ये ऽप्यस्य पौरुषेयाः पण्यमादाय देशान्तरगता महासमुद्रम् यावत्तीर्णाः, ततः केषांचिद्यानपात्रं विपन्नम्, केषांचित् पण्यमपण्यीजातम्, केचित् तत्रैवानयेन व्यसनमापन्नाः, केषांचित् कान्तारमध्यगतानां चौरैर्द्रव्यमपहृतम्, केषांचिन्नगरसमीपमनुप्राप्तानां शौल्किकशौल्किकैर्द्रव्यं विचारयद्भिः सारो गृहीतः, केषांचित् पत्तनमनुप्राप्तानां राज्ञा विनियुक्तैर्दोषमुत्पाद्य सर्वस्वमपहृतम्।
ye 'pyasya pauruṣeyāḥ paṇyamādāya deśāntaragatā mahāsamudram yāvattīrṇāḥ, tataḥ keṣāṃcidyānapātraṃ vipannam, keṣāṃcit paṇyamapaṇyījātam, kecit tatraivānayena vyasanamāpannāḥ, keṣāṃcit kāntāramadhyagatānāṃ caurairdravyamapahṛtam, keṣāṃcinnagarasamīpamanuprāptānāṃ śaulkikaśaulkikairdravyaṃ vicārayadbhiḥ sāro gṛhītaḥ, keṣāṃcit pattanamanuprāptānāṃ rājñā viniyuktairdoṣamutpādya sarvasvamapahṛtam/
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.