaputra, prabhāṣasva / tathāgatasyaivānubhāvena imānyevaṃrūpāṇyacintyāni sthānāni svārakṣitāni śraddheyāni bhaviṣyanti / taskasya hetoḥ? tathā hi bho jinaputra asmin bhūminirdeśe bhāṣyamāṇe dharmatāpratilambha eṣa yatsarvabuddhasamanvāhāro bhavati / sarve bodhisattvāśca asyā eva jñānabhūmerārakṣārthamautsukyamāpadyante / tatkasya hetoḥ? eṣā hyādicaryā / eṣa samudāgamo buddhadharmāṇām / tadyathāpi nāma bho jinaputra sarvalipyakṣarasaṃkhyānirdeśo mātṛkāpūrvaṃgamo mātṛkāparyavasānaḥ nāsti sa lipyakṣarasaṃkhyānirdeśo yo vinā mātṛkānirdeśam, evameva bho jinaputra sarve buddhadharmā bhūmipūrvaṃgamāśca caryāpariniṣpattito bhūmiparyavasānāḥ svayaṃbhūjñānādhigamatayā / tasmāttarhi bho jinaputra, prabhāṣasva / tathāgatā eva arhantaḥ samyaksaṃbuddhā ārakṣāmadhiṣṭhāsyanti // atha khalu te sarve bodhisattvā ekasvarasaṃgītena tasyāṃ velāyāṃ vajragarbhaṃ bodhisattvaṃ gāthābhigītenaiva tamarthamadhyeṣante sma- pravaravaravimalabuddhe svabhidhānānantaghaṭitapratibha / pravyāhara madhuravarāṃ vācaṃ paramārthasaṃyuktām

Sanskrit only: no published translation is held for this verse.

स्मृतिधृतिविशुद्धबुद्धे दशबलबललाभमाशयविशुद्धिम् । प्रतिसंविद्दशविचयं भाषस्व दशोत्तमा भूमीः

smṛtidhṛtiviśuddhabuddhe daśabalabalalābhamāśayaviśuddhim / pratisaṃviddaśavicayaṃ bhāṣasva daśottamā bhūmīḥ

Sanskrit only: no published translation is held for this verse.

शमनियमनिभृतसुमनाः प्रहीणमदमानदृष्टिसंक्लेशा । निष्काङ्क्षा पर्षदियं प्रार्थयते भाषितानि तव

śamaniyamanibhṛtasumanāḥ prahīṇamadamānadṛṣṭisaṃkleśā / niṣkāṅkṣā parṣadiyaṃ prārthayate bhāṣitāni tava

Sanskrit only: no published translation is held for this verse.

तृषित इव शीतमुदकं बुभुक्षितो ऽन्नं सुभेषजमिवार्तः । क्षौद्रमिव स मधुकरगणस्तव वाचमुदीक्षते पर्षत्

tṛṣita iva śītamudakaṃ bubhukṣito 'nnaṃ subheṣajamivārtaḥ / kṣaudramiva sa madhukaragaṇastava vācamudīkṣate parṣat

Sanskrit only: no published translation is held for this verse.

तत्साधु विमलबुद्धे भूमिविशेषान् वदस्व विरजस्कान् । दशबलयुक्तासङ्गां सुगतगतिमुदीरयन्निखिलाम्

tatsādhu vimalabuddhe bhūmiviśeṣān vadasva virajaskān / daśabalayuktāsaṅgāṃ sugatagatimudīrayannikhilām

Sanskrit only: no published translation is held for this verse.

अथ खलु तस्यां वेलायां भगवतः शाक्यमुनेरूर्णाकोशाद् बोधिसत्त्वबलालोको नाम रश्मिर्निश्चचार असंख्येयासंख्येयरश्मिपरिवारा । सा सर्वासु दशसु दिक्षु सर्वलोकधातुप्रसरानवभास्य सर्वापायदुःखानि प्रतिप्रस्रभ्य सर्वमारभवनानि ध्यामीकृत्य अपरिमितानि बुद्धपर्षन्मण्डलान्यवभास्य अचिन्त्यं बुद्धविषयाकारप्रभावं निदर्श्य सर्वासु दशसु दिक्षु सर्वलोकधातुप्रसरेषु सर्वतथागतपर्षन्मण्डलेषु धर्मदेशनाधिष्ठानाधिष्ठितान् बोधिसत्त्वानवभास्य अचिन्त्यं बुद्धविकुर्वणं संदर्श्य उपर्यन्तरीक्षे महारश्मिघनाभ्रजालकूटागारं कृत्वा तस्थौ । तेषामपि बुद्धानां भगवतामूर्णाकोशेभ्य एवमेव बोधिसत्त्वबलालोका नाम रश्मयो निश्चेरुः । निश्चर्य असंख्येयासंख्येयरश्मिपरिवारास्ताः सर्वासु॥॥पे॥।बुद्धविकुर्वणमादर्श्य इदं भगवतः शाक्यमुनेः पर्षन्मण्डलं वज्रगर्भस्य बोधिसत्त्वस्यात्मभावमवभास्य उपर्यन्तरीक्षे एवमेव महारश्मिघनाभ्रजालकूटागारं कृत्वा तस्थुः । इति हि आभिश्च भगवतः शाक्यमुनेरूर्णाकोशप्रसृताभी रश्मिभिस्ते लोकधातवस्तानि च बुद्धपर्षन्मण्डलानि तेषां च बोधिसत्त्वानां काया आसनानि च स्फुटान्यवभासितानि संदृश्यन्ते स्म । तेषां च अपरिमाणेषु लोकधातुषु बुद्धानां भगवतामूर्णाकोशप्रसृताभी रश्मिभिरयं त्रिसाहस्रमहासाहस्रलोकधातुरिदं च भगवतः शाक्यमुनेः पर्षन्मण्डलं वज्रगर्भस्य च बोधिसत्त्वस्य काय आसनं स्फुटमवभासितं संदृश्यन्ते स्म । अथ खलु ततो महारश्मिघनाभ्रजालकूटागाराद्वुद्धानुभावेन अयमेवंरूपः शब्दो निश्चरति स्म- असमसमाकाशमैर्दशबलवृषभैरनन्तमुख्यगुणैः । शाक्यकुलजस्य धर्मैर्देवमनुष्योत्तमैः कृतमधिष्ठानम्

atha khalu tasyāṃ velāyāṃ bhagavataḥ śākyamunerūrṇākośād bodhisattvabalāloko nāma raśmirniścacāra asaṃkhyeyāsaṃkhyeyaraśmiparivārā / sā sarvāsu daśasu dikṣu sarvalokadhātuprasarānavabhāsya sarvāpāyaduḥkhāni pratiprasrabhya sarvamārabhavanāni dhyāmīkṛtya aparimitāni buddhaparṣanmaṇḍalānyavabhāsya acintyaṃ buddhaviṣayākāraprabhāvaṃ nidarśya sarvāsu daśasu dikṣu sarvalokadhātuprasareṣu sarvatathāgataparṣanmaṇḍaleṣu dharmadeśanādhiṣṭhānādhiṣṭhitān bodhisattvānavabhāsya acintyaṃ buddhavikurvaṇaṃ saṃdarśya uparyantarīkṣe mahāraśmighanābhrajālakūṭāgāraṃ kṛtvā tasthau / teṣāmapi buddhānāṃ bhagavatāmūrṇākośebhya evameva bodhisattvabalālokā nāma raśmayo niśceruḥ / niścarya asaṃkhyeyāsaṃkhyeyaraśmiparivārāstāḥ sarvāsu....pe...buddhavikurvaṇamādarśya idaṃ bhagavataḥ śākyamuneḥ parṣanmaṇḍalaṃ vajragarbhasya bodhisattvasyātmabhāvamavabhāsya uparyantarīkṣe evameva mahāraśmighanābhrajālakūṭāgāraṃ kṛtvā tasthuḥ / iti hi ābhiśca bhagavataḥ śākyamunerūrṇākośaprasṛtābhī raśmibhiste lokadhātavastāni ca buddhaparṣanmaṇḍalāni teṣāṃ ca bodhisattvānāṃ kāyā āsanāni ca sphuṭānyavabhāsitāni saṃdṛśyante sma / teṣāṃ ca aparimāṇeṣu lokadhātuṣu buddhānāṃ bhagavatāmūrṇākośaprasṛtābhī raśmibhirayaṃ trisāhasramahāsāhasralokadhāturidaṃ ca bhagavataḥ śākyamuneḥ parṣanmaṇḍalaṃ vajragarbhasya ca bodhisattvasya kāya āsanaṃ sphuṭamavabhāsitaṃ saṃdṛśyante sma / atha khalu tato mahāraśmighanābhrajālakūṭāgārādvuddhānubhāvena ayamevaṃrūpaḥ śabdo niścarati sma- asamasamākāśamairdaśabalavṛṣabhairanantamukhyaguṇaiḥ / śākyakulajasya dharmairdevamanuṣyottamaiḥ kṛtamadhiṣṭhānam

Sanskrit only: no published translation is held for this verse.

अनुभावात्सुगतानां कोशं विवृणुष्व धर्मराजानाम् । चर्यावरामुदारां प्रभेदशो ज्ञानभूमिं च

anubhāvātsugatānāṃ kośaṃ vivṛṇuṣva dharmarājānām / caryāvarāmudārāṃ prabhedaśo jñānabhūmiṃ ca

Sanskrit only: no published translation is held for this verse.

अधिष्ठितास्ते सुगतैर्धारिता बोधिसत्त्वैश्च । येषां श्रोत्रपथागतः श्रेष्ठो यो धर्मपर्यायः

adhiṣṭhitāste sugatairdhāritā bodhisattvaiśca / yeṣāṃ śrotrapathāgataḥ śreṣṭho yo dharmaparyāyaḥ

Sanskrit only: no published translation is held for this verse.

दश भूमीर्विरजसः पूरयित्वानुपूर्वेण । बलानि दश च प्राप्य जिनतामर्पयिष्यन्ति

daśa bhūmīrvirajasaḥ pūrayitvānupūrveṇa / balāni daśa ca prāpya jinatāmarpayiṣyanti

Sanskrit only: no published translation is held for this verse.

सागरजले निमग्नाः कल्पोद्दाहेषु प्रक्षिप्ताः । भव्यास्ते धर्मपर्यायमिमं श्रोतुमसंदिग्धाः

sāgarajale nimagnāḥ kalpoddāheṣu prakṣiptāḥ / bhavyāste dharmaparyāyamimaṃ śrotumasaṃdigdhāḥ

Sanskrit only: no published translation is held for this verse.

ये तु विमतिसक्ताः संशयैश्चाभ्युपेताः । सर्वशो न हि तेषां प्राप्स्यते श्रोत्रमेतत्

ye tu vimatisaktāḥ saṃśayaiścābhyupetāḥ / sarvaśo na hi teṣāṃ prāpsyate śrotrametat

Sanskrit only: no published translation is held for this verse.

भूमिज्ञानपथं श्रेष्ठं प्रवेशस्थानसंक्रमम् । अनुपूर्वेण भाषस्व चर्याविषयमेव च

bhūmijñānapathaṃ śreṣṭhaṃ praveśasthānasaṃkramam / anupūrveṇa bhāṣasva caryāviṣayameva ca

Sanskrit only: no published translation is held for this verse.

अथ खलु वज्रगर्भो बोधिसत्त्वो दश दिशो व्यवलोक्य भूयस्या मात्रया तस्याः पर्षदः संप्रसादर्नार्थं तस्यां वेलायामिमा गाथा अभाषत- सूक्ष्मं दुराज्ञेयपदं महर्षिणामकल्पकल्पापगतं सुदुःस्पृशम् । अनाविलं पण्डितविज्ञवेदितं स्वभावशान्तं ह्यनिरोधसंभवम्

atha khalu vajragarbho bodhisattvo daśa diśo vyavalokya bhūyasyā mātrayā tasyāḥ parṣadaḥ saṃprasādarnārthaṃ tasyāṃ velāyāmimā gāthā abhāṣata- sūkṣmaṃ durājñeyapadaṃ maharṣiṇāmakalpakalpāpagataṃ suduḥspṛśam / anāvilaṃ paṇḍitavijñaveditaṃ svabhāvaśāntaṃ hyanirodhasaṃbhavam

Sanskrit only: no published translation is held for this verse.

स्वभावशून्यं प्रशमाद्वयक्षयं गत्या विमुक्तं समताप्तिनिर्वृतम् । अनन्तमध्यं वचसानुदीरितं त्रियघ्वविमुक्तं नभसा समानकम्

svabhāvaśūnyaṃ praśamādvayakṣayaṃ gatyā vimuktaṃ samatāptinirvṛtam / anantamadhyaṃ vacasānudīritaṃ triyaghvavimuktaṃ nabhasā samānakam

Sanskrit only: no published translation is held for this verse.

शान्तं प्रशान्तं सुगतप्रवेदितं सर्वैरुदाहारपदैः सुदुर्वचम् । भूमिश्च चर्यापि च तस्य तादृशी वक्तुं सुदुःखः कुत एव श्रोतुम्

śāntaṃ praśāntaṃ sugatapraveditaṃ sarvairudāhārapadaiḥ sudurvacam / bhūmiśca caryāpi ca tasya tādṛśī vaktuṃ suduḥkhaḥ kuta eva śrotum

Sanskrit only: no published translation is held for this verse.

तच्चिन्तया चित्तपथैश्च वर्जितं ज्ञानाभिनिर्हारमुनीन्द्रवेदितम् । न स्कन्धधात्वायतनप्रभावितं न चित्तगम्यं न मनोविचिन्तितम्

taccintayā cittapathaiśca varjitaṃ jñānābhinirhāramunīndraveditam / na skandhadhātvāyatanaprabhāvitaṃ na cittagamyaṃ na manovicintitam

Sanskrit only: no published translation is held for this verse.

यथान्तरीक्षे शकुनेः पदं बुधैर्वक्तुं न शक्यं न च दर्शनोपगम् । तथैव सर्वा जिनपुत्र भूमयो वक्तुं न शक्याः कुत एव श्रोतुम्

yathāntarīkṣe śakuneḥ padaṃ budhairvaktuṃ na śakyaṃ na ca darśanopagam / tathaiva sarvā jinaputra bhūmayo vaktuṃ na śakyāḥ kuta eva śrotum

Sanskrit only: no published translation is held for this verse.

प्रदेशमात्रं तु ततो ऽभिधास्ये मैत्रीकृपाभ्यां प्रणिधानतश्च । यथानुपूर्वं न च चित्तगोचरं ज्ञानेन ताः पूरयतां यथाशयम्

pradeśamātraṃ tu tato 'bhidhāsye maitrīkṛpābhyāṃ praṇidhānataśca / yathānupūrvaṃ na ca cittagocaraṃ jñānena tāḥ pūrayatāṃ yathāśayam

Sanskrit only: no published translation is held for this verse.

एतादृशो गोचर दुर्दृशो ऽस्य वक्तुं न शक्यः स हि स्वाशयस्थः । किं तु प्रवक्ष्यामि जिनानुभावतः शृण्वन्तु सर्वे सहिताः सगौरवाः

etādṛśo gocara durdṛśo 'sya vaktuṃ na śakyaḥ sa hi svāśayasthaḥ / kiṃ tu pravakṣyāmi jinānubhāvataḥ śṛṇvantu sarve sahitāḥ sagauravāḥ

Sanskrit only: no published translation is held for this verse.

ज्ञानप्रवेशः स हि तादृशो ऽस्य वक्तुं न कल्पैरपि शक्यते यत् । समासतस्तच्छृणुत ब्रवीम्यहं धर्मार्थतत्त्वं निखिलं यथास्थितम्

jñānapraveśaḥ sa hi tādṛśo 'sya vaktuṃ na kalpairapi śakyate yat / samāsatastacchṛṇuta bravīmyahaṃ dharmārthatattvaṃ nikhilaṃ yathāsthitam

Sanskrit only: no published translation is held for this verse.

सगौरवाः सन्त(ः) सज्जा भवन्तो वक्ष्याम्यहं साधु जिनानुभावतः । उदीरयिष्ये वरधर्मघोषं दृष्टान्तयुक्तं सहितं समाक्षरम्

sagauravāḥ santa(ḥ) sajjā bhavanto vakṣyāmyahaṃ sādhu jinānubhāvataḥ / udīrayiṣye varadharmaghoṣaṃ dṛṣṭāntayuktaṃ sahitaṃ samākṣaram

Sanskrit only: no published translation is held for this verse.

सुदुष्करं तद्वचसापि वक्तुं यश्चाप्रमेयः सुगतानुभावः । मयि प्रविष्टः स च रश्मिमूर्तिर्यस्यानुभावेन ममास्ति शक्तिः

suduṣkaraṃ tadvacasāpi vaktuṃ yaścāprameyaḥ sugatānubhāvaḥ / mayi praviṣṭaḥ sa ca raśmimūrtiryasyānubhāvena mamāsti śaktiḥ

Sanskrit only: no published translation is held for this verse.