Library·Gandavyuhasutra·19·19.12

Gandavyuhasutra 19.12

Gand 19.12

ततः पश्चिमे दिवसे सर्वजनकायः संनिपतितः । राजामात्यस्त्रीगणश्रेष्ठिगृहपतिनैगमजनपदाः (ग्व् २७५) सर्वपाषण्डाश्च संनिपतिताः । स च भगवान् धर्मचक्रनिर्घोषगगनमेघप्रदीपराजस्तथागतः सत्त्वपरिपाकविनयकालमागमय्य तं यज्ञवाटमुपसंक्रान्तो देवेन्द्रगणपरिवृतो नागेन्द्रगणपरिवृतो नागेन्द्रसंपूजितो यक्षेन्द्रकायाभिनतो गन्धर्वेन्द्राभिष्टुतो ऽसुरेन्द्रप्रणतशरीरश्चूडामणिविभूषितप्रसन्नचित्तो गरुडेन्द्रपूजाविधिभिरभिप्रकीर्णः प्रीतिमनोभिः किन्नरेन्दैः परिपूजितः स्तुतिसंगीतिसंचोदितो महोरगेन्द्रसंप्रेक्षितावलोकितवदनः । अद्राक्षीत् स महाजनकायो विजितावी च राजकुमारस्तं भगवन्तं धर्मचक्रनिर्घोषगगनमेघप्रदीपराजं तथागतमर्हन्तं सम्यक्संबुद्धं दूरत एवागच्छन्तं प्रासादिकं दर्शनीयं शान्तेन्द्रियं शान्तमानसं गुप्तं जितेन्द्रियं नागमिव सुदान्तं ह्रदमिवाच्छं विप्रसन्नमनाविलं महता बुद्धविकुर्वितप्रातिहार्येण महत्या बुद्धवृषभितया विरोचयमानं बुद्धाधिपतेयेनाभिभवन्तं बुद्धमाहात्म्यतया प्रभासयमानं महाबुद्धलक्षणानुव्यञ्जनविभूषणोपशोभितकायं सर्वलोकं बुद्धप्रभामण्डलावभासेन स्फरमाणं बुद्धरश्मिभिरवभासयमानं सर्वरोमविवरेभ्यो गन्धरत्नार्चिश्चक्राणि प्रमुञ्चमानं बुद्धक्षेत्रप्रकम्पनेन सर्वलोकं संकम्पयमानं सर्वव्यूहमेघप्रवर्षणेन बुद्धविक्रमेण सर्वसत्त्वक्लेशप्रजहनेन बुद्धेर्यापथेन सर्वसत्त्वप्रीतिवेगविवर्धनेन बुद्धदर्शनप्रभावेनोपसंक्रममाणम् । दृष्ट्वा च भगवतो ऽन्तिके चित्तमभिप्रसादयामासुः ॥ अथ खलु विजितावी राजकुमारः स च महान् जनकायस्तं भगवन्तं धर्मचक्रनिर्घोषगगनमेघप्रदीपराजं तथागतं दूरादेव प्रत्युद्गम्य प्रसन्नचित्तः सर्वशरीरेण प्रणिपत्य पादौ शिरसाभिवन्द्य अनेकविधया पूजया संपूज्य एवं वाचमभाषत - एहि भगवन्, एहि सुगत । समन्वाहृताः स्मः तथागतेन, अनुपरिगृहीताः स्मः सुगतेन । अथ खलु विजितावी राजकुमारस्तस्य भगवतो ऽग्रासनमुपदर्शयन् एवमाह - निषीदतु भगवान् । इदमासनं प्रज्ञप्तम् । ततो भगवत उपसंक्रामतस्तदासनं शुचिगर्भशरीरकायिकाभिर्देवताभिर्बुद्धानुभावेन गन्धमणिराजपद्मगर्भमधिष्ठितम् । न्यषीदद्भगवान् धर्मचक्रनिर्घोषगगनमेघप्रदीपराजस्तथागतस्तत्रासने, आसनपरिवारेषु च बोधिसत्त्वाः । तस्य सहदर्शनेन तस्यां पर्षदि सर्वेषां सत्त्वानां सर्वव्याधयः प्रशान्ताः, सर्वावरणनिवरणविगताश्चार्यधर्माणां भाजनीभूताः संस्थिताः ॥ अथ खलु भगवान् धर्मचक्रनिर्घोषगगनमेघप्रदीपराजस्तथागतस्तान् सत्त्वान् भाजनभूतान् विदित्वा अनुपूर्वेण कथामकार्षीत् । यदुत हेतुमण्डलप्रभासं नाम सूत्रान्तं संप्रकाशयामास । स्वराङ्गसहस्रसंप्रयुक्तं च वदनान्तरात् सर्वधर्माङ्गसंप्रयुक्तं सर्वजगन्मन्त्रसागरनिरुक्तिनिर्नादनिर्घोषं निश्चारयामास । अथ तावदेव ततः पर्षदो ऽशीतीनां प्राणिनियुतानां विरजो विगतमलं धर्मेषु धर्मचक्षुरुत्पन्नम् । बहुभिश्च प्राणिनियुतैरशैक्षभूमिरनुप्राप्ता । दश च प्राणिसहस्राणि महायाने विनीतानि, यदुत समन्तभद्रबोधिसत्त्वचर्यामहाप्रणिधानपरिपूरिनये ऽवतारितानि । एवं तस्य भगवतो महाबुद्धविकुर्वितेन धर्मचक्रं प्रवर्तयमानस्य दशसु दिक्षु बुद्धक्षेत्रशतसहस्रपरमाणुरजःसमाः सत्त्वा महायाने विनयमगमन् । अनन्तमध्याश्च सत्त्वा दशदिशि लोके नानाबुद्धक्षेत्रप्रसरसमवसरणेष्वपायभूमिं विनिवर्तयामासुः । (ग्व् २७६) गणनासमतिक्रान्ताश्च सत्त्वाः स्वर्गोपपत्तिपथे प्रतिष्ठापिता अभूवन् । विजितावी च राजकुमार इमं सर्वसत्त्वपरिपाकयथाशयसंचोदनकुशलमूलसंभवं बोधिसत्त्वविमोक्षं प्रत्यलभत ॥ स्यात्खलु पुनस्ते कुलपुत्र - अन्यः स तेन कालेन तेन समयेन विजितावी राजकुमारो ऽभूत्, येन तत्स्वकायजीवितं परित्यज्य सर्वधनस्कन्धपरिवारं परित्यज्य सर्वमानुष्यकं च जीवलोकसुखं परित्यज्य ते बन्धनगताः सत्त्वाः तस्माद्बन्धनात् परिमोक्षिताः? स च निरर्गलो महायज्ञो यष्टः? स च भगवान् धर्मचक्रनिर्घोषगगनमेघप्रदीपराजस्तथागतो ऽर्हन् सम्यक्संबुद्धः आरागितः? तस्य च तथागतस्य सहदर्शनेनानुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम्? एष च सर्वसत्त्वपरिपाकयथाशयसंचोदनकुशलमूलसंभवो बोधिसत्त्वविमोक्षः प्रतिलब्धः? न खलु पुनस्ते कुलपुत्र एवं द्रष्टव्यम् । अहं स तेन कालेन तेन समयेन विजितावी नाम राजकुमारो ऽभूवम् । मया तद्विजितावीराजकुमारभूतेन महाकरुणाप्रपीडितेन सर्वजगद्धितप्रतिपन्नेन त्रैधातुकानिश्रितेन विपाकाप्रतिकाङ्क्षिणा यशस्कीर्तिनामानभिनन्दिना आत्मानमनुत्कर्षयता परमपंसयता सर्ववस्त्वनभिनिविष्टेन भवसंज्ञोच्चलितेन त्रैधातुकानभिनन्दिना लोकविषयसुखविमुखेन तथागतविषयाविमुखेन बोध्याशयविशुद्धेन अध्याशयवज्रपरिनिष्पन्नेन सर्वजगन्महामैत्रीप्रयोगेन सर्वजगन्महाकरुणादुःखव्युपशमसंप्रयुक्तेन तथागतबलाध्याशयमध्यालम्बता बोधिसत्त्वमार्गं परिशोधयता महायानव्यूहनिर्याणपथमलंकुर्वता सर्वज्ञतामार्गमभिविलोकयता इमान्येवं दुष्कराणि कृतानि । एवं चिरप्रतिलब्धः कुलपुत्र मयैष सर्वसत्त्वपरिपाकयथाशयसंचोदनकुशलमूलसंभवो बोधिसत्त्वविमोक्षः ॥ तत्किं मन्यसे कुलपुत्र - अन्यानि तानि तेन समयेन पञ्चामात्यशतान्यभूवन्, यैः स राजा जयप्रभो वितथं विज्ञाप्य मम वधायोद्योजितः? न खल्वेवं द्रष्टव्यम् । इमानि तानि पञ्च पुरुषशतानि यानि देवदत्तेन भगवतो वधायोद्योजितानि । तानि च भगवता विनीय अनुत्तरायां सम्यक्संबोधौ व्याकृतानि - भविष्यत्यनागते ऽध्वनि सुमेरुपरमाणुरजःसमैः कल्पैः एकस्मिन् सुप्रभनामधेये कल्पे पञ्च बुद्धशतानि नानाबुद्धक्षेत्रगुणव्यूहानि नानाजन्मकुलगोत्रसंभवानि नानामातापितृव्यपदेशानि नानाजन्मविकुर्वितसंदर्शनानि नानाभिनिष्क्रमणविकुर्वितानि नानाबोधिवृक्षप्रभासंदर्शनानि नानाबोधिमण्डोपसंक्रमणमुखानि नानामारभङ्गसंदर्शनानि नानाभिसंबोधिविकुर्वितसंदर्शनानि नानाधर्मचक्रप्रवर्तननयनामनिरुक्तीनि नानासूत्रान्तनयनिर्देशानि नानावाक्पथरुतोदाहाराणि नानापर्षन्मण्डलव्यूहानि नानाप्रभामण्डलप्रभाव्यूहप्रमुञ्चनानि नानायुःप्रमाणानि नानाशासनाधिष्ठानानि नानाशासनविज्ञप्तीनि नानानामधेयानि महाकरुणाशरीराणि, येषां प्राथमकल्पिको महाकारुणिको नाम तथागतो रत्नप्रभायां लोकधातावनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते । तस्यामेव लोकधातौ द्वितीयः सर्वजगद्धितप्रणिधानचन्द्रो नाम तथागत उत्पत्स्यते । तृतीयो महाकरुणासिंहो (ग्व् २७७) नाम तथागत उत्पत्स्यते । चतुर्थः सर्वलोकहितैषी नाम तथागत उत्पत्स्यते । यावत्सर्वपश्चिमो वैद्यराजो नाम तथागत उत्पत्स्यते ॥ तत्किं मन्यसे कुलपुत्र - अन्ये ते तेन कालेन तेन समयेन अपराधिनः पुरुषा राजकिल्बिषकारिणो ऽभूवन् ये ते मया वध्यघातवशगताः स्वकायजीवितं परित्यज्य ततो बन्धनात् परिमोक्षिताः? न खल्वेवं द्रष्टव्यम् । इमे ते क्रकुच्छन्दपूर्वगमा भद्रकल्पिकास्तथागताः । तदन्यानि च दशः बोधिसत्त्वासंख्येयशतसहस्राणि यैर्भगवतो ऽनन्तबलविघुष्टनिर्नादितश्रीसंभवमतेस्तथागतस्य दर्शनेन अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम्, यान्येतर्हि दशसु दिक्षु बोधिचर्यां चरन्ति । इमे च सर्वसत्त्वपरिपाकयथाशयसंचोदनकुशलमूलसंभवं बोधिसत्त्वविमोक्षं भावयन्ति विपुलीकुर्वन्ति ॥ तत्किं मन्यसे कुलपुत्र - अन्यः स तेन कालेन तेन समयेन जयप्रभो नाम राजा अभूत्? न खल्वेवं द्रष्टव्यम् । सत्यकः स महावादी तेन कालेन तेन समयेन जयप्रभो नाम राजा अभूत् । तत्किं मन्यसे कुलपुत्र - अन्यः स तेन कालेन तेन समयेन राजपरिवारो ऽभूदन्तःपुरस्त्र्यागारदौवारिकपार्षद्या वा अनुयात्रिका वा? न खल्वेवं द्रष्टव्यम् । इमानि तानि षष्टिर्निग्रन्थसहस्राणि, यानि सत्यकेन महावादिना भगवतः सकाशमुपनीतानि, वादिध्वजधारणतया भगवतो वादायोपसंक्रान्तानि । तानि च सर्वाणि भगवता व्याकृतान्यनुत्तरायां सम्यक्संबोधौ । नानाबुद्धक्षेत्रव्यूहैर्नानाकल्पैर्नानानामधेयैस्तथागतां लोके उत्पत्स्यन्ते ॥ स खलु पुनः कुलपुत्र विजितावी राजकुमारो मातापितृभ्यामनुज्ञातस्तान् बन्धनगतान् सत्त्वान् परिमोच्य स्फीतां वसुमतीं धनकनकरत्नसमृद्धामपहाय पुत्रदारं चोत्सृज्य तस्य भगवतो धर्मचक्रनिर्घोषगगनमेघप्रदीपराजस्य तथागतस्यान्तिके प्राव्रजत् । प्रव्रजित्वा पञ्च वर्षसहस्राणि ब्रह्मचर्यमचरत् । एतस्मिन्नन्तरे दश समाधिमुखसहस्राणि संनिष्पादयामास । दश च धारणीमुखसहस्राणि प्रत्यलभत । दश च अभिज्ञानयसहस्राण्यवक्रान्तानि । दश बोधिसत्त्वमहानिधानसहस्राणि प्रतिलभते स्म । दश चास्य सर्वज्ञतावेगसहस्राण्याजातानि । दश चानेन क्षान्तिमुखसहस्राणि परिशोधितानि । दश चित्तनिध्यप्तिसहस्राण्यभिनिर्हृतानि । दश च बोधिसत्त्वबलशरीराणि संवर्धितानि । दश च बोधिसत्त्वज्ञानमुखसहस्राण्यवक्रान्तानि । दश चास्य प्रज्ञापारमितानयसहस्राण्याजातानि । दश च बुद्धसहस्रदर्शनदिङ्भुखसहस्राण्यामुखीभूतानि । दश च अनेन बोधिसत्त्वप्रणिधानसहस्राण्यभिनिर्हृतानि । स एवं धर्मसमन्वागतः प्रतिचित्तक्षणे दशसु दिक्षु दशबुद्धक्षेत्रसहस्राण्याक्रामति स्म । एकैकस्यां च लोकधातौ चित्तक्षणे चित्तक्षणे दश बुद्धसहस्राणि पूर्वान्तापरान्ततो ऽनुस्मरति स्म । तेषां च तथागतानां दश बुद्धनिर्माणसमुद्रसहस्राणि दशदिक्प्रसृतान्यवतरन्ति स्म । चित्तक्षणे चित्तक्षणे दश बुद्धक्षेत्रसहस्रपर्यापन्नान् सर्वसत्त्वानद्राक्षीत् । नानागत्युपपन्नांश्च्यवत (ग्व् २७८) उपपद्यमानान् हीनान् प्रणीतान् सुगतान् दुर्गतान् सुवर्णान् दुर्वर्णान् यथाकामोपगतान् । तेषां च सत्त्वानां च्युत्युपपत्तीरवतरति स्म । चित्तपरिवर्तान् चित्तचरितानि चिन्तानन्तर्यतामाशयनानात्वमिन्द्रियसागरानपि प्रयोगप्रसरानपि कर्मावसानमपि परिपाकविनयकालमपि अवतरति स्म ॥ स खलु पुनः कुलपुत्र विजितावी राजकुमारस्ततश्च्युत्वा तत्रैव जम्बुद्वीपे रतिव्यूहायां राजधान्यां तस्मिन्नेव राजकुले उपपद्य चक्रवर्तिराज्यैश्चर्यं प्रत्यलभत । तेन चक्रवर्तिराजभूतेन तस्य भगवतो धर्मचक्रनिर्घोषगगनमेघप्रदीपराजस्य तथागतस्य परिनिर्वृतस्यानन्तरं धर्मगगनाभ्युद्गतश्रीराजो नाम तथागत आरागितः । तस्यानन्तरं तत्रैव बोधिमण्डे शक्रभूतेन देवेन्द्रगर्भो नाम तथागत आरागितः । तस्यानन्तरं तत्रैव लोकधातौ सुयामदेवराजभूतेन धरणीश्रीपर्वततेजो नाम तथागत आरागितः । तस्यानन्तरं तस्मिन्नेव लोकधातौ संतुषितदेवराजभूतेन धर्मचक्रप्रभनिर्घोषराजो नाम तथागत आरागितः । तस्यानन्तरं तस्मिन्नेव लोकधातौ सुनिर्मितदेवराजभूतेन गगनकान्तराजो नाम तथागत आरागितः । तस्यानन्तरं तस्मिन्नेव लोकधातौ वशवर्तिदेवराजभूतेनानवमर्दबलकेतुर्नाम तथागत आरागितः । तस्यानन्तरं तस्मिन्नेव लोकधातावसुरेन्द्रभूतेन सर्वधर्मनिगर्जितराजो नाम तथागत आरागितः । तस्यानन्तरं तस्मिन्नेव लोकधातौ ब्रह्मेन्द्रभूतेन धर्मचक्रनिर्माणसमन्तप्रतिभासनिर्घोषो नाम तथागत आरागितः । इति हि कुलपुत्र एतांस्तथागतान् प्रमुखान् कृत्वा तस्यामेव रत्नप्रभायां लोकधातौ तस्मिन्नेव सुप्रभे कल्पे दश बुद्धसहस्राण्युदपद्यन्त । सर्वे च ते तथागता विजिताविना राजकुमारेणारागिताः । तस्य खलु पुनः कुलपुत्र सुप्रभस्य महाकल्पस्यानन्तरं सुरश्मिर्नाम कल्पो ऽभूत् । तस्मिंश्च सुरश्मिकल्पे दश बुद्धसहस्राण्युपपद्यन्त । अहं च तस्मिन् कल्पे महामतिर्नाम राजा अभूवम् । तेन मे राजभूतेन लक्षणश्रीपर्वतो नाम तथागत आरागितः । तस्यानन्तरं तस्मिन्नेव कल्पे गृहपतिभूतेन संवृतस्कन्धो नाम तथागत आरागितः । तस्यानन्तरं तस्मिन्नेव कल्पे अमात्यभूतेन विमलवत्सो नाम तथागत आरागितः । तस्यानन्तरं तस्मिन्नेव कल्पे ऽसुरेन्द्रभूतेन वेशधारी नाम तथागत आरागितः । तस्यानन्तरं तस्मिन्नेव कल्पे वृक्षदेवताभूतेन लक्षणसुमेरुर्नाम तथागत आरागितः । तस्यानन्तरं तस्मिन्नेव कल्पे सार्थवाहभूतेन विमलबाहुर्नाम तथागत आरागितः । तस्यानन्तरं तस्मिन्नेव कल्पे नगरदेवताभूतेन् सिंहविक्रान्तगामी नाम तथागत आरागितः । तस्यानन्तरं तस्मिन्नेव कल्पे वैश्रवणभूतेन देवेन्द्रचूडो नाम तथागत आरागितः । तस्यानन्तरं तस्मिन्नेव कल्पे गन्धर्वराजभूतेन धर्मोद्गतकीर्तिनाम तथागत आरागितः । तस्यानन्तरं तस्मिन्नेव कल्पे कुम्भाण्डेन्द्रभूतेन अवभासमकुटी नाम तथागत आरागितः ॥ इति हि कुलपुत्र मयैतान् दश तथागतान् प्रमुखान् कृत्वा तत्र सुरश्मिकल्पे षष्टिर्बुद्धकोट्य आरागिताः । नानोपपत्तिकायिकया सर्वे च मे तथागताः पूजिताः । एकैकं (ग्व् २७९) च तथागतमुपसंक्रामन्त्या अनन्तमध्यः सत्त्वधातुरनुत्तरायां सम्यक्संबोधौ परिपाचितः । एकैकं च तथागतमुपसंक्रामन्त्या नानासमाधिमुखानि प्रतिलब्धानि । नानाधारणीमुखानि नानाभिनिर्हारनया नानाप्रतिसंविन्नयाभिनिर्हारा नानासर्वज्ञतानयानुगमा नानाधर्मालोकमुखप्रतिलाभनया नानाज्ञाननयानुगमविचारा नानादिक्समुद्रप्रवेशावभासा नानाक्षेत्रसमुद्रावतारप्रवेशावभासा नानातथागतदर्शनसमुद्रविज्ञप्त्यवभासाः प्रतिलब्धाः, अवक्रान्ता विशुद्धाः संवर्धिताः प्रसृताः प्रतिसृताः । यथा च तत्र सुरश्मिकल्पे तथागता आरागिताः, तथा सर्वत्रलोकधातुसमुद्रपरमाणुरजःसमेषु कल्पेषु ये केचित्तथागता उपपद्यन्ते, ये ऽपि तदन्येभ्यो लोकधातुभ्य आगत्य तथागता धर्मं देशयमासुः, तेषां मया सर्वेषां तथागतानामन्तिकाद्धर्मदेशना श्रुता, श्रुत्वा च संधारिता । सर्वे च मया ते तथागता आरागिता अभिराधिताः । तेषां च मे बुद्धानां भगवतां शासनं संधारितम् । सर्वेषां च मे तेषां तथागतानामन्तिकादेष सर्वसत्त्वपरिपाकयथाशयसंचोदनकुशलमूलसंभवो बोधिसत्त्वविमोक्षः प्रतिलब्धो नानाप्रतिलाभनयनानाविमोक्षनयमुखैः ॥ अथ खलु सर्वजगद्रक्षाप्रणिधानवीर्यप्रभा रात्रिदेवता तस्यां वेलायामेतं विमोक्षनयं परिदीपयन्ती संदर्शयमाना सुधनं श्रेष्ठिदारकं गाथाभिरध्यभाषत - अचिन्त्यमेतं परमं विमोक्षं मां पृच्छसि त्वं खलु यत्प्रपीतः । विनिर्दिशत्याः सुगतानुभवाच्छृणुष्व तन्मे निखिलं यथावत्

tataḥ paścime divase sarvajanakāyaḥ saṃnipatitaḥ / rājāmātyastrīgaṇaśreṣṭhigṛhapatinaigamajanapadāḥ (Gv 275) sarvapāṣaṇḍāśca saṃnipatitāḥ / sa ca bhagavān dharmacakranirghoṣagaganameghapradīparājastathāgataḥ sattvaparipākavinayakālamāgamayya taṃ yajñavāṭamupasaṃkrānto devendragaṇaparivṛto nāgendragaṇaparivṛto nāgendrasaṃpūjito yakṣendrakāyābhinato gandharvendrābhiṣṭuto 'surendrapraṇataśarīraścūḍāmaṇivibhūṣitaprasannacitto garuḍendrapūjāvidhibhirabhiprakīrṇaḥ prītimanobhiḥ kinnarendaiḥ paripūjitaḥ stutisaṃgītisaṃcodito mahoragendrasaṃprekṣitāvalokitavadanaḥ / adrākṣīt sa mahājanakāyo vijitāvī ca rājakumārastaṃ bhagavantaṃ dharmacakranirghoṣagaganameghapradīparājaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ dūrata evāgacchantaṃ prāsādikaṃ darśanīyaṃ śāntendriyaṃ śāntamānasaṃ guptaṃ jitendriyaṃ nāgamiva sudāntaṃ hradamivācchaṃ viprasannamanāvilaṃ mahatā buddhavikurvitaprātihāryeṇa mahatyā buddhavṛṣabhitayā virocayamānaṃ buddhādhipateyenābhibhavantaṃ buddhamāhātmyatayā prabhāsayamānaṃ mahābuddhalakṣaṇānuvyañjanavibhūṣaṇopaśobhitakāyaṃ sarvalokaṃ buddhaprabhāmaṇḍalāvabhāsena spharamāṇaṃ buddharaśmibhiravabhāsayamānaṃ sarvaromavivarebhyo gandharatnārciścakrāṇi pramuñcamānaṃ buddhakṣetraprakampanena sarvalokaṃ saṃkampayamānaṃ sarvavyūhameghapravarṣaṇena buddhavikrameṇa sarvasattvakleśaprajahanena buddheryāpathena sarvasattvaprītivegavivardhanena buddhadarśanaprabhāvenopasaṃkramamāṇam / dṛṣṭvā ca bhagavato 'ntike cittamabhiprasādayāmāsuḥ // atha khalu vijitāvī rājakumāraḥ sa ca mahān janakāyastaṃ bhagavantaṃ dharmacakranirghoṣagaganameghapradīparājaṃ tathāgataṃ dūrādeva pratyudgamya prasannacittaḥ sarvaśarīreṇa praṇipatya pādau śirasābhivandya anekavidhayā pūjayā saṃpūjya evaṃ vācamabhāṣata - ehi bhagavan, ehi sugata / samanvāhṛtāḥ smaḥ tathāgatena, anuparigṛhītāḥ smaḥ sugatena / atha khalu vijitāvī rājakumārastasya bhagavato 'grāsanamupadarśayan evamāha - niṣīdatu bhagavān / idamāsanaṃ prajñaptam / tato bhagavata upasaṃkrāmatastadāsanaṃ śucigarbhaśarīrakāyikābhirdevatābhirbuddhānubhāvena gandhamaṇirājapadmagarbhamadhiṣṭhitam / nyaṣīdadbhagavān dharmacakranirghoṣagaganameghapradīparājastathāgatastatrāsane, āsanaparivāreṣu ca bodhisattvāḥ / tasya sahadarśanena tasyāṃ parṣadi sarveṣāṃ sattvānāṃ sarvavyādhayaḥ praśāntāḥ, sarvāvaraṇanivaraṇavigatāścāryadharmāṇāṃ bhājanībhūtāḥ saṃsthitāḥ // atha khalu bhagavān dharmacakranirghoṣagaganameghapradīparājastathāgatastān sattvān bhājanabhūtān viditvā anupūrveṇa kathāmakārṣīt / yaduta hetumaṇḍalaprabhāsaṃ nāma sūtrāntaṃ saṃprakāśayāmāsa / svarāṅgasahasrasaṃprayuktaṃ ca vadanāntarāt sarvadharmāṅgasaṃprayuktaṃ sarvajaganmantrasāgaraniruktinirnādanirghoṣaṃ niścārayāmāsa / atha tāvadeva tataḥ parṣado 'śītīnāṃ prāṇiniyutānāṃ virajo vigatamalaṃ dharmeṣu dharmacakṣurutpannam / bahubhiśca prāṇiniyutairaśaikṣabhūmiranuprāptā / daśa ca prāṇisahasrāṇi mahāyāne vinītāni, yaduta samantabhadrabodhisattvacaryāmahāpraṇidhānaparipūrinaye 'vatāritāni / evaṃ tasya bhagavato mahābuddhavikurvitena dharmacakraṃ pravartayamānasya daśasu dikṣu buddhakṣetraśatasahasraparamāṇurajaḥsamāḥ sattvā mahāyāne vinayamagaman / anantamadhyāśca sattvā daśadiśi loke nānābuddhakṣetraprasarasamavasaraṇeṣvapāyabhūmiṃ vinivartayāmāsuḥ / (Gv 276) gaṇanāsamatikrāntāśca sattvāḥ svargopapattipathe pratiṣṭhāpitā abhūvan / vijitāvī ca rājakumāra imaṃ sarvasattvaparipākayathāśayasaṃcodanakuśalamūlasaṃbhavaṃ bodhisattvavimokṣaṃ pratyalabhata // syātkhalu punaste kulaputra - anyaḥ sa tena kālena tena samayena vijitāvī rājakumāro 'bhūt, yena tatsvakāyajīvitaṃ parityajya sarvadhanaskandhaparivāraṃ parityajya sarvamānuṣyakaṃ ca jīvalokasukhaṃ parityajya te bandhanagatāḥ sattvāḥ tasmādbandhanāt parimokṣitāḥ? sa ca nirargalo mahāyajño yaṣṭaḥ? sa ca bhagavān dharmacakranirghoṣagaganameghapradīparājastathāgato 'rhan samyaksaṃbuddhaḥ ārāgitaḥ? tasya ca tathāgatasya sahadarśanenānuttarāyāṃ samyaksaṃbodhau cittamutpāditam? eṣa ca sarvasattvaparipākayathāśayasaṃcodanakuśalamūlasaṃbhavo bodhisattvavimokṣaḥ pratilabdhaḥ? na khalu punaste kulaputra evaṃ draṣṭavyam / ahaṃ sa tena kālena tena samayena vijitāvī nāma rājakumāro 'bhūvam / mayā tadvijitāvīrājakumārabhūtena mahākaruṇāprapīḍitena sarvajagaddhitapratipannena traidhātukāniśritena vipākāpratikāṅkṣiṇā yaśaskīrtināmānabhinandinā ātmānamanutkarṣayatā paramapaṃsayatā sarvavastvanabhiniviṣṭena bhavasaṃjñoccalitena traidhātukānabhinandinā lokaviṣayasukhavimukhena tathāgataviṣayāvimukhena bodhyāśayaviśuddhena adhyāśayavajrapariniṣpannena sarvajaganmahāmaitrīprayogena sarvajaganmahākaruṇāduḥkhavyupaśamasaṃprayuktena tathāgatabalādhyāśayamadhyālambatā bodhisattvamārgaṃ pariśodhayatā mahāyānavyūhaniryāṇapathamalaṃkurvatā sarvajñatāmārgamabhivilokayatā imānyevaṃ duṣkarāṇi kṛtāni / evaṃ cirapratilabdhaḥ kulaputra mayaiṣa sarvasattvaparipākayathāśayasaṃcodanakuśalamūlasaṃbhavo bodhisattvavimokṣaḥ // tatkiṃ manyase kulaputra - anyāni tāni tena samayena pañcāmātyaśatānyabhūvan, yaiḥ sa rājā jayaprabho vitathaṃ vijñāpya mama vadhāyodyojitaḥ? na khalvevaṃ draṣṭavyam / imāni tāni pañca puruṣaśatāni yāni devadattena bhagavato vadhāyodyojitāni / tāni ca bhagavatā vinīya anuttarāyāṃ samyaksaṃbodhau vyākṛtāni - bhaviṣyatyanāgate 'dhvani sumeruparamāṇurajaḥsamaiḥ kalpaiḥ ekasmin suprabhanāmadheye kalpe pañca buddhaśatāni nānābuddhakṣetraguṇavyūhāni nānājanmakulagotrasaṃbhavāni nānāmātāpitṛvyapadeśāni nānājanmavikurvitasaṃdarśanāni nānābhiniṣkramaṇavikurvitāni nānābodhivṛkṣaprabhāsaṃdarśanāni nānābodhimaṇḍopasaṃkramaṇamukhāni nānāmārabhaṅgasaṃdarśanāni nānābhisaṃbodhivikurvitasaṃdarśanāni nānādharmacakrapravartananayanāmaniruktīni nānāsūtrāntanayanirdeśāni nānāvākpatharutodāhārāṇi nānāparṣanmaṇḍalavyūhāni nānāprabhāmaṇḍalaprabhāvyūhapramuñcanāni nānāyuḥpramāṇāni nānāśāsanādhiṣṭhānāni nānāśāsanavijñaptīni nānānāmadheyāni mahākaruṇāśarīrāṇi, yeṣāṃ prāthamakalpiko mahākāruṇiko nāma tathāgato ratnaprabhāyāṃ lokadhātāvanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyate / tasyāmeva lokadhātau dvitīyaḥ sarvajagaddhitapraṇidhānacandro nāma tathāgata utpatsyate / tṛtīyo mahākaruṇāsiṃho (Gv 277) nāma tathāgata utpatsyate / caturthaḥ sarvalokahitaiṣī nāma tathāgata utpatsyate / yāvatsarvapaścimo vaidyarājo nāma tathāgata utpatsyate // tatkiṃ manyase kulaputra - anye te tena kālena tena samayena aparādhinaḥ puruṣā rājakilbiṣakāriṇo 'bhūvan ye te mayā vadhyaghātavaśagatāḥ svakāyajīvitaṃ parityajya tato bandhanāt parimokṣitāḥ? na khalvevaṃ draṣṭavyam / ime te krakucchandapūrvagamā bhadrakalpikāstathāgatāḥ / tadanyāni ca daśaḥ bodhisattvāsaṃkhyeyaśatasahasrāṇi yairbhagavato 'nantabalavighuṣṭanirnāditaśrīsaṃbhavamatestathāgatasya darśanena anuttarāyāṃ samyaksaṃbodhau cittamutpāditam, yānyetarhi daśasu dikṣu bodhicaryāṃ caranti / ime ca sarvasattvaparipākayathāśayasaṃcodanakuśalamūlasaṃbhavaṃ bodhisattvavimokṣaṃ bhāvayanti vipulīkurvanti // tatkiṃ manyase kulaputra - anyaḥ sa tena kālena tena samayena jayaprabho nāma rājā abhūt? na khalvevaṃ draṣṭavyam / satyakaḥ sa mahāvādī tena kālena tena samayena jayaprabho nāma rājā abhūt / tatkiṃ manyase kulaputra - anyaḥ sa tena kālena tena samayena rājaparivāro 'bhūdantaḥpurastryāgāradauvārikapārṣadyā vā anuyātrikā vā? na khalvevaṃ draṣṭavyam / imāni tāni ṣaṣṭirnigranthasahasrāṇi, yāni satyakena mahāvādinā bhagavataḥ sakāśamupanītāni, vādidhvajadhāraṇatayā bhagavato vādāyopasaṃkrāntāni / tāni ca sarvāṇi bhagavatā vyākṛtānyanuttarāyāṃ samyaksaṃbodhau / nānābuddhakṣetravyūhairnānākalpairnānānāmadheyaistathāgatāṃ loke utpatsyante // sa khalu punaḥ kulaputra vijitāvī rājakumāro mātāpitṛbhyāmanujñātastān bandhanagatān sattvān parimocya sphītāṃ vasumatīṃ dhanakanakaratnasamṛddhāmapahāya putradāraṃ cotsṛjya tasya bhagavato dharmacakranirghoṣagaganameghapradīparājasya tathāgatasyāntike prāvrajat / pravrajitvā pañca varṣasahasrāṇi brahmacaryamacarat / etasminnantare daśa samādhimukhasahasrāṇi saṃniṣpādayāmāsa / daśa ca dhāraṇīmukhasahasrāṇi pratyalabhata / daśa ca abhijñānayasahasrāṇyavakrāntāni / daśa bodhisattvamahānidhānasahasrāṇi pratilabhate sma / daśa cāsya sarvajñatāvegasahasrāṇyājātāni / daśa cānena kṣāntimukhasahasrāṇi pariśodhitāni / daśa cittanidhyaptisahasrāṇyabhinirhṛtāni / daśa ca bodhisattvabalaśarīrāṇi saṃvardhitāni / daśa ca bodhisattvajñānamukhasahasrāṇyavakrāntāni / daśa cāsya prajñāpāramitānayasahasrāṇyājātāni / daśa ca buddhasahasradarśanadiṅbhukhasahasrāṇyāmukhībhūtāni / daśa ca anena bodhisattvapraṇidhānasahasrāṇyabhinirhṛtāni / sa evaṃ dharmasamanvāgataḥ praticittakṣaṇe daśasu dikṣu daśabuddhakṣetrasahasrāṇyākrāmati sma / ekaikasyāṃ ca lokadhātau cittakṣaṇe cittakṣaṇe daśa buddhasahasrāṇi pūrvāntāparāntato 'nusmarati sma / teṣāṃ ca tathāgatānāṃ daśa buddhanirmāṇasamudrasahasrāṇi daśadikprasṛtānyavataranti sma / cittakṣaṇe cittakṣaṇe daśa buddhakṣetrasahasraparyāpannān sarvasattvānadrākṣīt / nānāgatyupapannāṃścyavata (Gv 278) upapadyamānān hīnān praṇītān sugatān durgatān suvarṇān durvarṇān yathākāmopagatān / teṣāṃ ca sattvānāṃ cyutyupapattīravatarati sma / cittaparivartān cittacaritāni cintānantaryatāmāśayanānātvamindriyasāgarānapi prayogaprasarānapi karmāvasānamapi paripākavinayakālamapi avatarati sma // sa khalu punaḥ kulaputra vijitāvī rājakumārastataścyutvā tatraiva jambudvīpe rativyūhāyāṃ rājadhānyāṃ tasminneva rājakule upapadya cakravartirājyaiścaryaṃ pratyalabhata / tena cakravartirājabhūtena tasya bhagavato dharmacakranirghoṣagaganameghapradīparājasya tathāgatasya parinirvṛtasyānantaraṃ dharmagaganābhyudgataśrīrājo nāma tathāgata ārāgitaḥ / tasyānantaraṃ tatraiva bodhimaṇḍe śakrabhūtena devendragarbho nāma tathāgata ārāgitaḥ / tasyānantaraṃ tatraiva lokadhātau suyāmadevarājabhūtena dharaṇīśrīparvatatejo nāma tathāgata ārāgitaḥ / tasyānantaraṃ tasminneva lokadhātau saṃtuṣitadevarājabhūtena dharmacakraprabhanirghoṣarājo nāma tathāgata ārāgitaḥ / tasyānantaraṃ tasminneva lokadhātau sunirmitadevarājabhūtena gaganakāntarājo nāma tathāgata ārāgitaḥ / tasyānantaraṃ tasminneva lokadhātau vaśavartidevarājabhūtenānavamardabalaketurnāma tathāgata ārāgitaḥ / tasyānantaraṃ tasminneva lokadhātāvasurendrabhūtena sarvadharmanigarjitarājo nāma tathāgata ārāgitaḥ / tasyānantaraṃ tasminneva lokadhātau brahmendrabhūtena dharmacakranirmāṇasamantapratibhāsanirghoṣo nāma tathāgata ārāgitaḥ / iti hi kulaputra etāṃstathāgatān pramukhān kṛtvā tasyāmeva ratnaprabhāyāṃ lokadhātau tasminneva suprabhe kalpe daśa buddhasahasrāṇyudapadyanta / sarve ca te tathāgatā vijitāvinā rājakumāreṇārāgitāḥ / tasya khalu punaḥ kulaputra suprabhasya mahākalpasyānantaraṃ suraśmirnāma kalpo 'bhūt / tasmiṃśca suraśmikalpe daśa buddhasahasrāṇyupapadyanta / ahaṃ ca tasmin kalpe mahāmatirnāma rājā abhūvam / tena me rājabhūtena lakṣaṇaśrīparvato nāma tathāgata ārāgitaḥ / tasyānantaraṃ tasminneva kalpe gṛhapatibhūtena saṃvṛtaskandho nāma tathāgata ārāgitaḥ / tasyānantaraṃ tasminneva kalpe amātyabhūtena vimalavatso nāma tathāgata ārāgitaḥ / tasyānantaraṃ tasminneva kalpe 'surendrabhūtena veśadhārī nāma tathāgata ārāgitaḥ / tasyānantaraṃ tasminneva kalpe vṛkṣadevatābhūtena lakṣaṇasumerurnāma tathāgata ārāgitaḥ / tasyānantaraṃ tasminneva kalpe sārthavāhabhūtena vimalabāhurnāma tathāgata ārāgitaḥ / tasyānantaraṃ tasminneva kalpe nagaradevatābhūten siṃhavikrāntagāmī nāma tathāgata ārāgitaḥ / tasyānantaraṃ tasminneva kalpe vaiśravaṇabhūtena devendracūḍo nāma tathāgata ārāgitaḥ / tasyānantaraṃ tasminneva kalpe gandharvarājabhūtena dharmodgatakīrtināma tathāgata ārāgitaḥ / tasyānantaraṃ tasminneva kalpe kumbhāṇḍendrabhūtena avabhāsamakuṭī nāma tathāgata ārāgitaḥ // iti hi kulaputra mayaitān daśa tathāgatān pramukhān kṛtvā tatra suraśmikalpe ṣaṣṭirbuddhakoṭya ārāgitāḥ / nānopapattikāyikayā sarve ca me tathāgatāḥ pūjitāḥ / ekaikaṃ (Gv 279) ca tathāgatamupasaṃkrāmantyā anantamadhyaḥ sattvadhāturanuttarāyāṃ samyaksaṃbodhau paripācitaḥ / ekaikaṃ ca tathāgatamupasaṃkrāmantyā nānāsamādhimukhāni pratilabdhāni / nānādhāraṇīmukhāni nānābhinirhāranayā nānāpratisaṃvinnayābhinirhārā nānāsarvajñatānayānugamā nānādharmālokamukhapratilābhanayā nānājñānanayānugamavicārā nānādiksamudrapraveśāvabhāsā nānākṣetrasamudrāvatārapraveśāvabhāsā nānātathāgatadarśanasamudravijñaptyavabhāsāḥ pratilabdhāḥ, avakrāntā viśuddhāḥ saṃvardhitāḥ prasṛtāḥ pratisṛtāḥ / yathā ca tatra suraśmikalpe tathāgatā ārāgitāḥ, tathā sarvatralokadhātusamudraparamāṇurajaḥsameṣu kalpeṣu ye kecittathāgatā upapadyante, ye 'pi tadanyebhyo lokadhātubhya āgatya tathāgatā dharmaṃ deśayamāsuḥ, teṣāṃ mayā sarveṣāṃ tathāgatānāmantikāddharmadeśanā śrutā, śrutvā ca saṃdhāritā / sarve ca mayā te tathāgatā ārāgitā abhirādhitāḥ / teṣāṃ ca me buddhānāṃ bhagavatāṃ śāsanaṃ saṃdhāritam / sarveṣāṃ ca me teṣāṃ tathāgatānāmantikādeṣa sarvasattvaparipākayathāśayasaṃcodanakuśalamūlasaṃbhavo bodhisattvavimokṣaḥ pratilabdho nānāpratilābhanayanānāvimokṣanayamukhaiḥ // atha khalu sarvajagadrakṣāpraṇidhānavīryaprabhā rātridevatā tasyāṃ velāyāmetaṃ vimokṣanayaṃ paridīpayantī saṃdarśayamānā sudhanaṃ śreṣṭhidārakaṃ gāthābhiradhyabhāṣata - acintyametaṃ paramaṃ vimokṣaṃ māṃ pṛcchasi tvaṃ khalu yatprapītaḥ / vinirdiśatyāḥ sugatānubhavācchṛṇuṣva tanme nikhilaṃ yathāvat

Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.

Sanskrit only: no published translation is held for this verse.

Permanent address: hreem.cc/library/Gand/19.12

Cite as: Gandavyuhasutra 19.12, in HREEM (hreem.cc/library/Gand/19.12), after GRETIL, Gandavyuhasutra Based on the edition by P.L.

Edition, numbering and licence

GRETIL 4_rellit/buddh/bsu016_u.htm — Gandavyuhasutra Based on the edition by P.L. Vaidya. Gaṇḍavyūhasūtram, Darbhanga: The Mithila Institute, 1960 (Buddhist Sanskrit Texts No. 5). Input by members of the Sanskrit Buddhist Input Project. With kind permission of the Digital Sanskrit Buddhist Canon | NOTE: the file numbers verses only within chapters; chapter numbers were inferred from each restart at 1 — verify against a printed edition before citing formally.

GRETIL (SUB Göttingen), CC BY-NC-SA 4.0 — non-commercial use with attribution; the Companion is kept free while this corpus is held. Devanagari generated mechanically from GRETIL's IAST.

More about this text