Library·Gandavyuhasutra·19

Gandavyuhasutra 19

अथ खलु सुधनः श्रेष्ठिदारको येन सर्वजगद्रक्षाप्रणिधानवीर्यप्रभा रात्रिदेवता तेनोपसंक्रान्तः । सो ऽद्राक्षीत्सर्वजगद्रक्षाप्रणिधानवीर्यप्रभां रात्रिदेवतां तस्मिन्नेवं पर्षन्मण्डले सर्वजगद्भवनप्रतिभासमणिराजगर्भासननिषण्णां धर्मधातुनयप्रतिभासमणिजालसंछादितशरीरां सर्वचन्द्रसूर्यज्योतिर्ग्रहतारानक्षत्रप्रतिभाससंदर्शनकायां यथाशयसत्त्वचक्षुर्विज्ञप्तिसंदर्शनकायां सर्वसत्त्वकायसंस्थानसदृशस्वशरीरविज्ञपनकायाम् अनन्तमध्यवर्णसमुद्रोदारविज्ञप्तिसंदर्शनकायां सर्वेर्यापथविहारनयसंदर्शनकायां समन्तमुखाभिमुखविज्ञपनकायां सर्वदिगभिमुखसत्त्वपरिपाचनाभिमुखकायां समन्तधर्ममेघनिगर्जितविविधविकुर्वितसर्वदिक्स्फरणसर्वजगदभिमुखकायां सर्वकालजगदर्थाभिमुखगगनप्रलम्बकायां सर्वतथागतक्रमतलप्रणिपतितकायां सर्वसत्त्वकुशलमूलोपचयसुखपूर्वंगमकायां सर्वतथागताभिमुखधर्ममेघसंप्रतीच्छनसंधारणप्रणिधिसिद्धिपरिपूर्णचेतोपराङ्मुखस्मृतिसंधारणकायाम् अनन्तमध्यावभाससर्वदिक्स्फरणशरीरां सर्वजगत्तमोविकिरणधर्मप्रदीपालोकसमन्तप्रमुक्तावभाससंदर्शनकायां मायागतधर्मनिर्मलज्ञानशरीरनिदर्शनकायां विगततमोरजोधर्मशरीरनिदर्शनकायां मायागतधर्मतानिर्जातकायां धर्मताप्रतिविबुद्धान्धकारचित्तां सममुखज्ञानालोकावभासप्रतिलब्धान् अत्यन्तनिर्ज्वरनिःसंतापमनःशरीरां धर्मकायाभेद्यसारवतीधातुनिर्याताम् अप्रतिष्ठिततथागताधिष्ठानप्रकृत्यसंक्लिष्टस्वभावनिर्मलधर्मताशरीरविशुद्धकायाम् । स तां दृष्ट्वा मूर्ध्ना प्रणम्य बुद्धक्षेत्रपरमाणुरजःसमान् दर्शननयाननुस्मरमाणो ऽन्तरधरणितले प्रणिपत्य सुचिरमतिनामयामास ॥ अथ खलु सुधनः श्रेष्ठिदारकः तस्माद्धरणितलादुत्थाय प्राञ्जलीभूतः सर्वजगद्रक्षाप्रणिधानवीर्यप्रभाया रात्रिदेवतायाः कायं निरीक्षमाणो दश संज्ञाविशुद्धीः प्रतिलभते स्म, यासां प्रतिलाभात् सर्वकल्याणमित्रसभागतां प्रत्यलभत । कतमा दश? यदुत - कल्याणमित्रेषु स्वचित्तसंज्ञां प्रत्यलभत सर्वज्ञतासमारम्भवीर्यसर्वालम्बनसंवासाय । स्वकर्मविपाकविशुद्धिस्वभावसंज्ञां प्रत्यलभत कल्याणमित्रारागणविपुलकुशलमूलसमुदागमारागणतायै । बोधिसत्त्वचर्यालंकारसंज्ञां प्रत्यलभत सर्वप्रणिधानालंकारचर्यासंवसनतायै । सर्वबुद्धधर्माभिनिष्पादनसंज्ञां प्रत्यलभत सर्वकल्याणमित्रानुशासनीपथप्रतिपत्तये । स्पर्शोपपत्तिसंज्ञां प्रत्यलभत सर्वबुद्धविषयानुत्तरधर्मविहारावभाससंदर्शनतायै । एकनिर्याणसंज्ञां प्रत्यलभत समन्तभद्रयाननिर्याणप्रणिधानचर्याविशुद्धये । सर्वज्ञपुण्यसागराकरसंज्ञां प्रत्यलभत सर्वशुक्लधर्मसमार्जनविवर्धनतायै । सुपरिपूर्णकुशलधर्मपरिपूरणसंवर्धनपरिपालनसंज्ञां प्रत्यलभत बुद्धबोधौ सर्वज्ञज्ञानवीर्यवेगसंवर्धनतायै । सर्वकुशलमूलपरिपूरिसंज्ञां प्रत्यलभत सर्वसत्त्वसर्वाभिप्रायपरिपूरणतायै । सर्वार्थसंसाधकसंज्ञां प्रत्यलभत कल्याणमित्रेषु सर्वबोधिसत्त्वकर्मवशवर्तिताप्रतिष्ठापनाय । इमा दश संज्ञाविशुद्धीः प्रतिलभते स्म, यासां प्रतिलाभात् सर्वजगद्रक्षाप्रणिधानवीर्यप्रभाया रात्रिदेवताया बुद्धक्षेत्रपरमाणुरजःसमा बोधिसत्त्वसभागताः प्रत्यलभत । (ग्व् २६६) यदुत स्मृतिसभागतां दशदिक्सर्वतथागतत्र्यध्वानुस्मृतिनयेषु, मतिसभागतां सर्वधर्मसागरनयासंभेदविनिश्चितेषु, गतिसभागतां सर्वतथागतधर्मचक्रमण्डलगत्यनुगतासंभेदविभागनयकौशल्येषु, बोधिसभागतामाकाशसमबुद्ध्या सर्वत्र्यध्वनयसागरावभासप्रतिलाभाय, इन्द्रियविशुद्धिसभागतां सर्वबोधिसत्त्वेन्द्रियसागरज्ञानावभासप्रतिलाभाय, चित्तविशुद्धिसभागतां सर्वाकारसत्त्वसंग्रहव्यूहबोधिसत्त्वमार्गगुणप्रतिपत्यलंकारमार्गप्रतिपत्तये, गोचरसभागतां तथागतज्ञानगोचरावभासप्रतिलाभाय, नयानुगमसभागतां सर्वाकारसर्वज्ञतानयसमुद्रावतारपथावभासप्रतिलाभाय, अर्थप्रतिवेधसभागतां सर्वधर्मस्वभावज्ञानप्रतिवेधप्रतिलाभाय, धर्मविहारसभागतां सर्वावरणपर्वतविकिरणतायै, रूपकायविशुद्धिसभागतां यथाशयजगद्विमात्रतासंदर्शनलक्षणानुव्यञ्जनविचित्रशरीरविशुद्धिप्रतिलाभाय, बलसभागतां बोधिसत्त्वबलपरिनिष्पत्तिसर्वज्ञतारम्बणविवर्धनतायै, सर्वधर्मनयसमुद्रेषु वैशारद्यसभागतां चित्ताशयगगनपरिशुद्धये, वीर्यसभागतां सर्वकल्पबोधिसत्त्वचर्यासंवासापरिखेदप्रतिलाभाय, प्रतिभानसभागतां सर्वधर्मानावरणज्ञानालोकप्रतिलाभाय, अनभिभूतसभागतां सर्वजगदभ्युद्गतात्मभावपरिशुद्धये, अदीनालीनवचनसभागतां सर्वपर्षन्मण्डलाभिराधनपरिशुद्धये, घोषसभागतां सर्वधर्मनयसमुद्ररुतगर्जनतायै, स्वराङ्गविशुद्धिसभागतां सर्वजगद्वचनविज्ञप्तिव्यवहारनयसमुद्रेषु, गुणविशुद्धिसभागतां तथागतानुशासनीगुणप्रतिपत्तिविशुद्धिषु, बुद्धधर्मकर्मवंशाविरोधनसभागतामनवद्यकर्मविपाकविशुद्धये, धर्मयज्ञभूमिप्रतिष्ठापनसभागतां सर्वबुद्धोत्पादधर्मचक्रप्रवर्तनतायै, ब्रह्मचर्यविशुद्धिसभागतां सर्वतथागतविषयज्ञानसंवसनतायै, महामैत्रीसभागतां नानामैत्रीनयप्रतिक्षणसर्वसत्त्वसागरस्फरणतायै, महाकरुणानयसमुद्रावतारसभागतां सर्वसत्त्वधातुपरित्राणधर्ममेघाभिप्रवर्षणतायै, कायकर्मसभागतां सर्वसत्त्वपरिपाचनोपायोपचारसभागतायै, वाक्कर्मविशुद्धिसभागतां सर्वधर्मव्यवहाराभिलाषेषु, मनस्कर्मसभागतां सर्वसत्त्वचित्तेषु सर्वज्ञतारम्बणोपसंहरणतायै, विविधसर्वव्यूहप्रतिमण्डनसभागतां सर्वबुद्धक्षेत्रेषु सर्वतथागतोपसंक्रमणतायै, उपसंक्रमणसभागतां सर्वबुद्धोत्पादसमुद्रेषु, धर्मचक्राध्येषणसभागतां सर्वतथागतेषु, पूजोपस्थानसभागतां सर्वतथागताशेषकालसर्वपूजोपस्थानतायै, सर्वसत्त्वपरिपाकविनयसभागतां सर्वसत्त्वधातौ, आलोकप्रतिलाभसभागतां सर्वसत्त्वधर्मनयेषु, समाधिप्रतिलाभसभागतां सर्वसमाधिनयसमुद्रेषु, समन्तस्फरणसभागतां सर्वबुद्धक्षेत्रसमुद्रबोधिसत्त्वचर्याविकुर्वितस्फरणतायै, बोधिसत्त्वविहारसभागतां सर्वबोधिसत्त्वविकुर्वितनयसमुद्रेषु, परिवारसभागतां सर्वबोधिसत्त्वचर्यासंवासेषु, प्रवेशसभागतां सर्वलोकधातुसुसूक्ष्मप्रवेशेषु, चित्तविभक्तिसभागतां सर्वबुद्धक्षेत्रवैपुल्येषु, अनुगमवैमात्रतासभागतां सर्वबुद्धक्षेत्रसमुद्रावतारविमात्रतानुगमेषु, समन्तनयप्रसरस्फरणसभागतां सर्वबुद्धक्षेत्रविभक्त्यनन्तज्ञानविज्ञप्तिषु, अभ्युद्गतसभागतां सर्वबुद्धक्षेत्रेषु, अवैवर्त्यसभागतां सर्वदिक्स्फरणसमवसरणाधिष्ठानाविवर्त्यतायै, अन्धकारविधमनसभागतां सर्वबुद्धबोधिमण्डविबुध्यनज्ञानमण्डलावभासप्रतिलाभाय, (ग्व् २६७) अनुप्राप्तिसभागतां सर्वबुद्धपर्षन्मण्डलसमुद्रेषु, सर्वबुद्धक्षेत्रकायजालस्फरणसभागतामनभिलाप्यबुद्धक्षेत्रतथागतपूजोपस्थानप्रयोगेषु, ज्ञानप्रत्यक्षसभागतां तत्र धर्मनयसमुद्रानुप्रबन्धेषु, प्रतिपत्तिसभागतामनुलोमसर्वधर्मनयनसंमुखप्रयोगेषु, एषणसभागतां तीव्रधर्मच्छन्दारम्भविशुद्धये, विशुद्धिसभागतां कायवाङ्भनस्कर्मबुद्धगुणालंकारसमादानेषु, सुमनःसभागतामविषमकल्पचित्तमण्डलसर्वधर्मज्ञानमण्डलपरिशुद्धये, वीर्यारम्भसभागतां सर्वकुशलमूलसंभारसमारम्भनिस्तीरणप्रयोगेषु, चर्याव्यूहसभागतां सर्वबोधिसत्त्वचर्यापरिनिष्पत्तिषु, असङ्गविहारसभागतां सर्वधर्मनिमित्तप्रतिवेधेषु, उपायकौशल्यनयसभागतां तत्र तत्र धर्मविहारज्ञानविकुर्वणतासु, आयतनविशुद्धिसभागतां यथाशयसत्त्वाविषमदर्शनसमादानेषु, बोधिसत्त्वसमाधिमुखप्रतिलाभसभागतां सर्वधर्मविभावनाप्रतिलाभेषु, अधिष्ठानसभागतां सर्वतथागतवेशेषु, भूम्याक्रमणसभागतां सर्वबुद्धबोधिसत्त्वभूमिप्रतिलाभेषु, प्रतिष्ठानसभागतां सर्वबोधिसत्त्वव्यवस्थानेषु, आदेशनसभागतां सर्वबुद्धव्याकरणेषु, समाधिसभागतां एकक्षणे सर्वसमाधिसागरनयेषु, समाधिव्यवस्थानसभागतां नानालक्षणबुद्धकार्येषु, अनुस्मृतिसभागतां सर्वानुस्मृत्यारम्बणनयसमुद्रेषु, बोधिसत्त्वचरणसभागतां बोधिसत्त्वकार्यापरान्तकोटीगतकल्पव्यवसायेषु, प्रसादसभागतामप्रमेयबुद्धज्ञानाधिमुक्तिप्रीतिवेगसमुद्रविवर्धनतायै, विवर्धनसभागतां सर्वावरणपर्वतानामविवर्त्यज्ञानसभागतां बुद्धज्ञानानन्तसंभारसंभवाय, उपपत्तिसभागतां सर्वसत्त्वपरिपाकविनयकालेषु, विहारसभागतां सर्वज्ञतानयमुखेषु, विषयसभागतां धर्मधातुनयवृषभिताविषयप्रवेशेषु, अनालयसभागतां सर्वालयसमुद्धातितचित्ततायै, सर्वधर्मनिर्देशसभागतां धर्मसमताज्ञानावतारेषु, अभियोगसभागतां सर्वबुद्धाधिष्ठानस्वशरीरसंप्रतीच्छनतायै, अभिज्ञासभागतां सर्वलोकज्ञापनप्रतिपत्तिनयेषु, अनभिसंस्कारर्द्धिप्रतिलाभसभागतां सर्वदिक्क्षेत्रसागरावतारेषु, धारणिभूमिसभागतां सर्वधारणीसमुद्रावभासप्रतिलाभाय, सर्वबुद्धधर्मचक्रसंध्यवतारसभागतां सर्वसूत्रान्तधर्मपर्यायेषु, गम्भीरधर्मप्रवेशसभागतां गगनतलोपमसर्वधर्मनयावतारेषु, अवभाससभागतां सर्वलोकधातुप्रसरेषु, अभिरोचनसभागतां यथाशयजगद्विज्ञप्तिंसंदर्शनेषु, प्रकम्पनसभागतां क्षेत्राधिष्ठानविकुर्वितसत्त्वदर्शनेषु, अमोघचरणसभागतां दर्शनश्रवणानुस्मृतिसत्त्वविनयेषु, निर्याणसभागतां प्रत्यलभत सर्वप्रणिधानसमुद्रनयपरिनिष्पत्तिदशबलज्ञानानुबोधाय । इति हि सुधनः श्रेष्ठिदारकः प्रसन्नचित्तः सर्वजगद्रक्षाप्रणिधानवीर्यप्रभां रात्रिदेवतामवलोकयन् आसां दशानां संज्ञाविशुद्धीनां प्रतिलाभादेतत्प्रमुखान् बुद्धक्षेत्रपरमाणुरजःसमान् सर्वजगद्रक्षाप्रणिधानवीर्यप्रभाया रात्रिदेवतायाः सभागतनयान् प्रतिलभते स्म ॥ अथ खलु सुधनः श्रेष्ठिदारकः सर्वजगद्रक्षाप्रणिधानवीर्यप्रभाया रात्रिदेवताया बुद्धक्षेत्रपरमाणुरजःसमदर्शनतया अवतीर्णो ऽनन्तमध्यकल्याणमित्रसंज्ञाविशुद्धिप्रतिलब्धो बुद्धक्षेत्रपरमाणुरजःसमसभागतानयावतीर्णः (ग्व् २६८) एकांसं चीवरं प्रावृत्य येन सर्वजगद्रक्षाप्रणिधानवीर्यप्रभा रात्रिदेवता, तेनाञ्जलिं प्रणम्य तस्यां वेलायामिमा गाथा अभाषत - यथा स्वचित्ते वशिता ममास्ति छन्दश्च बोधौ सुदृढो ऽनिवर्त्यः । त्वदीयचित्ते ऽपि हि मे तथैव स्वतैव देव्यद्य दृढोपजाता

atha khalu sudhanaḥ śreṣṭhidārako yena sarvajagadrakṣāpraṇidhānavīryaprabhā rātridevatā tenopasaṃkrāntaḥ / so 'drākṣītsarvajagadrakṣāpraṇidhānavīryaprabhāṃ rātridevatāṃ tasminnevaṃ parṣanmaṇḍale sarvajagadbhavanapratibhāsamaṇirājagarbhāsananiṣaṇṇāṃ dharmadhātunayapratibhāsamaṇijālasaṃchāditaśarīrāṃ sarvacandrasūryajyotirgrahatārānakṣatrapratibhāsasaṃdarśanakāyāṃ yathāśayasattvacakṣurvijñaptisaṃdarśanakāyāṃ sarvasattvakāyasaṃsthānasadṛśasvaśarīravijñapanakāyām anantamadhyavarṇasamudrodāravijñaptisaṃdarśanakāyāṃ sarveryāpathavihāranayasaṃdarśanakāyāṃ samantamukhābhimukhavijñapanakāyāṃ sarvadigabhimukhasattvaparipācanābhimukhakāyāṃ samantadharmameghanigarjitavividhavikurvitasarvadikspharaṇasarvajagadabhimukhakāyāṃ sarvakālajagadarthābhimukhagaganapralambakāyāṃ sarvatathāgatakramatalapraṇipatitakāyāṃ sarvasattvakuśalamūlopacayasukhapūrvaṃgamakāyāṃ sarvatathāgatābhimukhadharmameghasaṃpratīcchanasaṃdhāraṇapraṇidhisiddhiparipūrṇacetoparāṅmukhasmṛtisaṃdhāraṇakāyām anantamadhyāvabhāsasarvadikspharaṇaśarīrāṃ sarvajagattamovikiraṇadharmapradīpālokasamantapramuktāvabhāsasaṃdarśanakāyāṃ māyāgatadharmanirmalajñānaśarīranidarśanakāyāṃ vigatatamorajodharmaśarīranidarśanakāyāṃ māyāgatadharmatānirjātakāyāṃ dharmatāprativibuddhāndhakāracittāṃ samamukhajñānālokāvabhāsapratilabdhān atyantanirjvaraniḥsaṃtāpamanaḥśarīrāṃ dharmakāyābhedyasāravatīdhātuniryātām apratiṣṭhitatathāgatādhiṣṭhānaprakṛtyasaṃkliṣṭasvabhāvanirmaladharmatāśarīraviśuddhakāyām / sa tāṃ dṛṣṭvā mūrdhnā praṇamya buddhakṣetraparamāṇurajaḥsamān darśananayānanusmaramāṇo 'ntaradharaṇitale praṇipatya suciramatināmayāmāsa // atha khalu sudhanaḥ śreṣṭhidārakaḥ tasmāddharaṇitalādutthāya prāñjalībhūtaḥ sarvajagadrakṣāpraṇidhānavīryaprabhāyā rātridevatāyāḥ kāyaṃ nirīkṣamāṇo daśa saṃjñāviśuddhīḥ pratilabhate sma, yāsāṃ pratilābhāt sarvakalyāṇamitrasabhāgatāṃ pratyalabhata / katamā daśa? yaduta - kalyāṇamitreṣu svacittasaṃjñāṃ pratyalabhata sarvajñatāsamārambhavīryasarvālambanasaṃvāsāya / svakarmavipākaviśuddhisvabhāvasaṃjñāṃ pratyalabhata kalyāṇamitrārāgaṇavipulakuśalamūlasamudāgamārāgaṇatāyai / bodhisattvacaryālaṃkārasaṃjñāṃ pratyalabhata sarvapraṇidhānālaṃkāracaryāsaṃvasanatāyai / sarvabuddhadharmābhiniṣpādanasaṃjñāṃ pratyalabhata sarvakalyāṇamitrānuśāsanīpathapratipattaye / sparśopapattisaṃjñāṃ pratyalabhata sarvabuddhaviṣayānuttaradharmavihārāvabhāsasaṃdarśanatāyai / ekaniryāṇasaṃjñāṃ pratyalabhata samantabhadrayānaniryāṇapraṇidhānacaryāviśuddhaye / sarvajñapuṇyasāgarākarasaṃjñāṃ pratyalabhata sarvaśukladharmasamārjanavivardhanatāyai / suparipūrṇakuśaladharmaparipūraṇasaṃvardhanaparipālanasaṃjñāṃ pratyalabhata buddhabodhau sarvajñajñānavīryavegasaṃvardhanatāyai / sarvakuśalamūlaparipūrisaṃjñāṃ pratyalabhata sarvasattvasarvābhiprāyaparipūraṇatāyai / sarvārthasaṃsādhakasaṃjñāṃ pratyalabhata kalyāṇamitreṣu sarvabodhisattvakarmavaśavartitāpratiṣṭhāpanāya / imā daśa saṃjñāviśuddhīḥ pratilabhate sma, yāsāṃ pratilābhāt sarvajagadrakṣāpraṇidhānavīryaprabhāyā rātridevatāyā buddhakṣetraparamāṇurajaḥsamā bodhisattvasabhāgatāḥ pratyalabhata / (Gv 266) yaduta smṛtisabhāgatāṃ daśadiksarvatathāgatatryadhvānusmṛtinayeṣu, matisabhāgatāṃ sarvadharmasāgaranayāsaṃbhedaviniściteṣu, gatisabhāgatāṃ sarvatathāgatadharmacakramaṇḍalagatyanugatāsaṃbhedavibhāganayakauśalyeṣu, bodhisabhāgatāmākāśasamabuddhyā sarvatryadhvanayasāgarāvabhāsapratilābhāya, indriyaviśuddhisabhāgatāṃ sarvabodhisattvendriyasāgarajñānāvabhāsapratilābhāya, cittaviśuddhisabhāgatāṃ sarvākārasattvasaṃgrahavyūhabodhisattvamārgaguṇapratipatyalaṃkāramārgapratipattaye, gocarasabhāgatāṃ tathāgatajñānagocarāvabhāsapratilābhāya, nayānugamasabhāgatāṃ sarvākārasarvajñatānayasamudrāvatārapathāvabhāsapratilābhāya, arthaprativedhasabhāgatāṃ sarvadharmasvabhāvajñānaprativedhapratilābhāya, dharmavihārasabhāgatāṃ sarvāvaraṇaparvatavikiraṇatāyai, rūpakāyaviśuddhisabhāgatāṃ yathāśayajagadvimātratāsaṃdarśanalakṣaṇānuvyañjanavicitraśarīraviśuddhipratilābhāya, balasabhāgatāṃ bodhisattvabalapariniṣpattisarvajñatārambaṇavivardhanatāyai, sarvadharmanayasamudreṣu vaiśāradyasabhāgatāṃ cittāśayagaganapariśuddhaye, vīryasabhāgatāṃ sarvakalpabodhisattvacaryāsaṃvāsāparikhedapratilābhāya, pratibhānasabhāgatāṃ sarvadharmānāvaraṇajñānālokapratilābhāya, anabhibhūtasabhāgatāṃ sarvajagadabhyudgatātmabhāvapariśuddhaye, adīnālīnavacanasabhāgatāṃ sarvaparṣanmaṇḍalābhirādhanapariśuddhaye, ghoṣasabhāgatāṃ sarvadharmanayasamudrarutagarjanatāyai, svarāṅgaviśuddhisabhāgatāṃ sarvajagadvacanavijñaptivyavahāranayasamudreṣu, guṇaviśuddhisabhāgatāṃ tathāgatānuśāsanīguṇapratipattiviśuddhiṣu, buddhadharmakarmavaṃśāvirodhanasabhāgatāmanavadyakarmavipākaviśuddhaye, dharmayajñabhūmipratiṣṭhāpanasabhāgatāṃ sarvabuddhotpādadharmacakrapravartanatāyai, brahmacaryaviśuddhisabhāgatāṃ sarvatathāgataviṣayajñānasaṃvasanatāyai, mahāmaitrīsabhāgatāṃ nānāmaitrīnayapratikṣaṇasarvasattvasāgaraspharaṇatāyai, mahākaruṇānayasamudrāvatārasabhāgatāṃ sarvasattvadhātuparitrāṇadharmameghābhipravarṣaṇatāyai, kāyakarmasabhāgatāṃ sarvasattvaparipācanopāyopacārasabhāgatāyai, vākkarmaviśuddhisabhāgatāṃ sarvadharmavyavahārābhilāṣeṣu, manaskarmasabhāgatāṃ sarvasattvacitteṣu sarvajñatārambaṇopasaṃharaṇatāyai, vividhasarvavyūhapratimaṇḍanasabhāgatāṃ sarvabuddhakṣetreṣu sarvatathāgatopasaṃkramaṇatāyai, upasaṃkramaṇasabhāgatāṃ sarvabuddhotpādasamudreṣu, dharmacakrādhyeṣaṇasabhāgatāṃ sarvatathāgateṣu, pūjopasthānasabhāgatāṃ sarvatathāgatāśeṣakālasarvapūjopasthānatāyai, sarvasattvaparipākavinayasabhāgatāṃ sarvasattvadhātau, ālokapratilābhasabhāgatāṃ sarvasattvadharmanayeṣu, samādhipratilābhasabhāgatāṃ sarvasamādhinayasamudreṣu, samantaspharaṇasabhāgatāṃ sarvabuddhakṣetrasamudrabodhisattvacaryāvikurvitaspharaṇatāyai, bodhisattvavihārasabhāgatāṃ sarvabodhisattvavikurvitanayasamudreṣu, parivārasabhāgatāṃ sarvabodhisattvacaryāsaṃvāseṣu, praveśasabhāgatāṃ sarvalokadhātususūkṣmapraveśeṣu, cittavibhaktisabhāgatāṃ sarvabuddhakṣetravaipulyeṣu, anugamavaimātratāsabhāgatāṃ sarvabuddhakṣetrasamudrāvatāravimātratānugameṣu, samantanayaprasaraspharaṇasabhāgatāṃ sarvabuddhakṣetravibhaktyanantajñānavijñaptiṣu, abhyudgatasabhāgatāṃ sarvabuddhakṣetreṣu, avaivartyasabhāgatāṃ sarvadikspharaṇasamavasaraṇādhiṣṭhānāvivartyatāyai, andhakāravidhamanasabhāgatāṃ sarvabuddhabodhimaṇḍavibudhyanajñānamaṇḍalāvabhāsapratilābhāya, (Gv 267) anuprāptisabhāgatāṃ sarvabuddhaparṣanmaṇḍalasamudreṣu, sarvabuddhakṣetrakāyajālaspharaṇasabhāgatāmanabhilāpyabuddhakṣetratathāgatapūjopasthānaprayogeṣu, jñānapratyakṣasabhāgatāṃ tatra dharmanayasamudrānuprabandheṣu, pratipattisabhāgatāmanulomasarvadharmanayanasaṃmukhaprayogeṣu, eṣaṇasabhāgatāṃ tīvradharmacchandārambhaviśuddhaye, viśuddhisabhāgatāṃ kāyavāṅbhanaskarmabuddhaguṇālaṃkārasamādāneṣu, sumanaḥsabhāgatāmaviṣamakalpacittamaṇḍalasarvadharmajñānamaṇḍalapariśuddhaye, vīryārambhasabhāgatāṃ sarvakuśalamūlasaṃbhārasamārambhanistīraṇaprayogeṣu, caryāvyūhasabhāgatāṃ sarvabodhisattvacaryāpariniṣpattiṣu, asaṅgavihārasabhāgatāṃ sarvadharmanimittaprativedheṣu, upāyakauśalyanayasabhāgatāṃ tatra tatra dharmavihārajñānavikurvaṇatāsu, āyatanaviśuddhisabhāgatāṃ yathāśayasattvāviṣamadarśanasamādāneṣu, bodhisattvasamādhimukhapratilābhasabhāgatāṃ sarvadharmavibhāvanāpratilābheṣu, adhiṣṭhānasabhāgatāṃ sarvatathāgataveśeṣu, bhūmyākramaṇasabhāgatāṃ sarvabuddhabodhisattvabhūmipratilābheṣu, pratiṣṭhānasabhāgatāṃ sarvabodhisattvavyavasthāneṣu, ādeśanasabhāgatāṃ sarvabuddhavyākaraṇeṣu, samādhisabhāgatāṃ ekakṣaṇe sarvasamādhisāgaranayeṣu, samādhivyavasthānasabhāgatāṃ nānālakṣaṇabuddhakāryeṣu, anusmṛtisabhāgatāṃ sarvānusmṛtyārambaṇanayasamudreṣu, bodhisattvacaraṇasabhāgatāṃ bodhisattvakāryāparāntakoṭīgatakalpavyavasāyeṣu, prasādasabhāgatāmaprameyabuddhajñānādhimuktiprītivegasamudravivardhanatāyai, vivardhanasabhāgatāṃ sarvāvaraṇaparvatānāmavivartyajñānasabhāgatāṃ buddhajñānānantasaṃbhārasaṃbhavāya, upapattisabhāgatāṃ sarvasattvaparipākavinayakāleṣu, vihārasabhāgatāṃ sarvajñatānayamukheṣu, viṣayasabhāgatāṃ dharmadhātunayavṛṣabhitāviṣayapraveśeṣu, anālayasabhāgatāṃ sarvālayasamuddhātitacittatāyai, sarvadharmanirdeśasabhāgatāṃ dharmasamatājñānāvatāreṣu, abhiyogasabhāgatāṃ sarvabuddhādhiṣṭhānasvaśarīrasaṃpratīcchanatāyai, abhijñāsabhāgatāṃ sarvalokajñāpanapratipattinayeṣu, anabhisaṃskārarddhipratilābhasabhāgatāṃ sarvadikkṣetrasāgarāvatāreṣu, dhāraṇibhūmisabhāgatāṃ sarvadhāraṇīsamudrāvabhāsapratilābhāya, sarvabuddhadharmacakrasaṃdhyavatārasabhāgatāṃ sarvasūtrāntadharmaparyāyeṣu, gambhīradharmapraveśasabhāgatāṃ gaganatalopamasarvadharmanayāvatāreṣu, avabhāsasabhāgatāṃ sarvalokadhātuprasareṣu, abhirocanasabhāgatāṃ yathāśayajagadvijñaptiṃsaṃdarśaneṣu, prakampanasabhāgatāṃ kṣetrādhiṣṭhānavikurvitasattvadarśaneṣu, amoghacaraṇasabhāgatāṃ darśanaśravaṇānusmṛtisattvavinayeṣu, niryāṇasabhāgatāṃ pratyalabhata sarvapraṇidhānasamudranayapariniṣpattidaśabalajñānānubodhāya / iti hi sudhanaḥ śreṣṭhidārakaḥ prasannacittaḥ sarvajagadrakṣāpraṇidhānavīryaprabhāṃ rātridevatāmavalokayan āsāṃ daśānāṃ saṃjñāviśuddhīnāṃ pratilābhādetatpramukhān buddhakṣetraparamāṇurajaḥsamān sarvajagadrakṣāpraṇidhānavīryaprabhāyā rātridevatāyāḥ sabhāgatanayān pratilabhate sma // atha khalu sudhanaḥ śreṣṭhidārakaḥ sarvajagadrakṣāpraṇidhānavīryaprabhāyā rātridevatāyā buddhakṣetraparamāṇurajaḥsamadarśanatayā avatīrṇo 'nantamadhyakalyāṇamitrasaṃjñāviśuddhipratilabdho buddhakṣetraparamāṇurajaḥsamasabhāgatānayāvatīrṇaḥ (Gv 268) ekāṃsaṃ cīvaraṃ prāvṛtya yena sarvajagadrakṣāpraṇidhānavīryaprabhā rātridevatā, tenāñjaliṃ praṇamya tasyāṃ velāyāmimā gāthā abhāṣata - yathā svacitte vaśitā mamāsti chandaśca bodhau sudṛḍho 'nivartyaḥ / tvadīyacitte 'pi hi me tathaiva svataiva devyadya dṛḍhopajātā

Sanskrit only: no published translation is held for this verse.

पापान्यशेषाणि विशोधितानि शुभो विपाको द्युतिमानवाप्तः । सुदर्शनायास्तव दर्शनान्मे समार्जिताश्चाक्षयशुक्लधर्माः

pāpānyaśeṣāṇi viśodhitāni śubho vipāko dyutimānavāptaḥ / sudarśanāyāstava darśanānme samārjitāścākṣayaśukladharmāḥ

Sanskrit only: no published translation is held for this verse.

चित्तं गुणौघैः समलंकृतं मे पृथग्विधैः सत्त्वहितप्रवृत्तैः । समलंकृतो यैश्चरितास्मि चर्यां क्षेत्रेषु सर्वेष्वपरान्तकल्पान्

cittaṃ guṇaughaiḥ samalaṃkṛtaṃ me pṛthagvidhaiḥ sattvahitapravṛttaiḥ / samalaṃkṛto yaiścaritāsmi caryāṃ kṣetreṣu sarveṣvaparāntakalpān

Sanskrit only: no published translation is held for this verse.

निदर्शिता ते खलु सर्वधर्मान् निष्पत्तिरार्ये मदनुग्रहाय । हिताय मे ऽनुग्रहसंज्ञयैव धर्मानुशास्तिं परमां प्रयच्छ

nidarśitā te khalu sarvadharmān niṣpattirārye madanugrahāya / hitāya me 'nugrahasaṃjñayaiva dharmānuśāstiṃ paramāṃ prayaccha

Sanskrit only: no published translation is held for this verse.

विवर्तितो दुर्गतिपातमार्गो संदर्शितः स्वर्गपथो विशुद्धः । सर्वज्ञमार्गश्च निदर्शितस्ते यानानुयानः सुगतैरशेषैः

vivartito durgatipātamārgo saṃdarśitaḥ svargapatho viśuddhaḥ / sarvajñamārgaśca nidarśitaste yānānuyānaḥ sugatairaśeṣaiḥ

Sanskrit only: no published translation is held for this verse.

त्वदन्तिके मे ऽनुपमाद्भुताद्य निर्याणसंज्ञा परमोपजाता । आकाशवच्चामलमप्रमाणं सर्वज्ञताधर्ममुखं विशुद्धम्

tvadantike me 'nupamādbhutādya niryāṇasaṃjñā paramopajātā / ākāśavaccāmalamapramāṇaṃ sarvajñatādharmamukhaṃ viśuddham

Sanskrit only: no published translation is held for this verse.

सर्वज्ञताशेषशुभाकरत्वसंज्ञाद्य मे त्वय्युदिताप्रमेया । पुण्यार्णवा मे गगनप्रमाणाः प्रतिक्षणं चेतसि चोद्भवन्ति

sarvajñatāśeṣaśubhākaratvasaṃjñādya me tvayyuditāprameyā / puṇyārṇavā me gaganapramāṇāḥ pratikṣaṇaṃ cetasi codbhavanti

Sanskrit only: no published translation is held for this verse.

संवर्धितः सर्वगुणैः शुभैश्च सर्वज्ञपट्टं नचिरेण लप्स्ये

saṃvardhitaḥ sarvaguṇaiḥ śubhaiśca sarvajñapaṭṭaṃ nacireṇa lapsye

Sanskrit only: no published translation is held for this verse.

कल्याणमित्रेषु हि मे सदैव सर्वज्ञतामार्गप्रतिपूरिसंज्ञा । अतोनिमित्ता मम सर्वशुक्लं संपूजिताशु प्रभविष्यतीति

kalyāṇamitreṣu hi me sadaiva sarvajñatāmārgapratipūrisaṃjñā / atonimittā mama sarvaśuklaṃ saṃpūjitāśu prabhaviṣyatīti

Sanskrit only: no published translation is held for this verse.

सर्वे यतो ऽर्थाः प्रभवन्ति चास्मात् सिद्धश्च कल्याणगुणैरुपेतः । आराध्य चैवेनमनन्तवर्णं सर्वज्ञमार्गं जगतां प्रवक्ष्ये

sarve yato 'rthāḥ prabhavanti cāsmāt siddhaśca kalyāṇaguṇairupetaḥ / ārādhya caivenamanantavarṇaṃ sarvajñamārgaṃ jagatāṃ pravakṣye

Sanskrit only: no published translation is held for this verse.

आचार्यभूता मि गुणाप्रमेये सर्वज्ञधर्मेषु मम प्रणेत्री । न कल्पकोटीनयुतैरसंख्यैः शक्यं मया ते प्रतिकर्तुमार्ये

ācāryabhūtā mi guṇāprameye sarvajñadharmeṣu mama praṇetrī / na kalpakoṭīnayutairasaṃkhyaiḥ śakyaṃ mayā te pratikartumārye

Sanskrit only: no published translation is held for this verse.

ततः पश्चिमे दिवसे सर्वजनकायः संनिपतितः । राजामात्यस्त्रीगणश्रेष्ठिगृहपतिनैगमजनपदाः (ग्व् २७५) सर्वपाषण्डाश्च संनिपतिताः । स च भगवान् धर्मचक्रनिर्घोषगगनमेघप्रदीपराजस्तथागतः सत्त्वपरिपाकविनयकालमागमय्य तं यज्ञवाटमुपसंक्रान्तो देवेन्द्रगणपरिवृतो नागेन्द्रगणपरिवृतो नागेन्द्रसंपूजितो यक्षेन्द्रकायाभिनतो गन्धर्वेन्द्राभिष्टुतो ऽसुरेन्द्रप्रणतशरीरश्चूडामणिविभूषितप्रसन्नचित्तो गरुडेन्द्रपूजाविधिभिरभिप्रकीर्णः प्रीतिमनोभिः किन्नरेन्दैः परिपूजितः स्तुतिसंगीतिसंचोदितो महोरगेन्द्रसंप्रेक्षितावलोकितवदनः । अद्राक्षीत् स महाजनकायो विजितावी च राजकुमारस्तं भगवन्तं धर्मचक्रनिर्घोषगगनमेघप्रदीपराजं तथागतमर्हन्तं सम्यक्संबुद्धं दूरत एवागच्छन्तं प्रासादिकं दर्शनीयं शान्तेन्द्रियं शान्तमानसं गुप्तं जितेन्द्रियं नागमिव सुदान्तं ह्रदमिवाच्छं विप्रसन्नमनाविलं महता बुद्धविकुर्वितप्रातिहार्येण महत्या बुद्धवृषभितया विरोचयमानं बुद्धाधिपतेयेनाभिभवन्तं बुद्धमाहात्म्यतया प्रभासयमानं महाबुद्धलक्षणानुव्यञ्जनविभूषणोपशोभितकायं सर्वलोकं बुद्धप्रभामण्डलावभासेन स्फरमाणं बुद्धरश्मिभिरवभासयमानं सर्वरोमविवरेभ्यो गन्धरत्नार्चिश्चक्राणि प्रमुञ्चमानं बुद्धक्षेत्रप्रकम्पनेन सर्वलोकं संकम्पयमानं सर्वव्यूहमेघप्रवर्षणेन बुद्धविक्रमेण सर्वसत्त्वक्लेशप्रजहनेन बुद्धेर्यापथेन सर्वसत्त्वप्रीतिवेगविवर्धनेन बुद्धदर्शनप्रभावेनोपसंक्रममाणम् । दृष्ट्वा च भगवतो ऽन्तिके चित्तमभिप्रसादयामासुः ॥ अथ खलु विजितावी राजकुमारः स च महान् जनकायस्तं भगवन्तं धर्मचक्रनिर्घोषगगनमेघप्रदीपराजं तथागतं दूरादेव प्रत्युद्गम्य प्रसन्नचित्तः सर्वशरीरेण प्रणिपत्य पादौ शिरसाभिवन्द्य अनेकविधया पूजया संपूज्य एवं वाचमभाषत - एहि भगवन्, एहि सुगत । समन्वाहृताः स्मः तथागतेन, अनुपरिगृहीताः स्मः सुगतेन । अथ खलु विजितावी राजकुमारस्तस्य भगवतो ऽग्रासनमुपदर्शयन् एवमाह - निषीदतु भगवान् । इदमासनं प्रज्ञप्तम् । ततो भगवत उपसंक्रामतस्तदासनं शुचिगर्भशरीरकायिकाभिर्देवताभिर्बुद्धानुभावेन गन्धमणिराजपद्मगर्भमधिष्ठितम् । न्यषीदद्भगवान् धर्मचक्रनिर्घोषगगनमेघप्रदीपराजस्तथागतस्तत्रासने, आसनपरिवारेषु च बोधिसत्त्वाः । तस्य सहदर्शनेन तस्यां पर्षदि सर्वेषां सत्त्वानां सर्वव्याधयः प्रशान्ताः, सर्वावरणनिवरणविगताश्चार्यधर्माणां भाजनीभूताः संस्थिताः ॥ अथ खलु भगवान् धर्मचक्रनिर्घोषगगनमेघप्रदीपराजस्तथागतस्तान् सत्त्वान् भाजनभूतान् विदित्वा अनुपूर्वेण कथामकार्षीत् । यदुत हेतुमण्डलप्रभासं नाम सूत्रान्तं संप्रकाशयामास । स्वराङ्गसहस्रसंप्रयुक्तं च वदनान्तरात् सर्वधर्माङ्गसंप्रयुक्तं सर्वजगन्मन्त्रसागरनिरुक्तिनिर्नादनिर्घोषं निश्चारयामास । अथ तावदेव ततः पर्षदो ऽशीतीनां प्राणिनियुतानां विरजो विगतमलं धर्मेषु धर्मचक्षुरुत्पन्नम् । बहुभिश्च प्राणिनियुतैरशैक्षभूमिरनुप्राप्ता । दश च प्राणिसहस्राणि महायाने विनीतानि, यदुत समन्तभद्रबोधिसत्त्वचर्यामहाप्रणिधानपरिपूरिनये ऽवतारितानि । एवं तस्य भगवतो महाबुद्धविकुर्वितेन धर्मचक्रं प्रवर्तयमानस्य दशसु दिक्षु बुद्धक्षेत्रशतसहस्रपरमाणुरजःसमाः सत्त्वा महायाने विनयमगमन् । अनन्तमध्याश्च सत्त्वा दशदिशि लोके नानाबुद्धक्षेत्रप्रसरसमवसरणेष्वपायभूमिं विनिवर्तयामासुः । (ग्व् २७६) गणनासमतिक्रान्ताश्च सत्त्वाः स्वर्गोपपत्तिपथे प्रतिष्ठापिता अभूवन् । विजितावी च राजकुमार इमं सर्वसत्त्वपरिपाकयथाशयसंचोदनकुशलमूलसंभवं बोधिसत्त्वविमोक्षं प्रत्यलभत ॥ स्यात्खलु पुनस्ते कुलपुत्र - अन्यः स तेन कालेन तेन समयेन विजितावी राजकुमारो ऽभूत्, येन तत्स्वकायजीवितं परित्यज्य सर्वधनस्कन्धपरिवारं परित्यज्य सर्वमानुष्यकं च जीवलोकसुखं परित्यज्य ते बन्धनगताः सत्त्वाः तस्माद्बन्धनात् परिमोक्षिताः? स च निरर्गलो महायज्ञो यष्टः? स च भगवान् धर्मचक्रनिर्घोषगगनमेघप्रदीपराजस्तथागतो ऽर्हन् सम्यक्संबुद्धः आरागितः? तस्य च तथागतस्य सहदर्शनेनानुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम्? एष च सर्वसत्त्वपरिपाकयथाशयसंचोदनकुशलमूलसंभवो बोधिसत्त्वविमोक्षः प्रतिलब्धः? न खलु पुनस्ते कुलपुत्र एवं द्रष्टव्यम् । अहं स तेन कालेन तेन समयेन विजितावी नाम राजकुमारो ऽभूवम् । मया तद्विजितावीराजकुमारभूतेन महाकरुणाप्रपीडितेन सर्वजगद्धितप्रतिपन्नेन त्रैधातुकानिश्रितेन विपाकाप्रतिकाङ्क्षिणा यशस्कीर्तिनामानभिनन्दिना आत्मानमनुत्कर्षयता परमपंसयता सर्ववस्त्वनभिनिविष्टेन भवसंज्ञोच्चलितेन त्रैधातुकानभिनन्दिना लोकविषयसुखविमुखेन तथागतविषयाविमुखेन बोध्याशयविशुद्धेन अध्याशयवज्रपरिनिष्पन्नेन सर्वजगन्महामैत्रीप्रयोगेन सर्वजगन्महाकरुणादुःखव्युपशमसंप्रयुक्तेन तथागतबलाध्याशयमध्यालम्बता बोधिसत्त्वमार्गं परिशोधयता महायानव्यूहनिर्याणपथमलंकुर्वता सर्वज्ञतामार्गमभिविलोकयता इमान्येवं दुष्कराणि कृतानि । एवं चिरप्रतिलब्धः कुलपुत्र मयैष सर्वसत्त्वपरिपाकयथाशयसंचोदनकुशलमूलसंभवो बोधिसत्त्वविमोक्षः ॥ तत्किं मन्यसे कुलपुत्र - अन्यानि तानि तेन समयेन पञ्चामात्यशतान्यभूवन्, यैः स राजा जयप्रभो वितथं विज्ञाप्य मम वधायोद्योजितः? न खल्वेवं द्रष्टव्यम् । इमानि तानि पञ्च पुरुषशतानि यानि देवदत्तेन भगवतो वधायोद्योजितानि । तानि च भगवता विनीय अनुत्तरायां सम्यक्संबोधौ व्याकृतानि - भविष्यत्यनागते ऽध्वनि सुमेरुपरमाणुरजःसमैः कल्पैः एकस्मिन् सुप्रभनामधेये कल्पे पञ्च बुद्धशतानि नानाबुद्धक्षेत्रगुणव्यूहानि नानाजन्मकुलगोत्रसंभवानि नानामातापितृव्यपदेशानि नानाजन्मविकुर्वितसंदर्शनानि नानाभिनिष्क्रमणविकुर्वितानि नानाबोधिवृक्षप्रभासंदर्शनानि नानाबोधिमण्डोपसंक्रमणमुखानि नानामारभङ्गसंदर्शनानि नानाभिसंबोधिविकुर्वितसंदर्शनानि नानाधर्मचक्रप्रवर्तननयनामनिरुक्तीनि नानासूत्रान्तनयनिर्देशानि नानावाक्पथरुतोदाहाराणि नानापर्षन्मण्डलव्यूहानि नानाप्रभामण्डलप्रभाव्यूहप्रमुञ्चनानि नानायुःप्रमाणानि नानाशासनाधिष्ठानानि नानाशासनविज्ञप्तीनि नानानामधेयानि महाकरुणाशरीराणि, येषां प्राथमकल्पिको महाकारुणिको नाम तथागतो रत्नप्रभायां लोकधातावनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते । तस्यामेव लोकधातौ द्वितीयः सर्वजगद्धितप्रणिधानचन्द्रो नाम तथागत उत्पत्स्यते । तृतीयो महाकरुणासिंहो (ग्व् २७७) नाम तथागत उत्पत्स्यते । चतुर्थः सर्वलोकहितैषी नाम तथागत उत्पत्स्यते । यावत्सर्वपश्चिमो वैद्यराजो नाम तथागत उत्पत्स्यते ॥ तत्किं मन्यसे कुलपुत्र - अन्ये ते तेन कालेन तेन समयेन अपराधिनः पुरुषा राजकिल्बिषकारिणो ऽभूवन् ये ते मया वध्यघातवशगताः स्वकायजीवितं परित्यज्य ततो बन्धनात् परिमोक्षिताः? न खल्वेवं द्रष्टव्यम् । इमे ते क्रकुच्छन्दपूर्वगमा भद्रकल्पिकास्तथागताः । तदन्यानि च दशः बोधिसत्त्वासंख्येयशतसहस्राणि यैर्भगवतो ऽनन्तबलविघुष्टनिर्नादितश्रीसंभवमतेस्तथागतस्य दर्शनेन अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम्, यान्येतर्हि दशसु दिक्षु बोधिचर्यां चरन्ति । इमे च सर्वसत्त्वपरिपाकयथाशयसंचोदनकुशलमूलसंभवं बोधिसत्त्वविमोक्षं भावयन्ति विपुलीकुर्वन्ति ॥ तत्किं मन्यसे कुलपुत्र - अन्यः स तेन कालेन तेन समयेन जयप्रभो नाम राजा अभूत्? न खल्वेवं द्रष्टव्यम् । सत्यकः स महावादी तेन कालेन तेन समयेन जयप्रभो नाम राजा अभूत् । तत्किं मन्यसे कुलपुत्र - अन्यः स तेन कालेन तेन समयेन राजपरिवारो ऽभूदन्तःपुरस्त्र्यागारदौवारिकपार्षद्या वा अनुयात्रिका वा? न खल्वेवं द्रष्टव्यम् । इमानि तानि षष्टिर्निग्रन्थसहस्राणि, यानि सत्यकेन महावादिना भगवतः सकाशमुपनीतानि, वादिध्वजधारणतया भगवतो वादायोपसंक्रान्तानि । तानि च सर्वाणि भगवता व्याकृतान्यनुत्तरायां सम्यक्संबोधौ । नानाबुद्धक्षेत्रव्यूहैर्नानाकल्पैर्नानानामधेयैस्तथागतां लोके उत्पत्स्यन्ते ॥ स खलु पुनः कुलपुत्र विजितावी राजकुमारो मातापितृभ्यामनुज्ञातस्तान् बन्धनगतान् सत्त्वान् परिमोच्य स्फीतां वसुमतीं धनकनकरत्नसमृद्धामपहाय पुत्रदारं चोत्सृज्य तस्य भगवतो धर्मचक्रनिर्घोषगगनमेघप्रदीपराजस्य तथागतस्यान्तिके प्राव्रजत् । प्रव्रजित्वा पञ्च वर्षसहस्राणि ब्रह्मचर्यमचरत् । एतस्मिन्नन्तरे दश समाधिमुखसहस्राणि संनिष्पादयामास । दश च धारणीमुखसहस्राणि प्रत्यलभत । दश च अभिज्ञानयसहस्राण्यवक्रान्तानि । दश बोधिसत्त्वमहानिधानसहस्राणि प्रतिलभते स्म । दश चास्य सर्वज्ञतावेगसहस्राण्याजातानि । दश चानेन क्षान्तिमुखसहस्राणि परिशोधितानि । दश चित्तनिध्यप्तिसहस्राण्यभिनिर्हृतानि । दश च बोधिसत्त्वबलशरीराणि संवर्धितानि । दश च बोधिसत्त्वज्ञानमुखसहस्राण्यवक्रान्तानि । दश चास्य प्रज्ञापारमितानयसहस्राण्याजातानि । दश च बुद्धसहस्रदर्शनदिङ्भुखसहस्राण्यामुखीभूतानि । दश च अनेन बोधिसत्त्वप्रणिधानसहस्राण्यभिनिर्हृतानि । स एवं धर्मसमन्वागतः प्रतिचित्तक्षणे दशसु दिक्षु दशबुद्धक्षेत्रसहस्राण्याक्रामति स्म । एकैकस्यां च लोकधातौ चित्तक्षणे चित्तक्षणे दश बुद्धसहस्राणि पूर्वान्तापरान्ततो ऽनुस्मरति स्म । तेषां च तथागतानां दश बुद्धनिर्माणसमुद्रसहस्राणि दशदिक्प्रसृतान्यवतरन्ति स्म । चित्तक्षणे चित्तक्षणे दश बुद्धक्षेत्रसहस्रपर्यापन्नान् सर्वसत्त्वानद्राक्षीत् । नानागत्युपपन्नांश्च्यवत (ग्व् २७८) उपपद्यमानान् हीनान् प्रणीतान् सुगतान् दुर्गतान् सुवर्णान् दुर्वर्णान् यथाकामोपगतान् । तेषां च सत्त्वानां च्युत्युपपत्तीरवतरति स्म । चित्तपरिवर्तान् चित्तचरितानि चिन्तानन्तर्यतामाशयनानात्वमिन्द्रियसागरानपि प्रयोगप्रसरानपि कर्मावसानमपि परिपाकविनयकालमपि अवतरति स्म ॥ स खलु पुनः कुलपुत्र विजितावी राजकुमारस्ततश्च्युत्वा तत्रैव जम्बुद्वीपे रतिव्यूहायां राजधान्यां तस्मिन्नेव राजकुले उपपद्य चक्रवर्तिराज्यैश्चर्यं प्रत्यलभत । तेन चक्रवर्तिराजभूतेन तस्य भगवतो धर्मचक्रनिर्घोषगगनमेघप्रदीपराजस्य तथागतस्य परिनिर्वृतस्यानन्तरं धर्मगगनाभ्युद्गतश्रीराजो नाम तथागत आरागितः । तस्यानन्तरं तत्रैव बोधिमण्डे शक्रभूतेन देवेन्द्रगर्भो नाम तथागत आरागितः । तस्यानन्तरं तत्रैव लोकधातौ सुयामदेवराजभूतेन धरणीश्रीपर्वततेजो नाम तथागत आरागितः । तस्यानन्तरं तस्मिन्नेव लोकधातौ संतुषितदेवराजभूतेन धर्मचक्रप्रभनिर्घोषराजो नाम तथागत आरागितः । तस्यानन्तरं तस्मिन्नेव लोकधातौ सुनिर्मितदेवराजभूतेन गगनकान्तराजो नाम तथागत आरागितः । तस्यानन्तरं तस्मिन्नेव लोकधातौ वशवर्तिदेवराजभूतेनानवमर्दबलकेतुर्नाम तथागत आरागितः । तस्यानन्तरं तस्मिन्नेव लोकधातावसुरेन्द्रभूतेन सर्वधर्मनिगर्जितराजो नाम तथागत आरागितः । तस्यानन्तरं तस्मिन्नेव लोकधातौ ब्रह्मेन्द्रभूतेन धर्मचक्रनिर्माणसमन्तप्रतिभासनिर्घोषो नाम तथागत आरागितः । इति हि कुलपुत्र एतांस्तथागतान् प्रमुखान् कृत्वा तस्यामेव रत्नप्रभायां लोकधातौ तस्मिन्नेव सुप्रभे कल्पे दश बुद्धसहस्राण्युदपद्यन्त । सर्वे च ते तथागता विजिताविना राजकुमारेणारागिताः । तस्य खलु पुनः कुलपुत्र सुप्रभस्य महाकल्पस्यानन्तरं सुरश्मिर्नाम कल्पो ऽभूत् । तस्मिंश्च सुरश्मिकल्पे दश बुद्धसहस्राण्युपपद्यन्त । अहं च तस्मिन् कल्पे महामतिर्नाम राजा अभूवम् । तेन मे राजभूतेन लक्षणश्रीपर्वतो नाम तथागत आरागितः । तस्यानन्तरं तस्मिन्नेव कल्पे गृहपतिभूतेन संवृतस्कन्धो नाम तथागत आरागितः । तस्यानन्तरं तस्मिन्नेव कल्पे अमात्यभूतेन विमलवत्सो नाम तथागत आरागितः । तस्यानन्तरं तस्मिन्नेव कल्पे ऽसुरेन्द्रभूतेन वेशधारी नाम तथागत आरागितः । तस्यानन्तरं तस्मिन्नेव कल्पे वृक्षदेवताभूतेन लक्षणसुमेरुर्नाम तथागत आरागितः । तस्यानन्तरं तस्मिन्नेव कल्पे सार्थवाहभूतेन विमलबाहुर्नाम तथागत आरागितः । तस्यानन्तरं तस्मिन्नेव कल्पे नगरदेवताभूतेन् सिंहविक्रान्तगामी नाम तथागत आरागितः । तस्यानन्तरं तस्मिन्नेव कल्पे वैश्रवणभूतेन देवेन्द्रचूडो नाम तथागत आरागितः । तस्यानन्तरं तस्मिन्नेव कल्पे गन्धर्वराजभूतेन धर्मोद्गतकीर्तिनाम तथागत आरागितः । तस्यानन्तरं तस्मिन्नेव कल्पे कुम्भाण्डेन्द्रभूतेन अवभासमकुटी नाम तथागत आरागितः ॥ इति हि कुलपुत्र मयैतान् दश तथागतान् प्रमुखान् कृत्वा तत्र सुरश्मिकल्पे षष्टिर्बुद्धकोट्य आरागिताः । नानोपपत्तिकायिकया सर्वे च मे तथागताः पूजिताः । एकैकं (ग्व् २७९) च तथागतमुपसंक्रामन्त्या अनन्तमध्यः सत्त्वधातुरनुत्तरायां सम्यक्संबोधौ परिपाचितः । एकैकं च तथागतमुपसंक्रामन्त्या नानासमाधिमुखानि प्रतिलब्धानि । नानाधारणीमुखानि नानाभिनिर्हारनया नानाप्रतिसंविन्नयाभिनिर्हारा नानासर्वज्ञतानयानुगमा नानाधर्मालोकमुखप्रतिलाभनया नानाज्ञाननयानुगमविचारा नानादिक्समुद्रप्रवेशावभासा नानाक्षेत्रसमुद्रावतारप्रवेशावभासा नानातथागतदर्शनसमुद्रविज्ञप्त्यवभासाः प्रतिलब्धाः, अवक्रान्ता विशुद्धाः संवर्धिताः प्रसृताः प्रतिसृताः । यथा च तत्र सुरश्मिकल्पे तथागता आरागिताः, तथा सर्वत्रलोकधातुसमुद्रपरमाणुरजःसमेषु कल्पेषु ये केचित्तथागता उपपद्यन्ते, ये ऽपि तदन्येभ्यो लोकधातुभ्य आगत्य तथागता धर्मं देशयमासुः, तेषां मया सर्वेषां तथागतानामन्तिकाद्धर्मदेशना श्रुता, श्रुत्वा च संधारिता । सर्वे च मया ते तथागता आरागिता अभिराधिताः । तेषां च मे बुद्धानां भगवतां शासनं संधारितम् । सर्वेषां च मे तेषां तथागतानामन्तिकादेष सर्वसत्त्वपरिपाकयथाशयसंचोदनकुशलमूलसंभवो बोधिसत्त्वविमोक्षः प्रतिलब्धो नानाप्रतिलाभनयनानाविमोक्षनयमुखैः ॥ अथ खलु सर्वजगद्रक्षाप्रणिधानवीर्यप्रभा रात्रिदेवता तस्यां वेलायामेतं विमोक्षनयं परिदीपयन्ती संदर्शयमाना सुधनं श्रेष्ठिदारकं गाथाभिरध्यभाषत - अचिन्त्यमेतं परमं विमोक्षं मां पृच्छसि त्वं खलु यत्प्रपीतः । विनिर्दिशत्याः सुगतानुभवाच्छृणुष्व तन्मे निखिलं यथावत्

tataḥ paścime divase sarvajanakāyaḥ saṃnipatitaḥ / rājāmātyastrīgaṇaśreṣṭhigṛhapatinaigamajanapadāḥ (Gv 275) sarvapāṣaṇḍāśca saṃnipatitāḥ / sa ca bhagavān dharmacakranirghoṣagaganameghapradīparājastathāgataḥ sattvaparipākavinayakālamāgamayya taṃ yajñavāṭamupasaṃkrānto devendragaṇaparivṛto nāgendragaṇaparivṛto nāgendrasaṃpūjito yakṣendrakāyābhinato gandharvendrābhiṣṭuto 'surendrapraṇataśarīraścūḍāmaṇivibhūṣitaprasannacitto garuḍendrapūjāvidhibhirabhiprakīrṇaḥ prītimanobhiḥ kinnarendaiḥ paripūjitaḥ stutisaṃgītisaṃcodito mahoragendrasaṃprekṣitāvalokitavadanaḥ / adrākṣīt sa mahājanakāyo vijitāvī ca rājakumārastaṃ bhagavantaṃ dharmacakranirghoṣagaganameghapradīparājaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ dūrata evāgacchantaṃ prāsādikaṃ darśanīyaṃ śāntendriyaṃ śāntamānasaṃ guptaṃ jitendriyaṃ nāgamiva sudāntaṃ hradamivācchaṃ viprasannamanāvilaṃ mahatā buddhavikurvitaprātihāryeṇa mahatyā buddhavṛṣabhitayā virocayamānaṃ buddhādhipateyenābhibhavantaṃ buddhamāhātmyatayā prabhāsayamānaṃ mahābuddhalakṣaṇānuvyañjanavibhūṣaṇopaśobhitakāyaṃ sarvalokaṃ buddhaprabhāmaṇḍalāvabhāsena spharamāṇaṃ buddharaśmibhiravabhāsayamānaṃ sarvaromavivarebhyo gandharatnārciścakrāṇi pramuñcamānaṃ buddhakṣetraprakampanena sarvalokaṃ saṃkampayamānaṃ sarvavyūhameghapravarṣaṇena buddhavikrameṇa sarvasattvakleśaprajahanena buddheryāpathena sarvasattvaprītivegavivardhanena buddhadarśanaprabhāvenopasaṃkramamāṇam / dṛṣṭvā ca bhagavato 'ntike cittamabhiprasādayāmāsuḥ // atha khalu vijitāvī rājakumāraḥ sa ca mahān janakāyastaṃ bhagavantaṃ dharmacakranirghoṣagaganameghapradīparājaṃ tathāgataṃ dūrādeva pratyudgamya prasannacittaḥ sarvaśarīreṇa praṇipatya pādau śirasābhivandya anekavidhayā pūjayā saṃpūjya evaṃ vācamabhāṣata - ehi bhagavan, ehi sugata / samanvāhṛtāḥ smaḥ tathāgatena, anuparigṛhītāḥ smaḥ sugatena / atha khalu vijitāvī rājakumārastasya bhagavato 'grāsanamupadarśayan evamāha - niṣīdatu bhagavān / idamāsanaṃ prajñaptam / tato bhagavata upasaṃkrāmatastadāsanaṃ śucigarbhaśarīrakāyikābhirdevatābhirbuddhānubhāvena gandhamaṇirājapadmagarbhamadhiṣṭhitam / nyaṣīdadbhagavān dharmacakranirghoṣagaganameghapradīparājastathāgatastatrāsane, āsanaparivāreṣu ca bodhisattvāḥ / tasya sahadarśanena tasyāṃ parṣadi sarveṣāṃ sattvānāṃ sarvavyādhayaḥ praśāntāḥ, sarvāvaraṇanivaraṇavigatāścāryadharmāṇāṃ bhājanībhūtāḥ saṃsthitāḥ // atha khalu bhagavān dharmacakranirghoṣagaganameghapradīparājastathāgatastān sattvān bhājanabhūtān viditvā anupūrveṇa kathāmakārṣīt / yaduta hetumaṇḍalaprabhāsaṃ nāma sūtrāntaṃ saṃprakāśayāmāsa / svarāṅgasahasrasaṃprayuktaṃ ca vadanāntarāt sarvadharmāṅgasaṃprayuktaṃ sarvajaganmantrasāgaraniruktinirnādanirghoṣaṃ niścārayāmāsa / atha tāvadeva tataḥ parṣado 'śītīnāṃ prāṇiniyutānāṃ virajo vigatamalaṃ dharmeṣu dharmacakṣurutpannam / bahubhiśca prāṇiniyutairaśaikṣabhūmiranuprāptā / daśa ca prāṇisahasrāṇi mahāyāne vinītāni, yaduta samantabhadrabodhisattvacaryāmahāpraṇidhānaparipūrinaye 'vatāritāni / evaṃ tasya bhagavato mahābuddhavikurvitena dharmacakraṃ pravartayamānasya daśasu dikṣu buddhakṣetraśatasahasraparamāṇurajaḥsamāḥ sattvā mahāyāne vinayamagaman / anantamadhyāśca sattvā daśadiśi loke nānābuddhakṣetraprasarasamavasaraṇeṣvapāyabhūmiṃ vinivartayāmāsuḥ / (Gv 276) gaṇanāsamatikrāntāśca sattvāḥ svargopapattipathe pratiṣṭhāpitā abhūvan / vijitāvī ca rājakumāra imaṃ sarvasattvaparipākayathāśayasaṃcodanakuśalamūlasaṃbhavaṃ bodhisattvavimokṣaṃ pratyalabhata // syātkhalu punaste kulaputra - anyaḥ sa tena kālena tena samayena vijitāvī rājakumāro 'bhūt, yena tatsvakāyajīvitaṃ parityajya sarvadhanaskandhaparivāraṃ parityajya sarvamānuṣyakaṃ ca jīvalokasukhaṃ parityajya te bandhanagatāḥ sattvāḥ tasmādbandhanāt parimokṣitāḥ? sa ca nirargalo mahāyajño yaṣṭaḥ? sa ca bhagavān dharmacakranirghoṣagaganameghapradīparājastathāgato 'rhan samyaksaṃbuddhaḥ ārāgitaḥ? tasya ca tathāgatasya sahadarśanenānuttarāyāṃ samyaksaṃbodhau cittamutpāditam? eṣa ca sarvasattvaparipākayathāśayasaṃcodanakuśalamūlasaṃbhavo bodhisattvavimokṣaḥ pratilabdhaḥ? na khalu punaste kulaputra evaṃ draṣṭavyam / ahaṃ sa tena kālena tena samayena vijitāvī nāma rājakumāro 'bhūvam / mayā tadvijitāvīrājakumārabhūtena mahākaruṇāprapīḍitena sarvajagaddhitapratipannena traidhātukāniśritena vipākāpratikāṅkṣiṇā yaśaskīrtināmānabhinandinā ātmānamanutkarṣayatā paramapaṃsayatā sarvavastvanabhiniviṣṭena bhavasaṃjñoccalitena traidhātukānabhinandinā lokaviṣayasukhavimukhena tathāgataviṣayāvimukhena bodhyāśayaviśuddhena adhyāśayavajrapariniṣpannena sarvajaganmahāmaitrīprayogena sarvajaganmahākaruṇāduḥkhavyupaśamasaṃprayuktena tathāgatabalādhyāśayamadhyālambatā bodhisattvamārgaṃ pariśodhayatā mahāyānavyūhaniryāṇapathamalaṃkurvatā sarvajñatāmārgamabhivilokayatā imānyevaṃ duṣkarāṇi kṛtāni / evaṃ cirapratilabdhaḥ kulaputra mayaiṣa sarvasattvaparipākayathāśayasaṃcodanakuśalamūlasaṃbhavo bodhisattvavimokṣaḥ // tatkiṃ manyase kulaputra - anyāni tāni tena samayena pañcāmātyaśatānyabhūvan, yaiḥ sa rājā jayaprabho vitathaṃ vijñāpya mama vadhāyodyojitaḥ? na khalvevaṃ draṣṭavyam / imāni tāni pañca puruṣaśatāni yāni devadattena bhagavato vadhāyodyojitāni / tāni ca bhagavatā vinīya anuttarāyāṃ samyaksaṃbodhau vyākṛtāni - bhaviṣyatyanāgate 'dhvani sumeruparamāṇurajaḥsamaiḥ kalpaiḥ ekasmin suprabhanāmadheye kalpe pañca buddhaśatāni nānābuddhakṣetraguṇavyūhāni nānājanmakulagotrasaṃbhavāni nānāmātāpitṛvyapadeśāni nānājanmavikurvitasaṃdarśanāni nānābhiniṣkramaṇavikurvitāni nānābodhivṛkṣaprabhāsaṃdarśanāni nānābodhimaṇḍopasaṃkramaṇamukhāni nānāmārabhaṅgasaṃdarśanāni nānābhisaṃbodhivikurvitasaṃdarśanāni nānādharmacakrapravartananayanāmaniruktīni nānāsūtrāntanayanirdeśāni nānāvākpatharutodāhārāṇi nānāparṣanmaṇḍalavyūhāni nānāprabhāmaṇḍalaprabhāvyūhapramuñcanāni nānāyuḥpramāṇāni nānāśāsanādhiṣṭhānāni nānāśāsanavijñaptīni nānānāmadheyāni mahākaruṇāśarīrāṇi, yeṣāṃ prāthamakalpiko mahākāruṇiko nāma tathāgato ratnaprabhāyāṃ lokadhātāvanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyate / tasyāmeva lokadhātau dvitīyaḥ sarvajagaddhitapraṇidhānacandro nāma tathāgata utpatsyate / tṛtīyo mahākaruṇāsiṃho (Gv 277) nāma tathāgata utpatsyate / caturthaḥ sarvalokahitaiṣī nāma tathāgata utpatsyate / yāvatsarvapaścimo vaidyarājo nāma tathāgata utpatsyate // tatkiṃ manyase kulaputra - anye te tena kālena tena samayena aparādhinaḥ puruṣā rājakilbiṣakāriṇo 'bhūvan ye te mayā vadhyaghātavaśagatāḥ svakāyajīvitaṃ parityajya tato bandhanāt parimokṣitāḥ? na khalvevaṃ draṣṭavyam / ime te krakucchandapūrvagamā bhadrakalpikāstathāgatāḥ / tadanyāni ca daśaḥ bodhisattvāsaṃkhyeyaśatasahasrāṇi yairbhagavato 'nantabalavighuṣṭanirnāditaśrīsaṃbhavamatestathāgatasya darśanena anuttarāyāṃ samyaksaṃbodhau cittamutpāditam, yānyetarhi daśasu dikṣu bodhicaryāṃ caranti / ime ca sarvasattvaparipākayathāśayasaṃcodanakuśalamūlasaṃbhavaṃ bodhisattvavimokṣaṃ bhāvayanti vipulīkurvanti // tatkiṃ manyase kulaputra - anyaḥ sa tena kālena tena samayena jayaprabho nāma rājā abhūt? na khalvevaṃ draṣṭavyam / satyakaḥ sa mahāvādī tena kālena tena samayena jayaprabho nāma rājā abhūt / tatkiṃ manyase kulaputra - anyaḥ sa tena kālena tena samayena rājaparivāro 'bhūdantaḥpurastryāgāradauvārikapārṣadyā vā anuyātrikā vā? na khalvevaṃ draṣṭavyam / imāni tāni ṣaṣṭirnigranthasahasrāṇi, yāni satyakena mahāvādinā bhagavataḥ sakāśamupanītāni, vādidhvajadhāraṇatayā bhagavato vādāyopasaṃkrāntāni / tāni ca sarvāṇi bhagavatā vyākṛtānyanuttarāyāṃ samyaksaṃbodhau / nānābuddhakṣetravyūhairnānākalpairnānānāmadheyaistathāgatāṃ loke utpatsyante // sa khalu punaḥ kulaputra vijitāvī rājakumāro mātāpitṛbhyāmanujñātastān bandhanagatān sattvān parimocya sphītāṃ vasumatīṃ dhanakanakaratnasamṛddhāmapahāya putradāraṃ cotsṛjya tasya bhagavato dharmacakranirghoṣagaganameghapradīparājasya tathāgatasyāntike prāvrajat / pravrajitvā pañca varṣasahasrāṇi brahmacaryamacarat / etasminnantare daśa samādhimukhasahasrāṇi saṃniṣpādayāmāsa / daśa ca dhāraṇīmukhasahasrāṇi pratyalabhata / daśa ca abhijñānayasahasrāṇyavakrāntāni / daśa bodhisattvamahānidhānasahasrāṇi pratilabhate sma / daśa cāsya sarvajñatāvegasahasrāṇyājātāni / daśa cānena kṣāntimukhasahasrāṇi pariśodhitāni / daśa cittanidhyaptisahasrāṇyabhinirhṛtāni / daśa ca bodhisattvabalaśarīrāṇi saṃvardhitāni / daśa ca bodhisattvajñānamukhasahasrāṇyavakrāntāni / daśa cāsya prajñāpāramitānayasahasrāṇyājātāni / daśa ca buddhasahasradarśanadiṅbhukhasahasrāṇyāmukhībhūtāni / daśa ca anena bodhisattvapraṇidhānasahasrāṇyabhinirhṛtāni / sa evaṃ dharmasamanvāgataḥ praticittakṣaṇe daśasu dikṣu daśabuddhakṣetrasahasrāṇyākrāmati sma / ekaikasyāṃ ca lokadhātau cittakṣaṇe cittakṣaṇe daśa buddhasahasrāṇi pūrvāntāparāntato 'nusmarati sma / teṣāṃ ca tathāgatānāṃ daśa buddhanirmāṇasamudrasahasrāṇi daśadikprasṛtānyavataranti sma / cittakṣaṇe cittakṣaṇe daśa buddhakṣetrasahasraparyāpannān sarvasattvānadrākṣīt / nānāgatyupapannāṃścyavata (Gv 278) upapadyamānān hīnān praṇītān sugatān durgatān suvarṇān durvarṇān yathākāmopagatān / teṣāṃ ca sattvānāṃ cyutyupapattīravatarati sma / cittaparivartān cittacaritāni cintānantaryatāmāśayanānātvamindriyasāgarānapi prayogaprasarānapi karmāvasānamapi paripākavinayakālamapi avatarati sma // sa khalu punaḥ kulaputra vijitāvī rājakumārastataścyutvā tatraiva jambudvīpe rativyūhāyāṃ rājadhānyāṃ tasminneva rājakule upapadya cakravartirājyaiścaryaṃ pratyalabhata / tena cakravartirājabhūtena tasya bhagavato dharmacakranirghoṣagaganameghapradīparājasya tathāgatasya parinirvṛtasyānantaraṃ dharmagaganābhyudgataśrīrājo nāma tathāgata ārāgitaḥ / tasyānantaraṃ tatraiva bodhimaṇḍe śakrabhūtena devendragarbho nāma tathāgata ārāgitaḥ / tasyānantaraṃ tatraiva lokadhātau suyāmadevarājabhūtena dharaṇīśrīparvatatejo nāma tathāgata ārāgitaḥ / tasyānantaraṃ tasminneva lokadhātau saṃtuṣitadevarājabhūtena dharmacakraprabhanirghoṣarājo nāma tathāgata ārāgitaḥ / tasyānantaraṃ tasminneva lokadhātau sunirmitadevarājabhūtena gaganakāntarājo nāma tathāgata ārāgitaḥ / tasyānantaraṃ tasminneva lokadhātau vaśavartidevarājabhūtenānavamardabalaketurnāma tathāgata ārāgitaḥ / tasyānantaraṃ tasminneva lokadhātāvasurendrabhūtena sarvadharmanigarjitarājo nāma tathāgata ārāgitaḥ / tasyānantaraṃ tasminneva lokadhātau brahmendrabhūtena dharmacakranirmāṇasamantapratibhāsanirghoṣo nāma tathāgata ārāgitaḥ / iti hi kulaputra etāṃstathāgatān pramukhān kṛtvā tasyāmeva ratnaprabhāyāṃ lokadhātau tasminneva suprabhe kalpe daśa buddhasahasrāṇyudapadyanta / sarve ca te tathāgatā vijitāvinā rājakumāreṇārāgitāḥ / tasya khalu punaḥ kulaputra suprabhasya mahākalpasyānantaraṃ suraśmirnāma kalpo 'bhūt / tasmiṃśca suraśmikalpe daśa buddhasahasrāṇyupapadyanta / ahaṃ ca tasmin kalpe mahāmatirnāma rājā abhūvam / tena me rājabhūtena lakṣaṇaśrīparvato nāma tathāgata ārāgitaḥ / tasyānantaraṃ tasminneva kalpe gṛhapatibhūtena saṃvṛtaskandho nāma tathāgata ārāgitaḥ / tasyānantaraṃ tasminneva kalpe amātyabhūtena vimalavatso nāma tathāgata ārāgitaḥ / tasyānantaraṃ tasminneva kalpe 'surendrabhūtena veśadhārī nāma tathāgata ārāgitaḥ / tasyānantaraṃ tasminneva kalpe vṛkṣadevatābhūtena lakṣaṇasumerurnāma tathāgata ārāgitaḥ / tasyānantaraṃ tasminneva kalpe sārthavāhabhūtena vimalabāhurnāma tathāgata ārāgitaḥ / tasyānantaraṃ tasminneva kalpe nagaradevatābhūten siṃhavikrāntagāmī nāma tathāgata ārāgitaḥ / tasyānantaraṃ tasminneva kalpe vaiśravaṇabhūtena devendracūḍo nāma tathāgata ārāgitaḥ / tasyānantaraṃ tasminneva kalpe gandharvarājabhūtena dharmodgatakīrtināma tathāgata ārāgitaḥ / tasyānantaraṃ tasminneva kalpe kumbhāṇḍendrabhūtena avabhāsamakuṭī nāma tathāgata ārāgitaḥ // iti hi kulaputra mayaitān daśa tathāgatān pramukhān kṛtvā tatra suraśmikalpe ṣaṣṭirbuddhakoṭya ārāgitāḥ / nānopapattikāyikayā sarve ca me tathāgatāḥ pūjitāḥ / ekaikaṃ (Gv 279) ca tathāgatamupasaṃkrāmantyā anantamadhyaḥ sattvadhāturanuttarāyāṃ samyaksaṃbodhau paripācitaḥ / ekaikaṃ ca tathāgatamupasaṃkrāmantyā nānāsamādhimukhāni pratilabdhāni / nānādhāraṇīmukhāni nānābhinirhāranayā nānāpratisaṃvinnayābhinirhārā nānāsarvajñatānayānugamā nānādharmālokamukhapratilābhanayā nānājñānanayānugamavicārā nānādiksamudrapraveśāvabhāsā nānākṣetrasamudrāvatārapraveśāvabhāsā nānātathāgatadarśanasamudravijñaptyavabhāsāḥ pratilabdhāḥ, avakrāntā viśuddhāḥ saṃvardhitāḥ prasṛtāḥ pratisṛtāḥ / yathā ca tatra suraśmikalpe tathāgatā ārāgitāḥ, tathā sarvatralokadhātusamudraparamāṇurajaḥsameṣu kalpeṣu ye kecittathāgatā upapadyante, ye 'pi tadanyebhyo lokadhātubhya āgatya tathāgatā dharmaṃ deśayamāsuḥ, teṣāṃ mayā sarveṣāṃ tathāgatānāmantikāddharmadeśanā śrutā, śrutvā ca saṃdhāritā / sarve ca mayā te tathāgatā ārāgitā abhirādhitāḥ / teṣāṃ ca me buddhānāṃ bhagavatāṃ śāsanaṃ saṃdhāritam / sarveṣāṃ ca me teṣāṃ tathāgatānāmantikādeṣa sarvasattvaparipākayathāśayasaṃcodanakuśalamūlasaṃbhavo bodhisattvavimokṣaḥ pratilabdho nānāpratilābhanayanānāvimokṣanayamukhaiḥ // atha khalu sarvajagadrakṣāpraṇidhānavīryaprabhā rātridevatā tasyāṃ velāyāmetaṃ vimokṣanayaṃ paridīpayantī saṃdarśayamānā sudhanaṃ śreṣṭhidārakaṃ gāthābhiradhyabhāṣata - acintyametaṃ paramaṃ vimokṣaṃ māṃ pṛcchasi tvaṃ khalu yatprapītaḥ / vinirdiśatyāḥ sugatānubhavācchṛṇuṣva tanme nikhilaṃ yathāvat

Sanskrit only: no published translation is held for this verse.

कल्पाननन्तान् विपुलानचिन्त्यान् क्षेत्रार्णवांश्चाप्रतिमानसंख्यान् । सर्वानतिक्रम्य बभूव रम्या रत्नप्रभा या खलु लोकधातुः

kalpānanantān vipulānacintyān kṣetrārṇavāṃścāpratimānasaṃkhyān / sarvānatikramya babhūva ramyā ratnaprabhā yā khalu lokadhātuḥ

Sanskrit only: no published translation is held for this verse.

तस्यामभूत्सुप्रभनामधेयः कल्पो ऽमितानां प्रभवो जिनानाम् । आरागितास्ते खलु मे मुनीन्द्रा विमोक्षमेतं परिभावयन्त्या

tasyāmabhūtsuprabhanāmadheyaḥ kalpo 'mitānāṃ prabhavo jinānām / ārāgitāste khalu me munīndrā vimokṣametaṃ paribhāvayantyā

Sanskrit only: no published translation is held for this verse.

यस्यां रतिव्यूहसनामिकाभूद्विस्तीर्णचित्रा वरराजधानी । सुविशुद्धचित्ता विषमप्रयोगाः सत्त्वा हि यस्यामभवंस्तदानीम्

yasyāṃ rativyūhasanāmikābhūdvistīrṇacitrā vararājadhānī / suviśuddhacittā viṣamaprayogāḥ sattvā hi yasyāmabhavaṃstadānīm

Sanskrit only: no published translation is held for this verse.

पुत्रो ऽस्य नाम्ना विजिताविरासीत् प्रासादिको लक्षणचित्रिताङ्गः

putro 'sya nāmnā vijitāvirāsīt prāsādiko lakṣaṇacitritāṅgaḥ

Sanskrit only: no published translation is held for this verse.

वधाय सृष्टानि नृपेण तेन तदा सहस्राण्यपराधिनां हि । दृष्ट्वा कुमारः कृपया परीतस्तान् विप्रमोक्षाय नृपं ययाचे

vadhāya sṛṣṭāni nṛpeṇa tena tadā sahasrāṇyaparādhināṃ hi / dṛṣṭvā kumāraḥ kṛpayā parītastān vipramokṣāya nṛpaṃ yayāce

Sanskrit only: no published translation is held for this verse.

श्रुत्वा नृपो ऽमात्यगणं तदानीमाहूय तेषां निखिलं तदाह । ते प्रोचुरेनं प्रणिपत्य सर्वे त्वद्धातनायैष नृप प्रयोगः

śrutvā nṛpo 'mātyagaṇaṃ tadānīmāhūya teṣāṃ nikhilaṃ tadāha / te procurenaṃ praṇipatya sarve tvaddhātanāyaiṣa nṛpa prayogaḥ

Sanskrit only: no published translation is held for this verse.

विग्राहितस्तैर्नृपतिस्तदैवं वधाय तं पुत्रमथोत्ससर्ज । अदीनवक्त्रः स्ववधानपेक्षो वध्यानत्यजन्न स राजसूनुः

vigrāhitastairnṛpatistadaivaṃ vadhāya taṃ putramathotsasarja / adīnavaktraḥ svavadhānapekṣo vadhyānatyajanna sa rājasūnuḥ

Sanskrit only: no published translation is held for this verse.

श्रुत्वा वधोत्सृष्टमथास्य माता सान्तःपुरार्ता नृपतिं ययाचे । मुञ्चार्धमासं नृपते कुमारं दातुं प्रदानान्यखिलानि लोके

śrutvā vadhotsṛṣṭamathāsya mātā sāntaḥpurārtā nṛpatiṃ yayāce / muñcārdhamāsaṃ nṛpate kumāraṃ dātuṃ pradānānyakhilāni loke

Sanskrit only: no published translation is held for this verse.

दत्ताभ्यनुज्ञश्च नृपेण तेन प्रादात्स दानानि यथोचितानि । रात्रिंदिवं दानमथार्धमासं दत्वा दिशाभ्यः समुपागतानाम्

dattābhyanujñaśca nṛpeṇa tena prādātsa dānāni yathocitāni / rātriṃdivaṃ dānamathārdhamāsaṃ datvā diśābhyaḥ samupāgatānām

Sanskrit only: no published translation is held for this verse.

पाषण्डिनां यस्य यदीप्सितं तत् तस्मै ददाति स्म वधाय सज्जः । मुक्तार्तनादाथ विनिर्जगाम सा राजधान्या जनता समग्रा

pāṣaṇḍināṃ yasya yadīpsitaṃ tat tasmai dadāti sma vadhāya sajjaḥ / muktārtanādātha vinirjagāma sā rājadhānyā janatā samagrā

Sanskrit only: no published translation is held for this verse.

सद्धर्मघोषाम्बरदीपराजो बोधिद्रुमस्थः सुगतस्तदानीम् । पक्वानि ज्ञात्वा जगदिन्द्रियाणि तं यज्ञवाटं कृपया जगाम

saddharmaghoṣāmbaradīparājo bodhidrumasthaḥ sugatastadānīm / pakvāni jñātvā jagadindriyāṇi taṃ yajñavāṭaṃ kṛpayā jagāma

Sanskrit only: no published translation is held for this verse.

उपेत्य तस्यां परिषद्यथासौ तथागतव्यूहविकुर्वितेन धर्मप्रदीपाम्बुदधर्मघोषसूत्रान्तराजं सुगतो बभाषे

upetya tasyāṃ pariṣadyathāsau tathāgatavyūhavikurvitena dharmapradīpāmbudadharmaghoṣasūtrāntarājaṃ sugato babhāṣe

Sanskrit only: no published translation is held for this verse.

अनन्तमध्यां जनतां विनीय स व्याकरोति स्म तदाग्रबोधौ । संप्रस्थितो ऽसौ विजिताव्युदग्रो राजात्मजश्चैव वराग्रबोधौ

anantamadhyāṃ janatāṃ vinīya sa vyākaroti sma tadāgrabodhau / saṃprasthito 'sau vijitāvyudagro rājātmajaścaiva varāgrabodhau

Sanskrit only: no published translation is held for this verse.

आराग्य बुद्धं विपुलं च तस्मै विधाय पूजां मुदितो बभाषे । द्वीपो भवेयं जगतां विनेता त्राणं शरण्यश्च परायणं च

ārāgya buddhaṃ vipulaṃ ca tasmai vidhāya pūjāṃ mudito babhāṣe / dvīpo bhaveyaṃ jagatāṃ vinetā trāṇaṃ śaraṇyaśca parāyaṇaṃ ca

Sanskrit only: no published translation is held for this verse.

स प्राव्रजत्तस्य मुनेः समीपे संबोधिमार्गं परिमार्गमाणः । धर्मस्वभावं सुपरीक्षमाणो यत्र स्थितः कल्पशतानि चीर्णः

sa prāvrajattasya muneḥ samīpe saṃbodhimārgaṃ parimārgamāṇaḥ / dharmasvabhāvaṃ suparīkṣamāṇo yatra sthitaḥ kalpaśatāni cīrṇaḥ

Sanskrit only: no published translation is held for this verse.

दुःखार्णवत्वे पतितामनाथां कृपायमाणो जनतामशेषाम् । संबोधिमार्गं परिभावयित्वा लभते तदानीं स विमोक्षमेतम्

duḥkhārṇavatve patitāmanāthāṃ kṛpāyamāṇo janatāmaśeṣām / saṃbodhimārgaṃ paribhāvayitvā labhate tadānīṃ sa vimokṣametam

Sanskrit only: no published translation is held for this verse.

ये तत्र कल्पे सुगता बभूवुराराग्य तानप्यखिलान् प्रसन्नः । पूजां च तेषामकरोदुदारां संधारयामास च धर्मचक्रम्

ye tatra kalpe sugatā babhūvurārāgya tānapyakhilān prasannaḥ / pūjāṃ ca teṣāmakarodudārāṃ saṃdhārayāmāsa ca dharmacakram

Sanskrit only: no published translation is held for this verse.

तदुत्तरे कल्पमहार्णवेषु क्षेत्रार्णवाणुप्रतिमेष्वशेषाः । ये चोदयात्यन्तजिनास्तदानीमारागयामास स तान् प्रपूज्य

taduttare kalpamahārṇaveṣu kṣetrārṇavāṇupratimeṣvaśeṣāḥ / ye codayātyantajināstadānīmārāgayāmāsa sa tān prapūjya

Sanskrit only: no published translation is held for this verse.

अहं स आसं विजिताविनामा दृष्ट्वा नरांश्चारकबन्धनस्थान् । तद्विप्रमोक्षाय विसृज्य देहं लब्धो ममायं हि तदा विमोक्षः

ahaṃ sa āsaṃ vijitāvināmā dṛṣṭvā narāṃścārakabandhanasthān / tadvipramokṣāya visṛjya dehaṃ labdho mamāyaṃ hi tadā vimokṣaḥ

Sanskrit only: no published translation is held for this verse.

यो भावितः कल्पमहासमुद्रान् क्षेत्रोदधीनां परमाणुसंख्यान् । प्रतिक्षणं चैव विवर्धितो ऽभूदनन्तमध्यैरसमैर्नयेभिः

yo bhāvitaḥ kalpamahāsamudrān kṣetrodadhīnāṃ paramāṇusaṃkhyān / pratikṣaṇaṃ caiva vivardhito 'bhūdanantamadhyairasamairnayebhiḥ

Sanskrit only: no published translation is held for this verse.

दृष्टाश्च मे केचन ये मुनीन्द्राः प्राप्तश्च यं मे निखिलेष्ववाप्तः । मुखैर्नयानामपरापरं च संदर्शितो ऽयं मम तद्विमोक्षः

dṛṣṭāśca me kecana ye munīndrāḥ prāptaśca yaṃ me nikhileṣvavāptaḥ / mukhairnayānāmaparāparaṃ ca saṃdarśito 'yaṃ mama tadvimokṣaḥ

Sanskrit only: no published translation is held for this verse.

तेषामचिन्त्ये हि विमोक्षतत्त्वे संशिक्षिताहं बहुकल्पकोटीः । प्रतिष्ठिता यत्र जिनैर्विमुक्तान् सद्धर्ममेघान् युगपत्पिबन्ती

teṣāmacintye hi vimokṣatattve saṃśikṣitāhaṃ bahukalpakoṭīḥ / pratiṣṭhitā yatra jinairvimuktān saddharmameghān yugapatpibantī

Sanskrit only: no published translation is held for this verse.

क्षेत्राणि सर्वाण्यपि सर्वदिक्षु स्फरन्ति कायेन असज्जमानाः । प्रतिक्षणं क्षेत्रपथेष्वचिन्त्यांस्त्र्यध्वाभिधानान् प्रविशन्ति वंशान्

kṣetrāṇi sarvāṇyapi sarvadikṣu spharanti kāyena asajjamānāḥ / pratikṣaṇaṃ kṣetrapatheṣvacintyāṃstryadhvābhidhānān praviśanti vaṃśān

Sanskrit only: no published translation is held for this verse.

अशेषतस्त्रयध्वजिनार्णवानामेकैकशश्चाभिमुखा भवन्ति । विदर्शयन्त्येव च ते जिनेषु स्वकायमेघान् प्रतिबिम्बभूताः

aśeṣatastrayadhvajinārṇavānāmekaikaśaścābhimukhā bhavanti / vidarśayantyeva ca te jineṣu svakāyameghān pratibimbabhūtāḥ

Sanskrit only: no published translation is held for this verse.

सर्वासु दिक्ष्वप्युपसंक्रमन्तो विभान्ति ते सर्वतथागतानाम् । व्यूहानशेषानभिवर्षमाणाः पूजां प्रकुर्वन्ति च ते जिनानाम्

sarvāsu dikṣvapyupasaṃkramanto vibhānti te sarvatathāgatānām / vyūhānaśeṣānabhivarṣamāṇāḥ pūjāṃ prakurvanti ca te jinānām

Sanskrit only: no published translation is held for this verse.

पृच्छन्त्यथो बुद्धसमुद्रसंख्यान् प्रश्नोदधींस्ते विपुलाननन्तान् । संधारयन्त्यप्यमितान् जिनानां ते धर्ममेघानभिवर्षमाणान्

pṛcchantyatho buddhasamudrasaṃkhyān praśnodadhīṃste vipulānanantān / saṃdhārayantyapyamitān jinānāṃ te dharmameghānabhivarṣamāṇān

Sanskrit only: no published translation is held for this verse.

अनेकरूपासनसंनिषण्णा नानाविकुर्वामुपदर्शयन्तः

anekarūpāsanasaṃniṣaṇṇā nānāvikurvāmupadarśayantaḥ

Sanskrit only: no published translation is held for this verse.

अनन्तवर्णैरपि चात्मभावैः सहस्रशः सर्वदिशः स्फरन्ति । अनन्तमध्यानि विदर्शयन्ति रूपाणि चाप्येकसमुच्छ्रयं ते

anantavarṇairapi cātmabhāvaiḥ sahasraśaḥ sarvadiśaḥ spharanti / anantamadhyāni vidarśayanti rūpāṇi cāpyekasamucchrayaṃ te

Sanskrit only: no published translation is held for this verse.

एकैकतो रोममुखादसंख्यान् मुञ्चन्ति ते रश्मिमहासमुद्रान् । क्लेशाग्निदाहं शमयन्ति चैव सर्वप्रजानां विविधैरुपायैः

ekaikato romamukhādasaṃkhyān muñcanti te raśmimahāsamudrān / kleśāgnidāhaṃ śamayanti caiva sarvaprajānāṃ vividhairupāyaiḥ

Sanskrit only: no published translation is held for this verse.

यत्र स्थिता निर्मितकायमेघानेकैकरोम्णः प्रविमुञ्चमानाः । तैरद्भुतैः सर्वदिशः स्फरित्वा धर्माम्बुवर्षैर्विनयन्ति सत्त्वान्

yatra sthitā nirmitakāyameghānekaikaromṇaḥ pravimuñcamānāḥ / tairadbhutaiḥ sarvadiśaḥ spharitvā dharmāmbuvarṣairvinayanti sattvān

Sanskrit only: no published translation is held for this verse.

नयप्रवेशो ऽयमचिन्त्यरूपः समाश्रयः सर्वजिनात्मजानाम् । यत्र प्रतिष्ठाय चरन्ति चर्यां क्षेत्रेषु सर्वेष्वपरान्तकल्पान्

nayapraveśo 'yamacintyarūpaḥ samāśrayaḥ sarvajinātmajānām / yatra pratiṣṭhāya caranti caryāṃ kṣetreṣu sarveṣvaparāntakalpān

Sanskrit only: no published translation is held for this verse.

यथाशयं धर्ममुदीरयन्तः ते दृष्टिजालाद्विनिवर्तयन्ति । स्वर्गापवर्गैर्विनिवेश्य सत्त्वान् सर्वज्ञभूमिं प्रविदर्शयन्ति

yathāśayaṃ dharmamudīrayantaḥ te dṛṣṭijālādvinivartayanti / svargāpavargairviniveśya sattvān sarvajñabhūmiṃ pravidarśayanti

Sanskrit only: no published translation is held for this verse.

लोकोपपत्तिष्वखिलास्वचिन्त्यैरनन्तवर्णैरपि चात्मभावैः । यथाशयं धर्ममुदाहरन्ति ते सर्वसत्त्वप्रतिभासरूपाः

lokopapattiṣvakhilāsvacintyairanantavarṇairapi cātmabhāvaiḥ / yathāśayaṃ dharmamudāharanti te sarvasattvapratibhāsarūpāḥ

Sanskrit only: no published translation is held for this verse.

एतांस्तथान्यानपि चाप्रमेयान् क्षेत्रार्णवाणुप्रतिमानचिन्त्यान् । अच्छम्भि ते वर्णमहासमुद्रान् विमोक्षमेतं प्रतिलभ्य शान्तम्

etāṃstathānyānapi cāprameyān kṣetrārṇavāṇupratimānacintyān / acchambhi te varṇamahāsamudrān vimokṣametaṃ pratilabhya śāntam

Sanskrit only: no published translation is held for this verse.