अनित्या दोषाश् च ये श्रुति-दुष्टादयः सूचितास् ते ऽपि न वाच्ये अर्थ-मात्रे, न च व्यङ्ग्ये शृङ्गारे वा ध्वनेर् अनात्म-भूते । किं तर्हि ? ध्वन्यात्मन्य् एव शृङ्गारे ऽङ्गितया व्यङ्ग्ये ते हेया इत्य् उदाहृताः । अन्यथा हि तेषाम् अनित्य-दोषतैव न स्यात् । एवम् अयम् असंलक्ष्य-क्रम-द्योतो ध्वनेर् आत्मा प्रदर्शितः सामान्येन
anityā doṣāś ca ye śruti-duṣṭādayaḥ sūcitās te 'pi na vācye artha-mātre, na ca vyaṅgye śṛṅgāre vā dhvaner anātma-bhūte / kiṃ tarhi ? dhvanyātmany eva śṛṅgāre 'ṅgitayā vyaṅgye te heyā ity udāhṛtāḥ / anyathā hi teṣām anitya-doṣataiva na syāt / evam ayam asaṃlakṣya-krama-dyoto dhvaner ātmā pradarśitaḥ sāmānyena
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.