Library·Anandavardhana: Dhvanyaloka [DhvA]·2

Anandavardhana: Dhvanyaloka [DhvA] 2

निरहङ्कार-मृगाङ्का हरन्ति नीला अपि निशाः ॥] अत्र मत्त-निरहङ्कार-शब्दौ

nirahaṅkāra-mṛgāṅkā haranti nīlā api niśāḥ //] atra matta-nirahaṅkāra-śabdau

Sanskrit only: no published translation is held for this verse.

मुख्यतया प्रकाशमानो व्यङ्ग्यो ऽर्थो ध्वनेर् आत्मा । स च वाच्यार्थापेक्षया कश्चिद् अलक्ष्य-क्रमतया प्रकाशते, कश्चित् क्रमेणेति द्विधा मतः

mukhyatayā prakāśamāno vyaṅgyo 'rtho dhvaner ātmā / sa ca vācyārthāpekṣayā kaścid alakṣya-kramatayā prakāśate, kaścit krameṇeti dvidhā mataḥ

Sanskrit only: no published translation is held for this verse.

रस-भावतद्-आभास-तत्-प्रशम-लक्षणं मुख्यम् अर्थम् अनुवर्तमाना शब्दार्थालङ्कारा गुणाश् च परस्परं ध्वन्य्-अपेक्षया विभिन्न-रूपा व्यवस्थितास् तत्र काव्ये ध्वनिर् इति व्यपदेशः

rasa-bhāvatad-ābhāsa-tat-praśama-lakṣaṇaṃ mukhyam artham anuvartamānā śabdārthālaṅkārā guṇāś ca parasparaṃ dhvany-apekṣayā vibhinna-rūpā vyavasthitās tatra kāvye dhvanir iti vyapadeśaḥ

Sanskrit only: no published translation is held for this verse.

इत्य् एवम् आदौ विषये ऽचेतनानां वाक्यार्थी-भावे ऽपि चेतन-वस्तु-वृत्तान्त-योजनास्त्य् एव । अथ यत्र चेतन-वस्तु-वृत्तान्त-योजनास्ति तत्र रसादिर् अलङ्कारः । तद् एवं सत्य् उपमादयो निर्विषयाः प्रविरल-विषया वा स्युः । यस्मान् नास्त्य् एवासाव् अचेतन-वस्तु-वृत्तान्तो यत्र चेतन-वस्तु-वृत्तान्त-योजना नास्त्य् अन्ततो विभावत्वेन । तस्माद् अङ्गत्वेन च रसादीनाम् अलङ्कारता । यः पुनर् अङ्गी रसो भावो वा सर्वाकारम् अलङ्कार्यः स ध्वनेर् आत्मेति

ity evam ādau viṣaye 'cetanānāṃ vākyārthī-bhāve 'pi cetana-vastu-vṛttānta-yojanāsty eva / atha yatra cetana-vastu-vṛttānta-yojanāsti tatra rasādir alaṅkāraḥ / tad evaṃ saty upamādayo nirviṣayāḥ pravirala-viṣayā vā syuḥ / yasmān nāsty evāsāv acetana-vastu-vṛttānto yatra cetana-vastu-vṛttānta-yojanā nāsty antato vibhāvatvena / tasmād aṅgatvena ca rasādīnām alaṅkāratā / yaḥ punar aṅgī raso bhāvo vā sarvākāram alaṅkāryaḥ sa dhvaner ātmeti

Sanskrit only: no published translation is held for this verse.

ये तम् अर्थं रसादि-लक्षणम् अङ्गिनं सन्तम् अवलम्बते ते गुणाः शौर्यादिवत् । वाच्य-वाचक-लक्षणान्य् अङ्गानि ये पुनस् तद्-आश्रितास् ते ऽलङ्कारा मन्तव्याः कटकादिवत्

ye tam arthaṃ rasādi-lakṣaṇam aṅginaṃ santam avalambate te guṇāḥ śauryādivat / vācya-vācaka-lakṣaṇāny aṅgāni ye punas tad-āśritās te 'laṅkārā mantavyāḥ kaṭakādivat

Sanskrit only: no published translation is held for this verse.

शृङ्गार एव रसान्तरापेक्षया मधुरः प्रह्लाद-हेतुत्वात् । तत्-प्रकाशन-पर-शब्दार्थतया काव्यस्य स माधुर्य-लक्षणो गुणः । श्रव्यत्वं पुनर् ओजसो ऽपि साधारणम् इति

śṛṅgāra eva rasāntarāpekṣayā madhuraḥ prahlāda-hetutvāt / tat-prakāśana-para-śabdārthatayā kāvyasya sa mādhurya-lakṣaṇo guṇaḥ / śravyatvaṃ punar ojaso 'pi sādhāraṇam iti

Sanskrit only: no published translation is held for this verse.

विप्रलम्भ-शृङ्गार-करुणयोस् तु माधुर्यम् एव प्रकर्षवत् । सहृदय-हृदयावर्जनातिशय-निमित्तत्वाद् इति

vipralambha-śṛṅgāra-karuṇayos tu mādhuryam eva prakarṣavat / sahṛdaya-hṛdayāvarjanātiśaya-nimittatvād iti

Sanskrit only: no published translation is held for this verse.

रौद्रादयो हि रसाः परां दीप्तिम् उज्ज्वलतां जनयन्तीति लक्षणया त एव दीप्तिर् इत्य् उच्यते । तत्-प्रकाशन-परः शब्दो दीर्घ-समास-रचनालङ्कृतं वाक्यम् । यथा- चञ्चद्-भुज-भ्रमित-चण्ड-गदाभिघात- सञ्चूर्णितोरु-युगलस्य सुयोधनस्य । स्त्यानावबद्ध-घन-शोणित-शोण-पाणिर् उत्तंसयिष्यति कचांस् तव देवि भीमः ॥(वेणि १।२१) तत्-प्रकाशन-परश् चार्थो ऽनपेक्षित-दीर्घ-समास-रचनः प्रसन्न-वाचकाभिधेयः । यथा- यो यः शस्त्रं बिभर्ति स्व-भुज-गुरु-मदः पाण्डवीनां चमूनां यो यः पाञ्चाल-गोत्रे शिशुर् अधिक-वया गर्भ-शय्यां गतो वा । यो यस् तत्-कर्म-साक्षी चरति मयि रणे यश् च यश् च प्रतीपः क्रोधान्धस् तस्य तस्य स्वयम् अपि जगताम् अन्तकस्यान्तको ऽहम् ॥(वेणि ३।३२) इत्य् आदौ द्वयोर् ओजस्त्वम्

raudrādayo hi rasāḥ parāṃ dīptim ujjvalatāṃ janayantīti lakṣaṇayā ta eva dīptir ity ucyate / tat-prakāśana-paraḥ śabdo dīrgha-samāsa-racanālaṅkṛtaṃ vākyam / yathā- cañcad-bhuja-bhramita-caṇḍa-gadābhighāta- sañcūrṇitoru-yugalasya suyodhanasya / styānāvabaddha-ghana-śoṇita-śoṇa-pāṇir uttaṃsayiṣyati kacāṃs tava devi bhīmaḥ //(veṇi 1.21) tat-prakāśana-paraś cārtho 'napekṣita-dīrgha-samāsa-racanaḥ prasanna-vācakābhidheyaḥ / yathā- yo yaḥ śastraṃ bibharti sva-bhuja-guru-madaḥ pāṇḍavīnāṃ camūnāṃ yo yaḥ pāñcāla-gotre śiśur adhika-vayā garbha-śayyāṃ gato vā / yo yas tat-karma-sākṣī carati mayi raṇe yaś ca yaś ca pratīpaḥ krodhāndhas tasya tasya svayam api jagatām antakasyāntako 'ham //(veṇi 3.32) ity ādau dvayor ojastvam

Sanskrit only: no published translation is held for this verse.

प्रसादस् तु स्वच्छता शब्दार्थयोः । स च सर्व-रस-साधारणो गुणः सर्व-रचना-साधारणश् च व्यङ्ग्यार्थापेक्षयैव मुख्यतया व्यवस्थितो मन्तव्यः

prasādas tu svacchatā śabdārthayoḥ / sa ca sarva-rasa-sādhāraṇo guṇaḥ sarva-racanā-sādhāraṇaś ca vyaṅgyārthāpekṣayaiva mukhyatayā vyavasthito mantavyaḥ

Sanskrit only: no published translation is held for this verse.

अनित्या दोषाश् च ये श्रुति-दुष्टादयः सूचितास् ते ऽपि न वाच्ये अर्थ-मात्रे, न च व्यङ्ग्ये शृङ्गारे वा ध्वनेर् अनात्म-भूते । किं तर्हि ? ध्वन्यात्मन्य् एव शृङ्गारे ऽङ्गितया व्यङ्ग्ये ते हेया इत्य् उदाहृताः । अन्यथा हि तेषाम् अनित्य-दोषतैव न स्यात् । एवम् अयम् असंलक्ष्य-क्रम-द्योतो ध्वनेर् आत्मा प्रदर्शितः सामान्येन

anityā doṣāś ca ye śruti-duṣṭādayaḥ sūcitās te 'pi na vācye artha-mātre, na ca vyaṅgye śṛṅgāre vā dhvaner anātma-bhūte / kiṃ tarhi ? dhvanyātmany eva śṛṅgāre 'ṅgitayā vyaṅgye te heyā ity udāhṛtāḥ / anyathā hi teṣām anitya-doṣataiva na syāt / evam ayam asaṃlakṣya-krama-dyoto dhvaner ātmā pradarśitaḥ sāmānyena

Sanskrit only: no published translation is held for this verse.

अङ्गितया व्यङ्ग्यो रसादिर् विवक्षितान्य् अपर-वाच्यस्य ध्वनेर् एक आत्मा य उक्तस् तस्याङ्गानां वाच्य वाचकानुपातिनाम् अलङ्काराणां ये प्रभेदा निरवधयो ये च स्वगतास् तस्याङ्गिनो ऽर्थस्य रस-भाव-तद्-आभास-तत्-प्रशम-लक्षणा विभावानुभाव-व्यभिचारि-प्रतिपादन-सहिता अनन्ताः स्वाश्रयापेक्षया निःसीमानो विशेषास् तेषाम् अन्योन्य-सम्बन्ध-परिकल्पने क्रियमाणे कस्यचिद् अन्यतमस्यापि रसस्य प्रकाराः परिसङ्ख्यातुं न शक्यन्ते किम् उत सर्वेषाम् । तथा हि शृङ्गारस्याङ्गिनस् तावद् आद्यौ द्वौ भेदौ-सम्भोगो विप्रलम्भश् च । सम्भोगस्य च परस्पर-प्रेम-दर्शन-सुरत-विहरणादि-लक्षणाः प्रकाराः । विप्रलम्भस्याप्य् अभिलाषेर्ष्या-विरह-प्रवास-विप्रलम्भादयः । तेषां च प्रत्येकं विभावानुभाव-व्यभिचारि-भेदः । तेषां च देश-कालाद्य्-आश्रयावस्था-भेद इति स्वगत-भेदापेक्षयैकस्य तस्यापरिमेयत्वं, किं पुनर् अङ्ग-प्रभेद-कल्पनायाम् । ते ह्य् अङ्ग-प्रभेदाः प्रत्येकम् अङ्गि-प्रभेद-सम्बन्ध-परिकल्पने क्रियमाणे सत्यानन्त्यम् एवोपयान्ति

aṅgitayā vyaṅgyo rasādir vivakṣitāny apara-vācyasya dhvaner eka ātmā ya uktas tasyāṅgānāṃ vācya vācakānupātinām alaṅkārāṇāṃ ye prabhedā niravadhayo ye ca svagatās tasyāṅgino 'rthasya rasa-bhāva-tad-ābhāsa-tat-praśama-lakṣaṇā vibhāvānubhāva-vyabhicāri-pratipādana-sahitā anantāḥ svāśrayāpekṣayā niḥsīmāno viśeṣās teṣām anyonya-sambandha-parikalpane kriyamāṇe kasyacid anyatamasyāpi rasasya prakārāḥ parisaṅkhyātuṃ na śakyante kim uta sarveṣām / tathā hi śṛṅgārasyāṅginas tāvad ādyau dvau bhedau-sambhogo vipralambhaś ca / sambhogasya ca paraspara-prema-darśana-surata-viharaṇādi-lakṣaṇāḥ prakārāḥ / vipralambhasyāpy abhilāṣerṣyā-viraha-pravāsa-vipralambhādayaḥ / teṣāṃ ca pratyekaṃ vibhāvānubhāva-vyabhicāri-bhedaḥ / teṣāṃ ca deśa-kālādy-āśrayāvasthā-bheda iti svagata-bhedāpekṣayaikasya tasyāparimeyatvaṃ, kiṃ punar aṅga-prabheda-kalpanāyām / te hy aṅga-prabhedāḥ pratyekam aṅgi-prabheda-sambandha-parikalpane kriyamāṇe satyānantyam evopayānti

Sanskrit only: no published translation is held for this verse.

ध्वनेर् आत्म-भूतः शृङ्गारस् तात्पर्येण वाच्य-वाचकाभ्यां प्रकाश्यमानस् तस्मिन् यमकादीनां यमक-प्रकाराणां निबन्धनं दुष्कर-शब्द-भङ्ग-श्लेषादीनां शक्ताव् अपि प्रमादित्वं । "प्रमादित्वम्" इत्य् अनेनैतद् दर्श्यते-काक-तालीयेन कदाचित् कस्यचिद् एकस्य यमकादेर् निष्पत्ताव् अपि भूम्नालङ्कारान्तरवद् रसाङ्गत्वेन निबन्धो न कर्तव्य इति । "विप्रलम्भे विशेषत" इत्य् अनेन विप्रलम्भे सौकुमार्यातिशयः ख्याप्यते । तस्मिन् द्योत्ये यमकादेर् अङ्गस्य निबन्धो नियमान् न कर्तव्य इति

dhvaner ātma-bhūtaḥ śṛṅgāras tātparyeṇa vācya-vācakābhyāṃ prakāśyamānas tasmin yamakādīnāṃ yamaka-prakārāṇāṃ nibandhanaṃ duṣkara-śabda-bhaṅga-śleṣādīnāṃ śaktāv api pramāditvaṃ / "pramāditvam" ity anenaitad darśyate-kāka-tālīyena kadācit kasyacid ekasya yamakāder niṣpattāv api bhūmnālaṅkārāntaravad rasāṅgatvena nibandho na kartavya iti / "vipralambhe viśeṣata" ity anena vipralambhe saukumāryātiśayaḥ khyāpyate / tasmin dyotye yamakāder aṅgasya nibandho niyamān na kartavya iti

Sanskrit only: no published translation is held for this verse.

रसाङ्गत्वे च तस्य लक्षणम् अपृथग्-यत्न-निर्वर्त्यत्वम् इति यो रसं बन्धु-मध्य-वसितस्य कवेर् अलङ्कारस् तां वासनाम् अत्यूह्य यत्नान्तरम् आस्थितस्य निष्पद्यते स न रसाङ्गम् इति । यमके च प्रबन्धेन बुद्धि-पूर्वकं क्रियमाणे नियमेनैव यत्नान्तर-परिग्रह आपतति शब्द-विशेषान्वेषण-रूपः । अलङ्कारान्तरेष्व् अपि तत्-तुल्यम् इति चेत्-नैवम्; अलङ्कारान्तराणि हि निरूप्यमाण-दुर्घटनान्य् अपि रस-समाहित-चेतसः प्रतिभानवतः कवेर् अहम्-पूर्विकया परापतन्ति । यथा कादम्बर्यां कादम्बरी-दर्शनावसरे । यथा च माया-राम-शिरो-दर्शनेन विह्वलायां सीत-देव्यां सेतौ । युक्तं चैतत्, यतो रसा वाच्य-विशेषैर् एवाक्षेप्तव्याः । अस्यैवार्थस्य सङ्ग्रह-श्लोकाः- रसवन्ति हि वस्तूनि सालङ्काराणि कानिचित् । एकेनैव प्रयत्नेन निर्वर्त्यन्ते महा-कवेः ॥ यमकादि-निबन्धे तु पृथग्-यत्नो ऽस्य जायते । शक्तस्यापि रसे ऽङ्गत्वं तस्माद् एषां न विद्यते ॥ रसाभासाङ्ग-भावस् तु यमकादेर् न वार्यते । ध्वन्य्-आत्म-भूते शृङ्गारे त्व् अङ्गता नोपपद्यते

rasāṅgatve ca tasya lakṣaṇam apṛthag-yatna-nirvartyatvam iti yo rasaṃ bandhu-madhya-vasitasya kaver alaṅkāras tāṃ vāsanām atyūhya yatnāntaram āsthitasya niṣpadyate sa na rasāṅgam iti / yamake ca prabandhena buddhi-pūrvakaṃ kriyamāṇe niyamenaiva yatnāntara-parigraha āpatati śabda-viśeṣānveṣaṇa-rūpaḥ / alaṅkārāntareṣv api tat-tulyam iti cet-naivam; alaṅkārāntarāṇi hi nirūpyamāṇa-durghaṭanāny api rasa-samāhita-cetasaḥ pratibhānavataḥ kaver aham-pūrvikayā parāpatanti / yathā kādambaryāṃ kādambarī-darśanāvasare / yathā ca māyā-rāma-śiro-darśanena vihvalāyāṃ sīta-devyāṃ setau / yuktaṃ caitat, yato rasā vācya-viśeṣair evākṣeptavyāḥ / asyaivārthasya saṅgraha-ślokāḥ- rasavanti hi vastūni sālaṅkārāṇi kānicit / ekenaiva prayatnena nirvartyante mahā-kaveḥ // yamakādi-nibandhe tu pṛthag-yatno 'sya jāyate / śaktasyāpi rase 'ṅgatvaṃ tasmād eṣāṃ na vidyate // rasābhāsāṅga-bhāvas tu yamakāder na vāryate / dhvany-ātma-bhūte śṛṅgāre tv aṅgatā nopapadyate

Sanskrit only: no published translation is held for this verse.

अलङ्कारो हि बाह्यालङ्कारसाम्यादङ्गिनश्चारुत्व-हेतुरुच्यते । वाच्यालङ्कारवर्गश् च रूपकादिर्यावानुक्तो वक्ष्यते च कैश्चित्, अलङ्काराणामनन्तत्वात् ॥। स सर्वो ऽपि यदि समीक्ष्य विनिवेश्यते तद-लक्ष्यक्रमव्यङ्ग्यस्य ध्वनेर् अङ्गिनः सर्वस्यैव चारुत्वहेतुर्निष्पद्यते

alaṅkāro hi bāhyālaṅkārasāmyādaṅginaścārutva-heturucyate / vācyālaṅkāravargaś ca rūpakādiryāvānukto vakṣyate ca kaiścit, alaṅkārāṇāmanantatvāt /// sa sarvo 'pi yadi samīkṣya viniveśyate tada-lakṣyakramavyaṅgyasya dhvaner aṅginaḥ sarvasyaiva cārutvaheturniṣpadyate

Sanskrit only: no published translation is held for this verse.

रस-निर्वहणैक-तान-हृदयो यं च नात्यन्तं निर्वोढुम् इच्छति । यथा- कोपात् कोमल-लोल-बाहु-लतिका-पाशेन बद्धा दृढं नीत्वा वास-निकेतनं दयितया सायं सखीनां पुरः । भूयो नैवम् इति स्खलत्-कल-गिरा संसूच्य दुश्चेष्टितं धन्यो हन्यत एव निह्नुति-परः प्रेयान् रुदत्या हसन् ॥ अत्र हि रूपकम् आक्षिप्तम् अनिर्व्यूढं च परं रस-पुष्टये । निर्वोढुम् इष्टम् अपि यं यत्नाद् अङ्गत्वेन प्रत्यवेक्षते यथा- श्यामास्वङ्गं चकित-हरिणी-प्रेक्षणे दृष्टि-पातं गण्ड-च्छायां शशिनि शिखिनां बर्ह-भारेषु केशान् । उत्पश्यामि प्रतनुषु नदी-वीचिषु भ्रू-विलासान् हन्तैक-स्थं क्वचिद् अपि न ते भीरु सादृश्यम् अस्ति ॥इत्य् आदौ । स एवम् उपनिबध्यमानो ऽलङ्कारो रसाभिव्यक्ति-हेतुः कवेर् भवति । उक्त-प्रकारातिक्रमे तु नियमेनैव रस-भङ्ग-हेतुः संपद्यते । लक्ष्यं च तथाविधं महा-कवि-प्रबन्धेष्व् अपि दृश्यते बहुशः । तत् तु सूक्ति-सहस्र-द्योतितात्मनां महात्मनां दोषोद्घोषणम् आत्मन एव दूषणं भवतीति न विभज्य दर्शितम् । किं तु रूपकादेर् अलङ्कार-वर्गस्य येयं व्यञ्जकत्वे रसादि-विषये लक्षण-दिग्-दर्शिता ताम् अनुसरन् स्वयं चान्यल् लक्षणम् उत्प्रेक्षमाणो यद्य् अलक्ष्य-क्रम-प्रतिभम् अनन्तरोक्तम् एनं ध्वनेर् आत्मानम् उपनिबध्नाति सुकविः समाहित-चेतास् तदा तस्यात्म-लाभो भवति महीयान् इति

rasa-nirvahaṇaika-tāna-hṛdayo yaṃ ca nātyantaṃ nirvoḍhum icchati / yathā- kopāt komala-lola-bāhu-latikā-pāśena baddhā dṛḍhaṃ nītvā vāsa-niketanaṃ dayitayā sāyaṃ sakhīnāṃ puraḥ / bhūyo naivam iti skhalat-kala-girā saṃsūcya duśceṣṭitaṃ dhanyo hanyata eva nihnuti-paraḥ preyān rudatyā hasan // atra hi rūpakam ākṣiptam anirvyūḍhaṃ ca paraṃ rasa-puṣṭaye / nirvoḍhum iṣṭam api yaṃ yatnād aṅgatvena pratyavekṣate yathā- śyāmāsvaṅgaṃ cakita-hariṇī-prekṣaṇe dṛṣṭi-pātaṃ gaṇḍa-cchāyāṃ śaśini śikhināṃ barha-bhāreṣu keśān / utpaśyāmi pratanuṣu nadī-vīciṣu bhrū-vilāsān hantaika-sthaṃ kvacid api na te bhīru sādṛśyam asti //ity ādau / sa evam upanibadhyamāno 'laṅkāro rasābhivyakti-hetuḥ kaver bhavati / ukta-prakārātikrame tu niyamenaiva rasa-bhaṅga-hetuḥ saṃpadyate / lakṣyaṃ ca tathāvidhaṃ mahā-kavi-prabandheṣv api dṛśyate bahuśaḥ / tat tu sūkti-sahasra-dyotitātmanāṃ mahātmanāṃ doṣodghoṣaṇam ātmana eva dūṣaṇaṃ bhavatīti na vibhajya darśitam / kiṃ tu rūpakāder alaṅkāra-vargasya yeyaṃ vyañjakatve rasādi-viṣaye lakṣaṇa-dig-darśitā tām anusaran svayaṃ cānyal lakṣaṇam utprekṣamāṇo yady alakṣya-krama-pratibham anantaroktam enaṃ dhvaner ātmānam upanibadhnāti sukaviḥ samāhita-cetās tadā tasyātma-lābho bhavati mahīyān iti

Sanskrit only: no published translation is held for this verse.

अस्य विवक्षितान्य् अपर-वाच्यस्य ध्वनेः संलक्ष्य-क्रम-व्यङ्ग्यत्वाद् अनुरणन-प्रख्यो य आत्मा सो ऽपि शब्द-शक्ति-मूलो ऽर्थ-शक्ति-मूलश् चेति द्वि-प्रकारः

asya vivakṣitāny apara-vācyasya dhvaneḥ saṃlakṣya-krama-vyaṅgyatvād anuraṇana-prakhyo ya ātmā so 'pi śabda-śakti-mūlo 'rtha-śakti-mūlaś ceti dvi-prakāraḥ

Sanskrit only: no published translation is held for this verse.

यत्रार्थः स्व-सामर्थ्याद् अर्थान्तरम् अभिव्यनक्ति शब्द-व्यापारं विनैव सो ऽर्थ-शक्त्य्-उद्भवो नामानुस्वानोपम-व्यङ्ग्यो ध्वनिः । यथा [कुसं। ६।८४]- एवं वादिनि देवर्षौ पार्श्वे पितुर् अधोमुखी । लीला-कमल-पत्राणि गणयामास पार्वती ॥ अत्र हि लीला-कमल-पत्र-गणनम् उपसर्जनीकृत-स्वरूपं शब्द-व्यापारं विनैवार्थान्तरं व्यभिचारि-भाव-लक्षणं प्रकाशयति । न चायम् अलक्ष्य-क्रम-व्यङ्ग्यस्यैव ध्वनेर् विषयः । यतो यत्र साक्षच्-छब्द-निवेदितेभ्यो विभावानुभाव-व्यभिचारिभ्यो रसादीनां प्रतीतिः, स तस्य केवलस्य मार्गः । यथा कुमार-सम्भवे मधु-प्रसङ्गे वसन्त-पुष्पाभरणं वहन्त्या देव्या आगमनादि-वर्णनं मनोभव-शर-सन्धान-पर्यन्तं शम्भोश् च परिवृत्त-धैर्यस्य चेष्टा-विशेष-वर्णनादि साक्षच्-छब्द-निवेदितम् । तस्माद् अयम् अन्यो ध्वनेः प्रकारः । यत्र च शब्द-व्यापार-सहायो ऽर्थो ऽर्थान्तरस्य व्यञ्जकत्वेनोपादीयते स नास्य ध्वनेर् विषयः । यथा- सङ्केत-काल-मनसं विटं ज्ञात्वा विदग्धया । हसन्-नेत्रार्पिताकूतं लीला-पद्मं निमीलितम् ॥ अत्र लीला-कमल-निमीलनस्य व्यञ्जकत्वम् उक्त्यैव निवेदितम्

yatrārthaḥ sva-sāmarthyād arthāntaram abhivyanakti śabda-vyāpāraṃ vinaiva so 'rtha-śakty-udbhavo nāmānusvānopama-vyaṅgyo dhvaniḥ / yathā [ku.saṃ. 6.84]- evaṃ vādini devarṣau pārśve pitur adhomukhī / līlā-kamala-patrāṇi gaṇayāmāsa pārvatī // atra hi līlā-kamala-patra-gaṇanam upasarjanīkṛta-svarūpaṃ śabda-vyāpāraṃ vinaivārthāntaraṃ vyabhicāri-bhāva-lakṣaṇaṃ prakāśayati / na cāyam alakṣya-krama-vyaṅgyasyaiva dhvaner viṣayaḥ / yato yatra sākṣac-chabda-niveditebhyo vibhāvānubhāva-vyabhicāribhyo rasādīnāṃ pratītiḥ, sa tasya kevalasya mārgaḥ / yathā kumāra-sambhave madhu-prasaṅge vasanta-puṣpābharaṇaṃ vahantyā devyā āgamanādi-varṇanaṃ manobhava-śara-sandhāna-paryantaṃ śambhoś ca parivṛtta-dhairyasya ceṣṭā-viśeṣa-varṇanādi sākṣac-chabda-niveditam / tasmād ayam anyo dhvaneḥ prakāraḥ / yatra ca śabda-vyāpāra-sahāyo 'rtho 'rthāntarasya vyañjakatvenopādīyate sa nāsya dhvaner viṣayaḥ / yathā- saṅketa-kāla-manasaṃ viṭaṃ jñātvā vidagdhayā / hasan-netrārpitākūtaṃ līlā-padmaṃ nimīlitam // atra līlā-kamala-nimīlanasya vyañjakatvam uktyaiva niveditam

Sanskrit only: no published translation is held for this verse.

शब्द-शक्त्यार्थ-शक्त्या शब्दार्थ-शक्त्या वाक्षिप्तो ऽपि व्यङ्ग्यो ऽर्थः कविना पुनर्यत्र स्वोक्त्या प्रकाशी-क्रियते सो ऽस्माद् अनुस्वानोपम-व्यङ्ग्याद् ध्वनेर् अन्य एवालङ्कारः । अलक्ष्य-क्रम-व्यङ्ग्यस्य वा ध्वनेः सति सम्भवे स तादृग् अन्यो ऽलङ्कारः । तत्र शब्द-शक्त्या यथा- वत्से मा गा विषादं श्वसनम् उरुजवं सन्त्यजोर्ध्व-प्रवृत्तं कम्पः को वा गुरुस् ते भवतु बलभिदा जृम्भितेनात्र याहि । प्रत्याख्यानं सुराणाम् इति भय-शमन-च्छद्मना कारयित्वा यस्मै लक्ष्मी-मदाद् वः स दहतु दुरितं मन्थ-मूढां पयोधिः ॥ अर्थ-शक्त्या यथा- अम्बा शेते ऽत्र वृद्धा परिणत-वयसाम् अग्रणीर् अत्र तातो निःशेषागार-कर्म-श्रम-शिथिल-तनुः कुम्भ-दासी तथात्र । अस्मिन् पापाहम् एका कतिपय-दिवस-प्रोषित-प्राणनाथा पान्थायेत्थं तरुण्या कथितम् अवसर-व्याहृति-व्याज-पूर्वम् ॥ उभय-शक्त्या, यथा-"दृष्ट्या केशव-गोप-राग-हृतया" इत्य् आदौ

śabda-śaktyārtha-śaktyā śabdārtha-śaktyā vākṣipto 'pi vyaṅgyo 'rthaḥ kavinā punaryatra svoktyā prakāśī-kriyate so 'smād anusvānopama-vyaṅgyād dhvaner anya evālaṅkāraḥ / alakṣya-krama-vyaṅgyasya vā dhvaneḥ sati sambhave sa tādṛg anyo 'laṅkāraḥ / tatra śabda-śaktyā yathā- vatse mā gā viṣādaṃ śvasanam urujavaṃ santyajordhva-pravṛttaṃ kampaḥ ko vā gurus te bhavatu balabhidā jṛmbhitenātra yāhi / pratyākhyānaṃ surāṇām iti bhaya-śamana-cchadmanā kārayitvā yasmai lakṣmī-madād vaḥ sa dahatu duritaṃ mantha-mūḍhāṃ payodhiḥ // artha-śaktyā yathā- ambā śete 'tra vṛddhā pariṇata-vayasām agraṇīr atra tāto niḥśeṣāgāra-karma-śrama-śithila-tanuḥ kumbha-dāsī tathātra / asmin pāpāham ekā katipaya-divasa-proṣita-prāṇanāthā pānthāyetthaṃ taruṇyā kathitam avasara-vyāhṛti-vyāja-pūrvam // ubhaya-śaktyā, yathā-"dṛṣṭyā keśava-gopa-rāga-hṛtayā" ity ādau

Sanskrit only: no published translation is held for this verse.

अर्पयति युवति-जन-लक्ष्य-सहान् । अभिनव-सहकार-मुखान् नव-पत्रलान् अनङ्गस्य शरान् ॥) कवि-निबद्ध-वक्तृ-प्रौढोक्ति-मात्र-निष्पन्न-शरीरो यथोदाहृतम् एव-"शिखरिणि" इत्य् आदि । यथा वा- सादर-वितीर्ण-यौवन-हस्तालम्बं समुन्नमद्भ्याम् । अभ्युत्थानम् इव मन्मथस्य दत्तं तव स्तनाभ्याम् ॥ स्वतः सम्भवी य औचित्येन बहिर् अपि सम्भाव्यमान-सद्-भावो न केवलं भणिति-वशेनैवाभिनिष्पन्न-शरीरः । यथोदाहृतम् "एवं-वादिनि" इत्य् आदि । यथा वा- शिखि-पिच्छ-कर्ण-पूरा जाया व्याधस्य गर्विणी भ्रमति । मुक्ता-फल-रचित-प्रसाधनानां मध्ये सपत्नीनाम्

arpayati yuvati-jana-lakṣya-sahān / abhinava-sahakāra-mukhān nava-patralān anaṅgasya śarān //) kavi-nibaddha-vaktṛ-prauḍhokti-mātra-niṣpanna-śarīro yathodāhṛtam eva-"śikhariṇi" ity ādi / yathā vā- sādara-vitīrṇa-yauvana-hastālambaṃ samunnamadbhyām / abhyutthānam iva manmathasya dattaṃ tava stanābhyām // svataḥ sambhavī ya aucityena bahir api sambhāvyamāna-sad-bhāvo na kevalaṃ bhaṇiti-vaśenaivābhiniṣpanna-śarīraḥ / yathodāhṛtam "evaṃ-vādini" ity ādi / yathā vā- śikhi-piccha-karṇa-pūrā jāyā vyādhasya garviṇī bhramati / muktā-phala-racita-prasādhanānāṃ madhye sapatnīnām

Sanskrit only: no published translation is held for this verse.

वाच्यालङ्कार-व्यतिरिक्तो यत्रान्यो ऽलङ्कारो ऽर्थ-सामर्थ्यात् प्रतीयमानो ऽवभासते सो ऽर्थ-शक्त्य्-उद्भवो नामानुस्वान-रूप-व्यङ्ग्यो ऽन्यो ध्वनिः

vācyālaṅkāra-vyatirikto yatrānyo 'laṅkāro 'rtha-sāmarthyāt pratīyamāno 'vabhāsate so 'rtha-śakty-udbhavo nāmānusvāna-rūpa-vyaṅgyo 'nyo dhvaniḥ

Sanskrit only: no published translation is held for this verse.

अन्यत्र वाच्यत्वेन प्रसिद्धो यो रूपकादिर् अलङ्कारः सो ऽन्यत्र प्रतीयमानतया बाहुल्येन प्रदर्शितस् तत्रभवद्भिर् भट्टोद्भटादिभिः । तथा च स-सन्देहादिषूपमा-रूपकातिशयोक्तीनां प्रकाशमानत्वं प्रदर्शितम् इत्य् अलङ्कारान्तरस्यालङ्कारान्तरे व्यङ्ग्यत्वं न यत्न-प्रतिपाद्यम्

anyatra vācyatvena prasiddho yo rūpakādir alaṅkāraḥ so 'nyatra pratīyamānatayā bāhulyena pradarśitas tatrabhavadbhir bhaṭṭodbhaṭādibhiḥ / tathā ca sa-sandehādiṣūpamā-rūpakātiśayoktīnāṃ prakāśamānatvaṃ pradarśitam ity alaṅkārāntarasyālaṅkārāntare vyaṅgyatvaṃ na yatna-pratipādyam

Sanskrit only: no published translation is held for this verse.

मा मानुषे लोके त्यागैक-रसो दरिद्रश् च ॥] अत्र हि त्यागैक-रसस्य दरिद्रस्य जन्मानभिनन्दनं त्रुटित-पत्र-कुब्ज-पादप-जन्माभिनन्दनं च साक्षाच्-छब्द-वाच्यम् । तथाविधाद् अपि पादपात् तादृशस्य पुंस उपमानोपमेयत्व-प्रतीति-पूर्वकं शोच्यतायाम् आधिक्यं तात्पर्येण प्रकाशयति । उत्प्रेक्षा-ध्वनिर् यथा- चन्दनासक्त-भुजग-निःश्वासानिल-मूर्च्छितः । मूर्च्छयत्य् एष पथिकान् मधौ मलय-मारुतः ॥ अत्र हि मधौ मलय-मारुतस्य पथिक-मूर्च्छाकारित्वं मन्मथोन्माथ-दायित्वेनैव । तत् तु चन्दनासक्त-भुजग-निःश्वासानिल-मूर्च्छितत्वेनोत्प्रेक्षितम् इत्य् उत्प्रेक्षा साक्षाद् अनुक्तापि वाक्यार्थ-सामर्थ्याद् अनुरणन-रूपा लक्ष्यते । न चैवं-विधे विषये इवादि-शब्द-प्रयोगम् अन्तरेणासंबद्धतैवेति शक्यते वक्तुम् । गमकत्वाद् अन्यत्रापि तद्-अप्रयोगे तद्-अर्थावगति-दर्शनात् । यथा- ईसा-कलुसस्स बि तुह मुहस्स णं एस पुण्णिमा-चन्दो । अज्ज सरिसत्तणं पाबिऊण अङ्गे बिअ ण माइ ॥ ईर्ष्या-कलुषस्यापि तव मुखस्य नन्व् एष पूर्णिमा-चन्द्रः । अद्य सदृशत्वं प्राप्याङ्ग एव न माति ॥ यथा वा- त्रासाकुलः परिपतन् परितो निकेतान् पुंभिर् न कैश्चिद् अपि धन्विभिर् अन्वबन्धि । तस्थौ तथापि न मृगः क्वचिद् अङ्ग-नाभिर् आकर्ण-पूर्ण-नयनेषु-हतेक्षण-श्रीः ॥ शब्दार्थ-व्यवहारे च प्रसिद्धिर् एव प्रमाणम् । श्लेष-ध्वनिर् यथा- रम्या इति प्राप्तवतीः पताकाः रागं विविक्ता इति वर्धयन्तीः । यस्याम् असेवन्त नमद्-वलीकाः समं वधूभिर् वलभीर् युवानः ॥ अत्र वधूभिः सह वलभीरसेवन्तेति वाक्यार्थ-प्रतीतेर् अनन्तरं वध्व इव वलभ्य इति श्लेष-प्रतीतिर् अशब्दाप्य् अर्थ-सामर्थ्यान् मुख्यत्वेन वर्तते । यथा-सङ्ख्य-ध्वनिर् यथा- अङ्कुरितः पल्लवितः कोरकितः पुष्पितश् च सहकारः । अङ्कुरितः पल्लवितः कोरकितः पुष्पितश् च हृदि मदनः ॥ अत्र हि यथोद्देशम् अनूद्देशे यच् चारुत्वम् अनुरणन-रूपं मदन-विशेषण-भूताङ्कुरितादि-शब्द-गतं तन्-मदन-सहकारयोस् तुल्य-योगिता-समुच्चय-लक्षणाद् वाच्याद् अतिरिच्यमानम् आलक्ष्यते । एवम् अन्ये ऽप्य् अलङ्कारा यथायोगं योजनीयाः

mā mānuṣe loke tyāgaika-raso daridraś ca //] atra hi tyāgaika-rasasya daridrasya janmānabhinandanaṃ truṭita-patra-kubja-pādapa-janmābhinandanaṃ ca sākṣāc-chabda-vācyam / tathāvidhād api pādapāt tādṛśasya puṃsa upamānopameyatva-pratīti-pūrvakaṃ śocyatāyām ādhikyaṃ tātparyeṇa prakāśayati / utprekṣā-dhvanir yathā- candanāsakta-bhujaga-niḥśvāsānila-mūrcchitaḥ / mūrcchayaty eṣa pathikān madhau malaya-mārutaḥ // atra hi madhau malaya-mārutasya pathika-mūrcchākāritvaṃ manmathonmātha-dāyitvenaiva / tat tu candanāsakta-bhujaga-niḥśvāsānila-mūrcchitatvenotprekṣitam ity utprekṣā sākṣād anuktāpi vākyārtha-sāmarthyād anuraṇana-rūpā lakṣyate / na caivaṃ-vidhe viṣaye ivādi-śabda-prayogam antareṇāsaṃbaddhataiveti śakyate vaktum / gamakatvād anyatrāpi tad-aprayoge tad-arthāvagati-darśanāt / yathā- īsā-kalusassa bi tuha muhassa ṇaṃ esa puṇṇimā-cando / ajja sarisattaṇaṃ pābiūṇa aṅge bia ṇa māi // īrṣyā-kaluṣasyāpi tava mukhasya nanv eṣa pūrṇimā-candraḥ / adya sadṛśatvaṃ prāpyāṅga eva na māti // yathā vā- trāsākulaḥ paripatan parito niketān puṃbhir na kaiścid api dhanvibhir anvabandhi / tasthau tathāpi na mṛgaḥ kvacid aṅga-nābhir ākarṇa-pūrṇa-nayaneṣu-hatekṣaṇa-śrīḥ // śabdārtha-vyavahāre ca prasiddhir eva pramāṇam / śleṣa-dhvanir yathā- ramyā iti prāptavatīḥ patākāḥ rāgaṃ viviktā iti vardhayantīḥ / yasyām asevanta namad-valīkāḥ samaṃ vadhūbhir valabhīr yuvānaḥ // atra vadhūbhiḥ saha valabhīrasevanteti vākyārtha-pratīter anantaraṃ vadhva iva valabhya iti śleṣa-pratītir aśabdāpy artha-sāmarthyān mukhyatvena vartate / yathā-saṅkhya-dhvanir yathā- aṅkuritaḥ pallavitaḥ korakitaḥ puṣpitaś ca sahakāraḥ / aṅkuritaḥ pallavitaḥ korakitaḥ puṣpitaś ca hṛdi madanaḥ // atra hi yathoddeśam anūddeśe yac cārutvam anuraṇana-rūpaṃ madana-viśeṣaṇa-bhūtāṅkuritādi-śabda-gataṃ tan-madana-sahakārayos tulya-yogitā-samuccaya-lakṣaṇād vācyād atiricyamānam ālakṣyate / evam anye 'py alaṅkārā yathāyogaṃ yojanīyāḥ

Sanskrit only: no published translation is held for this verse.

ध्वन्य्-अङ्गता चोभाभ्यां प्रकाराभ्यां व्यञ्जकत्वेन व्यङ्ग्यत्वेन च । तत्रेह प्रकरणाद् व्यङ्ग्यत्वेनेत्य् अवगन्तव्यम् । व्यङ्ग्यत्वे ऽप्य् अलङ्काराणां प्राधान्य-विवक्षायाम् एव सत्यां ध्वनाव् अन्तः-पातः । इतरथा तु गुणीभूत-व्यङ्ग्यत्वं प्रतिपादयिष्यते

dhvany-aṅgatā cobhābhyāṃ prakārābhyāṃ vyañjakatvena vyaṅgyatvena ca / tatreha prakaraṇād vyaṅgyatvenety avagantavyam / vyaṅgyatve 'py alaṅkārāṇāṃ prādhānya-vivakṣāyām eva satyāṃ dhvanāv antaḥ-pātaḥ / itarathā tu guṇībhūta-vyaṅgyatvaṃ pratipādayiṣyate

Sanskrit only: no published translation is held for this verse.

यस्मात् तत्र तथाविध-व्यङ्ग्यालङ्कार-परत्वेनैव काव्यं प्रवृत्तम् । अन्यथा तु तद्-वाक्य-मात्रम् एव स्यात्

yasmāt tatra tathāvidha-vyaṅgyālaṅkāra-paratvenaiva kāvyaṃ pravṛttam / anyathā tu tad-vākya-mātram eva syāt

Sanskrit only: no published translation is held for this verse.

उक्तं ह्य् एतत्-"चारुत्वोत्कर्ष-निबन्धना वाच्य-व्यङ्ग्ययोः प्राधान्य-विवक्षा" इति । वस्तु मात्र-व्यङ्ग्यत्वे चालङ्काराणाम् अनन्तरोपदर्शितेभ्य एवोदाहरणेभ्यो विषय उन्नेयः । तद् एवम् अर्थ-मात्रेणालङ्कार-विशेष-रूपेण वार्थेनार्थान्तरस्यालङ्कारस्य वा प्रकाशने चारुत्वोत्कर्ष-निबन्धने सति प्राधान्ये ऽर्थ-शक्त्य्-उद्भवानुरणन-रूप-व्यङ्ग्यो निरवगन्तव्यः

uktaṃ hy etat-"cārutvotkarṣa-nibandhanā vācya-vyaṅgyayoḥ prādhānya-vivakṣā" iti / vastu mātra-vyaṅgyatve cālaṅkārāṇām anantaropadarśitebhya evodāharaṇebhyo viṣaya unneyaḥ / tad evam artha-mātreṇālaṅkāra-viśeṣa-rūpeṇa vārthenārthāntarasyālaṅkārasya vā prakāśane cārutvotkarṣa-nibandhane sati prādhānye 'rtha-śakty-udbhavānuraṇana-rūpa-vyaṅgyo niravagantavyaḥ

Sanskrit only: no published translation is held for this verse.

एष ते विषम-विपाकः श्वसुरेण श्रुतो वलय-शब्दः ॥] अत्र ह्य् अविनय-पतिना सह रममाणा सखी बहिः-श्रुत-वलय-कल-कलया सख्या प्रतिबोध्यते । एतद् अपेक्षणीयं वाच्यार्थ-प्रतिपत्तये । प्रतिपन्ने च वाच्ये ऽर्थे तस्याविनय-प्रच्छादन-तात्पर्येणाभिधीयमानत्वात् पुनर् व्यङ्ग्याङ्गत्वम् एवेत्य् अस्मिन्न् अनुरणन-रूप-व्यङ्ग्य-ध्वनावन्तर्-भावः

eṣa te viṣama-vipākaḥ śvasureṇa śruto valaya-śabdaḥ //] atra hy avinaya-patinā saha ramamāṇā sakhī bahiḥ-śruta-valaya-kala-kalayā sakhyā pratibodhyate / etad apekṣaṇīyaṃ vācyārtha-pratipattaye / pratipanne ca vācye 'rthe tasyāvinaya-pracchādana-tātparyeṇābhidhīyamānatvāt punar vyaṅgyāṅgatvam evety asminn anuraṇana-rūpa-vyaṅgya-dhvanāvantar-bhāvaḥ

Sanskrit only: no published translation is held for this verse.

तच् चोदाहृत-विषयम् एव

tac codāhṛta-viṣayam eva

Sanskrit only: no published translation is held for this verse.