Library·Dasabhumikasutram·1·1.1

Dasabhumikasutram 1.1

Dasa 1.1

एवं मया श्रुतम् । एकस्मिन् समये भगवान् परनिर्मितवशवर्तिषु देवभुवनेषु विहरति स्म अचिराभिसंबुद्धो द्वितीये सप्ताहे वशवर्तिनो देवराजस्य विमाने मणिरत्नगर्भे प्रभास्वरे प्रासादे महता बोधिसत्त्वगणेन सार्धं सर्वैरवैवर्तिकैरेकजातिप्रतिबद्धैः । यदुत अनुत्तरायां सम्यक्संबोधावन्योन्यलोकधातुसंनिपतितैः । सर्वैः सर्वबोधिसत्त्वज्ञानविषयगोचरप्रतिलब्धविहारिभिः सर्वतथागतज्ञानविषयप्रवेशावताराप्रतिप्रस्रब्धगोचरैः सर्वजगत्परिपाचनविनययथाकालक्षणाधिष्ठानसर्वक्रियासंदर्शनकुशलैः सर्वबोधिसत्त्वप्रणिधानाभिनिर्हाराप्रतिप्रस्रब्धगोचरैः कल्पार्थक्षेत्रचर्यासंवासिभिः सर्वबोधिसत्त्वपुण्यज्ञानर्द्धिसंभारसुपरिपूर्णाक्षयसर्वजगदुपजीव्यताप्रतिपन्नैः सर्वबोधिसत्त्वप्रज्ञोपायपरमपारमिताप्राप्तैः संसारनिर्वाणमुखसंदर्शनकुशलैः बोधिसत्त्वचर्योपादानाव्यवच्छिन्नैः सर्वबोधिसत्त्वध्यानविमोक्षसमाधिसमापत्यभिज्ञाज्ञानविक्रीडिताभिज्ञासर्वक्रियासंदर्शनकुशलैः सर्वबोधिसत्त्वर्द्धिबलवशिताप्राप्तानभिसंस्कारचित्तक्षणसर्वतथागतपर्षन्मण्डलोपसंक्रमणपूर्वंगमकथापुरुषैः सर्वतथागतधर्मचक्रसंधारणविपुलबुद्धपूजोपस्थानाभ्युत्थितैः सर्वबोधिसत्त्वकर्मसमादानसमताप्रयोगसर्वलोकधातुकायप्रतिभासप्राप्तैः सर्वधर्मधात्वसङ्गस्वररुतघोषानुरवितसर्वत्र्यध्वासङ्गचित्तज्ञानविषयस्फरणैः सर्वबोधिसत्त्वगुणप्रतिपत्तिसुपरिपूर्णानभिलाप्यकल्पाधिष्ठानसंप्रकाशनापरिक्षीणगुणवर्णनिर्देशकैः । यदिदम्वज्रगर्भेण च बोधिसत्त्वेन महासत्त्वेन । रत्नगर्भेण च । पद्मगर्भेण च । श्रीगर्भेण च । पद्मश्रीगर्भेण च । आदित्यगर्भेण च । सूर्यगर्भेण च । क्षितिगर्भेण च । शशिविमलगर्भेण च । सर्वव्यूहालंकारप्रतिभाससंदर्शनगर्भेण च । ज्ञानवैरोचनगर्भेण च । रुचिरश्रीगर्भेण च । चन्दनश्रीगर्भेण च । पुष्पश्रीगर्भेण च । कुसुमश्रीगर्भेण च । उत्पलश्रीगर्भेण च । देवश्रीगर्भेण च । पुण्यश्रीगर्भेण च । अनावरणज्ञानविशुद्धिगर्भेण च । गुणश्रीगर्भेण च । नारायणश्रीगर्भेण च । अमलगर्भेण च । विमलगर्भेण च । विचित्रप्रतिभानालंकारगर्भेण च । महारश्मिजालावभासगर्भेण च । विमलप्रभासश्रीतेजोराजगर्भेण च । सर्वलक्षणप्रतिमण्डितविशुद्धिश्रीगर्भेण च । वज्रार्चिःश्रीवत्सालंकारगर्भेण च । ज्योतिर्ज्वलनार्चिःश्रीगर्भेण च । नक्षत्रराजप्रभावभासगर्भेण च । गगनकोशानावरणज्ञानगर्भेण च । अनावरणस्वरमण्डलमधुरनिर्घोषगर्भेण च । धारणीमुखसर्वजगत्प्रणिधिसंधारणगर्भेण च । सागरव्यूहगर्भेण च । (द्भ् २) मेरुश्रीगर्भेण च । सर्वगुणविशुद्धिगर्भेण च । तथागतश्रीगर्भेण च । बुद्धश्रीगर्भेण च । विमुक्तिचन्द्रेण च बोधिसत्त्वेन महासत्त्वेन । एवंप्रमुखैर् अपरिमाणाप्रमेयासंख्येयाचिन्त्यातुल्यामाप्यानन्तापर्यन्तासीमाप्राप्तानभिलाप्यानभिलाप्यैर्बोधिसत्त्वैर्महासत्त्वैः सार्धं नानाबुद्धक्षेत्रसंनिपतितैर्वज्रगर्भबोधिसत्त्वपूर्वंगमैः ॥ अथ खलु वज्रगर्भो बोधिसत्त्वयां वेलायां बुद्धानुभावेन महायानप्रभासं नाम बोधिसत्त्वसमाधिं समापद्यते स्म । समनन्तरसमापन्नश्च वज्रगर्भो बोधिसत्त्व इमं महायानप्रभासं नाम बोधिसत्त्वसमाधिम्,अथ तावदेव दशसु दिक्षु दशबुद्धक्षेत्रकोटिपरमाणुरजःसमानां लोकधातूनामपरेण दशबुद्धक्षेत्रकोटिपरमाणुरजःसमास्तथागता मुखान्युपर्दषयामासुं यदिदं वज्रगर्भसमनामका एव । ते चैनं बुद्धा भगवन्त एवमूचुः - साधु साधु भो जिनपुत्र, यस्त्वमिमं महायानप्रभासं बोधिसत्त्वसमाधिं समापद्यसे । अपि तु खलु पुनस्त्वं कुलपुत्र, अमी दशसु दिक्षु दशबुद्धक्षेत्रकोटिपरमाणुरजःसमानां लोकधातूनामपरेण दशबुद्धक्षेत्रकोटिपरमाणुरजःसमास्तथागता अधितिष्ठन्ति सर्वे वज्रगर्भसमनामानः अस्यैव भगवतो वैरोचनस्य पूर्वप्रणिधानाधिष्ठानेन तव च पुण्यज्ञानविशेषेण सर्वबोधिसत्त्वानां च अचिन्त्यबुद्धधर्मालोकप्रभावनाज्ञानभूम्यवतारणाय । सर्वकुशलमूलसंग्रहणाय । सर्वबुद्धधर्मनिर्देशाय । असंभिन्नज्ञानव्यवदानाय । सर्वलोकधर्मानुपलेपाय । लोकोत्तरकुशलमूलपरिशोधनाय । अचिन्त्यज्ञानविषयाधिगमाय । यावत्सर्वज्ञानविषयाधिगमाय । यदिदं दशानां बोधिसत्त्वभूमीनामारम्भप्रतिलम्भाय । यथावद्बोधिसत्त्वभूमिव्यवस्थाननिर्देशाय । सर्वबुद्धधर्माध्यालम्बनाय । अनास्रवधर्मप्रविभागविभावनाय । सुविचितविचयमहाप्रज्ञालोककौशल्याय । सुनिस्तीरितकौशल्यज्ञानमुखावतारणाय । यथार्हस्थानान्तरप्रभावनामन्दप्रतिभानालोकाय । महाप्रतिसंविद्भूमिनिस्तीरणाय । बोधिचित्तस्मृत्यसंप्रमोषाय । सर्वसत्त्वधातुपरिपाचनाय । सर्वत्रानुगतविनिश्चयकौशल्यप्रतिलम्भाय । अपि तु खलु पुनः कुलपुत्र प्रतिभातु ते ऽयं धर्मालोकमुखप्रभेदकौशल्यधर्मपर्यायो बुद्धानुभावेन तथागतज्ञानालोकाधिष्ठानेन स्वकुशलमूलपरिशोधनाय धर्मधातुसुपर्यवदापनाय सत्त्वधात्वनुग्रहाय धर्मकायज्ञानशारीराय सर्वबुद्धाभिषेकसंप्रतीच्छनाय सर्वलोकाभ्युद्गतात्मभावसंदर्शनाय सर्वलोकगतिसमतिक्रमाय लोकोत्तधर्मगतिपरिशोधनाय सर्वज्ञज्ञानपरिपूरणाय ॥ अथ खलु ते बुद्धा भगवन्तो वज्रगर्भस्य बोधिसत्त्वस्य अनभिभूतात्मभावतां चोपसंहरन्ति स्म । असङ्गप्रतिभाननिर्देशतां च सुविशोभितज्ञानविभक्तिप्रवेशतां च स्मृत्यसंप्रभोषाधिष्ठानतां च सुविनिश्चितमतिकौशल्यतां च सर्वत्रानुगतबुद्ध्यनुत्सर्गतां च सम्यक्संबुद्धबलानवमृद्यतां च तथागतवैशारद्यानवलीनतां च सर्वज्ञज्ञानप्रतिसंविद्विभागधर्मनयनिस्तीरणतां च सर्वतथागतसुविभक्तकायवाक्चित्तालंकाराभिनिर्हारतां चोपसंहरन्ति स्म । तत्कस्माद्धेतोः? यथापि नाम अस्यैव समाधेर्धर्मताप्रतिलम्भेन पूर्वं प्रणिधानाभिर्हारेण च सुपरिशोधिताध्याशयतया च स्ववदातज्ञानमण्डलतया च सुसंभृतसंभारतया च सुकृतपरिकर्मतया (द्भ् ३) च अप्रमाणस्मृतिभाजनतया च प्रभास्वराधिमुक्तिविशोधनतया च सुप्रतिविद्वधारणीमुखासंभेदनतया च धर्मधातुज्ञानमुद्रासुमुद्रिततया च ॥ अथ खलु ते बुद्धा भगवन्तस्तत्रस्था एव ऋद्ध्यनुभावेन दक्षिणान् पाणीन् प्रसार्य वज्रगर्भस्य बोधिसत्त्वस्य शीर्षं संप्रमार्जयन्ति स्म । समनन्तरस्पृष्टश्च वज्रगर्भो बोधिसत्त्वस्तैर्बुद्धैर्भगवद्भिः, अथ तावदेव समाधेस्तस्माद् व्युत्थाय तान् बोधिसत्त्वानामन्त्रयते स्म - सुविनिश्चितमिदं भवन्तो जिनपुत्रा बोधिसत्त्वप्रणिधानमसंभिन्नमनवलोक्यं धर्मधातुविपुलं आकाशधातुपर्यवसानमपरान्तकोटिनिष्ठं सर्वसत्त्वधातुपरित्राणम् । यत्र हि नाम भवन्तो जिनपुत्रा बोधिसत्त्वा अतीतानामपि बुद्धानां भगवतां ज्ञानभूमिमवतरन्ति, अनागतानामपि बुद्धानां भगवतां ज्ञानभूमिमवतरन्ति प्रत्युत्पन्नानामपि बुद्धानां भगवतां ज्ञानभूमिमवतरन्ति, तत्र भवन्तो जिनपुत्रा दश बोधिसत्त्वभूमयो बुद्धानां भगवतां ज्ञानभूमिमवतरन्ति, तत्र भवन्तो जिनपुत्राश्च दश बोधिसत्त्वभूमयो ऽतीतानागतप्रत्युत्पन्नैर्बुद्धैर्भगद्भिर्भाषिताश्च भाषिष्यन्ते च भाष्यन्ते च, याः संधाय अहं एवं वदामि । कतमा दश? यदुत प्रमुदिता च नाम बोधिसत्त्वभूमिः । विमला च नाम । प्रभाकरी च नाम । अर्चिष्मती च नाम । सुदुर्जया च नाम । अभिमुखी च नाम । दूरंगमा च नाम । अचला च नाम । साधुमती च नाम । धर्ममेघा च नाम बोधिसत्त्वभूमिः । इमा भवन्तो जिनपुत्रा दश बोधिसत्त्वानां बोधिसत्त्वभूमयः, या अतीतानागतप्रत्युत्पन्नईर्बुद्धैर्भगवद्भिर्भाषिताश्च भाषिष्यन्ते च भाष्यन्ते च । नाहं भवन्तो जिनपुत्रास्तं बुद्धक्षेत्रप्रसरं समनुपश्यामि, यत्र तथागता इमा दश बोधिसत्त्वभूमीर्न प्रकाशयन्ति । तत्कस्य हेतोः? सामुत्कर्षिको ऽयं भवन्तो जिनपुत्रा बोधिसत्त्वानां महासत्त्वानां बोधि(सत्त्व)मार्गपरिशोधनधर्ममुखालोको यदिदं दशभूमिप्रभेदव्यवस्थानम् । अचिन्त्यमिदं भवन्तो जिनपुत्राः स्थानं यदिदं भूमिज्ञानमिति ॥ अथ खलु वज्रगर्भो बोधिसत्त्व आसां दशानां बोधिसत्त्वभूमीनां नामधेयमात्रं परिकीर्त्य तूष्णीं बभूव, न भूयः प्रभेदशो निर्दिशति स्म । अथ खलु सा सर्वावती बोधिसत्त्वपर्षत् परितृषिता बभूव आसां दशानां बोधिसत्त्वभूमीनां नामधेयमात्रश्रवणेन भूमिविभागानुदीरणेन च । तस्या एतदभवत् - को नु खल्वत्र हेतुः कश्च प्रत्ययः, यद्वज्रगर्भो बोधिसत्त्व आसां बोधिसत्त्वभूमीनां नामधेयमात्रं परिकीर्त्य तूष्णींभावेन अतिनामयति, न भूयः प्रभेदशो निर्दिशतीति? तेन खलु पुनः समयेन तस्मिन्नेव बोधिसत्त्वपर्षत्संनिपाते विमुक्तिचन्द्रो नाम बोधिसत्त्वस्तस्या बोधिसत्त्वपर्षदश्चित्ताशयविचारमाज्ञाय वज्रगर्भं बोधिसत्त्वं गाथाभिगीतेन परिगृच्छति स्म- किमर्थं शुद्धसंकल्पस्मृतिज्ञानगुणान्वित । समुदीर्योत्तमा भूमीर्न प्रकाशयसे विभो

evaṃ mayā śrutam / ekasmin samaye bhagavān paranirmitavaśavartiṣu devabhuvaneṣu viharati sma acirābhisaṃbuddho dvitīye saptāhe vaśavartino devarājasya vimāne maṇiratnagarbhe prabhāsvare prāsāde mahatā bodhisattvagaṇena sārdhaṃ sarvairavaivartikairekajātipratibaddhaiḥ / yaduta anuttarāyāṃ samyaksaṃbodhāvanyonyalokadhātusaṃnipatitaiḥ / sarvaiḥ sarvabodhisattvajñānaviṣayagocarapratilabdhavihāribhiḥ sarvatathāgatajñānaviṣayapraveśāvatārāpratiprasrabdhagocaraiḥ sarvajagatparipācanavinayayathākālakṣaṇādhiṣṭhānasarvakriyāsaṃdarśanakuśalaiḥ sarvabodhisattvapraṇidhānābhinirhārāpratiprasrabdhagocaraiḥ kalpārthakṣetracaryāsaṃvāsibhiḥ sarvabodhisattvapuṇyajñānarddhisaṃbhārasuparipūrṇākṣayasarvajagadupajīvyatāpratipannaiḥ sarvabodhisattvaprajñopāyaparamapāramitāprāptaiḥ saṃsāranirvāṇamukhasaṃdarśanakuśalaiḥ bodhisattvacaryopādānāvyavacchinnaiḥ sarvabodhisattvadhyānavimokṣasamādhisamāpatyabhijñājñānavikrīḍitābhijñāsarvakriyāsaṃdarśanakuśalaiḥ sarvabodhisattvarddhibalavaśitāprāptānabhisaṃskāracittakṣaṇasarvatathāgataparṣanmaṇḍalopasaṃkramaṇapūrvaṃgamakathāpuruṣaiḥ sarvatathāgatadharmacakrasaṃdhāraṇavipulabuddhapūjopasthānābhyutthitaiḥ sarvabodhisattvakarmasamādānasamatāprayogasarvalokadhātukāyapratibhāsaprāptaiḥ sarvadharmadhātvasaṅgasvararutaghoṣānuravitasarvatryadhvāsaṅgacittajñānaviṣayaspharaṇaiḥ sarvabodhisattvaguṇapratipattisuparipūrṇānabhilāpyakalpādhiṣṭhānasaṃprakāśanāparikṣīṇaguṇavarṇanirdeśakaiḥ / yadidamvajragarbheṇa ca bodhisattvena mahāsattvena / ratnagarbheṇa ca / padmagarbheṇa ca / śrīgarbheṇa ca / padmaśrīgarbheṇa ca / ādityagarbheṇa ca / sūryagarbheṇa ca / kṣitigarbheṇa ca / śaśivimalagarbheṇa ca / sarvavyūhālaṃkārapratibhāsasaṃdarśanagarbheṇa ca / jñānavairocanagarbheṇa ca / ruciraśrīgarbheṇa ca / candanaśrīgarbheṇa ca / puṣpaśrīgarbheṇa ca / kusumaśrīgarbheṇa ca / utpalaśrīgarbheṇa ca / devaśrīgarbheṇa ca / puṇyaśrīgarbheṇa ca / anāvaraṇajñānaviśuddhigarbheṇa ca / guṇaśrīgarbheṇa ca / nārāyaṇaśrīgarbheṇa ca / amalagarbheṇa ca / vimalagarbheṇa ca / vicitrapratibhānālaṃkāragarbheṇa ca / mahāraśmijālāvabhāsagarbheṇa ca / vimalaprabhāsaśrītejorājagarbheṇa ca / sarvalakṣaṇapratimaṇḍitaviśuddhiśrīgarbheṇa ca / vajrārciḥśrīvatsālaṃkāragarbheṇa ca / jyotirjvalanārciḥśrīgarbheṇa ca / nakṣatrarājaprabhāvabhāsagarbheṇa ca / gaganakośānāvaraṇajñānagarbheṇa ca / anāvaraṇasvaramaṇḍalamadhuranirghoṣagarbheṇa ca / dhāraṇīmukhasarvajagatpraṇidhisaṃdhāraṇagarbheṇa ca / sāgaravyūhagarbheṇa ca / (Dbh 2) meruśrīgarbheṇa ca / sarvaguṇaviśuddhigarbheṇa ca / tathāgataśrīgarbheṇa ca / buddhaśrīgarbheṇa ca / vimukticandreṇa ca bodhisattvena mahāsattvena / evaṃpramukhair aparimāṇāprameyāsaṃkhyeyācintyātulyāmāpyānantāparyantāsīmāprāptānabhilāpyānabhilāpyairbodhisattvairmahāsattvaiḥ sārdhaṃ nānābuddhakṣetrasaṃnipatitairvajragarbhabodhisattvapūrvaṃgamaiḥ // atha khalu vajragarbho bodhisattvayāṃ velāyāṃ buddhānubhāvena mahāyānaprabhāsaṃ nāma bodhisattvasamādhiṃ samāpadyate sma / samanantarasamāpannaśca vajragarbho bodhisattva imaṃ mahāyānaprabhāsaṃ nāma bodhisattvasamādhim,atha tāvadeva daśasu dikṣu daśabuddhakṣetrakoṭiparamāṇurajaḥsamānāṃ lokadhātūnāmapareṇa daśabuddhakṣetrakoṭiparamāṇurajaḥsamāstathāgatā mukhānyupardaṣayāmāsuṃ yadidaṃ vajragarbhasamanāmakā eva / te cainaṃ buddhā bhagavanta evamūcuḥ - sādhu sādhu bho jinaputra, yastvamimaṃ mahāyānaprabhāsaṃ bodhisattvasamādhiṃ samāpadyase / api tu khalu punastvaṃ kulaputra, amī daśasu dikṣu daśabuddhakṣetrakoṭiparamāṇurajaḥsamānāṃ lokadhātūnāmapareṇa daśabuddhakṣetrakoṭiparamāṇurajaḥsamāstathāgatā adhitiṣṭhanti sarve vajragarbhasamanāmānaḥ asyaiva bhagavato vairocanasya pūrvapraṇidhānādhiṣṭhānena tava ca puṇyajñānaviśeṣeṇa sarvabodhisattvānāṃ ca acintyabuddhadharmālokaprabhāvanājñānabhūmyavatāraṇāya / sarvakuśalamūlasaṃgrahaṇāya / sarvabuddhadharmanirdeśāya / asaṃbhinnajñānavyavadānāya / sarvalokadharmānupalepāya / lokottarakuśalamūlapariśodhanāya / acintyajñānaviṣayādhigamāya / yāvatsarvajñānaviṣayādhigamāya / yadidaṃ daśānāṃ bodhisattvabhūmīnāmārambhapratilambhāya / yathāvadbodhisattvabhūmivyavasthānanirdeśāya / sarvabuddhadharmādhyālambanāya / anāsravadharmapravibhāgavibhāvanāya / suvicitavicayamahāprajñālokakauśalyāya / sunistīritakauśalyajñānamukhāvatāraṇāya / yathārhasthānāntaraprabhāvanāmandapratibhānālokāya / mahāpratisaṃvidbhūministīraṇāya / bodhicittasmṛtyasaṃpramoṣāya / sarvasattvadhātuparipācanāya / sarvatrānugataviniścayakauśalyapratilambhāya / api tu khalu punaḥ kulaputra pratibhātu te 'yaṃ dharmālokamukhaprabhedakauśalyadharmaparyāyo buddhānubhāvena tathāgatajñānālokādhiṣṭhānena svakuśalamūlapariśodhanāya dharmadhātusuparyavadāpanāya sattvadhātvanugrahāya dharmakāyajñānaśārīrāya sarvabuddhābhiṣekasaṃpratīcchanāya sarvalokābhyudgatātmabhāvasaṃdarśanāya sarvalokagatisamatikramāya lokottadharmagatipariśodhanāya sarvajñajñānaparipūraṇāya // atha khalu te buddhā bhagavanto vajragarbhasya bodhisattvasya anabhibhūtātmabhāvatāṃ copasaṃharanti sma / asaṅgapratibhānanirdeśatāṃ ca suviśobhitajñānavibhaktipraveśatāṃ ca smṛtyasaṃprabhoṣādhiṣṭhānatāṃ ca suviniścitamatikauśalyatāṃ ca sarvatrānugatabuddhyanutsargatāṃ ca samyaksaṃbuddhabalānavamṛdyatāṃ ca tathāgatavaiśāradyānavalīnatāṃ ca sarvajñajñānapratisaṃvidvibhāgadharmanayanistīraṇatāṃ ca sarvatathāgatasuvibhaktakāyavākcittālaṃkārābhinirhāratāṃ copasaṃharanti sma / tatkasmāddhetoḥ? yathāpi nāma asyaiva samādherdharmatāpratilambhena pūrvaṃ praṇidhānābhirhāreṇa ca supariśodhitādhyāśayatayā ca svavadātajñānamaṇḍalatayā ca susaṃbhṛtasaṃbhāratayā ca sukṛtaparikarmatayā (Dbh 3) ca apramāṇasmṛtibhājanatayā ca prabhāsvarādhimuktiviśodhanatayā ca supratividvadhāraṇīmukhāsaṃbhedanatayā ca dharmadhātujñānamudrāsumudritatayā ca // atha khalu te buddhā bhagavantastatrasthā eva ṛddhyanubhāvena dakṣiṇān pāṇīn prasārya vajragarbhasya bodhisattvasya śīrṣaṃ saṃpramārjayanti sma / samanantaraspṛṣṭaśca vajragarbho bodhisattvastairbuddhairbhagavadbhiḥ, atha tāvadeva samādhestasmād vyutthāya tān bodhisattvānāmantrayate sma - suviniścitamidaṃ bhavanto jinaputrā bodhisattvapraṇidhānamasaṃbhinnamanavalokyaṃ dharmadhātuvipulaṃ ākāśadhātuparyavasānamaparāntakoṭiniṣṭhaṃ sarvasattvadhātuparitrāṇam / yatra hi nāma bhavanto jinaputrā bodhisattvā atītānāmapi buddhānāṃ bhagavatāṃ jñānabhūmimavataranti, anāgatānāmapi buddhānāṃ bhagavatāṃ jñānabhūmimavataranti pratyutpannānāmapi buddhānāṃ bhagavatāṃ jñānabhūmimavataranti, tatra bhavanto jinaputrā daśa bodhisattvabhūmayo buddhānāṃ bhagavatāṃ jñānabhūmimavataranti, tatra bhavanto jinaputrāśca daśa bodhisattvabhūmayo 'tītānāgatapratyutpannairbuddhairbhagadbhirbhāṣitāśca bhāṣiṣyante ca bhāṣyante ca, yāḥ saṃdhāya ahaṃ evaṃ vadāmi / katamā daśa? yaduta pramuditā ca nāma bodhisattvabhūmiḥ / vimalā ca nāma / prabhākarī ca nāma / arciṣmatī ca nāma / sudurjayā ca nāma / abhimukhī ca nāma / dūraṃgamā ca nāma / acalā ca nāma / sādhumatī ca nāma / dharmameghā ca nāma bodhisattvabhūmiḥ / imā bhavanto jinaputrā daśa bodhisattvānāṃ bodhisattvabhūmayaḥ, yā atītānāgatapratyutpannaīrbuddhairbhagavadbhirbhāṣitāśca bhāṣiṣyante ca bhāṣyante ca / nāhaṃ bhavanto jinaputrāstaṃ buddhakṣetraprasaraṃ samanupaśyāmi, yatra tathāgatā imā daśa bodhisattvabhūmīrna prakāśayanti / tatkasya hetoḥ? sāmutkarṣiko 'yaṃ bhavanto jinaputrā bodhisattvānāṃ mahāsattvānāṃ bodhi(sattva)mārgapariśodhanadharmamukhāloko yadidaṃ daśabhūmiprabhedavyavasthānam / acintyamidaṃ bhavanto jinaputrāḥ sthānaṃ yadidaṃ bhūmijñānamiti // atha khalu vajragarbho bodhisattva āsāṃ daśānāṃ bodhisattvabhūmīnāṃ nāmadheyamātraṃ parikīrtya tūṣṇīṃ babhūva, na bhūyaḥ prabhedaśo nirdiśati sma / atha khalu sā sarvāvatī bodhisattvaparṣat paritṛṣitā babhūva āsāṃ daśānāṃ bodhisattvabhūmīnāṃ nāmadheyamātraśravaṇena bhūmivibhāgānudīraṇena ca / tasyā etadabhavat - ko nu khalvatra hetuḥ kaśca pratyayaḥ, yadvajragarbho bodhisattva āsāṃ bodhisattvabhūmīnāṃ nāmadheyamātraṃ parikīrtya tūṣṇīṃbhāvena atināmayati, na bhūyaḥ prabhedaśo nirdiśatīti? tena khalu punaḥ samayena tasminneva bodhisattvaparṣatsaṃnipāte vimukticandro nāma bodhisattvastasyā bodhisattvaparṣadaścittāśayavicāramājñāya vajragarbhaṃ bodhisattvaṃ gāthābhigītena parigṛcchati sma- kimarthaṃ śuddhasaṃkalpasmṛtijñānaguṇānvita / samudīryottamā bhūmīrna prakāśayase vibho

Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.

Sanskrit only: no published translation is held for this verse.

Permanent address: hreem.cc/library/Dasa/1.1

Cite as: Dasabhumikasutram 1.1, in HREEM (hreem.cc/library/Dasa/1.1), after GRETIL, Dasabhumikasutram Based on the edition by P.L.

Edition, numbering and licence

GRETIL 4_rellit/buddh/bsu014_u.htm — Dasabhumikasutram Based on the edition by P.L. Vaidya, Daśabhūmikasūtram. Darbhanga: The Mithila Institute, 1967. Input by members of the Sanskrit Buddhist Input Project. With kind permission of the Digital Sanskrit Buddhist Canon Project of Nagarjuna Institut | NOTE: the file numbers verses only within chapters; chapter numbers were inferred from each restart at 1 — verify against a printed edition before citing formally.

GRETIL (SUB Göttingen), CC BY-NC-SA 4.0 — non-commercial use with attribution; the Companion is kept free while this corpus is held. Devanagari generated mechanically from GRETIL's IAST.

More about this text