तत्रापि केषांचिद्यानपात्रं विपन्नम्, केषांचित् पण्यमपण्यीभूतम्, केचित् तत्रैवानयेन व्यसनमापन्नाः, केषांचित् कान्तारमध्यगतानां तस्करैर्द्रव्यमपहृतम्, केषांचिन्नगरसमीपमनुप्राप्तानां शौल्किकशौल्किकैर्द्रव्यं विचारयद्भिः सारो गृहीतः, केषांचित् पत्तनमनुप्राप्तानां राजनियुक्तैर्दोषमुत्पाद्य सर्वस्वमपहृतम्, केचित्तस्य प्राणवियोगं श्रुत्वा तत्रैवावस्थिताः।
tatrāpi keṣāṃcidyānapātraṃ vipannam, keṣāṃcit paṇyamapaṇyībhūtam, kecit tatraivānayena vyasanamāpannāḥ, keṣāṃcit kāntāramadhyagatānāṃ taskarairdravyamapahṛtam, keṣāṃcinnagarasamīpamanuprāptānāṃ śaulkikaśaulkikairdravyaṃ vicārayadbhiḥ sāro gṛhītaḥ, keṣāṃcit pattanamanuprāptānāṃ rājaniyuktairdoṣamutpādya sarvasvamapahṛtam, kecittasya prāṇaviyogaṃ śrutvā tatraivāvasthitāḥ/
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.