Library·Gandavyuhasutra·24

Gandavyuhasutra 24

तस्यां खलु द्रुममेरुश्रियां राजधान्यां धनपतिर्नाम राजा अभूत् मण्डलिकः । तस्य चतुरशीतिस्त्रीसहस्राण्यन्तःपुरमभूत् । पञ्च च अमात्यशतान्यभूवन् । राज्ञः खलु पुनर्धनपतेः पञ्च पुत्रशतान्यभूवन् सर्वेषां शूराणां वीराणां वराङ्गरूपिणां परसैन्यप्रमर्दकानां प्रासादिकानां दर्शनीयानां परमशुभवर्णपुष्कलतया समन्वागतानां । राज्ञः खलु पुनर्धनपतेः पद्मश्रीगर्भसंभवा नाम अग्रमहिषी अभूत् तेषां चतुरशीतेः स्त्रीसहस्राणां प्रमुखा । तस्यां तेजोधिपतिर्नाम पुत्रो ऽभूदभिरूपः प्रासादिको दर्शनीयः द्वात्रिंशन्महापुरुषलक्षणसमलंकृतकायः । तस्येमानि द्वात्रिंशन्महापुरुषलक्षणान्यभूवन् । यदुत - सुप्रतिष्ठितपाणिपादः तेजोधिपतिराजकुमारो ऽभूत् । समं महापृथिव्यां पादतलावुत्क्षिपति, समं निक्षिपति, निक्षिपंश्च सर्वावत्पादतलाभ्यां समं महापृथिवीं संस्पृशति । पादतलयोश्चास्य चक्राणि जातानि सहस्राराणि सनाभीनि सनेमिकानि सर्वाकारपरिपूर्णानि सुरुचिराणि दर्शनीयानि । उच्छङ्खपादता चास्य अभिनिर्वृत्ताभूत्, सुव्यक्तपरमोपशोभिता उपरि पादच्छविकुसुमगर्भातिरेकप्रभास्वरा । उभे चास्य हस्तपादतले जालिनी अभूतां विचित्रसुविभक्ताच्छिद्रापरिस्राविणी, तद्यथा धृतराष्ट्रस्य हंसराजस्य । आयतपादपार्ष्णिता अस्याभिनिर्वृत्ताभूत्परिशुद्धा प्रभास्वरा सर्वरत्नवर्णावभासप्रमुक्ता । दीर्घा अस्याङ्गुलयो ऽभूवन् वृत्ताः समायतसंधयः । स ताः समं पृथिव्यां प्रतिष्ठापयामास, समुद्धरति स्म । मृदूनि चास्य (ग्व् ३१०) हस्तपादतलान्यभूवन् काचिलिन्दिकातिरेकसुखसंस्पर्शानि । स तैर्यान् स्पृशति स्त्रियं वा पुरुषं वा दारकं वा दारिकां वा, सर्वे ते प्रीतिमनसो ऽभूवन् परमसुखसौमनस्यसमर्पिताः । एणेयजङ्घता चास्य अभिनिर्वृत्ताभूत् । तस्य जङ्घे अनुपुर्वसमुद्गते अभूतां रचिते वृत्ते सुजाते एणेयस्येव मृगरज्ञः । नैनं कश्चित्समर्थो ऽनुजवितुमनप्राप्तुं वा, न च व्रजन् क्लममापद्यते स्म । सप्तोत्सदः खलु पुनः स तेजोधिपतिराजकुमारो ऽभूत् । तस्य द्वयोः पादयोर्द्वावुत्सदौ जातावभूतां वृत्तौ सुजातौ सुपरिपूर्णावदृश्यसंधी सुरचितौ दर्शनीयौ, द्वौ हस्तयोर्द्वावंसकूटयोः पृष्ठतो ग्रीवायामेकः । कोशगतबस्तिगुह्यता चास्य महापुरुषलक्षणमभिनिर्वृत्तमभूत् । सुगुप्तमस्य कोशबस्तिगुह्यमभून्निमग्नं संछादितम्, तद्यथा हस्त्याजानेयस्य वा अश्वाजानेयस्य वा । नास्य कश्चित्स्त्री वा पुरुषो वा दारको वा दारिका वा वृद्धो वा मध्यो वा दहरो वा गुरुर्वा गुरुस्थानीयो वा निर्वसनस्याप्यपश्यदन्यत्र स्वपरिभोगेन नैमित्तिकेन वा कामोपचितेन । सिंहपूर्वार्धकायः खलु पुनः स तेजोधिपतिराजकुमारो ऽभूत् । अनुपूर्वोद्गतशरीर उपविस्तीर्णवृतोरस्को ऽभिजातमृगराजातिरेकसुसंस्थितसमुच्छ्रयः । चितान्तरांसः खलु पुनरभवत् सूपचितशरीरः सुविभक्तसमुच्छ्रयः सर्वकायसमभागप्रतिष्ठितः अनूनगात्रः अनुन्नतगात्रो ऽपरिणतगात्रो मणिफलकविसृष्टातिरेकद्युतिगात्रः । संवृत्तस्कन्धः खलु पुनरभवत् । वृत्तावस्य स्कन्धावभूतां पीनौ शुभौ सुपरिपुष्टौ । प्रलम्बबाहुतामहापुरुषलक्षणप्रतिलब्धः स खलु पुनरभवत् । सो ऽनवनमनेनोभाभ्यां पाणिभ्यां जानुमण्डले परिमार्जति, परामृशति समभागस्थितेन शरीरेण । वृहदृजुगात्रमहापुरुषलक्षणप्रतिलब्धः स खलु पुनरभवत् सर्वावरोपेतपरमाणुसमगात्रः प्रशमगात्रो गुरुगात्रः प्रसन्नगात्रः प्रह्लादगात्रः । कम्बुग्रीवतामहापुरुषलक्षणप्रतिलब्धः स खलु पुनरभवत् अदीनकण्ठश्च । तस्य यावत्यो ग्रीवासामन्तकेन मुखसामन्तकेन च रसहरण्यः, ताः सर्वाः समा अभूवन् समन्ताः सुपरिपूर्णाः । सिंहहनुतामहापुरुषलक्षणप्रतिलब्धः स खलु पुनरभवत्, सुनिष्पीडितहनुः सुपरिपूर्णमुखमण्डलः सुजातपरिशुद्धमुखमण्डलः स्वायतमुखद्वारो ऽपविवरः । समचत्वारिंशद्दन्ततामहापुरुषलक्षणप्रतिलब्धः स खलु पुनरभूत् अनूनदशनः । तस्य किंचिद्भक्तपरिभोगेषु एकवारमपि मुखभक्तं परिवर्तमानमसंभिन्नमभ्यवहारमगमत् अन्तश एकोदनबिन्दुरपि । अविरलाविषमदन्ततामहापुरुषलक्षणप्रतिलब्धः स खलु पुनरभवत् । अविरला अविषमा अस्य दन्ता अभूवन् अच्छिद्रसंधयः समां सुविभक्ताः, यैरस्याहारं परिभुञ्जानस्य नाभूत्सङ्गो वा परिसङ्गोपरुद्वङ्गो(?) वा उपक्लेदो वा अभिष्यन्दो वा पर्यवनाहो वा अतिसर्जनं वा । समदन्ततामहापुरुषलक्षणप्रतिलब्धः खलु पुनरभवत् समदन्तो नोनदन्तो नाधिकदन्तो नोन्नतदन्तो न संनतदन्तो न संभिन्नदन्तः समन्तमध्यदन्तो ऽनुत्सन्नदन्तो अविनिर्भिन्नदन्तः । सुशुक्लदंष्ट्रश्च कुमारो ऽभूत् निरुपक्लेशदष्ट्रः सुप्रसन्नदंष्ट्रः सुपरिशुद्धदंष्ट्रः सुसंस्थितविचित्रदंष्ट्रः । सुप्रभूतजिह्वतामहापुरुषलक्षणप्रतिलब्धः खलु पुनरभवत् । (ग्व् ३११) प्रभूता चास्य जिह्वा अभूत् तन्वी मृद्वी सुकुमारा कर्मण्या कमनीया लघुपरिवर्तिनी मुखमण्डलसंछादनी तथ्यपथ्यार्थव्यञ्जनपदनिरुक्त्यधिष्ठानसंप्रयुक्ता । ब्रह्मस्वरश्च स कुमारो ऽभूदभिरुचिरस्वरः सर्वतूर्यनिर्नादगीतवाद्यघोषमनोज्ञरुतरवितालापसंलापवाक्कर्मप्रव्याहारः । वाक्पथाभिरतिसंजननीं सर्वलोकाभिनन्दिनीं वाचमुदीरयति स्म । ब्रह्मातिरेकेण स्वरेण च पर्षन्मण्डलमतिक्रामति, सर्वं च अनुरवति । अभिनीलनेत्रश्च स कुमारो ऽभूदच्छनेत्रः परिशुद्धनेत्रः प्रभास्वरनेत्रः विप्रसन्ननेत्रो ऽभिरूपनेत्रो दर्शनीयनेत्रः सुरुचिरनेत्रः प्रहसितनेत्रः । गोपक्ष्मो स कुमारो ऽभूत्पद्मरागसुविशुद्धचक्षुरायतनः समनेत्ररङ्गः समसदृशनेत्ररङ्गः सुजातनेत्ररङ्गः आयतनेत्ररङ्गः परिपूर्णनेत्ररङ्गः सुप्रतिष्ठितनेत्ररङ्गः । भ्रुवोन्तरे चास्य ऊर्णा जाताभून्मृद्वी कर्मण्या सुकुमाराकुलसंस्पर्शा स्वच्छा शुद्धा प्रभास्वरा हिमगुडिकातुषारवर्णा सुशुक्लरश्मिमण्डलप्रभावभासा । मुर्ध्नि च अस्योष्णीषमभिनिर्वृत्तमभूत् सुजातं समन्तपरिमण्डलं मध्याभिन्यस्तकेशालंकारं कोटीशतसहस्रपत्ररत्नपद्मसंदर्शितं समन्तात्समभागप्रतिष्ठितमपरिमितमहार्ध्यताप्रधानमध्यम् । सूक्ष्मच्छविश्च स कुमारो ऽभूत् । नास्य काये रजो वा मलो वा क्लेदो वा जालं वा वली वा शैथिल्यं वा भङ्गो वा प्रसरणं वा विसरणं वा असमं वा अस्थिषत । सुवर्णवर्णच्छविश्च स कुमारो ऽभूज्जाम्बूनदहेमनिर्भासः समन्तव्यामप्रभः काञ्चनैकज्वालाप्रभामण्डलोपशोभितः सर्वरोमकूपप्रमुक्तगन्धरश्मिवितिमिरप्रभास्वरशरीरालंकारः । एकैकरोमा च स कुमारो ऽभूत् । एकैकरोमस्य एकैकस्मिन् रोमकूपे रोम जातमभून्नीलवैडूर्यवर्णप्रदक्षिणावर्तकुण्डलजातं सुपरिसंचितं सुनिविष्टं सुप्रतिष्ठितम् । ऊर्ध्वाङ्गरोमा च स कुमारो ऽभूदविनिवर्तनीयरोमा अप्रत्युदावर्तनीयरोमा असंसृष्टरोमा । इन्द्रनीलवर्णकेशतामहापुरुषलक्षणप्रतिलब्धः । स कुमारो ऽभूत् । तस्य नीलाः केशा अभूवन् वैरोचनमणिरत्ननीलवर्णनिर्भासाः स्निग्धा मृदवः सुकुञ्चिताः प्रदक्षिणावर्तकुण्डलिनः सुजातमूला अनुद्धताः निष्पीडिता असंलुलिताः समसदृशस्थानसंस्थिताः । न्यग्रोधपरिमण्डलतामहापुरुषलक्षणप्रतिलब्धः स खलु पुनः तेजोधिपती राजकुमारो ऽभूत् समन्तभद्रपरिमण्डलः समन्तभद्रः समन्तप्रासादिकः । स पुरतो ऽप्यतृप्तिकरचारुदर्शनो ऽभूत् । पृष्ठतो ऽपि दक्षिणतो ऽपि वामतो ऽपि गच्छन्नपि तिष्ठन्नपि निषण्णो ऽपि भाषमाणो ऽपि तूष्णीभूतो ऽपि अतृप्तिकरमनापचारुदर्शनो ऽभुत् । एभिः कुलपुत्र द्वात्रिंशता महापुरुषलक्षणैः समलंकृतकायः स तेजोधिपती राजकुमारो ऽभूत् सर्वसत्त्वाप्रतिकूलदर्शनः सर्वाभिप्रायपरिपूरिकदर्शनः सर्वसत्त्वरतिकरदर्शनः ॥ स खलु कुलपुत्र तेजोधिपती राजकुमारो ऽपरेण समयेन पित्राभ्यनुज्ञातो द्रुममेरुश्रियो राजधान्या गन्धाङ्कुरप्रभमेघं नामोद्यानम्, तत्र भूमिदर्शनाय अभिनिर्ययौ विंशत्या कन्यासहस्रैः सार्धं महता पुण्यतेजौतःश्रीसौभाग्यविकुर्वितव्यूहेन नरनारीगणैः समन्तादभिनन्द्यमानो जाम्बूनदसुवर्णरथमारुह्य महावज्ररत्नचतुश्चक्रं नारायणवज्रमयदृढाक्षयाक्षमुत्तमचन्दनसुपरिनिष्ठितप्रतिष्ठितेषं सर्वगन्धमणिराजसुविभक्तपञ्जरं सर्वरत्नपुष्पसुविचित्रोपशोभितव्यूहं सर्वरत्नजालसंछादितव्यूहं (ग्व् ३१२) महामणिरत्नराजव्यूहगर्भमध्यप्रतिष्ठापितसिंहासनं पञ्चकन्याशतरत्नसूत्रदामपरिगृहीतं गगनासक्तवायुसमजवाजानेयाश्वसहस्रयुक्तम् अनुपूर्वपरिणतचारुदर्शनेन श्वेतवैदूर्यमणिराजमयच्छदनेन विमलाप्रमाणप्रभेण अचिन्त्याद्भुतसर्वरत्नविरचनाभक्तिविन्यासचित्रसर्वाकारव्यूहोपशोभितेन नीलवैदूर्यमणिराजोद्विद्धदण्डेन महता रत्नच्छत्रेण ध्रियता बहुप्राणिशतसहस्रपरिवृतदिव्यमधुरमनोज्ञनिर्धोषैस्तूर्यशतसहस्रैः प्रवाद्यमानैः महद्भिः पुष्पमेघैरभिप्रवर्षद्भिः सुरभिदिव्यगन्धधूपघटिकानियुतशतसहस्रैः प्रधूप्यमानैः । तस्य तथा व्रजतो ऽष्टवर्त्मा मार्गः समवस्थिषत निम्नोन्नतविगतो ऽपगतशर्करकठल्लोत्सदो जातरूपरजतसर्वरत्नराजधातुसंचितभूमितलप्रतिष्ठानः सुवर्णवालिकासंस्तीर्णो विचित्ररत्नपुष्पाभिकीर्णः उभयतो रत्नवृक्षपङ्क्तिसमलंकृतविचित्ररत्नवेदिकापरिवृतः । उपरि रत्नकिङ्किणीजालसंछन्नो विविधरत्नविततप्रतिमण्डितो ऽनेकरत्नध्वजपताकापट्टशतसहस्राभिप्रलम्बितोपशोभितव्यूहः उभयतो नानारत्नव्योमकपङ्क्तिविरचितव्यूहः ॥ तत्र केषुचिद्रत्नव्योमकेषु विविधरत्नपरिपूर्णानि रत्नभाजनानि स्थापितान्यभूवन् याचनकसंघप्रतिपादनकार्थम् । केषुचिद्व्योमकेषु सर्वरत्नाभरणविधयः स्थापिता अलंकारार्थिनां याचकानामलंकरणार्थम् । केषुचिद्व्योमकेषु चिन्तामणिरत्नानि स्थापितानि सर्वसत्त्वानां सर्वाभिप्रायपरिपूरणार्थम् । केषुचिद्व्योमकेषु सर्वाकारविविधान्नपानरसपरिपूर्णानि भोजनानि स्थापितानि, यस्य येनार्थः तस्य तं प्रतिपादनार्थम् । केषुचिद्व्योमकेषु सर्वाकारपरमस्वादुमनोज्ञवर्णगन्धरसस्पर्शाः दिव्यभक्तविधयः स्थापिताः । केषुचिद्व्योमकेषु विचित्ररसास्वादादिव्यसर्वफलविधयः स्थापिताः । केषुचिद्व्योमकेषु विविधोज्ज्वलविचित्ररङ्गरक्तानि नानाचित्रभक्तिविन्यासविराजितानि परममहार्हाणि सूक्ष्माणि सुकुमारकान्तवर्णानि दिव्यवस्त्रकोटीशतसहस्राणि स्थापितानि वस्त्रार्थिनां यथाभिप्रायपरिभोगार्थम् । केषुचिद्व्योमकेषु सर्वाकारविविधदिव्यमनोज्ञवर्णगन्धाः सर्वगन्धविधयः स्थापिता अभुवन् विलेपनार्थिनां यथाभिप्रायपरिभोगार्थम् । केषुचिद्व्योमकेषु सर्वोपकरणराशयः स्थापिता अभूवन् सत्त्वानां यथाशयाभिप्रायपरिभोगार्थम् । केषुचिद्व्योमकेषु नार्यो ऽभिरूपाः प्रासादिका दर्शनीया विविधचारुरूपवेशा विचित्रमनोज्ञवस्त्रसंधिताः सर्वाभरणस्वलंकृता विविधविलेपनभक्तिविन्यासप्रतिमण्डितोपशोभितशरीराः सर्वस्त्रीशिल्पमायाकलाविधिज्ञाः स्थापिता अभूवन् ॥ तेन खलु पुनः समयेन तस्यामेव द्रुममेरुश्रियां राजधान्यां सुदर्शना नाम अग्रगणिकाभूद्राजपरिभोग्या । तस्याः सुचलितरतिप्रभासश्रीर्नाम दारिकाभूदभिरूपा प्रासादिका दर्शनीया नातिदीर्घा नातिह्रस्वा नातिस्थूला नातिकृशा नातिगौरा नातिश्यामा अभिनीलनेत्रा अभिनीलकेशी अभिरामवक्त्रा ब्रह्मस्वरा मधुरप्रियवादिनी प्राज्ञा सर्वकलाविधिज्ञा सर्वशास्त्रकोविदा दक्षा अनलसा सगौरवा सप्रसादा मैत्रचित्ता अप्रतिघातबहुला अतृप्तिकरमनापदर्शना मन्दरागदोषमोहा ह्र्यपत्राप्यसंपन्ना मार्दवा ऋज्वी अशाट्या अमाया (ग्व् ३१३) विनीता । सा मात्रा सार्धमनेककन्यापरिवृता रत्नरथाभिरूढा द्रुममेरुश्रियो राजधान्या निष्क्रम्य तेजोधिपते राजकुमारस्य पुरतः तेजोधिपतिं राजकुमारं परिमार्गयमाणा राजाज्ञानियोगाद्गच्छन्ती तेजोधिपतिं राजकुमारं दृष्ट्वा तीव्रं रागचित्तमुत्पादयामास । सा तेजोधिपते राजकुमारस्यान्तिके ऽधिमात्रं संजातस्नेहानुबद्धा अस्वतन्त्रचित्ता मातरं सुदर्शनामेतदवोचत् - यत्खलु अम्ब जानीयाः - सचेन्मां तेजोधिपते राजकुमारस्य न दास्यसि, मरणं वोपगमिष्यामि मरणमात्रकं वा दुःखम् । सा प्राह - मैवं दारिके चेतनामुत्पादय । एष हि कुमारश्चक्रवर्तिलक्षणसमन्वागतः । स्थानमेतद्विद्यते - यदेष पितुर्धनपतेरत्ययाच्चक्रवर्तिराज्यमध्यावसिष्यति । स राजा भविष्यति चक्रवर्ती । ततो ऽस्य स्त्रीरत्नं प्रादुर्भविष्यति वैहायसंगमम् । अपि तु खलु पुनर्दारिके गणिका वयं सर्वलोकरतिकराः । न वयमेकसत्त्वं प्रतिनियमेन यावज्जीवमुपतिष्ठामहे । वयं हि राज्ञो धनपतेराज्ञया तेजोधिपतेः कुमारस्योपस्थानाय निर्याताः । मैनां चेतनां दृढीकुरुष्व । दुर्लभमेतत्स्थानम् ॥ तेन चेह समयेन सूर्यगात्रप्रवरो नाम तथागतो ऽर्हन् सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान् । तस्य खलु पुनर्गन्धाङ्कुरशिखरप्रभमेघस्योद्यानस्यान्तरे धर्ममेघोद्गतप्रभासो नाम बोधिमण्डो ऽभूत् । तत्र स भगवान् सूर्यगात्रप्रवरस्तथागतः प्रथमसप्ताहाभिसंबुद्धो व्याहार्षीत् । स तया दारिकया रथाभिरूढयैव प्रचलायमानया स्वप्नान्तरे दृष्टः । प्रतिविबुद्धायाश्च पुराणज्ञातिसालोहितया देवतया आरोचितम् - एष दारिके सूर्यगात्रप्रवरस्तथागतो धर्ममेघोद्गतप्रभासे बोधिमण्डे विहरति प्रथमसप्ताहाभिसंबुद्धो बोधिसत्त्वगणपरिवृतो देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगदेवेन्द्रब्रह्माभास्वराकनिष्ठदेवगणपुरस्कृतः । तत्रैव च सर्वाः पृथ्वीदेवताः संनिपतिताः । आकाशदेवता अब्देवता ज्वलनदेवता वायुदेवताः सागरदेवताः नदीदेवता पर्वतदेवता रात्रिदेवता अरुणोद्गतदेवता वनदेवता वृक्षदेवता औषधिदेवताः सस्यदेवता नगरदेवताः पदगामिनीदेवता बोधिमण्डदेवताः शरीररश्मिदेवताः सत्त्वनिकायदेवता गगनदेवता सर्वदिग्देवताश्च संनिपतिताः तस्य भगवतः सूर्यगात्रप्रवरस्य तथागतस्य दर्शनायेति ॥ सा तेन तथागतदर्शनेन तथागतगुणश्रवणेन च विशारदा भूत्वा अवकाशप्रतिलब्धा तेजोधिपते राजकुमारस्य पुरतस्तस्यां वेलायामिमा गाथा अभाषत - रूपवरेणहु लोकि विशिष्टा विश्रुत सर्वदिशासु गुणेभिः । प्रज्ञबलेन न मे सदृशास्ति सर्वकलारतिमायविधिज्ञा

tasyāṃ khalu drumameruśriyāṃ rājadhānyāṃ dhanapatirnāma rājā abhūt maṇḍalikaḥ / tasya caturaśītistrīsahasrāṇyantaḥpuramabhūt / pañca ca amātyaśatānyabhūvan / rājñaḥ khalu punardhanapateḥ pañca putraśatānyabhūvan sarveṣāṃ śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānāṃ prāsādikānāṃ darśanīyānāṃ paramaśubhavarṇapuṣkalatayā samanvāgatānāṃ / rājñaḥ khalu punardhanapateḥ padmaśrīgarbhasaṃbhavā nāma agramahiṣī abhūt teṣāṃ caturaśīteḥ strīsahasrāṇāṃ pramukhā / tasyāṃ tejodhipatirnāma putro 'bhūdabhirūpaḥ prāsādiko darśanīyaḥ dvātriṃśanmahāpuruṣalakṣaṇasamalaṃkṛtakāyaḥ / tasyemāni dvātriṃśanmahāpuruṣalakṣaṇānyabhūvan / yaduta - supratiṣṭhitapāṇipādaḥ tejodhipatirājakumāro 'bhūt / samaṃ mahāpṛthivyāṃ pādatalāvutkṣipati, samaṃ nikṣipati, nikṣipaṃśca sarvāvatpādatalābhyāṃ samaṃ mahāpṛthivīṃ saṃspṛśati / pādatalayoścāsya cakrāṇi jātāni sahasrārāṇi sanābhīni sanemikāni sarvākāraparipūrṇāni surucirāṇi darśanīyāni / ucchaṅkhapādatā cāsya abhinirvṛttābhūt, suvyaktaparamopaśobhitā upari pādacchavikusumagarbhātirekaprabhāsvarā / ubhe cāsya hastapādatale jālinī abhūtāṃ vicitrasuvibhaktācchidrāparisrāviṇī, tadyathā dhṛtarāṣṭrasya haṃsarājasya / āyatapādapārṣṇitā asyābhinirvṛttābhūtpariśuddhā prabhāsvarā sarvaratnavarṇāvabhāsapramuktā / dīrghā asyāṅgulayo 'bhūvan vṛttāḥ samāyatasaṃdhayaḥ / sa tāḥ samaṃ pṛthivyāṃ pratiṣṭhāpayāmāsa, samuddharati sma / mṛdūni cāsya (Gv 310) hastapādatalānyabhūvan kācilindikātirekasukhasaṃsparśāni / sa tairyān spṛśati striyaṃ vā puruṣaṃ vā dārakaṃ vā dārikāṃ vā, sarve te prītimanaso 'bhūvan paramasukhasaumanasyasamarpitāḥ / eṇeyajaṅghatā cāsya abhinirvṛttābhūt / tasya jaṅghe anupurvasamudgate abhūtāṃ racite vṛtte sujāte eṇeyasyeva mṛgarajñaḥ / nainaṃ kaścitsamartho 'nujavitumanaprāptuṃ vā, na ca vrajan klamamāpadyate sma / saptotsadaḥ khalu punaḥ sa tejodhipatirājakumāro 'bhūt / tasya dvayoḥ pādayordvāvutsadau jātāvabhūtāṃ vṛttau sujātau suparipūrṇāvadṛśyasaṃdhī suracitau darśanīyau, dvau hastayordvāvaṃsakūṭayoḥ pṛṣṭhato grīvāyāmekaḥ / kośagatabastiguhyatā cāsya mahāpuruṣalakṣaṇamabhinirvṛttamabhūt / suguptamasya kośabastiguhyamabhūnnimagnaṃ saṃchāditam, tadyathā hastyājāneyasya vā aśvājāneyasya vā / nāsya kaścitstrī vā puruṣo vā dārako vā dārikā vā vṛddho vā madhyo vā daharo vā gururvā gurusthānīyo vā nirvasanasyāpyapaśyadanyatra svaparibhogena naimittikena vā kāmopacitena / siṃhapūrvārdhakāyaḥ khalu punaḥ sa tejodhipatirājakumāro 'bhūt / anupūrvodgataśarīra upavistīrṇavṛtorasko 'bhijātamṛgarājātirekasusaṃsthitasamucchrayaḥ / citāntarāṃsaḥ khalu punarabhavat sūpacitaśarīraḥ suvibhaktasamucchrayaḥ sarvakāyasamabhāgapratiṣṭhitaḥ anūnagātraḥ anunnatagātro 'pariṇatagātro maṇiphalakavisṛṣṭātirekadyutigātraḥ / saṃvṛttaskandhaḥ khalu punarabhavat / vṛttāvasya skandhāvabhūtāṃ pīnau śubhau suparipuṣṭau / pralambabāhutāmahāpuruṣalakṣaṇapratilabdhaḥ sa khalu punarabhavat / so 'navanamanenobhābhyāṃ pāṇibhyāṃ jānumaṇḍale parimārjati, parāmṛśati samabhāgasthitena śarīreṇa / vṛhadṛjugātramahāpuruṣalakṣaṇapratilabdhaḥ sa khalu punarabhavat sarvāvaropetaparamāṇusamagātraḥ praśamagātro gurugātraḥ prasannagātraḥ prahlādagātraḥ / kambugrīvatāmahāpuruṣalakṣaṇapratilabdhaḥ sa khalu punarabhavat adīnakaṇṭhaśca / tasya yāvatyo grīvāsāmantakena mukhasāmantakena ca rasaharaṇyaḥ, tāḥ sarvāḥ samā abhūvan samantāḥ suparipūrṇāḥ / siṃhahanutāmahāpuruṣalakṣaṇapratilabdhaḥ sa khalu punarabhavat, suniṣpīḍitahanuḥ suparipūrṇamukhamaṇḍalaḥ sujātapariśuddhamukhamaṇḍalaḥ svāyatamukhadvāro 'pavivaraḥ / samacatvāriṃśaddantatāmahāpuruṣalakṣaṇapratilabdhaḥ sa khalu punarabhūt anūnadaśanaḥ / tasya kiṃcidbhaktaparibhogeṣu ekavāramapi mukhabhaktaṃ parivartamānamasaṃbhinnamabhyavahāramagamat antaśa ekodanabindurapi / aviralāviṣamadantatāmahāpuruṣalakṣaṇapratilabdhaḥ sa khalu punarabhavat / aviralā aviṣamā asya dantā abhūvan acchidrasaṃdhayaḥ samāṃ suvibhaktāḥ, yairasyāhāraṃ paribhuñjānasya nābhūtsaṅgo vā parisaṅgoparudvaṅgo(?) vā upakledo vā abhiṣyando vā paryavanāho vā atisarjanaṃ vā / samadantatāmahāpuruṣalakṣaṇapratilabdhaḥ khalu punarabhavat samadanto nonadanto nādhikadanto nonnatadanto na saṃnatadanto na saṃbhinnadantaḥ samantamadhyadanto 'nutsannadanto avinirbhinnadantaḥ / suśukladaṃṣṭraśca kumāro 'bhūt nirupakleśadaṣṭraḥ suprasannadaṃṣṭraḥ supariśuddhadaṃṣṭraḥ susaṃsthitavicitradaṃṣṭraḥ / suprabhūtajihvatāmahāpuruṣalakṣaṇapratilabdhaḥ khalu punarabhavat / (Gv 311) prabhūtā cāsya jihvā abhūt tanvī mṛdvī sukumārā karmaṇyā kamanīyā laghuparivartinī mukhamaṇḍalasaṃchādanī tathyapathyārthavyañjanapadaniruktyadhiṣṭhānasaṃprayuktā / brahmasvaraśca sa kumāro 'bhūdabhirucirasvaraḥ sarvatūryanirnādagītavādyaghoṣamanojñarutaravitālāpasaṃlāpavākkarmapravyāhāraḥ / vākpathābhiratisaṃjananīṃ sarvalokābhinandinīṃ vācamudīrayati sma / brahmātirekeṇa svareṇa ca parṣanmaṇḍalamatikrāmati, sarvaṃ ca anuravati / abhinīlanetraśca sa kumāro 'bhūdacchanetraḥ pariśuddhanetraḥ prabhāsvaranetraḥ viprasannanetro 'bhirūpanetro darśanīyanetraḥ suruciranetraḥ prahasitanetraḥ / gopakṣmo sa kumāro 'bhūtpadmarāgasuviśuddhacakṣurāyatanaḥ samanetraraṅgaḥ samasadṛśanetraraṅgaḥ sujātanetraraṅgaḥ āyatanetraraṅgaḥ paripūrṇanetraraṅgaḥ supratiṣṭhitanetraraṅgaḥ / bhruvontare cāsya ūrṇā jātābhūnmṛdvī karmaṇyā sukumārākulasaṃsparśā svacchā śuddhā prabhāsvarā himaguḍikātuṣāravarṇā suśuklaraśmimaṇḍalaprabhāvabhāsā / murdhni ca asyoṣṇīṣamabhinirvṛttamabhūt sujātaṃ samantaparimaṇḍalaṃ madhyābhinyastakeśālaṃkāraṃ koṭīśatasahasrapatraratnapadmasaṃdarśitaṃ samantātsamabhāgapratiṣṭhitamaparimitamahārdhyatāpradhānamadhyam / sūkṣmacchaviśca sa kumāro 'bhūt / nāsya kāye rajo vā malo vā kledo vā jālaṃ vā valī vā śaithilyaṃ vā bhaṅgo vā prasaraṇaṃ vā visaraṇaṃ vā asamaṃ vā asthiṣata / suvarṇavarṇacchaviśca sa kumāro 'bhūjjāmbūnadahemanirbhāsaḥ samantavyāmaprabhaḥ kāñcanaikajvālāprabhāmaṇḍalopaśobhitaḥ sarvaromakūpapramuktagandharaśmivitimiraprabhāsvaraśarīrālaṃkāraḥ / ekaikaromā ca sa kumāro 'bhūt / ekaikaromasya ekaikasmin romakūpe roma jātamabhūnnīlavaiḍūryavarṇapradakṣiṇāvartakuṇḍalajātaṃ suparisaṃcitaṃ suniviṣṭaṃ supratiṣṭhitam / ūrdhvāṅgaromā ca sa kumāro 'bhūdavinivartanīyaromā apratyudāvartanīyaromā asaṃsṛṣṭaromā / indranīlavarṇakeśatāmahāpuruṣalakṣaṇapratilabdhaḥ / sa kumāro 'bhūt / tasya nīlāḥ keśā abhūvan vairocanamaṇiratnanīlavarṇanirbhāsāḥ snigdhā mṛdavaḥ sukuñcitāḥ pradakṣiṇāvartakuṇḍalinaḥ sujātamūlā anuddhatāḥ niṣpīḍitā asaṃlulitāḥ samasadṛśasthānasaṃsthitāḥ / nyagrodhaparimaṇḍalatāmahāpuruṣalakṣaṇapratilabdhaḥ sa khalu punaḥ tejodhipatī rājakumāro 'bhūt samantabhadraparimaṇḍalaḥ samantabhadraḥ samantaprāsādikaḥ / sa purato 'pyatṛptikaracārudarśano 'bhūt / pṛṣṭhato 'pi dakṣiṇato 'pi vāmato 'pi gacchannapi tiṣṭhannapi niṣaṇṇo 'pi bhāṣamāṇo 'pi tūṣṇībhūto 'pi atṛptikaramanāpacārudarśano 'bhut / ebhiḥ kulaputra dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtakāyaḥ sa tejodhipatī rājakumāro 'bhūt sarvasattvāpratikūladarśanaḥ sarvābhiprāyaparipūrikadarśanaḥ sarvasattvaratikaradarśanaḥ // sa khalu kulaputra tejodhipatī rājakumāro 'pareṇa samayena pitrābhyanujñāto drumameruśriyo rājadhānyā gandhāṅkuraprabhameghaṃ nāmodyānam, tatra bhūmidarśanāya abhiniryayau viṃśatyā kanyāsahasraiḥ sārdhaṃ mahatā puṇyatejautaḥśrīsaubhāgyavikurvitavyūhena naranārīgaṇaiḥ samantādabhinandyamāno jāmbūnadasuvarṇarathamāruhya mahāvajraratnacatuścakraṃ nārāyaṇavajramayadṛḍhākṣayākṣamuttamacandanasupariniṣṭhitapratiṣṭhiteṣaṃ sarvagandhamaṇirājasuvibhaktapañjaraṃ sarvaratnapuṣpasuvicitropaśobhitavyūhaṃ sarvaratnajālasaṃchāditavyūhaṃ (Gv 312) mahāmaṇiratnarājavyūhagarbhamadhyapratiṣṭhāpitasiṃhāsanaṃ pañcakanyāśataratnasūtradāmaparigṛhītaṃ gaganāsaktavāyusamajavājāneyāśvasahasrayuktam anupūrvapariṇatacārudarśanena śvetavaidūryamaṇirājamayacchadanena vimalāpramāṇaprabheṇa acintyādbhutasarvaratnaviracanābhaktivinyāsacitrasarvākāravyūhopaśobhitena nīlavaidūryamaṇirājodviddhadaṇḍena mahatā ratnacchatreṇa dhriyatā bahuprāṇiśatasahasraparivṛtadivyamadhuramanojñanirdhoṣaistūryaśatasahasraiḥ pravādyamānaiḥ mahadbhiḥ puṣpameghairabhipravarṣadbhiḥ surabhidivyagandhadhūpaghaṭikāniyutaśatasahasraiḥ pradhūpyamānaiḥ / tasya tathā vrajato 'ṣṭavartmā mārgaḥ samavasthiṣata nimnonnatavigato 'pagataśarkarakaṭhallotsado jātarūparajatasarvaratnarājadhātusaṃcitabhūmitalapratiṣṭhānaḥ suvarṇavālikāsaṃstīrṇo vicitraratnapuṣpābhikīrṇaḥ ubhayato ratnavṛkṣapaṅktisamalaṃkṛtavicitraratnavedikāparivṛtaḥ / upari ratnakiṅkiṇījālasaṃchanno vividharatnavitatapratimaṇḍito 'nekaratnadhvajapatākāpaṭṭaśatasahasrābhipralambitopaśobhitavyūhaḥ ubhayato nānāratnavyomakapaṅktiviracitavyūhaḥ // tatra keṣucidratnavyomakeṣu vividharatnaparipūrṇāni ratnabhājanāni sthāpitānyabhūvan yācanakasaṃghapratipādanakārtham / keṣucidvyomakeṣu sarvaratnābharaṇavidhayaḥ sthāpitā alaṃkārārthināṃ yācakānāmalaṃkaraṇārtham / keṣucidvyomakeṣu cintāmaṇiratnāni sthāpitāni sarvasattvānāṃ sarvābhiprāyaparipūraṇārtham / keṣucidvyomakeṣu sarvākāravividhānnapānarasaparipūrṇāni bhojanāni sthāpitāni, yasya yenārthaḥ tasya taṃ pratipādanārtham / keṣucidvyomakeṣu sarvākāraparamasvādumanojñavarṇagandharasasparśāḥ divyabhaktavidhayaḥ sthāpitāḥ / keṣucidvyomakeṣu vicitrarasāsvādādivyasarvaphalavidhayaḥ sthāpitāḥ / keṣucidvyomakeṣu vividhojjvalavicitraraṅgaraktāni nānācitrabhaktivinyāsavirājitāni paramamahārhāṇi sūkṣmāṇi sukumārakāntavarṇāni divyavastrakoṭīśatasahasrāṇi sthāpitāni vastrārthināṃ yathābhiprāyaparibhogārtham / keṣucidvyomakeṣu sarvākāravividhadivyamanojñavarṇagandhāḥ sarvagandhavidhayaḥ sthāpitā abhuvan vilepanārthināṃ yathābhiprāyaparibhogārtham / keṣucidvyomakeṣu sarvopakaraṇarāśayaḥ sthāpitā abhūvan sattvānāṃ yathāśayābhiprāyaparibhogārtham / keṣucidvyomakeṣu nāryo 'bhirūpāḥ prāsādikā darśanīyā vividhacārurūpaveśā vicitramanojñavastrasaṃdhitāḥ sarvābharaṇasvalaṃkṛtā vividhavilepanabhaktivinyāsapratimaṇḍitopaśobhitaśarīrāḥ sarvastrīśilpamāyākalāvidhijñāḥ sthāpitā abhūvan // tena khalu punaḥ samayena tasyāmeva drumameruśriyāṃ rājadhānyāṃ sudarśanā nāma agragaṇikābhūdrājaparibhogyā / tasyāḥ sucalitaratiprabhāsaśrīrnāma dārikābhūdabhirūpā prāsādikā darśanīyā nātidīrghā nātihrasvā nātisthūlā nātikṛśā nātigaurā nātiśyāmā abhinīlanetrā abhinīlakeśī abhirāmavaktrā brahmasvarā madhurapriyavādinī prājñā sarvakalāvidhijñā sarvaśāstrakovidā dakṣā analasā sagauravā saprasādā maitracittā apratighātabahulā atṛptikaramanāpadarśanā mandarāgadoṣamohā hryapatrāpyasaṃpannā mārdavā ṛjvī aśāṭyā amāyā (Gv 313) vinītā / sā mātrā sārdhamanekakanyāparivṛtā ratnarathābhirūḍhā drumameruśriyo rājadhānyā niṣkramya tejodhipate rājakumārasya purataḥ tejodhipatiṃ rājakumāraṃ parimārgayamāṇā rājājñāniyogādgacchantī tejodhipatiṃ rājakumāraṃ dṛṣṭvā tīvraṃ rāgacittamutpādayāmāsa / sā tejodhipate rājakumārasyāntike 'dhimātraṃ saṃjātasnehānubaddhā asvatantracittā mātaraṃ sudarśanāmetadavocat - yatkhalu amba jānīyāḥ - sacenmāṃ tejodhipate rājakumārasya na dāsyasi, maraṇaṃ vopagamiṣyāmi maraṇamātrakaṃ vā duḥkham / sā prāha - maivaṃ dārike cetanāmutpādaya / eṣa hi kumāraścakravartilakṣaṇasamanvāgataḥ / sthānametadvidyate - yadeṣa piturdhanapateratyayāccakravartirājyamadhyāvasiṣyati / sa rājā bhaviṣyati cakravartī / tato 'sya strīratnaṃ prādurbhaviṣyati vaihāyasaṃgamam / api tu khalu punardārike gaṇikā vayaṃ sarvalokaratikarāḥ / na vayamekasattvaṃ pratiniyamena yāvajjīvamupatiṣṭhāmahe / vayaṃ hi rājño dhanapaterājñayā tejodhipateḥ kumārasyopasthānāya niryātāḥ / maināṃ cetanāṃ dṛḍhīkuruṣva / durlabhametatsthānam // tena ceha samayena sūryagātrapravaro nāma tathāgato 'rhan samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān / tasya khalu punargandhāṅkuraśikharaprabhameghasyodyānasyāntare dharmameghodgataprabhāso nāma bodhimaṇḍo 'bhūt / tatra sa bhagavān sūryagātrapravarastathāgataḥ prathamasaptāhābhisaṃbuddho vyāhārṣīt / sa tayā dārikayā rathābhirūḍhayaiva pracalāyamānayā svapnāntare dṛṣṭaḥ / prativibuddhāyāśca purāṇajñātisālohitayā devatayā ārocitam - eṣa dārike sūryagātrapravarastathāgato dharmameghodgataprabhāse bodhimaṇḍe viharati prathamasaptāhābhisaṃbuddho bodhisattvagaṇaparivṛto devanāgayakṣagandharvāsuragaruḍakinnaramahoragadevendrabrahmābhāsvarākaniṣṭhadevagaṇapuraskṛtaḥ / tatraiva ca sarvāḥ pṛthvīdevatāḥ saṃnipatitāḥ / ākāśadevatā abdevatā jvalanadevatā vāyudevatāḥ sāgaradevatāḥ nadīdevatā parvatadevatā rātridevatā aruṇodgatadevatā vanadevatā vṛkṣadevatā auṣadhidevatāḥ sasyadevatā nagaradevatāḥ padagāminīdevatā bodhimaṇḍadevatāḥ śarīraraśmidevatāḥ sattvanikāyadevatā gaganadevatā sarvadigdevatāśca saṃnipatitāḥ tasya bhagavataḥ sūryagātrapravarasya tathāgatasya darśanāyeti // sā tena tathāgatadarśanena tathāgataguṇaśravaṇena ca viśāradā bhūtvā avakāśapratilabdhā tejodhipate rājakumārasya puratastasyāṃ velāyāmimā gāthā abhāṣata - rūpavareṇahu loki viśiṣṭā viśruta sarvadiśāsu guṇebhiḥ / prajñabalena na me sadṛśāsti sarvakalāratimāyavidhijñā

Sanskrit only: no published translation is held for this verse.

प्राणशता बहु नैकसहस्रा ये मम प्रेक्षिषु रागवशेन । नापि च रज्यति मह्य कुमारा कस्यचिदन्तिकि मानसु लोके

prāṇaśatā bahu naikasahasrā ye mama prekṣiṣu rāgavaśena / nāpi ca rajyati mahya kumārā kasyacidantiki mānasu loke

Sanskrit only: no published translation is held for this verse.

नो च मम प्रतिहन्यति चित्तं नाप्यनुनीयति कुत्रचि सत्त्वे । नापि च मे क्वचि वैरु न दोषः सर्वहिते ऽभिरतं मम चित्तम्

no ca mama pratihanyati cittaṃ nāpyanunīyati kutraci sattve / nāpi ca me kvaci vairu na doṣaḥ sarvahite 'bhirataṃ mama cittam

Sanskrit only: no published translation is held for this verse.

यद मि त्वमपि दृष्ट कुमारो रूपबलप्रवरो गुणधारी । तद इन्द्रिय प्रीणित सर्वे प्रीत ममो विपुला उपजाता

yada mi tvamapi dṛṣṭa kumāro rūpabalapravaro guṇadhārī / tada indriya prīṇita sarve prīta mamo vipulā upajātā

Sanskrit only: no published translation is held for this verse.

शुद्धविरोचनरत्नसुवर्णा केशभिनील सुवल्लित तुभ्यम् । सुभ्रुललाट सुनासा एष निवेदयमी तव आत्मा

śuddhavirocanaratnasuvarṇā keśabhinīla suvallita tubhyam / subhrulalāṭa sunāsā eṣa nivedayamī tava ātmā

Sanskrit only: no published translation is held for this verse.

वरलक्षणधारि सुतेजा काञ्चनपर्वतसंनिभरूपः । पुरतो न विराजमि तुभ्यं श्यामकृता मषिविग्रहतुल्या

varalakṣaṇadhāri sutejā kāñcanaparvatasaṃnibharūpaḥ / purato na virājami tubhyaṃ śyāmakṛtā maṣivigrahatulyā

Sanskrit only: no published translation is held for this verse.

स्वभिनीलमहायतनेत्रा सिंहहन्यो (?) परिपूर्ण सुवक्त्रः । न च ते प्रतिहन्यति वाच्यं अग्ररुत प्रतिगृह्णमि मह्यम्

svabhinīlamahāyatanetrā siṃhahanyo (?) paripūrṇa suvaktraḥ / na ca te pratihanyati vācyaṃ agraruta pratigṛhṇami mahyam

Sanskrit only: no published translation is held for this verse.

वदने तव जिह्व प्रभूता ताम्रतनू विपुला रतनाभा । वरब्रह्मस्वराङ्गसुघोषा तोषयसे जगदालपमानः

vadane tava jihva prabhūtā tāmratanū vipulā ratanābhā / varabrahmasvarāṅgasughoṣā toṣayase jagadālapamānaḥ

Sanskrit only: no published translation is held for this verse.

स्मितु येहि विदर्शयमानः तोषयसे जनतां नरवीर

smitu yehi vidarśayamānaḥ toṣayase janatāṃ naravīra

Sanskrit only: no published translation is held for this verse.

तव लक्षणशोभन कायस्त्रिंश दुवेव प्रभासुर शुद्धः । समलंकृतु येहि सुरूपः चक्रधरो भवितासि नरेन्द्रा

tava lakṣaṇaśobhana kāyastriṃśa duveva prabhāsura śuddhaḥ / samalaṃkṛtu yehi surūpaḥ cakradharo bhavitāsi narendrā

Sanskrit only: no published translation is held for this verse.

अथ खलु तेजोधिपती राजपुत्रः सुचलितरतिप्रभासश्रियं दारिकामेतदवोचत् - कस्य त्वं दारिके, को वा तवारक्षकः? न मम दारिके कल्पते परपरिगृहीतेषु दारेषु ममतां कर्तुम् । तस्यां वेलायामिमा गाथा अभाषत - सुदर्शने रूपगुणैरुपेते सुलक्षणे पुण्यविशुद्धकाये । पृच्छामि ते ब्रूहि ममैतमर्थं परिग्रहस्त्वं वरगात्रि कस्य

atha khalu tejodhipatī rājaputraḥ sucalitaratiprabhāsaśriyaṃ dārikāmetadavocat - kasya tvaṃ dārike, ko vā tavārakṣakaḥ? na mama dārike kalpate paraparigṛhīteṣu dāreṣu mamatāṃ kartum / tasyāṃ velāyāmimā gāthā abhāṣata - sudarśane rūpaguṇairupete sulakṣaṇe puṇyaviśuddhakāye / pṛcchāmi te brūhi mamaitamarthaṃ parigrahastvaṃ varagātri kasya

Sanskrit only: no published translation is held for this verse.

माता पिता वा तव कच्चिदस्ति भर्तापि वा स्वामि परिग्रहो वा । सत्त्वो ऽपि चान्यः खलु येन संज्ञा कृता ममेति त्वयि सौम्यरूपे

mātā pitā vā tava kaccidasti bhartāpi vā svāmi parigraho vā / sattvo 'pi cānyaḥ khalu yena saṃjñā kṛtā mameti tvayi saumyarūpe

Sanskrit only: no published translation is held for this verse.

कच्चिन्न हिंसाभिरतं मनस्ते हरस्यदत्तं खलु मा परेषाम् । मा काममिथ्याचरणे रतिस्ते मा वा मृषाद्य प्रसृतं मनस्ते

kaccinna hiṃsābhirataṃ manaste harasyadattaṃ khalu mā pareṣām / mā kāmamithyācaraṇe ratiste mā vā mṛṣādya prasṛtaṃ manaste

Sanskrit only: no published translation is held for this verse.

मा मित्रभेदप्रसृता मतिस्ते मा मर्मभेदीनि वचांसि वक्षि । मा ते ऽपरक्षेषु धनेष्वभिध्या व्यापादचित्तं जनतासु चापि

mā mitrabhedaprasṛtā matiste mā marmabhedīni vacāṃsi vakṣi / mā te 'parakṣeṣu dhaneṣvabhidhyā vyāpādacittaṃ janatāsu cāpi

Sanskrit only: no published translation is held for this verse.

मा दृष्टिकान्तारपथि स्थितासि मा कर्मवंशोद्धुरचेतना वा । मायाविनी शाठ्यवशानुगा वा मा बाधसे त्वं विषमेण लोकम्

mā dṛṣṭikāntārapathi sthitāsi mā karmavaṃśoddhuracetanā vā / māyāvinī śāṭhyavaśānugā vā mā bādhase tvaṃ viṣameṇa lokam

Sanskrit only: no published translation is held for this verse.

दरिद्रभूतेषु च संग्रहाय कच्चित्प्रदातुं प्रसृतं मनस्ते

daridrabhūteṣu ca saṃgrahāya kaccitpradātuṃ prasṛtaṃ manaste

Sanskrit only: no published translation is held for this verse.

प्रेमास्ति कल्याणसुहृत्स्वथो वा धर्मेण काले च वदन्ति ये त्वाम् । कायस्य चित्तस्य च कल्यतां ते कर्मण्यतां वा जनयन्ति सम्यक्

premāsti kalyāṇasuhṛtsvatho vā dharmeṇa kāle ca vadanti ye tvām / kāyasya cittasya ca kalyatāṃ te karmaṇyatāṃ vā janayanti samyak

Sanskrit only: no published translation is held for this verse.

बुद्धेषु ते गौरवमस्ति कच्चित् प्रेमापि वा बुद्धसुतेषु तीव्रम् । कच्चित्प्रजानासि तमग्रधर्मं यतः प्रसूतिः सुगतात्मजानाम्

buddheṣu te gauravamasti kaccit premāpi vā buddhasuteṣu tīvram / kaccitprajānāsi tamagradharmaṃ yataḥ prasūtiḥ sugatātmajānām

Sanskrit only: no published translation is held for this verse.

कच्चित्परे तिष्ठसि धर्मवंशे न चाप्यधर्मं चरितुं मतिस्ते । अनन्तवर्णे च गुणार्णवे ते कच्चित्परं प्रेम च गौरवं च

kaccitpare tiṣṭhasi dharmavaṃśe na cāpyadharmaṃ carituṃ matiste / anantavarṇe ca guṇārṇave te kaccitparaṃ prema ca gauravaṃ ca

Sanskrit only: no published translation is held for this verse.

अनाथभूतेषु जनेषु कच्चित् मैत्रं मनस्ते ऽपरिणायकेषु । आपायिके कर्मणि च प्रवृत्ता कच्चिद्भृशार्ता करुणायसे त्वम्

anāthabhūteṣu janeṣu kaccit maitraṃ manaste 'pariṇāyakeṣu / āpāyike karmaṇi ca pravṛttā kaccidbhṛśārtā karuṇāyase tvam

Sanskrit only: no published translation is held for this verse.

परेषु संपत्तिमुदीक्ष्य चाग्रां कच्चित्परां तुष्टिमुपैषि च त्वम् । क्लेशास्वतन्त्रेषु जनेषु कच्चित् प्रज्ञाबलात्संजनयस्युपेक्षाम्

pareṣu saṃpattimudīkṣya cāgrāṃ kaccitparāṃ tuṣṭimupaiṣi ca tvam / kleśāsvatantreṣu janeṣu kaccit prajñābalātsaṃjanayasyupekṣām

Sanskrit only: no published translation is held for this verse.

अज्ञानसुप्तां जनतामुदीक्ष्य कच्चिद्दृढां प्रार्थयसे ऽग्रबोधिम् । कल्पाननन्तान् चरमाण चर्यां कच्चिन्न ते प्रार्थनयास्ति खेदः

ajñānasuptāṃ janatāmudīkṣya kacciddṛḍhāṃ prārthayase 'grabodhim / kalpānanantān caramāṇa caryāṃ kaccinna te prārthanayāsti khedaḥ

Sanskrit only: no published translation is held for this verse.

अथ खलु सुदर्शना अग्रगणिका सुचलितरतिप्रभासश्रियो दारिकाया माता तेजोधिपतिं राजकुमारमेतदवोचत् - ममैषा कुमार दारिका उपपादुका पद्मगर्भसंभूता नाभिनिष्क्रान्तपूर्वा गृहात् । तस्यां च वेलायामिमा गाथा अभाषत - मां भाषमाणां शृणु राजपुत्र यद्दारिका ते परिपृच्छतेयम् । वक्ष्ये ऽनुपूर्व्या तव दारिकेयं जाता यथा सौम्य विवर्धिता च

atha khalu sudarśanā agragaṇikā sucalitaratiprabhāsaśriyo dārikāyā mātā tejodhipatiṃ rājakumārametadavocat - mamaiṣā kumāra dārikā upapādukā padmagarbhasaṃbhūtā nābhiniṣkrāntapūrvā gṛhāt / tasyāṃ ca velāyāmimā gāthā abhāṣata - māṃ bhāṣamāṇāṃ śṛṇu rājaputra yaddārikā te paripṛcchateyam / vakṣye 'nupūrvyā tava dārikeyaṃ jātā yathā saumya vivardhitā ca

Sanskrit only: no published translation is held for this verse.

निशाक्षये यत्र भवान् प्रसूतः तत्रैव जाता मम दारिकेयम् । उपपादुका निर्मलपद्मगर्भे सर्वाङ्गपूर्णा सुविशालनेत्रा

niśākṣaye yatra bhavān prasūtaḥ tatraiva jātā mama dārikeyam / upapādukā nirmalapadmagarbhe sarvāṅgapūrṇā suviśālanetrā

Sanskrit only: no published translation is held for this verse.

वसन्तकाले प्रवरे ऋतूनां संभूतसस्योषधिसंप्ररोहे । सालप्रभोद्यानवरे मदीये चिरं मया तत्र विनिर्गताहम्

vasantakāle pravare ṛtūnāṃ saṃbhūtasasyoṣadhisaṃprarohe / sālaprabhodyānavare madīye ciraṃ mayā tatra vinirgatāham

Sanskrit only: no published translation is held for this verse.

प्रमुक्तशाखाग्रविचित्रकोशे प्रफुल्लवृक्षे घनमेघवर्णे । नानाद्विजोन्नादितवृक्षषण्डे वने विशोका मुदिता रमामि

pramuktaśākhāgravicitrakośe praphullavṛkṣe ghanameghavarṇe / nānādvijonnāditavṛkṣaṣaṇḍe vane viśokā muditā ramāmi

Sanskrit only: no published translation is held for this verse.

कन्याशतैरष्टभिरन्विताहं विभूषिताभिः सुमनोहराभिः । विचित्ररत्नाम्बरधारिणीभिः गीते च वाद्ये च सुशिक्षिताभिः

kanyāśatairaṣṭabhiranvitāhaṃ vibhūṣitābhiḥ sumanoharābhiḥ / vicitraratnāmbaradhāriṇībhiḥ gīte ca vādye ca suśikṣitābhiḥ

Sanskrit only: no published translation is held for this verse.

विचित्रगन्धध्वजपुण्डरीके वापीतटे ऽभूवमहं निषण्णा । पुष्पाभिकीर्णे धरणीप्रदेशे सुशिक्षितस्त्रीगणसंप्रपूर्णे

vicitragandhadhvajapuṇḍarīke vāpītaṭe 'bhūvamahaṃ niṣaṇṇā / puṣpābhikīrṇe dharaṇīpradeśe suśikṣitastrīgaṇasaṃprapūrṇe

Sanskrit only: no published translation is held for this verse.

तत्राम्बुमध्ये ऽथ सहस्रपत्रं प्रादुर्बभूवोत्तमरत्नपद्मम् । वैडूर्यदण्डं मणिराजपत्रं विशुद्धजाम्बूनदकर्णिकं च

tatrāmbumadhye 'tha sahasrapatraṃ prādurbabhūvottamaratnapadmam / vaiḍūryadaṇḍaṃ maṇirājapatraṃ viśuddhajāmbūnadakarṇikaṃ ca

Sanskrit only: no published translation is held for this verse.

सुगन्धरत्तोत्तमकेसराढ्यं जम्बुध्वजोद्भूतमहावभासम् । आसंस्तदा संशयिता जनौघा रात्र्यां किमभ्युद्गत एष सूर्यः

sugandharattottamakesarāḍhyaṃ jambudhvajodbhūtamahāvabhāsam / āsaṃstadā saṃśayitā janaughā rātryāṃ kimabhyudgata eṣa sūryaḥ

Sanskrit only: no published translation is held for this verse.

महारवीन्द्राद्रजनीक्षये ऽस्मात् प्रबोध्यमानात्सवितुः प्रभामिः । मुक्तो ऽवभासो मधुरश्च शब्दस्तज्जन्मनः पूर्वनिमित्तमस्याः

mahāravīndrādrajanīkṣaye 'smāt prabodhyamānātsavituḥ prabhāmiḥ / mukto 'vabhāso madhuraśca śabdastajjanmanaḥ pūrvanimittamasyāḥ

Sanskrit only: no published translation is held for this verse.

स्त्रीरत्नमेतद्धि मनुष्यलोके प्रादुर्बभूवोत्तमशीलशुद्ध्या । न कर्मणो ह्यस्ति कृतस्य नाशः पूर्वे सुचीर्णस्य विपाक एषः

strīratnametaddhi manuṣyaloke prādurbabhūvottamaśīlaśuddhyā / na karmaṇo hyasti kṛtasya nāśaḥ pūrve sucīrṇasya vipāka eṣaḥ

Sanskrit only: no published translation is held for this verse.

सुनीलकेश्युत्पलनीलनेत्रा ब्रह्मस्वरा काञ्चनशुद्धवर्णा । आमुक्तमालाभरणा सुवेशा पद्मोद्भवा श्रीरिव निर्मलाभा

sunīlakeśyutpalanīlanetrā brahmasvarā kāñcanaśuddhavarṇā / āmuktamālābharaṇā suveśā padmodbhavā śrīriva nirmalābhā

Sanskrit only: no published translation is held for this verse.

विशुद्धगात्री समभागकाया संपूर्णगात्रा सुविभक्तदेहा । सुवर्णबिम्बं मणिनेव मृष्टं विरोचते सर्वदिशो ऽवभास्य

viśuddhagātrī samabhāgakāyā saṃpūrṇagātrā suvibhaktadehā / suvarṇabimbaṃ maṇineva mṛṣṭaṃ virocate sarvadiśo 'vabhāsya

Sanskrit only: no published translation is held for this verse.

गोत्रोद्भवश्चन्दनराजगन्धः प्रवाति चास्याभिदिशः स्फरित्वा । रुतं च दिव्यं मधुरं रुवत्या गन्धो मुखाद्वाति यथोत्पलस्य

gotrodbhavaścandanarājagandhaḥ pravāti cāsyābhidiśaḥ spharitvā / rutaṃ ca divyaṃ madhuraṃ ruvatyā gandho mukhādvāti yathotpalasya

Sanskrit only: no published translation is held for this verse.

स्मितं यदैषा प्रकरोति चैव दिव्यं तदा तूर्यरवं विरौति । स्त्रीरत्नमेतत्खलु जातु लोके न प्राकृतानां वशमभ्युपैति

smitaṃ yadaiṣā prakaroti caiva divyaṃ tadā tūryaravaṃ virauti / strīratnametatkhalu jātu loke na prākṛtānāṃ vaśamabhyupaiti

Sanskrit only: no published translation is held for this verse.

मनुष्यलोके न हि विद्यते ऽसौ भर्ता हि यो ऽस्यास्त्वदृते परः स्यात् । सल्लक्षणैश्चित्रितचारुरूपः कन्यां प्रतीच्छस्व यतस्त्वमेताम्

manuṣyaloke na hi vidyate 'sau bhartā hi yo 'syāstvadṛte paraḥ syāt / sallakṣaṇaiścitritacārurūpaḥ kanyāṃ pratīcchasva yatastvametām

Sanskrit only: no published translation is held for this verse.

ह्रस्वा न चेयं हि न चातिदीर्घा स्थूला न चैषा न कृशातिमात्रम् । चापोदरी पीनपयोधरा च तवानुरूपेयमनिन्दिताङ्ग

hrasvā na ceyaṃ hi na cātidīrghā sthūlā na caiṣā na kṛśātimātram / cāpodarī pīnapayodharā ca tavānurūpeyamaninditāṅga

Sanskrit only: no published translation is held for this verse.

शिल्पानि यावन्ति च सर्वलोके पारंगतेयं निखिलेषु तेषु

śilpāni yāvanti ca sarvaloke pāraṃgateyaṃ nikhileṣu teṣu

Sanskrit only: no published translation is held for this verse.

इष्वस्त्रविज्ञान परं विधिज्ञा सत्त्वान युक्तौ सुविनिश्चिता च । आकर्षणे शत्रुमनःप्रसादे सर्वत्र पारं परमं गतेयम्

iṣvastravijñāna paraṃ vidhijñā sattvāna yuktau suviniścitā ca / ākarṣaṇe śatrumanaḥprasāde sarvatra pāraṃ paramaṃ gateyam

Sanskrit only: no published translation is held for this verse.

विशुद्धरत्नोत्तमसर्वगात्रमुक्तप्रभामण्डलराजितेयम् । स्वलंकृता पूर्वकृतैः स्वपुण्यैस्तवानुरूपा परिचारिकेयम्

viśuddharatnottamasarvagātramuktaprabhāmaṇḍalarājiteyam / svalaṃkṛtā pūrvakṛtaiḥ svapuṇyaistavānurūpā paricārikeyam

Sanskrit only: no published translation is held for this verse.

ये व्याधयः केचन जीवलोके तेषां समुत्थाननये विधिज्ञा । तेषामशेषप्रशमं च संपद्भैषज्यसम्यक्प्रविचारणे च

ye vyādhayaḥ kecana jīvaloke teṣāṃ samutthānanaye vidhijñā / teṣāmaśeṣapraśamaṃ ca saṃpadbhaiṣajyasamyakpravicāraṇe ca

Sanskrit only: no published translation is held for this verse.

जम्बुध्वजे ये ऽपि च सर्वमन्त्रनिरुक्तिभेदा निखिला जनानाम् । सर्वत्र लोकव्यवहारसंघौ चित्रे गतेयं परमां गतिं च

jambudhvaje ye 'pi ca sarvamantraniruktibhedā nikhilā janānām / sarvatra lokavyavahārasaṃghau citre gateyaṃ paramāṃ gatiṃ ca

Sanskrit only: no published translation is held for this verse.

स्वराङ्गनिर्हारनयाश्च ये ऽपि तेषां प्रभेदेषु नये प्रविष्टा । गीतानि नृत्यानि च यानि लोके तेष्वप्यशेषेषु परं विधिज्ञा

svarāṅganirhāranayāśca ye 'pi teṣāṃ prabhedeṣu naye praviṣṭā / gītāni nṛtyāni ca yāni loke teṣvapyaśeṣeṣu paraṃ vidhijñā

Sanskrit only: no published translation is held for this verse.

तूर्येषु वाद्येषु रतिप्रयोगे हास्ये च लास्ये च गतिं गतेयम् । रक्तेष्वरक्तेषु नरेष्वभिज्ञा नरानुनीता प्रतिघान्विता वा

tūryeṣu vādyeṣu ratiprayoge hāsye ca lāsye ca gatiṃ gateyam / rakteṣvarakteṣu nareṣvabhijñā narānunītā pratighānvitā vā

Sanskrit only: no published translation is held for this verse.

स्त्रीणां रुतानीह च यानि लोके विशेषतस्तान्यखिलान्यवैति । ये चाप्रमेया वनिताजनस्य दोषा न तेषां निखिलेन सन्ति

strīṇāṃ rutānīha ca yāni loke viśeṣatastānyakhilānyavaiti / ye cāprameyā vanitājanasya doṣā na teṣāṃ nikhilena santi

Sanskrit only: no published translation is held for this verse.

निष्ठां गता सर्वकलासु चैव मनोरथानां परिपूरणी ते

niṣṭhāṃ gatā sarvakalāsu caiva manorathānāṃ paripūraṇī te

Sanskrit only: no published translation is held for this verse.

अमत्सरा चेयमनीर्षुका च न कामलोला न पानगृद्धा । क्षेमार्जवमार्दवसूरता च अक्रोधना चापरुषा सुविज्ञा

amatsarā ceyamanīrṣukā ca na kāmalolā na pānagṛddhā / kṣemārjavamārdavasūratā ca akrodhanā cāparuṣā suvijñā

Sanskrit only: no published translation is held for this verse.

उत्थानशीलाप्रतिकूलवाक्या नित्यं गुरूणामनुवर्तिनी च । सगौरवा किंकुशलैषिणी च तवानुयोग्या चरितानुवृत्तौ

utthānaśīlāpratikūlavākyā nityaṃ gurūṇāmanuvartinī ca / sagauravā kiṃkuśalaiṣiṇī ca tavānuyogyā caritānuvṛttau

Sanskrit only: no published translation is held for this verse.

जीर्णेषु वृद्धेषु च रोगवत्सु दरिद्रभूतेषु सुदुःखितेषु । चक्षुर्विहीनेष्वपरायणेषु कारुण्यमेघं जनयत्यजस्रम्

jīrṇeṣu vṛddheṣu ca rogavatsu daridrabhūteṣu suduḥkhiteṣu / cakṣurvihīneṣvaparāyaṇeṣu kāruṇyameghaṃ janayatyajasram

Sanskrit only: no published translation is held for this verse.

परार्थचिन्ताभिरता सदैषा न चिन्तयत्यात्महितानि चैव । सर्वस्य लोकस्य हितैषिणी च स्वलंकृता चित्तगुणैरुदारैः

parārthacintābhiratā sadaiṣā na cintayatyātmahitāni caiva / sarvasya lokasya hitaiṣiṇī ca svalaṃkṛtā cittaguṇairudāraiḥ

Sanskrit only: no published translation is held for this verse.

नित्याप्रमत्ता स्मृतिसंप्रजन्ये स्थिता निषण्णा शयिता व्रजन्ती । तूष्णीं प्रभाषत्यपि च स्मृतैव लोकस्य चैवाभिमता सदैषा

nityāpramattā smṛtisaṃprajanye sthitā niṣaṇṇā śayitā vrajantī / tūṣṇīṃ prabhāṣatyapi ca smṛtaiva lokasya caivābhimatā sadaiṣā

Sanskrit only: no published translation is held for this verse.

समन्ततः पुण्यवती विभाति सदैव च प्रेमकरी जनानाम् । एतामुदीक्षन्न हि तृप्तिमेति लोके न चास्याः क्वचिदस्ति सक्तिः

samantataḥ puṇyavatī vibhāti sadaiva ca premakarī janānām / etāmudīkṣanna hi tṛptimeti loke na cāsyāḥ kvacidasti saktiḥ

Sanskrit only: no published translation is held for this verse.

कल्याणमित्रेषु सगौरवेयं त्वद्दर्शने नित्यसमुत्सुका च । दीर्घानुदर्शिन्यविदुष्टचेष्टा सुमेरुकल्पस्थिरशुद्धचित्ता

kalyāṇamitreṣu sagauraveyaṃ tvaddarśane nityasamutsukā ca / dīrghānudarśinyaviduṣṭaceṣṭā sumerukalpasthiraśuddhacittā

Sanskrit only: no published translation is held for this verse.

ज्ञाने न चास्याः सदृशास्ति योषिदेषानुरूपा तव राजपुत्र

jñāne na cāsyāḥ sadṛśāsti yoṣideṣānurūpā tava rājaputra

Sanskrit only: no published translation is held for this verse.

अथ खलु तेजोधिपती राजपुत्रो गन्धाङ्कुरशिखरप्रभमेघमुद्यानं प्रविश्य सुचलितरतिप्रभासश्रियो दारिकाया मातुरग्रगणिकायाः सुदर्शनायाः समक्षं सुचलितरतिप्रभासश्रियं दारिकामेतदवोचत् - अहं खलु दारिके अनुत्तरां सम्यक्संबोधिमभिसंप्रस्थितः । तेन मया अपरिमाणाः सर्वज्ञतासंभाराः समुदानयितव्याः । अनन्तमध्यान् कल्पान् बोधिसत्त्वचर्यां चरता सर्वपारमिताः परिशोधयितव्याः । अपरान्तकोटीगतान् कल्पांस्तथागताः पूजयितव्याः । सर्वबुद्धशासनानि संधारयितव्यानि । सर्वबुद्धक्षेत्राणि परिशोधयितव्यानि । सर्वतथागतवंशा न व्यवच्छेत्तव्याः । सर्वसत्त्ववंशाः परिपाचयितव्याः । सर्वसत्त्वसंसारदुःखानि विनिवर्तयितव्यानि । अत्यन्तसुखे सत्त्वाः प्रतिष्ठापयितव्याः । सर्वसत्त्वानां ज्ञानचक्षुः परिशोधयितव्यम् । सर्वबुद्धबोधिसत्त्वसमुदागमे प्रयोक्तव्यम् । सर्वबोधिसत्त्वसमतायां स्थातव्यम् । सर्वबोधिसत्त्वभूमयो निष्पादयितव्याः । सर्वसत्त्वधातुः परिशोधयितव्यः सर्वसत्त्वदारिद्र्यव्यवच्छेदाय सर्वस्वपरित्यागिना भवितव्यम् । अपरान्तकोटीगतान् कल्पान् दानपारमितायां चरता अन्नपानदानेन सत्त्वाः संतर्पयितव्याः । सर्वोपकरणवस्तुपरित्यागेन सर्वयाचनकसंघः संतर्पयितव्यः । तेन मया सर्वस्वपरित्यागितायां प्रतिपद्यमानेन नास्ति तदाध्यात्मिकं बाह्यं वा वस्तु यन्न परित्यक्तव्यम् । तेन मया पुत्रदुहितृभार्या दातव्याः । चक्षुःशिरोहस्तपादसर्वाङ्गप्रत्यङ्गानि परित्यक्तव्यानि । सा त्वं मम तदा परेषु प्रतिपद्यमाना दानान्तरायं करिष्यसि । प्रियेषु पुत्रेषु परित्यज्यमानेष्वनात्तमना भविष्यसि । बहु कायिकचैतसिकं दुःखं प्रत्यनुभविष्यसि । मम सर्वस्वपरित्यागचित्ते प्रत्युपस्थिते मात्सर्यचित्तमुत्पादयिष्यसि । ममाङ्गप्रत्यङ्गानि च्छित्त्वा याचनकेभ्यः परित्यज्यमानस्य दुःखिता दुर्मनस्विनी भविष्यसि । भविष्यति च स कालो यदहं त्वां परित्यज्य तथागतशासने प्रव्रजिष्यामि । सा त्वं तस्मिन् समये ऽनात्तमना भविष्यसि ॥ अथ खलु तेजोधिपती राजपुत्रः तस्यां वेलायां सुचलितरतिप्रभासश्रियं दारिकां गाथाभिरध्यभाषत - संबोधिसंभारमहासमुद्रा मयाप्रमेयाः परिपूरणीयाः । यतः कृपां सर्वजगत्सु कृत्वा संप्रस्थितो ऽहं सुचिराय बोधौ

atha khalu tejodhipatī rājaputro gandhāṅkuraśikharaprabhameghamudyānaṃ praviśya sucalitaratiprabhāsaśriyo dārikāyā māturagragaṇikāyāḥ sudarśanāyāḥ samakṣaṃ sucalitaratiprabhāsaśriyaṃ dārikāmetadavocat - ahaṃ khalu dārike anuttarāṃ samyaksaṃbodhimabhisaṃprasthitaḥ / tena mayā aparimāṇāḥ sarvajñatāsaṃbhārāḥ samudānayitavyāḥ / anantamadhyān kalpān bodhisattvacaryāṃ caratā sarvapāramitāḥ pariśodhayitavyāḥ / aparāntakoṭīgatān kalpāṃstathāgatāḥ pūjayitavyāḥ / sarvabuddhaśāsanāni saṃdhārayitavyāni / sarvabuddhakṣetrāṇi pariśodhayitavyāni / sarvatathāgatavaṃśā na vyavacchettavyāḥ / sarvasattvavaṃśāḥ paripācayitavyāḥ / sarvasattvasaṃsāraduḥkhāni vinivartayitavyāni / atyantasukhe sattvāḥ pratiṣṭhāpayitavyāḥ / sarvasattvānāṃ jñānacakṣuḥ pariśodhayitavyam / sarvabuddhabodhisattvasamudāgame prayoktavyam / sarvabodhisattvasamatāyāṃ sthātavyam / sarvabodhisattvabhūmayo niṣpādayitavyāḥ / sarvasattvadhātuḥ pariśodhayitavyaḥ sarvasattvadāridryavyavacchedāya sarvasvaparityāginā bhavitavyam / aparāntakoṭīgatān kalpān dānapāramitāyāṃ caratā annapānadānena sattvāḥ saṃtarpayitavyāḥ / sarvopakaraṇavastuparityāgena sarvayācanakasaṃghaḥ saṃtarpayitavyaḥ / tena mayā sarvasvaparityāgitāyāṃ pratipadyamānena nāsti tadādhyātmikaṃ bāhyaṃ vā vastu yanna parityaktavyam / tena mayā putraduhitṛbhāryā dātavyāḥ / cakṣuḥśirohastapādasarvāṅgapratyaṅgāni parityaktavyāni / sā tvaṃ mama tadā pareṣu pratipadyamānā dānāntarāyaṃ kariṣyasi / priyeṣu putreṣu parityajyamāneṣvanāttamanā bhaviṣyasi / bahu kāyikacaitasikaṃ duḥkhaṃ pratyanubhaviṣyasi / mama sarvasvaparityāgacitte pratyupasthite mātsaryacittamutpādayiṣyasi / mamāṅgapratyaṅgāni cchittvā yācanakebhyaḥ parityajyamānasya duḥkhitā durmanasvinī bhaviṣyasi / bhaviṣyati ca sa kālo yadahaṃ tvāṃ parityajya tathāgataśāsane pravrajiṣyāmi / sā tvaṃ tasmin samaye 'nāttamanā bhaviṣyasi // atha khalu tejodhipatī rājaputraḥ tasyāṃ velāyāṃ sucalitaratiprabhāsaśriyaṃ dārikāṃ gāthābhiradhyabhāṣata - saṃbodhisaṃbhāramahāsamudrā mayāprameyāḥ paripūraṇīyāḥ / yataḥ kṛpāṃ sarvajagatsu kṛtvā saṃprasthito 'haṃ sucirāya bodhau

Sanskrit only: no published translation is held for this verse.

कल्यार्णवैः सम्यगनन्तमध्यैः व्योमाप्रमाणैः प्रणिधिर्विशोध्यः । प्रस्थानभूमेश्व तथागतानां कल्पाननन्तान् परिकर्म कार्यम्

kalyārṇavaiḥ samyaganantamadhyaiḥ vyomāpramāṇaiḥ praṇidhirviśodhyaḥ / prasthānabhūmeśva tathāgatānāṃ kalpānanantān parikarma kāryam

Sanskrit only: no published translation is held for this verse.

त्र्यध्वस्थितानां च मया जिनानां संशिक्षिता पारमितापथेषु । विशोधनीयो वरबोधिमार्गो निरुत्तरज्ञानमहानयेन

tryadhvasthitānāṃ ca mayā jinānāṃ saṃśikṣitā pāramitāpatheṣu / viśodhanīyo varabodhimārgo niruttarajñānamahānayena

Sanskrit only: no published translation is held for this verse.

क्षेत्राणि सर्वाण्यपि सर्वदिक्षु क्लिष्टानि शोध्यानि मयाखिलानि । सर्वाक्षणा दुर्गतयश्च सर्वा व्यावर्तनीयाः खलु सर्वलोके

kṣetrāṇi sarvāṇyapi sarvadikṣu kliṣṭāni śodhyāni mayākhilāni / sarvākṣaṇā durgatayaśca sarvā vyāvartanīyāḥ khalu sarvaloke

Sanskrit only: no published translation is held for this verse.

सर्वे च सत्त्वा निखिला विशोध्याः क्लेशावृता मोहतमोन्धभूताः । प्रपाचयित्वा विविधैरुपायैः सर्वज्ञतामार्गनये निवेश्याः

sarve ca sattvā nikhilā viśodhyāḥ kleśāvṛtā mohatamondhabhūtāḥ / prapācayitvā vividhairupāyaiḥ sarvajñatāmārganaye niveśyāḥ

Sanskrit only: no published translation is held for this verse.

भूमीरसङ्गाश्च मया विशोध्या कल्पार्णवाश्चैव जिनाः प्रपूज्याः । मैत्रीं च संजन्य जगत्यशेषे देयानि दानान्यखिलानि लोके

bhūmīrasaṅgāśca mayā viśodhyā kalpārṇavāścaiva jināḥ prapūjyāḥ / maitrīṃ ca saṃjanya jagatyaśeṣe deyāni dānānyakhilāni loke

Sanskrit only: no published translation is held for this verse.

समागतान् याचनकानुदीक्ष्य सर्वप्रदानाभिरतस्य नित्यम् । मा लीनदीना कृपणा तदानीं भूया मम त्वं विसभागचित्ता

samāgatān yācanakānudīkṣya sarvapradānābhiratasya nityam / mā līnadīnā kṛpaṇā tadānīṃ bhūyā mama tvaṃ visabhāgacittā

Sanskrit only: no published translation is held for this verse.

शिरोर्थिनो मे ऽर्थमुदीक्ष्य धीमान् चर्यामुदारा च रतस्तदानीम् । भविष्यसि त्वं भृशदुःखतप्ता श्रुत्वैवमर्थं स्थिततामुपैहि

śirorthino me 'rthamudīkṣya dhīmān caryāmudārā ca ratastadānīm / bhaviṣyasi tvaṃ bhṛśaduḥkhataptā śrutvaivamarthaṃ sthitatāmupaihi

Sanskrit only: no published translation is held for this verse.

त्वं दौर्मनस्यं मम हस्तपादच्छेदान् प्रदास्याम्यापि याचकानाम् । कटूनि वक्ष्यस्यबलार्तरूपा श्रुत्वैतमर्थं परिचिन्तयस्व

tvaṃ daurmanasyaṃ mama hastapādacchedān pradāsyāmyāpi yācakānām / kaṭūni vakṣyasyabalārtarūpā śrutvaitamarthaṃ paricintayasva

Sanskrit only: no published translation is held for this verse.

प्रियाणि वस्तूनि तथैव पुत्रान् दास्यामि च त्वामहमर्थिनः सन् । श्रुत्वैतमर्थं यदि ते न सादः सर्वं तथैवास्तु यथा तवेष्टम्

priyāṇi vastūni tathaiva putrān dāsyāmi ca tvāmahamarthinaḥ san / śrutvaitamarthaṃ yadi te na sādaḥ sarvaṃ tathaivāstu yathā taveṣṭam

Sanskrit only: no published translation is held for this verse.

एवमुक्ते सुचलितरतिप्रभासश्रीर्दारिका तेजोधिपतिं राजपुत्रमेतदवोचत् - तथा भवतु कुमार यथा वदसि । अहं ते यथाकामं करणीया यथेच्छापरिभोग्या येनकामंगमा सर्वत्रात्यन्तानुगामिनी नित्यानुबद्धा सर्वकार्योत्सुका आशयानुकूलोपचारा सम्यक्पराक्रमा अविषमप्रतिपत्तिप्रयोगोपचारा भविष्यामि ॥ अथ खलु सुचलितरतिप्रभासश्रीर्दारिका तेजोधिपतिं राजपुत्रं गाथाभिरध्यभाषत - कायो हि यन्मे नरकाग्निनायं संताप्यमानो विलयं प्रयायात् । जन्मार्णवानप्यहमुत्सहामि चर्यासभागा परिचारिका ते

evamukte sucalitaratiprabhāsaśrīrdārikā tejodhipatiṃ rājaputrametadavocat - tathā bhavatu kumāra yathā vadasi / ahaṃ te yathākāmaṃ karaṇīyā yathecchāparibhogyā yenakāmaṃgamā sarvatrātyantānugāminī nityānubaddhā sarvakāryotsukā āśayānukūlopacārā samyakparākramā aviṣamapratipattiprayogopacārā bhaviṣyāmi // atha khalu sucalitaratiprabhāsaśrīrdārikā tejodhipatiṃ rājaputraṃ gāthābhiradhyabhāṣata - kāyo hi yanme narakāgnināyaṃ saṃtāpyamāno vilayaṃ prayāyāt / janmārṇavānapyahamutsahāmi caryāsabhāgā paricārikā te

Sanskrit only: no published translation is held for this verse.

जातिष्वनन्तास्वपि जातजातश्छिद्येत कायो यदि मे ऽतिमात्रम् । तदुत्सहे ऽहं स्थिरधीरचित्ता भर्ता भव त्वं मम साधुरूप

jātiṣvanantāsvapi jātajātaśchidyeta kāyo yadi me 'timātram / tadutsahe 'haṃ sthiradhīracittā bhartā bhava tvaṃ mama sādhurūpa

Sanskrit only: no published translation is held for this verse.

कल्पाननन्तानपि चक्रवालाः कच्चिच्छिरो मे परिचूर्णयेयुः । आक्लान्तचित्तापि तदुत्सहे ऽहं स्वामी भव त्वं मम साध्वचिन्त्य

kalpānanantānapi cakravālāḥ kaccicchiro me paricūrṇayeyuḥ / āklāntacittāpi tadutsahe 'haṃ svāmī bhava tvaṃ mama sādhvacintya

Sanskrit only: no published translation is held for this verse.

जात्यन्तराण्यप्यमितानि च त्वं छित्त्वाङ्गमात्मानि परस्य देहि । चेतोवशित्वं मयि संनिवेश्य दृढं प्रतिष्ठापय मां स्वधर्मे

jātyantarāṇyapyamitāni ca tvaṃ chittvāṅgamātmāni parasya dehi / cetovaśitvaṃ mayi saṃniveśya dṛḍhaṃ pratiṣṭhāpaya māṃ svadharme

Sanskrit only: no published translation is held for this verse.

अत्यन्तमेव प्रतिपादयामि कायं तवेमं नरदेवपुत्र । चर्यां चरन् कल्पमहासमुद्रान् प्रयच्छ मामर्थिजनाय हृष्टाम्

atyantameva pratipādayāmi kāyaṃ tavemaṃ naradevaputra / caryāṃ caran kalpamahāsamudrān prayaccha māmarthijanāya hṛṣṭām

Sanskrit only: no published translation is held for this verse.

संप्रस्थितस्त्वं प्रवराग्रबोधौ सत्त्वेषु संजन्य कृपामनन्ताम् । अशेषसत्त्वार्णवसंग्रहाय गृह्णीष्व मामप्यनुकम्पयातः

saṃprasthitastvaṃ pravarāgrabodhau sattveṣu saṃjanya kṛpāmanantām / aśeṣasattvārṇavasaṃgrahāya gṛhṇīṣva māmapyanukampayātaḥ

Sanskrit only: no published translation is held for this verse.

इच्छाम्यहं स्वामिनमग्रसत्त्वं सभागचर्याचरणाय तु त्वाम्

icchāmyahaṃ svāminamagrasattvaṃ sabhāgacaryācaraṇāya tu tvām

Sanskrit only: no published translation is held for this verse.

शुद्धाभिनीलेक्षण मैत्रचित्ता यथेक्षसे त्वं खलु सर्वलोके । आरक्तचित्तः करुणायमानो निःसंशयं त्वं भविता मुनीन्द्रः

śuddhābhinīlekṣaṇa maitracittā yathekṣase tvaṃ khalu sarvaloke / āraktacittaḥ karuṇāyamāno niḥsaṃśayaṃ tvaṃ bhavitā munīndraḥ

Sanskrit only: no published translation is held for this verse.

यथा क्रमात्प्रक्रमतो मही ते रत्नोज्ज्वला तिष्ठति निर्मलेयम् । सल्लक्षणालंकृत चक्रवर्ती निःसंशयं त्वं भविता नृलोके

yathā kramātprakramato mahī te ratnojjvalā tiṣṭhati nirmaleyam / sallakṣaṇālaṃkṛta cakravartī niḥsaṃśayaṃ tvaṃ bhavitā nṛloke

Sanskrit only: no published translation is held for this verse.

स्वप्नान्तरे ऽपश्यमहं रजन्यां सुधर्ममेघप्रभबोधिमण्डे । द्रुमेन्द्रमूले सुगतं निषण्णं पुरस्कृतं बुद्धसुतैरनेकैः

svapnāntare 'paśyamahaṃ rajanyāṃ sudharmameghaprabhabodhimaṇḍe / drumendramūle sugataṃ niṣaṇṇaṃ puraskṛtaṃ buddhasutairanekaiḥ

Sanskrit only: no published translation is held for this verse.

तं सूर्यगात्रप्रवरं जिनेन्द्रं जाम्बूनदोत्तप्तमहाद्रिकल्पम् । स्वप्नान्तरे मुर्ध्न्यकरोत्स मे ऽद्य पाणिं प्रबुद्धा मुदिता ततो ऽहम्

taṃ sūryagātrapravaraṃ jinendraṃ jāmbūnadottaptamahādrikalpam / svapnāntare murdhnyakarotsa me 'dya pāṇiṃ prabuddhā muditā tato 'ham

Sanskrit only: no published translation is held for this verse.

रतिप्रभा नाम विशुद्धकाया पुराणसालोहितदेवता मे । आरोचयत्येष तथागतो ऽस्मिन् संबोधिमण्डे विचरत्युदारे

ratiprabhā nāma viśuddhakāyā purāṇasālohitadevatā me / ārocayatyeṣa tathāgato 'smin saṃbodhimaṇḍe vicaratyudāre

Sanskrit only: no published translation is held for this verse.

अभूत्पुरा मे खलु चेतनैवमीक्षेय तेजोधिपतिं कुमारम् । आरोचितं देवतया कुमारं त्वं द्रक्ष्यसीत्यद्य निशान्तरे मे

abhūtpurā me khalu cetanaivamīkṣeya tejodhipatiṃ kumāram / ārocitaṃ devatayā kumāraṃ tvaṃ drakṣyasītyadya niśāntare me

Sanskrit only: no published translation is held for this verse.

स्वप्नान्तरे मे सुगतो ऽद्य दृष्टः त्वं चैव दृष्टः परिशुद्धसत्त्वः । सार्धं त्वयावाप्तमनोरथाहं तं पूजयिष्यामि मुनीन्द्रमद्य

svapnāntare me sugato 'dya dṛṣṭaḥ tvaṃ caiva dṛṣṭaḥ pariśuddhasattvaḥ / sārdhaṃ tvayāvāptamanorathāhaṃ taṃ pūjayiṣyāmi munīndramadya

Sanskrit only: no published translation is held for this verse.

अथ खलु तेजोधिपती राजपुत्रः सूर्यगात्रप्रवरस्य तथागतस्य नामधेयं श्रुत्वा बुद्धदर्शनावकाशप्रतिलब्धो महाप्रीतिप्रसादवेगसंजातः सुचलितरतिप्रभासश्रियं दारिकां (ग्व् ३२५) पञ्चभिर्मणिरत्नशतैरभ्यवकीर्य श्रीगर्भप्रभासं नाम चूडामणिरत्नमस्याः प्रादात् । अग्निवर्णेन चैनां महामणिरत्नचित्रेण वस्त्ररत्नेनाच्छादयामास । सैवं सत्कृता न हृप्यति नोत्प्लुवति न चरति वा प्रमादं वागमत् अन्यत्र कृताञ्जलिपुटा अनिमिषनयना तेजोधिपतेः कुमारस्य वदनं प्रेक्षमाणा स्थिताभूत् ॥ अथ खलु सुदर्शना अग्रगणिका तेजोधिपतिं राजकुमारं गाथाभिरध्यभाषत - दद्यामिमां ते खलु दारिकां हमित्येवमासीन्मम दिर्घरात्रम् । सेयं प्रदत्ता तव चारुरूपा स्वलंकृता पुण्यगुणैरुपेता

atha khalu tejodhipatī rājaputraḥ sūryagātrapravarasya tathāgatasya nāmadheyaṃ śrutvā buddhadarśanāvakāśapratilabdho mahāprītiprasādavegasaṃjātaḥ sucalitaratiprabhāsaśriyaṃ dārikāṃ (Gv 325) pañcabhirmaṇiratnaśatairabhyavakīrya śrīgarbhaprabhāsaṃ nāma cūḍāmaṇiratnamasyāḥ prādāt / agnivarṇena caināṃ mahāmaṇiratnacitreṇa vastraratnenācchādayāmāsa / saivaṃ satkṛtā na hṛpyati notpluvati na carati vā pramādaṃ vāgamat anyatra kṛtāñjalipuṭā animiṣanayanā tejodhipateḥ kumārasya vadanaṃ prekṣamāṇā sthitābhūt // atha khalu sudarśanā agragaṇikā tejodhipatiṃ rājakumāraṃ gāthābhiradhyabhāṣata - dadyāmimāṃ te khalu dārikāṃ hamityevamāsīnmama dirgharātram / seyaṃ pradattā tava cārurūpā svalaṃkṛtā puṇyaguṇairupetā

Sanskrit only: no published translation is held for this verse.

मनुष्यलोके सदृशी न कन्या संविद्यते ऽस्याः क्वचिदुत्तमा या । शीलेन बुद्ध्याथ गुणैस्तथान्यैः स्त्रीणां वरेयं स्वलु सर्वलोके

manuṣyaloke sadṛśī na kanyā saṃvidyate 'syāḥ kvaciduttamā yā / śīlena buddhyātha guṇaistathānyaiḥ strīṇāṃ vareyaṃ svalu sarvaloke

Sanskrit only: no published translation is held for this verse.

पद्मोद्भवेयं न हि जातिवादः संदूषणामर्हति निर्मलत्वात् । अशेषदोषानुपलिप्तचित्ता चर्यासभागा तव संबभूव

padmodbhaveyaṃ na hi jātivādaḥ saṃdūṣaṇāmarhati nirmalatvāt / aśeṣadoṣānupaliptacittā caryāsabhāgā tava saṃbabhūva

Sanskrit only: no published translation is held for this verse.

सर्वोत्तमस्पर्शसुखावहानि गात्राणि चास्याः परमं मृदूनि । व्याध्यातुराः संस्परिशेन येषामरोगतां तत्क्षणमेव यान्ति

sarvottamasparśasukhāvahāni gātrāṇi cāsyāḥ paramaṃ mṛdūni / vyādhyāturāḥ saṃspariśena yeṣāmarogatāṃ tatkṣaṇameva yānti

Sanskrit only: no published translation is held for this verse.

यो ऽस्याः शुभो वाति हि गात्रगन्धो वरांस्तदन्यानभिभूय गन्धान् । तं गन्धमाघ्राय विशुद्धशीलप्रतिष्ठिता सर्वनरा भवन्ति

yo 'syāḥ śubho vāti hi gātragandho varāṃstadanyānabhibhūya gandhān / taṃ gandhamāghrāya viśuddhaśīlapratiṣṭhitā sarvanarā bhavanti

Sanskrit only: no published translation is held for this verse.

अस्या हि कायः कनकप्रकाशो विरोचते निर्मलपद्मगर्भः । क्रुद्धा यमुद्वीक्ष्य हि मैत्रचित्ता भवन्ति सर्वे निखिलेन सत्त्वाः

asyā hi kāyaḥ kanakaprakāśo virocate nirmalapadmagarbhaḥ / kruddhā yamudvīkṣya hi maitracittā bhavanti sarve nikhilena sattvāḥ

Sanskrit only: no published translation is held for this verse.

श्रुत्वैव यद्दोषतमोविघाति कर्माशुभं नाभिलषन्ति कर्तुम्

śrutvaiva yaddoṣatamovighāti karmāśubhaṃ nābhilaṣanti kartum

Sanskrit only: no published translation is held for this verse.

शुद्धाशया निर्मलमानसेयं सर्वत्र शाठ्यं न हि विद्यते ऽस्याः । यद्भाषते चेतसि तत्तथैव यतो जगत्तोषयति स्वरेण

śuddhāśayā nirmalamānaseyaṃ sarvatra śāṭhyaṃ na hi vidyate 'syāḥ / yadbhāṣate cetasi tattathaiva yato jagattoṣayati svareṇa

Sanskrit only: no published translation is held for this verse.

न मायया मोहयते च सत्त्वान् विलोभयत्येव च नार्थहेतोः । लज्जावती संवृतमानसेयं सगौरवा वृद्धनवेषु नित्यम्

na māyayā mohayate ca sattvān vilobhayatyeva ca nārthahetoḥ / lajjāvatī saṃvṛtamānaseyaṃ sagauravā vṛddhanaveṣu nityam

Sanskrit only: no published translation is held for this verse.

न जातिगोत्रेण न रूपमत्ता तथैव नेयं परिवारमत्ता । मदेन मानेन च विप्रयुक्ता नम्रा जिनेषु प्रणता सदैव

na jātigotreṇa na rūpamattā tathaiva neyaṃ parivāramattā / madena mānena ca viprayuktā namrā jineṣu praṇatā sadaiva

Sanskrit only: no published translation is held for this verse.

तत्किं मन्यसे कुलपुत्र - अन्या सा तेन कालेन तेन समयेन पद्मश्रीगर्भसंभवा नाम राजभार्या अभूत् तेजोधिपतेः कुमारस्य माता चतुरशीतिस्त्रीसहस्राणां प्रमुखानाम्? न खल्वेवं द्रष्टव्यम् । एषा सा कुलपुत्र मायादेवी भगवतो माता बोधिसत्त्वजननी समन्तावभासानावरणविमोक्षप्रतिष्ठिता असंख्येयसर्वतथागतसमुद्रागमप्रत्यक्षा सर्वबोधिसत्त्वजन्मसंदर्शनविधिज्ञा तेन कालेन तेन समयेन पद्मश्रीगर्भसंभवा नाम राज्ञो धनतेरग्रमहिष्यभूत् । तत्किं मन्यसे कुलपुत्र - अन्या सा तेन कालेन तेन समयेन सुदर्शना नाम अग्रगणिका अभूत्? न खल्वेवं द्रष्टव्यम् । एषा सा सुनेत्रा नाम दण्डपाणेः शाक्यस्य भार्या मम माता तेन कालेन तेन समयेन सुदर्शना नाम अग्रगणिकाभूत् । तत्किं मन्यसे कुलपुत्र - अन्या सा तेन कालेन तेन समयेन सुचलितरतिप्रभासश्रीर्नाम गणिकादारिकाभूत्? न खल्वेवं द्रष्टव्यम् । अहं सा तेन कालेन तेन समयेन सुचलितरतिप्रभासश्रीर्गणिकादारिका अभूत् । तत्किं मन्यसे कुलपुत्र - अन्यः स तेन कालेन तेन समयेन तेजोधिपते राज्ञः परिवारो ऽभूत्? न खल्वेवं द्रष्टव्यम् । इमे ते बोधिसत्त्वाः सर्वे समन्तभद्रबोधिसत्त्वचर्याप्रणिधानपरिपूर्यां भगवता प्रतिष्ठापिता अस्मिन्नेव पर्षन्मण्डले संनिषण्णासर्वलोकधातुप्रतिभासप्राप्तेन कायेन सर्वबोधिसत्त्वसमाधिविहारसंभिन्नेन चित्तेन सर्वतथागतः संमुखभाववदनविज्ञप्तेन चक्षुषा सर्वतथागतगगनस्वराङ्गमेघचक्रनिगर्जितनिर्घोषविज्ञप्तेन श्रोत्रेण सर्वधर्मविहारवशवर्तिना आश्वासप्रश्वासेन सर्वबुद्धक्षेत्रानुचलितेन निर्घोषेण सर्वतथागतपर्षन्मण्डलोपसंक्रमणाप्रतिप्रस्रब्धेन बोधिसत्त्वकायेन बोधिसत्त्वयथाशयाभिमुखेन परिपाकविनयानुकूलेन आत्मभावाभिनिर्हारेण अशेषसर्वदिग्जालप्रसृतेन नानागतसर्वकल्पाव्यवच्छिन्नेन समन्तभद्रबोधिसत्त्वचर्याप्रणिधानपरिपूरिसमुदागमेन समन्वागता भगवतः पर्षन्मण्डले संनिषण्णाः । स खलु कुलपुत्र सूर्यगात्रप्रवरस्तथागतस्तेजोधिपतिना चक्रवर्तिना च मया च यावज्जीवमुपस्थितो ऽभूत् चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः ॥ तस्य खलु पुनः कुलपुत्र सूर्यगात्रप्रवरस्य तथागतस्य परिनिर्वृतस्यानन्तरं तस्यामेव लोकधातौ प्रसन्नगात्रो नाम तथागतो लोक उदपादि । सो ऽप्यस्माभिरारागितः सत्कृतो गुरुकृतो मानितः पूजितः । तस्यानन्तरं सर्वगात्रज्ञानप्रतिभासचन्द्रो नाम तथागतो लोक उदपादि । सो ऽप्यस्माभिर्देवेन्द्रभूतैरारागितः । तस्यानन्तरं जाम्बूनदतेजोराजो नाम तथागत आरागितः । तस्यानन्तरं लक्षणभूषितगात्रो नाम तथागत आरागितः । तस्यानन्तरं विचित्ररश्मिज्वलनचन्द्रो नाम तथागत आरागितः । तस्यानन्तरं सुविलोकितज्ञानकेतुर्नाम तथागत (ग्व् ३३१) आरागितः । तस्यानन्तरं विपुलमहाज्ञानरश्मिराजो नाम तथागत आरागितः । तस्यानन्तरं नारायणवज्रवीर्यो नाम तथागत आरागितः । तस्यानन्तरमपराजितज्ञानस्थामो नाम तथागत आरागितः । तस्यानन्तरं समन्तविलोकितज्ञानो नाम तथागत आरागितः । तस्यानन्तरं विमलश्रीमेघो नाम तथागत आरागितः । तस्यानन्तरं सिंहविजृम्भितप्रभो नाम तथागत आरागितः । तस्यानन्तरं ज्ञानरश्मिज्वलनचूडो नाम तथागत आरागितः । तस्यानन्तरं गुणरश्मिध्वजोनाम तथागत आरागितः । तस्यानन्तरं ज्ञानभास्करतेजो नाम तथागत आरागितः । तस्यानन्तरं रत्नपद्मप्रफुल्लितगात्रो नाम तथागत आरागितः । तस्यानन्तरं पुण्यप्रदीपध्वजो नाम तथागत आरागितः । तस्यानन्तरं ज्ञानरश्मिमेघप्रभो नाम तथागत आरागितः । तस्यानन्तरं समन्तवैरोचनचन्द्रो नाम तथागत आरागितः । तस्यानन्तरं आभरणच्छत्रनिर्घोषो नाम तथागत आरागितः । तस्यानन्तरं समन्तज्ञानालोकविक्रमसिंहो नाम तथागत आरागितः । तस्यानन्तरं धर्मधातुविषयमतिचन्द्रो नाम तथागत आरागितः । तस्यानन्तरं सत्त्वगगनचित्तप्रतिभासबिम्बो नाम तथागत आरागितः । तस्यानन्तरं प्रशमगन्धसुनाभो नाम तथागत आरागितः । तस्यानन्तरं समन्तानुरवितशान्तनिर्घोषो नाम तथागत आरागितः । तस्यानन्तरं सुदृढज्ञानरश्मिजालबिम्बस्कन्धो नाम तथागत आरागितः । तस्यानन्तरं अमृतपर्वतप्रभातेजो नाम तथागत आरागितः । तस्यानन्तरं धर्मसागरनिगर्जितघोषो नाम तथागत आरागितः । तस्यानन्तरं बुद्धगगनप्रभासचूडो नाम तथागत आरागितः । तस्यानन्तरं रश्मिचन्द्रो नाम तथागत आरागितः । तस्यानन्तरं रश्मिचन्द्रोर्णमेघो नाम तथागत आरागितः । तस्यानन्तरं सुपरिपूर्णज्ञानमुखक्त्रो नाम तथागत आरागितः । तस्यानन्तरं सुविशुद्धज्ञानकुसुमावभासो नाम तथागत आरागितः । तस्यानन्तरं रत्नार्चिःपर्वतश्रीतेजोराजो नाम तथागत आरागितः । तस्यानन्तरं विपुलगुणज्योतिःप्रभो नाम तथागत आरागितः । तस्यानन्तरं समाधिमेर्वभ्युद्गतज्ञानो नाम तथागत आरागितः । तस्यानन्तरं रत्नचन्द्रध्वजो नाम तथागत आरागितः । तस्यानन्तरमर्चिर्मण्डलगात्रो नाम तथागत आरागितः । तस्यानन्तरं रत्नाग्रप्रभतेजो नाम तथागत आरागितः । तस्यानन्तरं समन्तज्ञानचर्याविलम्बो नाम तथागत आरागितः । तस्यानन्तरं अर्चिःसमुद्रमुखवेगप्रदीपो नाम तथागत आरागितः । तस्यानन्तरं धर्मविमाननिर्घोषराजो नाम तथागत आरागितः । तस्यानन्तरमसदृशगुणकीर्तिध्वजो नाम तथागत आरागितः । तस्यानन्तरं प्रलम्बबाहुर्नाम तथागत आरागितः । तस्यानन्तरं पूर्वप्रणिधिनिर्माणचन्द्रो नाम तथागत आरागितः । तस्यानन्तरमाकाशज्ञानार्थप्रदीपो नाम तथागत आरागितः । तस्यानन्तरं धर्मोद्गतनभेश्वरो नाम तथागत आरागितः । तस्यानन्तरं वैरोचनश्रीगर्भराजो नाम तथागत आरागितः । तस्यानन्तरं धर्मनारायणकेतुर्नाम तथागत आरागितः । तस्यानन्तरं ज्ञानकेतुर्नाम तथागत आरागितः । तस्यानन्तरं धर्मसागरपद्मो नाम तथागत आरागितः । इति हि कुलपुत्र एतांस्तथागतान् प्रमुखान् कृत्वा तस्यां लोकधातौ षष्टिबुद्धकोटीनियुतशतसहस्राण्युत्पन्नानि (ग्व् ३३२) अभूवन्, यान्यस्माभिरारागितानि सत्कृतानि गुरुकृतानि मानितानि पूजितानि चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः ॥ तेषां खलु कुलपुत्र षष्टेर्बुद्धकोटीनियुतशतसहस्राणां सर्वपश्चिमो विपुलधर्माधिमुक्तिसंभवतेजो नाम तथागत उत्पन्नो ऽभूत् । तस्य भगवतो नगरे प्रविष्टस्य मया राजभार्याभूतया सार्धं स्वामिना सर्वाकारपूजामुखं प्रयुक्तया तथागतपूजया पूजां कृत्वा सर्वतथागतोत्पत्तिसंभवप्रदीपो नाम तथागतधर्मपर्यायस्तस्य भगवतो ऽन्तिकात् श्रुतः, यस्य सहश्रवणान्मया ज्ञानचक्षुः प्रतिलब्धम् । एष च सर्वबोधिसत्त्वसमाधिनयसागरव्यवलोकनविषयो बोधिसत्त्वविमोक्षः प्रतिलब्धः ॥ सा खल्वहं कुलपुत्र एतं विमोक्षं भावयमाना बुद्धक्षेत्रशतपरमाणुरजःसमान् कल्पानागतान् बोधिसत्त्वेन सार्धं बोधिसत्त्वचर्यां चरमाणा । तेषु च मे बुद्धक्षेत्रपरमाणुरजःसमेषु कल्पेषु अनन्तमध्यास्तथागता आरागिताः । क्वचित् कल्पे कल्पस्थो ऽपि एकतथागत आरागितः । क्वचित् कल्पे द्वौ तथागतावारागितौ । क्वचित् कल्पे यावदनभिलाप्यास्तथागता आरागिताः । क्वचित् कल्पे बुद्धक्षेत्रपरमाणुरजःसमास्तथागता आरागिताः । न च मे जातु बोधिसत्त्वस्य कायो ज्ञातः - किंप्रमाणः कीदृक्संस्थानः कीदृग्वर्णः । न कायकर्म ज्ञातं न वाक्कर्म न मनस्कर्म ज्ञातं न ज्ञानदर्शनं न ज्ञानगोचरं न ज्ञानसमाधिविषयो ज्ञातः । ये खलु पुनः कुलपुत्र सत्त्वा बोधिसत्त्वं बोधिसत्त्वचारिकां चरन्तं दृष्ट्वा बोधिसत्त्वस्यान्तिके ऽनुनयचित्तमुत्पादयामासुः, नानासंकेतैर्नानासंवासैश्च प्रसादं जनयामासुः, सर्वे ते बोधिसत्त्वेन लौकिकलोकोत्तरैर्विविधैरुपायैः संगृहीता बोधिसत्त्वस्य परिवारा भवन्ति स्म । ते बोधिसत्त्वस्य बोधिसत्त्वचर्यां चरतः परिवारसंवासे न अवैवर्तिका भवन्ति स्म अनुत्तरायां सम्यक्संबोधौ ॥ साहं कुलपुत्र विपुलधर्माधिमुक्तिसंभवतेजस्तथागतस्य सहदर्शनादिमं सर्वबोधिसत्त्वसमाधिसागरव्यवलोकनविषयं बोधिसत्त्वविमोक्षं प्रतिलभ्य बोधिसत्त्वेन सार्धं बुद्धक्षेत्रशतपरमाणुरजःसमान् कल्पानागता एतं विमोक्षं संभावयमाना । ये च तेषु बुद्धक्षेत्रपरमाणुरजःसमेषु कल्पेषु तथागता उत्पन्नाः, सर्वे ते मया तथागता आरागिताः पूजिता उपस्थिताः । सर्वेषां च मे तेषां तथागतानां धर्मदेशना श्रुता, श्रुत्वा उद्गृहीता संधारिता । सर्वेषां च मया तेषां बुद्धानां भगवतामन्तिकादेष विमोक्षः प्रतिलब्धो नानानयैर्वा नानासूत्रान्तनयनिर्घोषैर्नानाविमोक्षशरीरैर्नानाविमोक्षद्वारैर्नानाविमोक्षविचारैर्नानाध्वजप्रवेशैः नानाबुद्धक्षेत्रसागरावतारैः नानाबुद्धदर्शनसमुद्रविज्ञप्तिभिः नानातथागतपर्षन्मण्डलावतारैः नानाबोधिसत्त्वप्रणिधानसागरनयपथैः नानाबोधिसत्त्वचर्याप्रसरैः नानाबोधिसत्त्वचर्याभिनिर्हारैः नानाबोधिसत्त्वप्रसरैः । न च बोधिसत्त्वस्य समन्तभद्रविमोक्षनयमवतरामि । तत्कस्य हेतोः? आकाशतलप्रवेशाप्रमाणा हि कुलपुत्र समन्तभद्राणां बोधिसत्त्वानां विमोक्षनयाः सर्वसत्त्वसंज्ञागततलाप्रमाणाः त्र्यध्वपरिवर्तसागरतलाप्रमाणा (ग्व् ३३३) दिक्समुद्रतलाप्रमाणा धर्मधातुनयसागरतलाप्रमाणाः । तथागतविषयसमशरीरा हि कुलपुत्र समन्तभद्राणां बोधिसत्त्वानां विमोक्षनयाः ॥ सा अहं कुलपुत्र बुद्धक्षेत्रपर्माणुरजःसमान् कल्पान् बोधिसत्त्वशरीरं प्रेक्षमाणा अतृप्तैव दर्शनेन । तद्यथापि नाम कुलपुत्र एकान्तरागचरितयोः स्त्रीपुरुषयोरन्योन्यसमागमे संकेतकृतयोरप्रमाणा अयोनिशोमनसिकारप्रभवाः शुभसंज्ञावितर्कसंमोहसंभवाश्चित्तोत्पादा उत्पद्यन्ते, एवमेव कुलपुत्र मम बोधिसत्त्वस्य शरीरं प्रेक्षमाणाया एकैकस्माद्रोमविवरादनन्तमध्याप्रमाणनिर्देशा लोकधातुवंशप्रसरा नानाप्रतिष्ठाना नानासंधिव्यूहा नानासंस्थाना नानापर्वतव्यूहा नानापृथिवीतलव्यूहनिर्देशा नानागगनमेघसंछन्नालंकारा नानाकल्पनामसंख्यानिर्देशा नानाबुद्धोत्पादतथागतवंशप्रभवा नानाबोधिमण्डालंकारा नानातथागतधर्मचक्रप्रवर्तनविकुर्विता नानातथागतपर्षन्मण्डलव्यूहा नानासूत्रान्तनयनिर्देशनिर्घोषा नानायाननयनिर्हारप्रभवा नानापरिशुद्धप्रभालोकावभासा अदृष्टपूर्वनिमित्ताः प्रतिचित्तक्षणं चक्षुष आभासमागच्छन्ति । एकैकस्माद्रोमविवरादनन्तमध्या बुद्धसमुद्राश्चक्षुष आभासमागच्छन्ति । नानाबोधिमण्डालंकारा नानाधर्मचक्रप्रवर्तनविकुर्विता नानासूत्रान्तनिर्घोषविकुर्विताः अप्रतिस्रब्धयोगेन प्रतिचित्तक्षणं चक्षुष आभासमागच्छन्ति । एकैकस्माद्रोमविवरादनन्तमध्याः सत्त्वसमुद्रा नानाभवनारामपर्वतविमाननदीसमुद्रनिलया नानारूपकाया नानापरिभोगविषया नानाचारयोगचारप्रयोगा नानेन्द्रियपरिनिष्पत्तिसंस्थानाः प्रतिचित्तक्षणं चक्षुष आभासमागच्छन्ति । एकैकस्माद्रोमविवरादनन्तमध्यास्त्र्यध्वसागरप्रवेशनया अवभासमागच्छन्ति । अनन्तमध्या बोधिसत्त्वप्रणिधानसमुद्रा विशुध्यन्ते । अनन्तमध्या बोधिसत्त्वभूमिचर्याविमात्रतासमुद्रा आभासमागच्छन्ति । अनन्तमध्या बोधिसत्त्वपारमितानयसागरपरिशुद्धयो ऽवभासमागच्छन्ति । अनन्तमध्या बोधिसत्त्वपूर्वयोगसमुद्रा आभासमागच्छन्ति । अनन्तमध्या बुद्धक्षेत्रपरिशोधननयसमुद्रा आभासमागच्छन्ति । अनन्तमध्या बोधिसत्त्वमहामैत्रीनयसमुद्राः सर्वसत्त्वमहामैत्रीनयसमुद्राः सर्वसत्त्वपरिपाकविनयपराक्रमप्रयोगसागरा अवक्रामन्ति । अनन्तमध्या बोधिसत्त्वमहाकरुणामेघनयसागराः संभवन्ति । अनन्तमध्या बोधिसत्त्वमहाप्रीतिवेगसागरा विवर्धन्ते । प्रतिचित्तक्षणमनन्तमध्याः सर्वसत्त्वसंग्रहप्रयोगसागरा निष्पद्यन्ते ॥ सा अहं कुलपुत्र तेषु बुद्धक्षेत्रशतपरमाणुरजःसमेषु कल्पेषु बोधिसत्त्वस्य एकैकस्माद्रोमविवरात्प्रतिचित्तक्षणमनन्तमध्यान् धर्मनयसागरानवतरमाणा पर्यन्तं नाधिगच्छामि । न च अवतीर्णपूर्वमवतरामि । न प्रतिलब्धपूर्वं प्रतिलभे यावदन्तःपुरमध्यगतस्याप्यहं कुलपुत्र सर्वार्थसिद्धस्य स्त्रीगणपरिवृतस्य नानाविमोक्षनयसागरावतारैः । एकैकस्माद्रोमविवरादनन्तमध्यांस्त्र्यध्वनयसागरानवतारामि धर्मधात्ववतारनयसमुद्रावतारेण ॥ एतमहं कुलपुत्र सर्वबोधिसत्त्वसमाधिसागरव्यवलोकनविषयं बोधिसत्त्वविमोक्षं प्रजानामि, समापद्ये । किं मया शक्यं बोधिसत्त्वानामनन्तमध्योपायनयसागरप्रसृतानां सर्वसत्त्वसमसदृशसंस्थानसंस्थितकायविज्ञप्तिसंदर्शकानां सर्वजगदाशयानुकूलचर्यासंदर्शकानाम् (ग्व् ३३४) अनन्तमध्यवर्णनिर्मितमेघसमुद्रसर्वरोममुखप्रमुञ्चकानां सर्वशरीरधर्मतास्वभावप्रकृतिपरिशुद्धानामाकाशलक्षणजगत्प्रकृत्यवबोधनिर्विकल्पानां सर्वत्रानुगतबुद्धिविनिश्चयतथागतसमविकुर्वितपरमाणाम् अनन्तमध्यविमोक्षविषयविकुर्वितनिर्यातानां विपुलधर्मधातुचित्तोत्पादप्रवेशविहारवशवर्तिनां समन्तमुखसर्वधर्मभूमिविमोक्षसागरविक्रीडितानां चर्यां ज्ञातुं गुणान् वा वक्तुम्, निखिलान् वा गुणनिधीन् संदर्शयितुम् ॥ गच्छ कुलपुत्र, इहैव भगवतो वैरोचनस्य पादमूले विविधरत्नव्यूहमहामणिराजपद्मगर्भासननिषण्णा बोधिसत्त्वजनेत्री माया नाम देवी । तामुपसंक्रम्य परिपृच्छ - कथं बोधिसत्त्वा बोधिसत्त्वचर्यां चरन्तो ऽनुपलिप्ता भवन्ति सर्वलोकधर्ममलैः । अप्रतिप्रस्रब्धा भवन्ति तथागतपूजाप्रयोगेषु । अवैवर्तिका भवन्ति सर्वबोधिसत्त्वकर्मान्तेभ्यः । सर्वावरणविगता भवन्ति बोधिसत्त्वविमोक्षावतारेषु । अपरप्रत्यया भवन्ति सर्वबोधिसत्त्वविहारेषु । संमुखीभावगता भवन्ति सर्वतथागतानाम् । न विवर्तन्ते सर्वसत्त्वसंग्रहप्रयोगेभ्यः, न निवर्तन्ते ऽपरान्तकोटीगतकल्पसर्वबोधिसत्त्वचर्यासंवासेभ्यः । न प्रत्युदावर्तन्ते महायानप्रणिधानात् । न संसीदन्ति जगत्कुशलमूलसंधारणविवर्धनतया ॥ अथ खलु गोपा शाक्यकन्या एतमेव विमोक्षमुखनयं संदर्शयन्ती बुद्धाधिष्ठानेन तस्यां वेलायामिमा गाथा अभाषत - संबोधिचर्याचरणप्रयुक्तं पश्यन्ति सत्त्वाः खलु ये ऽग्रसत्त्वम् । प्रसन्नचित्ताः प्रतिघातिनो वा व्रजन्ति ते संग्रहमस्य सर्वे

tatkiṃ manyase kulaputra - anyā sā tena kālena tena samayena padmaśrīgarbhasaṃbhavā nāma rājabhāryā abhūt tejodhipateḥ kumārasya mātā caturaśītistrīsahasrāṇāṃ pramukhānām? na khalvevaṃ draṣṭavyam / eṣā sā kulaputra māyādevī bhagavato mātā bodhisattvajananī samantāvabhāsānāvaraṇavimokṣapratiṣṭhitā asaṃkhyeyasarvatathāgatasamudrāgamapratyakṣā sarvabodhisattvajanmasaṃdarśanavidhijñā tena kālena tena samayena padmaśrīgarbhasaṃbhavā nāma rājño dhanateragramahiṣyabhūt / tatkiṃ manyase kulaputra - anyā sā tena kālena tena samayena sudarśanā nāma agragaṇikā abhūt? na khalvevaṃ draṣṭavyam / eṣā sā sunetrā nāma daṇḍapāṇeḥ śākyasya bhāryā mama mātā tena kālena tena samayena sudarśanā nāma agragaṇikābhūt / tatkiṃ manyase kulaputra - anyā sā tena kālena tena samayena sucalitaratiprabhāsaśrīrnāma gaṇikādārikābhūt? na khalvevaṃ draṣṭavyam / ahaṃ sā tena kālena tena samayena sucalitaratiprabhāsaśrīrgaṇikādārikā abhūt / tatkiṃ manyase kulaputra - anyaḥ sa tena kālena tena samayena tejodhipate rājñaḥ parivāro 'bhūt? na khalvevaṃ draṣṭavyam / ime te bodhisattvāḥ sarve samantabhadrabodhisattvacaryāpraṇidhānaparipūryāṃ bhagavatā pratiṣṭhāpitā asminneva parṣanmaṇḍale saṃniṣaṇṇāsarvalokadhātupratibhāsaprāptena kāyena sarvabodhisattvasamādhivihārasaṃbhinnena cittena sarvatathāgataḥ saṃmukhabhāvavadanavijñaptena cakṣuṣā sarvatathāgatagaganasvarāṅgameghacakranigarjitanirghoṣavijñaptena śrotreṇa sarvadharmavihāravaśavartinā āśvāsapraśvāsena sarvabuddhakṣetrānucalitena nirghoṣeṇa sarvatathāgataparṣanmaṇḍalopasaṃkramaṇāpratiprasrabdhena bodhisattvakāyena bodhisattvayathāśayābhimukhena paripākavinayānukūlena ātmabhāvābhinirhāreṇa aśeṣasarvadigjālaprasṛtena nānāgatasarvakalpāvyavacchinnena samantabhadrabodhisattvacaryāpraṇidhānaparipūrisamudāgamena samanvāgatā bhagavataḥ parṣanmaṇḍale saṃniṣaṇṇāḥ / sa khalu kulaputra sūryagātrapravarastathāgatastejodhipatinā cakravartinā ca mayā ca yāvajjīvamupasthito 'bhūt cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ // tasya khalu punaḥ kulaputra sūryagātrapravarasya tathāgatasya parinirvṛtasyānantaraṃ tasyāmeva lokadhātau prasannagātro nāma tathāgato loka udapādi / so 'pyasmābhirārāgitaḥ satkṛto gurukṛto mānitaḥ pūjitaḥ / tasyānantaraṃ sarvagātrajñānapratibhāsacandro nāma tathāgato loka udapādi / so 'pyasmābhirdevendrabhūtairārāgitaḥ / tasyānantaraṃ jāmbūnadatejorājo nāma tathāgata ārāgitaḥ / tasyānantaraṃ lakṣaṇabhūṣitagātro nāma tathāgata ārāgitaḥ / tasyānantaraṃ vicitraraśmijvalanacandro nāma tathāgata ārāgitaḥ / tasyānantaraṃ suvilokitajñānaketurnāma tathāgata (Gv 331) ārāgitaḥ / tasyānantaraṃ vipulamahājñānaraśmirājo nāma tathāgata ārāgitaḥ / tasyānantaraṃ nārāyaṇavajravīryo nāma tathāgata ārāgitaḥ / tasyānantaramaparājitajñānasthāmo nāma tathāgata ārāgitaḥ / tasyānantaraṃ samantavilokitajñāno nāma tathāgata ārāgitaḥ / tasyānantaraṃ vimalaśrīmegho nāma tathāgata ārāgitaḥ / tasyānantaraṃ siṃhavijṛmbhitaprabho nāma tathāgata ārāgitaḥ / tasyānantaraṃ jñānaraśmijvalanacūḍo nāma tathāgata ārāgitaḥ / tasyānantaraṃ guṇaraśmidhvajonāma tathāgata ārāgitaḥ / tasyānantaraṃ jñānabhāskaratejo nāma tathāgata ārāgitaḥ / tasyānantaraṃ ratnapadmapraphullitagātro nāma tathāgata ārāgitaḥ / tasyānantaraṃ puṇyapradīpadhvajo nāma tathāgata ārāgitaḥ / tasyānantaraṃ jñānaraśmimeghaprabho nāma tathāgata ārāgitaḥ / tasyānantaraṃ samantavairocanacandro nāma tathāgata ārāgitaḥ / tasyānantaraṃ ābharaṇacchatranirghoṣo nāma tathāgata ārāgitaḥ / tasyānantaraṃ samantajñānālokavikramasiṃho nāma tathāgata ārāgitaḥ / tasyānantaraṃ dharmadhātuviṣayamaticandro nāma tathāgata ārāgitaḥ / tasyānantaraṃ sattvagaganacittapratibhāsabimbo nāma tathāgata ārāgitaḥ / tasyānantaraṃ praśamagandhasunābho nāma tathāgata ārāgitaḥ / tasyānantaraṃ samantānuravitaśāntanirghoṣo nāma tathāgata ārāgitaḥ / tasyānantaraṃ sudṛḍhajñānaraśmijālabimbaskandho nāma tathāgata ārāgitaḥ / tasyānantaraṃ amṛtaparvataprabhātejo nāma tathāgata ārāgitaḥ / tasyānantaraṃ dharmasāgaranigarjitaghoṣo nāma tathāgata ārāgitaḥ / tasyānantaraṃ buddhagaganaprabhāsacūḍo nāma tathāgata ārāgitaḥ / tasyānantaraṃ raśmicandro nāma tathāgata ārāgitaḥ / tasyānantaraṃ raśmicandrorṇamegho nāma tathāgata ārāgitaḥ / tasyānantaraṃ suparipūrṇajñānamukhaktro nāma tathāgata ārāgitaḥ / tasyānantaraṃ suviśuddhajñānakusumāvabhāso nāma tathāgata ārāgitaḥ / tasyānantaraṃ ratnārciḥparvataśrītejorājo nāma tathāgata ārāgitaḥ / tasyānantaraṃ vipulaguṇajyotiḥprabho nāma tathāgata ārāgitaḥ / tasyānantaraṃ samādhimervabhyudgatajñāno nāma tathāgata ārāgitaḥ / tasyānantaraṃ ratnacandradhvajo nāma tathāgata ārāgitaḥ / tasyānantaramarcirmaṇḍalagātro nāma tathāgata ārāgitaḥ / tasyānantaraṃ ratnāgraprabhatejo nāma tathāgata ārāgitaḥ / tasyānantaraṃ samantajñānacaryāvilambo nāma tathāgata ārāgitaḥ / tasyānantaraṃ arciḥsamudramukhavegapradīpo nāma tathāgata ārāgitaḥ / tasyānantaraṃ dharmavimānanirghoṣarājo nāma tathāgata ārāgitaḥ / tasyānantaramasadṛśaguṇakīrtidhvajo nāma tathāgata ārāgitaḥ / tasyānantaraṃ pralambabāhurnāma tathāgata ārāgitaḥ / tasyānantaraṃ pūrvapraṇidhinirmāṇacandro nāma tathāgata ārāgitaḥ / tasyānantaramākāśajñānārthapradīpo nāma tathāgata ārāgitaḥ / tasyānantaraṃ dharmodgatanabheśvaro nāma tathāgata ārāgitaḥ / tasyānantaraṃ vairocanaśrīgarbharājo nāma tathāgata ārāgitaḥ / tasyānantaraṃ dharmanārāyaṇaketurnāma tathāgata ārāgitaḥ / tasyānantaraṃ jñānaketurnāma tathāgata ārāgitaḥ / tasyānantaraṃ dharmasāgarapadmo nāma tathāgata ārāgitaḥ / iti hi kulaputra etāṃstathāgatān pramukhān kṛtvā tasyāṃ lokadhātau ṣaṣṭibuddhakoṭīniyutaśatasahasrāṇyutpannāni (Gv 332) abhūvan, yānyasmābhirārāgitāni satkṛtāni gurukṛtāni mānitāni pūjitāni cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ // teṣāṃ khalu kulaputra ṣaṣṭerbuddhakoṭīniyutaśatasahasrāṇāṃ sarvapaścimo vipuladharmādhimuktisaṃbhavatejo nāma tathāgata utpanno 'bhūt / tasya bhagavato nagare praviṣṭasya mayā rājabhāryābhūtayā sārdhaṃ svāminā sarvākārapūjāmukhaṃ prayuktayā tathāgatapūjayā pūjāṃ kṛtvā sarvatathāgatotpattisaṃbhavapradīpo nāma tathāgatadharmaparyāyastasya bhagavato 'ntikāt śrutaḥ, yasya sahaśravaṇānmayā jñānacakṣuḥ pratilabdham / eṣa ca sarvabodhisattvasamādhinayasāgaravyavalokanaviṣayo bodhisattvavimokṣaḥ pratilabdhaḥ // sā khalvahaṃ kulaputra etaṃ vimokṣaṃ bhāvayamānā buddhakṣetraśataparamāṇurajaḥsamān kalpānāgatān bodhisattvena sārdhaṃ bodhisattvacaryāṃ caramāṇā / teṣu ca me buddhakṣetraparamāṇurajaḥsameṣu kalpeṣu anantamadhyāstathāgatā ārāgitāḥ / kvacit kalpe kalpastho 'pi ekatathāgata ārāgitaḥ / kvacit kalpe dvau tathāgatāvārāgitau / kvacit kalpe yāvadanabhilāpyāstathāgatā ārāgitāḥ / kvacit kalpe buddhakṣetraparamāṇurajaḥsamāstathāgatā ārāgitāḥ / na ca me jātu bodhisattvasya kāyo jñātaḥ - kiṃpramāṇaḥ kīdṛksaṃsthānaḥ kīdṛgvarṇaḥ / na kāyakarma jñātaṃ na vākkarma na manaskarma jñātaṃ na jñānadarśanaṃ na jñānagocaraṃ na jñānasamādhiviṣayo jñātaḥ / ye khalu punaḥ kulaputra sattvā bodhisattvaṃ bodhisattvacārikāṃ carantaṃ dṛṣṭvā bodhisattvasyāntike 'nunayacittamutpādayāmāsuḥ, nānāsaṃketairnānāsaṃvāsaiśca prasādaṃ janayāmāsuḥ, sarve te bodhisattvena laukikalokottarairvividhairupāyaiḥ saṃgṛhītā bodhisattvasya parivārā bhavanti sma / te bodhisattvasya bodhisattvacaryāṃ carataḥ parivārasaṃvāse na avaivartikā bhavanti sma anuttarāyāṃ samyaksaṃbodhau // sāhaṃ kulaputra vipuladharmādhimuktisaṃbhavatejastathāgatasya sahadarśanādimaṃ sarvabodhisattvasamādhisāgaravyavalokanaviṣayaṃ bodhisattvavimokṣaṃ pratilabhya bodhisattvena sārdhaṃ buddhakṣetraśataparamāṇurajaḥsamān kalpānāgatā etaṃ vimokṣaṃ saṃbhāvayamānā / ye ca teṣu buddhakṣetraparamāṇurajaḥsameṣu kalpeṣu tathāgatā utpannāḥ, sarve te mayā tathāgatā ārāgitāḥ pūjitā upasthitāḥ / sarveṣāṃ ca me teṣāṃ tathāgatānāṃ dharmadeśanā śrutā, śrutvā udgṛhītā saṃdhāritā / sarveṣāṃ ca mayā teṣāṃ buddhānāṃ bhagavatāmantikādeṣa vimokṣaḥ pratilabdho nānānayairvā nānāsūtrāntanayanirghoṣairnānāvimokṣaśarīrairnānāvimokṣadvārairnānāvimokṣavicārairnānādhvajapraveśaiḥ nānābuddhakṣetrasāgarāvatāraiḥ nānābuddhadarśanasamudravijñaptibhiḥ nānātathāgataparṣanmaṇḍalāvatāraiḥ nānābodhisattvapraṇidhānasāgaranayapathaiḥ nānābodhisattvacaryāprasaraiḥ nānābodhisattvacaryābhinirhāraiḥ nānābodhisattvaprasaraiḥ / na ca bodhisattvasya samantabhadravimokṣanayamavatarāmi / tatkasya hetoḥ? ākāśatalapraveśāpramāṇā hi kulaputra samantabhadrāṇāṃ bodhisattvānāṃ vimokṣanayāḥ sarvasattvasaṃjñāgatatalāpramāṇāḥ tryadhvaparivartasāgaratalāpramāṇā (Gv 333) diksamudratalāpramāṇā dharmadhātunayasāgaratalāpramāṇāḥ / tathāgataviṣayasamaśarīrā hi kulaputra samantabhadrāṇāṃ bodhisattvānāṃ vimokṣanayāḥ // sā ahaṃ kulaputra buddhakṣetraparmāṇurajaḥsamān kalpān bodhisattvaśarīraṃ prekṣamāṇā atṛptaiva darśanena / tadyathāpi nāma kulaputra ekāntarāgacaritayoḥ strīpuruṣayoranyonyasamāgame saṃketakṛtayorapramāṇā ayoniśomanasikāraprabhavāḥ śubhasaṃjñāvitarkasaṃmohasaṃbhavāścittotpādā utpadyante, evameva kulaputra mama bodhisattvasya śarīraṃ prekṣamāṇāyā ekaikasmādromavivarādanantamadhyāpramāṇanirdeśā lokadhātuvaṃśaprasarā nānāpratiṣṭhānā nānāsaṃdhivyūhā nānāsaṃsthānā nānāparvatavyūhā nānāpṛthivītalavyūhanirdeśā nānāgaganameghasaṃchannālaṃkārā nānākalpanāmasaṃkhyānirdeśā nānābuddhotpādatathāgatavaṃśaprabhavā nānābodhimaṇḍālaṃkārā nānātathāgatadharmacakrapravartanavikurvitā nānātathāgataparṣanmaṇḍalavyūhā nānāsūtrāntanayanirdeśanirghoṣā nānāyānanayanirhāraprabhavā nānāpariśuddhaprabhālokāvabhāsā adṛṣṭapūrvanimittāḥ praticittakṣaṇaṃ cakṣuṣa ābhāsamāgacchanti / ekaikasmādromavivarādanantamadhyā buddhasamudrāścakṣuṣa ābhāsamāgacchanti / nānābodhimaṇḍālaṃkārā nānādharmacakrapravartanavikurvitā nānāsūtrāntanirghoṣavikurvitāḥ apratisrabdhayogena praticittakṣaṇaṃ cakṣuṣa ābhāsamāgacchanti / ekaikasmādromavivarādanantamadhyāḥ sattvasamudrā nānābhavanārāmaparvatavimānanadīsamudranilayā nānārūpakāyā nānāparibhogaviṣayā nānācārayogacāraprayogā nānendriyapariniṣpattisaṃsthānāḥ praticittakṣaṇaṃ cakṣuṣa ābhāsamāgacchanti / ekaikasmādromavivarādanantamadhyāstryadhvasāgarapraveśanayā avabhāsamāgacchanti / anantamadhyā bodhisattvapraṇidhānasamudrā viśudhyante / anantamadhyā bodhisattvabhūmicaryāvimātratāsamudrā ābhāsamāgacchanti / anantamadhyā bodhisattvapāramitānayasāgarapariśuddhayo 'vabhāsamāgacchanti / anantamadhyā bodhisattvapūrvayogasamudrā ābhāsamāgacchanti / anantamadhyā buddhakṣetrapariśodhananayasamudrā ābhāsamāgacchanti / anantamadhyā bodhisattvamahāmaitrīnayasamudrāḥ sarvasattvamahāmaitrīnayasamudrāḥ sarvasattvaparipākavinayaparākramaprayogasāgarā avakrāmanti / anantamadhyā bodhisattvamahākaruṇāmeghanayasāgarāḥ saṃbhavanti / anantamadhyā bodhisattvamahāprītivegasāgarā vivardhante / praticittakṣaṇamanantamadhyāḥ sarvasattvasaṃgrahaprayogasāgarā niṣpadyante // sā ahaṃ kulaputra teṣu buddhakṣetraśataparamāṇurajaḥsameṣu kalpeṣu bodhisattvasya ekaikasmādromavivarātpraticittakṣaṇamanantamadhyān dharmanayasāgarānavataramāṇā paryantaṃ nādhigacchāmi / na ca avatīrṇapūrvamavatarāmi / na pratilabdhapūrvaṃ pratilabhe yāvadantaḥpuramadhyagatasyāpyahaṃ kulaputra sarvārthasiddhasya strīgaṇaparivṛtasya nānāvimokṣanayasāgarāvatāraiḥ / ekaikasmādromavivarādanantamadhyāṃstryadhvanayasāgarānavatārāmi dharmadhātvavatāranayasamudrāvatāreṇa // etamahaṃ kulaputra sarvabodhisattvasamādhisāgaravyavalokanaviṣayaṃ bodhisattvavimokṣaṃ prajānāmi, samāpadye / kiṃ mayā śakyaṃ bodhisattvānāmanantamadhyopāyanayasāgaraprasṛtānāṃ sarvasattvasamasadṛśasaṃsthānasaṃsthitakāyavijñaptisaṃdarśakānāṃ sarvajagadāśayānukūlacaryāsaṃdarśakānām (Gv 334) anantamadhyavarṇanirmitameghasamudrasarvaromamukhapramuñcakānāṃ sarvaśarīradharmatāsvabhāvaprakṛtipariśuddhānāmākāśalakṣaṇajagatprakṛtyavabodhanirvikalpānāṃ sarvatrānugatabuddhiviniścayatathāgatasamavikurvitaparamāṇām anantamadhyavimokṣaviṣayavikurvitaniryātānāṃ vipuladharmadhātucittotpādapraveśavihāravaśavartināṃ samantamukhasarvadharmabhūmivimokṣasāgaravikrīḍitānāṃ caryāṃ jñātuṃ guṇān vā vaktum, nikhilān vā guṇanidhīn saṃdarśayitum // gaccha kulaputra, ihaiva bhagavato vairocanasya pādamūle vividharatnavyūhamahāmaṇirājapadmagarbhāsananiṣaṇṇā bodhisattvajanetrī māyā nāma devī / tāmupasaṃkramya paripṛccha - kathaṃ bodhisattvā bodhisattvacaryāṃ caranto 'nupaliptā bhavanti sarvalokadharmamalaiḥ / apratiprasrabdhā bhavanti tathāgatapūjāprayogeṣu / avaivartikā bhavanti sarvabodhisattvakarmāntebhyaḥ / sarvāvaraṇavigatā bhavanti bodhisattvavimokṣāvatāreṣu / aparapratyayā bhavanti sarvabodhisattvavihāreṣu / saṃmukhībhāvagatā bhavanti sarvatathāgatānām / na vivartante sarvasattvasaṃgrahaprayogebhyaḥ, na nivartante 'parāntakoṭīgatakalpasarvabodhisattvacaryāsaṃvāsebhyaḥ / na pratyudāvartante mahāyānapraṇidhānāt / na saṃsīdanti jagatkuśalamūlasaṃdhāraṇavivardhanatayā // atha khalu gopā śākyakanyā etameva vimokṣamukhanayaṃ saṃdarśayantī buddhādhiṣṭhānena tasyāṃ velāyāmimā gāthā abhāṣata - saṃbodhicaryācaraṇaprayuktaṃ paśyanti sattvāḥ khalu ye 'grasattvam / prasannacittāḥ pratighātino vā vrajanti te saṃgrahamasya sarve

Sanskrit only: no published translation is held for this verse.

यावन्ति हि क्षेत्रशते रजांसि स्मरामि कल्पानिह तावतो ऽहम् । मेरुप्रभाभूद्वरलोकधातुस्ततः परं व्यूहसनाम्नि कल्पे

yāvanti hi kṣetraśate rajāṃsi smarāmi kalpāniha tāvato 'ham / meruprabhābhūdvaralokadhātustataḥ paraṃ vyūhasanāmni kalpe

Sanskrit only: no published translation is held for this verse.

षड्विंशतिः कोट्ययुतानि तस्मिन् सहस्रसंख्या ह्यभवन्मुनीनाम् । तेषामभूद्यश्चरमो मुनीन्द्रो धर्मध्वजो नाम जगत्प्रदीपः

ṣaḍviṃśatiḥ koṭyayutāni tasmin sahasrasaṃkhyā hyabhavanmunīnām / teṣāmabhūdyaścaramo munīndro dharmadhvajo nāma jagatpradīpaḥ

Sanskrit only: no published translation is held for this verse.

श्रीतेजनामा नृपतिस्तदानीं तस्मिन् मुनीन्द्रे परिनिर्वृते ऽथ । जम्बुध्वजे ऽस्मिन्निहतारिचक्रः सो ऽव्याहताज्ञः परमेश्वरो ऽभूत्

śrītejanāmā nṛpatistadānīṃ tasmin munīndre parinirvṛte 'tha / jambudhvaje 'sminnihatāricakraḥ so 'vyāhatājñaḥ parameśvaro 'bhūt

Sanskrit only: no published translation is held for this verse.

शूराणि वीराण्यथ रूपवन्ति पञ्चाभवन् पुत्रशतानि तस्य । सर्वाङ्गसंपूर्णविशुद्धकायान्यनुत्तमश्रीप्रतिमण्डितानि

śūrāṇi vīrāṇyatha rūpavanti pañcābhavan putraśatāni tasya / sarvāṅgasaṃpūrṇaviśuddhakāyānyanuttamaśrīpratimaṇḍitāni

Sanskrit only: no published translation is held for this verse.

राजा सपुत्रः सुगते प्रसन्नः पूजामकार्षीद्विपुलां जिनस्य । नित्यं च सद्धर्मपरिग्रहो ऽसौ धर्माभियुक्तो ऽभवदप्रकम्प्यः

rājā saputraḥ sugate prasannaḥ pūjāmakārṣīdvipulāṃ jinasya / nityaṃ ca saddharmaparigraho 'sau dharmābhiyukto 'bhavadaprakampyaḥ

Sanskrit only: no published translation is held for this verse.

सुरश्मिनामा च नृपस्य तस्य विशुद्धसत्त्वो ऽयमभूत्कुमारः । सुदर्शनीयश्च मनोज्ञरूपः त्रिंशद्वरालंकृतलक्षणाङ्गः

suraśmināmā ca nṛpasya tasya viśuddhasattvo 'yamabhūtkumāraḥ / sudarśanīyaśca manojñarūpaḥ triṃśadvarālaṃkṛtalakṣaṇāṅgaḥ

Sanskrit only: no published translation is held for this verse.

राज्यं परित्यज्य नृणां स पञ्चकोटीवृतः प्रव्रजितस्तदानीम् । स प्रव्रजित्वा दृढवीर्ययुक्तः संधारयामास जिनस्य धर्मम्

rājyaṃ parityajya nṛṇāṃ sa pañcakoṭīvṛtaḥ pravrajitastadānīm / sa pravrajitvā dṛḍhavīryayuktaḥ saṃdhārayāmāsa jinasya dharmam

Sanskrit only: no published translation is held for this verse.

द्रुमावती नाम पुरी वृताभूत् कोटीसहस्रैर्नगरोत्तमानाम् । आसीद्वनं तत्र विचित्रशाखं प्रशान्तनिर्घोषमनुत्तरश्रियम्

drumāvatī nāma purī vṛtābhūt koṭīsahasrairnagarottamānām / āsīdvanaṃ tatra vicitraśākhaṃ praśāntanirghoṣamanuttaraśriyam

Sanskrit only: no published translation is held for this verse.

यतः सुरश्मिर्विजहार तस्मिन् विशारदो धीप्रतिभानशुद्धः । स द्योतयामास जिनस्य धर्मं संक्लिष्टसत्त्वौघविशोधनाय

yataḥ suraśmirvijahāra tasmin viśārado dhīpratibhānaśuddhaḥ / sa dyotayāmāsa jinasya dharmaṃ saṃkliṣṭasattvaughaviśodhanāya

Sanskrit only: no published translation is held for this verse.

पिण्डाय धीमान् स पुरं विवेश प्रासादिकेर्यापथशान्तवेषः । अनुत्क्षिप्तचक्षुः स्मृतिमान् प्रजानन् गम्भीरचेष्टः स्थिरधीरगामी

piṇḍāya dhīmān sa puraṃ viveśa prāsādikeryāpathaśāntaveṣaḥ / anutkṣiptacakṣuḥ smṛtimān prajānan gambhīraceṣṭaḥ sthiradhīragāmī

Sanskrit only: no published translation is held for this verse.

नन्दीध्वजो ऽभूत्प्रवरः पुराणां श्रेष्ठी तदानीं सुविघुष्टकीर्तिः । तस्याहमासं दुहिता मनापा भानुप्रभा नाम सुचारुरूपा

nandīdhvajo 'bhūtpravaraḥ purāṇāṃ śreṣṭhī tadānīṃ suvighuṣṭakīrtiḥ / tasyāhamāsaṃ duhitā manāpā bhānuprabhā nāma sucārurūpā

Sanskrit only: no published translation is held for this verse.

द्वारे ऽथ तस्योत्तरमन्दिरस्य दृष्टो मयाभूत्सगणः सुरश्मिः । प्रासादिको लक्षणचित्रिताङ्गः तत्राभवन्मे सुमहान् प्रसादः

dvāre 'tha tasyottaramandirasya dṛṣṭo mayābhūtsagaṇaḥ suraśmiḥ / prāsādiko lakṣaṇacitritāṅgaḥ tatrābhavanme sumahān prasādaḥ

Sanskrit only: no published translation is held for this verse.

यदा गृहद्वारगतो ममाभूत् पात्रे प्रदत्तो ऽस्य मणिस्तदा मे । मुक्त्वा च सर्वाभरणानि मैत्रचित्तानुनीताहमदात्तदास्मै

yadā gṛhadvāragato mamābhūt pātre pradatto 'sya maṇistadā me / muktvā ca sarvābharaṇāni maitracittānunītāhamadāttadāsmai

Sanskrit only: no published translation is held for this verse.

सरागचित्तेन विधाय पूजां सुरश्मिकेतोः सुगतात्मजस्य । अर्धतृतीयानि शतानि नागां कल्पोत्तमायां खलु जात्वपायान्

sarāgacittena vidhāya pūjāṃ suraśmiketoḥ sugatātmajasya / ardhatṛtīyāni śatāni nāgāṃ kalpottamāyāṃ khalu jātvapāyān

Sanskrit only: no published translation is held for this verse.

देवेषु देवेन्द्रकुलेषु जाता नरेन्द्रपुत्री मनुजेषु चाहम् । अनन्तवर्णेन समुच्छ्रयेण सर्वत्र चादात्सहदर्शनं मे

deveṣu devendrakuleṣu jātā narendraputrī manujeṣu cāham / anantavarṇena samucchrayeṇa sarvatra cādātsahadarśanaṃ me

Sanskrit only: no published translation is held for this verse.

अर्धतृतीयेषु गतेषु कल्पशतेषु जातास्म्यभयंकराणाम् । सुदर्शनाया गणिकोत्तमायाः संचालिताख्या दुहिता तदानीम्

ardhatṛtīyeṣu gateṣu kalpaśateṣu jātāsmyabhayaṃkarāṇām / sudarśanāyā gaṇikottamāyāḥ saṃcālitākhyā duhitā tadānīm

Sanskrit only: no published translation is held for this verse.

दृष्ट्वाथ तेजोधिपतिं कुमारं पूजामकार्षं मुदिताहमस्य । आत्मानमस्यैव निवेदयित्वा भूतास्मि वश्या खलु तस्य भार्या

dṛṣṭvātha tejodhipatiṃ kumāraṃ pūjāmakārṣaṃ muditāhamasya / ātmānamasyaiva nivedayitvā bhūtāsmi vaśyā khalu tasya bhāryā

Sanskrit only: no published translation is held for this verse.

संपूजितस्तेन मया सहाभूत् स सूर्यगात्रप्रवरो महर्षिः । प्रसन्नया चैव तमीक्ष्य बुद्धमुत्पादितं मे वरबोधिचित्तम्

saṃpūjitastena mayā sahābhūt sa sūryagātrapravaro maharṣiḥ / prasannayā caiva tamīkṣya buddhamutpāditaṃ me varabodhicittam

Sanskrit only: no published translation is held for this verse.

बभूव तेषां चरमो जिनानां बुद्धस्तदानीमधिमुक्तितेजाः

babhūva teṣāṃ caramo jinānāṃ buddhastadānīmadhimuktitejāḥ

Sanskrit only: no published translation is held for this verse.

तस्मिन् विशुद्धं मम धर्मचक्षुर्धर्मस्वभावश्च मयावबुद्धः । अयोनिशो ऽत्यन्तविकल्प शान्ता लब्धावभासास्म्यभवं ततो ऽर्वाक्

tasmin viśuddhaṃ mama dharmacakṣurdharmasvabhāvaśca mayāvabuddhaḥ / ayoniśo 'tyantavikalpa śāntā labdhāvabhāsāsmyabhavaṃ tato 'rvāk

Sanskrit only: no published translation is held for this verse.

समाधिभूमिं च विलोकयामि ततःप्रभृत्येव जिनौरसानाम् । क्षेत्रार्णवानेकमनःक्षणेन चिन्ताव्यतीतांश्च दिशामि दिक्षु

samādhibhūmiṃ ca vilokayāmi tataḥprabhṛtyeva jinaurasānām / kṣetrārṇavānekamanaḥkṣaṇena cintāvyatītāṃśca diśāmi dikṣu

Sanskrit only: no published translation is held for this verse.

नानाविशुद्धानि च सर्वदिक्षु क्षेत्राणि पश्याम्यमिताद्भुतानि । दृष्ट्वा मनस्तेषु न सज्जते मे क्लिष्टेषु नैव प्रतिहन्यते च

nānāviśuddhāni ca sarvadikṣu kṣetrāṇi paśyāmyamitādbhutāni / dṛṣṭvā manasteṣu na sajjate me kliṣṭeṣu naiva pratihanyate ca

Sanskrit only: no published translation is held for this verse.

क्षेत्रेषु तेष्वेव च बोधिमण्डे पश्यामि बुद्धान् निखिलेष्वशेषान् । प्रभासमुद्रानमितांश्च तेषां एकेन चित्तेन विलोकयामि

kṣetreṣu teṣveva ca bodhimaṇḍe paśyāmi buddhān nikhileṣvaśeṣān / prabhāsamudrānamitāṃśca teṣāṃ ekena cittena vilokayāmi

Sanskrit only: no published translation is held for this verse.

तथैव तेषां च पर्षत्समुद्रांश्चित्तक्षणेनावतराम्यसङ्गान् । तेषां समाधीनखिलानवैमि सर्वान् विमोक्षानपि चाप्रमेयान्

tathaiva teṣāṃ ca parṣatsamudrāṃścittakṣaṇenāvatarāmyasaṅgān / teṣāṃ samādhīnakhilānavaimi sarvān vimokṣānapi cāprameyān

Sanskrit only: no published translation is held for this verse.

चर्यां च तेषां विपुलां धरेमि भूमीनयांश्चावतराम्यशेषान् । प्रणिध्यसंख्येयमहासमुद्रान् प्रतिक्षणं चावतराम्यनन्तान्

caryāṃ ca teṣāṃ vipulāṃ dharemi bhūmīnayāṃścāvatarāmyaśeṣān / praṇidhyasaṃkhyeyamahāsamudrān pratikṣaṇaṃ cāvatarāmyanantān

Sanskrit only: no published translation is held for this verse.

संप्रेक्षती सत्पुरुषस्य कायं कल्पाननन्तांश्चरती च चर्याम् । एकैकरोम्नो ऽस्य विकुर्वितानां नैवेह पर्यन्तमुपैमि जातु

saṃprekṣatī satpuruṣasya kāyaṃ kalpānanantāṃścaratī ca caryām / ekaikaromno 'sya vikurvitānāṃ naiveha paryantamupaimi jātu

Sanskrit only: no published translation is held for this verse.

संख्याव्यतीतानपि चैव रोम्नि क्षेत्रोदधीनप्यवलोकयामि । समारुतस्कन्धमहाजलौघानग्निप्रपूर्णान् पृथिवीशरीरान्

saṃkhyāvyatītānapi caiva romni kṣetrodadhīnapyavalokayāmi / samārutaskandhamahājalaughānagniprapūrṇān pṛthivīśarīrān

Sanskrit only: no published translation is held for this verse.

नानाप्रतिष्ठानविकल्परूपान् विचित्रसंस्थाननयप्रवेशान् । नानाविधान् धातुशरीरभेदैरनन्तमध्याकृतविग्रहांश्च

nānāpratiṣṭhānavikalparūpān vicitrasaṃsthānanayapraveśān / nānāvidhān dhātuśarīrabhedairanantamadhyākṛtavigrahāṃśca

Sanskrit only: no published translation is held for this verse.

क्षेत्रोदधिष्वमितेष्वलाप्यान् धातून् पृथग् यानवलोकयामि । धर्माभिधानैर्जनतां विनीतां तेष्वेव पश्यामि जिनान् प्रयुक्तान्

kṣetrodadhiṣvamiteṣvalāpyān dhātūn pṛthag yānavalokayāmi / dharmābhidhānairjanatāṃ vinītāṃ teṣveva paśyāmi jinān prayuktān

Sanskrit only: no published translation is held for this verse.

न कायकर्मास्य मयावबुद्धं न वाग्न चित्तं न तयोश्च कर्म । ऋद्धिर्न नैवास्य पृथग्विकुर्वा कल्पांश्चरन्त्या विपुलां सुचर्याम्

na kāyakarmāsya mayāvabuddhaṃ na vāgna cittaṃ na tayośca karma / ṛddhirna naivāsya pṛthagvikurvā kalpāṃścarantyā vipulāṃ sucaryām

Sanskrit only: no published translation is held for this verse.