Library·Gandavyuhasutra·24·24.90

Gandavyuhasutra 24.90

Gand 24.90

तत्किं मन्यसे कुलपुत्र - अन्या सा तेन कालेन तेन समयेन पद्मश्रीगर्भसंभवा नाम राजभार्या अभूत् तेजोधिपतेः कुमारस्य माता चतुरशीतिस्त्रीसहस्राणां प्रमुखानाम्? न खल्वेवं द्रष्टव्यम् । एषा सा कुलपुत्र मायादेवी भगवतो माता बोधिसत्त्वजननी समन्तावभासानावरणविमोक्षप्रतिष्ठिता असंख्येयसर्वतथागतसमुद्रागमप्रत्यक्षा सर्वबोधिसत्त्वजन्मसंदर्शनविधिज्ञा तेन कालेन तेन समयेन पद्मश्रीगर्भसंभवा नाम राज्ञो धनतेरग्रमहिष्यभूत् । तत्किं मन्यसे कुलपुत्र - अन्या सा तेन कालेन तेन समयेन सुदर्शना नाम अग्रगणिका अभूत्? न खल्वेवं द्रष्टव्यम् । एषा सा सुनेत्रा नाम दण्डपाणेः शाक्यस्य भार्या मम माता तेन कालेन तेन समयेन सुदर्शना नाम अग्रगणिकाभूत् । तत्किं मन्यसे कुलपुत्र - अन्या सा तेन कालेन तेन समयेन सुचलितरतिप्रभासश्रीर्नाम गणिकादारिकाभूत्? न खल्वेवं द्रष्टव्यम् । अहं सा तेन कालेन तेन समयेन सुचलितरतिप्रभासश्रीर्गणिकादारिका अभूत् । तत्किं मन्यसे कुलपुत्र - अन्यः स तेन कालेन तेन समयेन तेजोधिपते राज्ञः परिवारो ऽभूत्? न खल्वेवं द्रष्टव्यम् । इमे ते बोधिसत्त्वाः सर्वे समन्तभद्रबोधिसत्त्वचर्याप्रणिधानपरिपूर्यां भगवता प्रतिष्ठापिता अस्मिन्नेव पर्षन्मण्डले संनिषण्णासर्वलोकधातुप्रतिभासप्राप्तेन कायेन सर्वबोधिसत्त्वसमाधिविहारसंभिन्नेन चित्तेन सर्वतथागतः संमुखभाववदनविज्ञप्तेन चक्षुषा सर्वतथागतगगनस्वराङ्गमेघचक्रनिगर्जितनिर्घोषविज्ञप्तेन श्रोत्रेण सर्वधर्मविहारवशवर्तिना आश्वासप्रश्वासेन सर्वबुद्धक्षेत्रानुचलितेन निर्घोषेण सर्वतथागतपर्षन्मण्डलोपसंक्रमणाप्रतिप्रस्रब्धेन बोधिसत्त्वकायेन बोधिसत्त्वयथाशयाभिमुखेन परिपाकविनयानुकूलेन आत्मभावाभिनिर्हारेण अशेषसर्वदिग्जालप्रसृतेन नानागतसर्वकल्पाव्यवच्छिन्नेन समन्तभद्रबोधिसत्त्वचर्याप्रणिधानपरिपूरिसमुदागमेन समन्वागता भगवतः पर्षन्मण्डले संनिषण्णाः । स खलु कुलपुत्र सूर्यगात्रप्रवरस्तथागतस्तेजोधिपतिना चक्रवर्तिना च मया च यावज्जीवमुपस्थितो ऽभूत् चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः ॥ तस्य खलु पुनः कुलपुत्र सूर्यगात्रप्रवरस्य तथागतस्य परिनिर्वृतस्यानन्तरं तस्यामेव लोकधातौ प्रसन्नगात्रो नाम तथागतो लोक उदपादि । सो ऽप्यस्माभिरारागितः सत्कृतो गुरुकृतो मानितः पूजितः । तस्यानन्तरं सर्वगात्रज्ञानप्रतिभासचन्द्रो नाम तथागतो लोक उदपादि । सो ऽप्यस्माभिर्देवेन्द्रभूतैरारागितः । तस्यानन्तरं जाम्बूनदतेजोराजो नाम तथागत आरागितः । तस्यानन्तरं लक्षणभूषितगात्रो नाम तथागत आरागितः । तस्यानन्तरं विचित्ररश्मिज्वलनचन्द्रो नाम तथागत आरागितः । तस्यानन्तरं सुविलोकितज्ञानकेतुर्नाम तथागत (ग्व् ३३१) आरागितः । तस्यानन्तरं विपुलमहाज्ञानरश्मिराजो नाम तथागत आरागितः । तस्यानन्तरं नारायणवज्रवीर्यो नाम तथागत आरागितः । तस्यानन्तरमपराजितज्ञानस्थामो नाम तथागत आरागितः । तस्यानन्तरं समन्तविलोकितज्ञानो नाम तथागत आरागितः । तस्यानन्तरं विमलश्रीमेघो नाम तथागत आरागितः । तस्यानन्तरं सिंहविजृम्भितप्रभो नाम तथागत आरागितः । तस्यानन्तरं ज्ञानरश्मिज्वलनचूडो नाम तथागत आरागितः । तस्यानन्तरं गुणरश्मिध्वजोनाम तथागत आरागितः । तस्यानन्तरं ज्ञानभास्करतेजो नाम तथागत आरागितः । तस्यानन्तरं रत्नपद्मप्रफुल्लितगात्रो नाम तथागत आरागितः । तस्यानन्तरं पुण्यप्रदीपध्वजो नाम तथागत आरागितः । तस्यानन्तरं ज्ञानरश्मिमेघप्रभो नाम तथागत आरागितः । तस्यानन्तरं समन्तवैरोचनचन्द्रो नाम तथागत आरागितः । तस्यानन्तरं आभरणच्छत्रनिर्घोषो नाम तथागत आरागितः । तस्यानन्तरं समन्तज्ञानालोकविक्रमसिंहो नाम तथागत आरागितः । तस्यानन्तरं धर्मधातुविषयमतिचन्द्रो नाम तथागत आरागितः । तस्यानन्तरं सत्त्वगगनचित्तप्रतिभासबिम्बो नाम तथागत आरागितः । तस्यानन्तरं प्रशमगन्धसुनाभो नाम तथागत आरागितः । तस्यानन्तरं समन्तानुरवितशान्तनिर्घोषो नाम तथागत आरागितः । तस्यानन्तरं सुदृढज्ञानरश्मिजालबिम्बस्कन्धो नाम तथागत आरागितः । तस्यानन्तरं अमृतपर्वतप्रभातेजो नाम तथागत आरागितः । तस्यानन्तरं धर्मसागरनिगर्जितघोषो नाम तथागत आरागितः । तस्यानन्तरं बुद्धगगनप्रभासचूडो नाम तथागत आरागितः । तस्यानन्तरं रश्मिचन्द्रो नाम तथागत आरागितः । तस्यानन्तरं रश्मिचन्द्रोर्णमेघो नाम तथागत आरागितः । तस्यानन्तरं सुपरिपूर्णज्ञानमुखक्त्रो नाम तथागत आरागितः । तस्यानन्तरं सुविशुद्धज्ञानकुसुमावभासो नाम तथागत आरागितः । तस्यानन्तरं रत्नार्चिःपर्वतश्रीतेजोराजो नाम तथागत आरागितः । तस्यानन्तरं विपुलगुणज्योतिःप्रभो नाम तथागत आरागितः । तस्यानन्तरं समाधिमेर्वभ्युद्गतज्ञानो नाम तथागत आरागितः । तस्यानन्तरं रत्नचन्द्रध्वजो नाम तथागत आरागितः । तस्यानन्तरमर्चिर्मण्डलगात्रो नाम तथागत आरागितः । तस्यानन्तरं रत्नाग्रप्रभतेजो नाम तथागत आरागितः । तस्यानन्तरं समन्तज्ञानचर्याविलम्बो नाम तथागत आरागितः । तस्यानन्तरं अर्चिःसमुद्रमुखवेगप्रदीपो नाम तथागत आरागितः । तस्यानन्तरं धर्मविमाननिर्घोषराजो नाम तथागत आरागितः । तस्यानन्तरमसदृशगुणकीर्तिध्वजो नाम तथागत आरागितः । तस्यानन्तरं प्रलम्बबाहुर्नाम तथागत आरागितः । तस्यानन्तरं पूर्वप्रणिधिनिर्माणचन्द्रो नाम तथागत आरागितः । तस्यानन्तरमाकाशज्ञानार्थप्रदीपो नाम तथागत आरागितः । तस्यानन्तरं धर्मोद्गतनभेश्वरो नाम तथागत आरागितः । तस्यानन्तरं वैरोचनश्रीगर्भराजो नाम तथागत आरागितः । तस्यानन्तरं धर्मनारायणकेतुर्नाम तथागत आरागितः । तस्यानन्तरं ज्ञानकेतुर्नाम तथागत आरागितः । तस्यानन्तरं धर्मसागरपद्मो नाम तथागत आरागितः । इति हि कुलपुत्र एतांस्तथागतान् प्रमुखान् कृत्वा तस्यां लोकधातौ षष्टिबुद्धकोटीनियुतशतसहस्राण्युत्पन्नानि (ग्व् ३३२) अभूवन्, यान्यस्माभिरारागितानि सत्कृतानि गुरुकृतानि मानितानि पूजितानि चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः ॥ तेषां खलु कुलपुत्र षष्टेर्बुद्धकोटीनियुतशतसहस्राणां सर्वपश्चिमो विपुलधर्माधिमुक्तिसंभवतेजो नाम तथागत उत्पन्नो ऽभूत् । तस्य भगवतो नगरे प्रविष्टस्य मया राजभार्याभूतया सार्धं स्वामिना सर्वाकारपूजामुखं प्रयुक्तया तथागतपूजया पूजां कृत्वा सर्वतथागतोत्पत्तिसंभवप्रदीपो नाम तथागतधर्मपर्यायस्तस्य भगवतो ऽन्तिकात् श्रुतः, यस्य सहश्रवणान्मया ज्ञानचक्षुः प्रतिलब्धम् । एष च सर्वबोधिसत्त्वसमाधिनयसागरव्यवलोकनविषयो बोधिसत्त्वविमोक्षः प्रतिलब्धः ॥ सा खल्वहं कुलपुत्र एतं विमोक्षं भावयमाना बुद्धक्षेत्रशतपरमाणुरजःसमान् कल्पानागतान् बोधिसत्त्वेन सार्धं बोधिसत्त्वचर्यां चरमाणा । तेषु च मे बुद्धक्षेत्रपरमाणुरजःसमेषु कल्पेषु अनन्तमध्यास्तथागता आरागिताः । क्वचित् कल्पे कल्पस्थो ऽपि एकतथागत आरागितः । क्वचित् कल्पे द्वौ तथागतावारागितौ । क्वचित् कल्पे यावदनभिलाप्यास्तथागता आरागिताः । क्वचित् कल्पे बुद्धक्षेत्रपरमाणुरजःसमास्तथागता आरागिताः । न च मे जातु बोधिसत्त्वस्य कायो ज्ञातः - किंप्रमाणः कीदृक्संस्थानः कीदृग्वर्णः । न कायकर्म ज्ञातं न वाक्कर्म न मनस्कर्म ज्ञातं न ज्ञानदर्शनं न ज्ञानगोचरं न ज्ञानसमाधिविषयो ज्ञातः । ये खलु पुनः कुलपुत्र सत्त्वा बोधिसत्त्वं बोधिसत्त्वचारिकां चरन्तं दृष्ट्वा बोधिसत्त्वस्यान्तिके ऽनुनयचित्तमुत्पादयामासुः, नानासंकेतैर्नानासंवासैश्च प्रसादं जनयामासुः, सर्वे ते बोधिसत्त्वेन लौकिकलोकोत्तरैर्विविधैरुपायैः संगृहीता बोधिसत्त्वस्य परिवारा भवन्ति स्म । ते बोधिसत्त्वस्य बोधिसत्त्वचर्यां चरतः परिवारसंवासे न अवैवर्तिका भवन्ति स्म अनुत्तरायां सम्यक्संबोधौ ॥ साहं कुलपुत्र विपुलधर्माधिमुक्तिसंभवतेजस्तथागतस्य सहदर्शनादिमं सर्वबोधिसत्त्वसमाधिसागरव्यवलोकनविषयं बोधिसत्त्वविमोक्षं प्रतिलभ्य बोधिसत्त्वेन सार्धं बुद्धक्षेत्रशतपरमाणुरजःसमान् कल्पानागता एतं विमोक्षं संभावयमाना । ये च तेषु बुद्धक्षेत्रपरमाणुरजःसमेषु कल्पेषु तथागता उत्पन्नाः, सर्वे ते मया तथागता आरागिताः पूजिता उपस्थिताः । सर्वेषां च मे तेषां तथागतानां धर्मदेशना श्रुता, श्रुत्वा उद्गृहीता संधारिता । सर्वेषां च मया तेषां बुद्धानां भगवतामन्तिकादेष विमोक्षः प्रतिलब्धो नानानयैर्वा नानासूत्रान्तनयनिर्घोषैर्नानाविमोक्षशरीरैर्नानाविमोक्षद्वारैर्नानाविमोक्षविचारैर्नानाध्वजप्रवेशैः नानाबुद्धक्षेत्रसागरावतारैः नानाबुद्धदर्शनसमुद्रविज्ञप्तिभिः नानातथागतपर्षन्मण्डलावतारैः नानाबोधिसत्त्वप्रणिधानसागरनयपथैः नानाबोधिसत्त्वचर्याप्रसरैः नानाबोधिसत्त्वचर्याभिनिर्हारैः नानाबोधिसत्त्वप्रसरैः । न च बोधिसत्त्वस्य समन्तभद्रविमोक्षनयमवतरामि । तत्कस्य हेतोः? आकाशतलप्रवेशाप्रमाणा हि कुलपुत्र समन्तभद्राणां बोधिसत्त्वानां विमोक्षनयाः सर्वसत्त्वसंज्ञागततलाप्रमाणाः त्र्यध्वपरिवर्तसागरतलाप्रमाणा (ग्व् ३३३) दिक्समुद्रतलाप्रमाणा धर्मधातुनयसागरतलाप्रमाणाः । तथागतविषयसमशरीरा हि कुलपुत्र समन्तभद्राणां बोधिसत्त्वानां विमोक्षनयाः ॥ सा अहं कुलपुत्र बुद्धक्षेत्रपर्माणुरजःसमान् कल्पान् बोधिसत्त्वशरीरं प्रेक्षमाणा अतृप्तैव दर्शनेन । तद्यथापि नाम कुलपुत्र एकान्तरागचरितयोः स्त्रीपुरुषयोरन्योन्यसमागमे संकेतकृतयोरप्रमाणा अयोनिशोमनसिकारप्रभवाः शुभसंज्ञावितर्कसंमोहसंभवाश्चित्तोत्पादा उत्पद्यन्ते, एवमेव कुलपुत्र मम बोधिसत्त्वस्य शरीरं प्रेक्षमाणाया एकैकस्माद्रोमविवरादनन्तमध्याप्रमाणनिर्देशा लोकधातुवंशप्रसरा नानाप्रतिष्ठाना नानासंधिव्यूहा नानासंस्थाना नानापर्वतव्यूहा नानापृथिवीतलव्यूहनिर्देशा नानागगनमेघसंछन्नालंकारा नानाकल्पनामसंख्यानिर्देशा नानाबुद्धोत्पादतथागतवंशप्रभवा नानाबोधिमण्डालंकारा नानातथागतधर्मचक्रप्रवर्तनविकुर्विता नानातथागतपर्षन्मण्डलव्यूहा नानासूत्रान्तनयनिर्देशनिर्घोषा नानायाननयनिर्हारप्रभवा नानापरिशुद्धप्रभालोकावभासा अदृष्टपूर्वनिमित्ताः प्रतिचित्तक्षणं चक्षुष आभासमागच्छन्ति । एकैकस्माद्रोमविवरादनन्तमध्या बुद्धसमुद्राश्चक्षुष आभासमागच्छन्ति । नानाबोधिमण्डालंकारा नानाधर्मचक्रप्रवर्तनविकुर्विता नानासूत्रान्तनिर्घोषविकुर्विताः अप्रतिस्रब्धयोगेन प्रतिचित्तक्षणं चक्षुष आभासमागच्छन्ति । एकैकस्माद्रोमविवरादनन्तमध्याः सत्त्वसमुद्रा नानाभवनारामपर्वतविमाननदीसमुद्रनिलया नानारूपकाया नानापरिभोगविषया नानाचारयोगचारप्रयोगा नानेन्द्रियपरिनिष्पत्तिसंस्थानाः प्रतिचित्तक्षणं चक्षुष आभासमागच्छन्ति । एकैकस्माद्रोमविवरादनन्तमध्यास्त्र्यध्वसागरप्रवेशनया अवभासमागच्छन्ति । अनन्तमध्या बोधिसत्त्वप्रणिधानसमुद्रा विशुध्यन्ते । अनन्तमध्या बोधिसत्त्वभूमिचर्याविमात्रतासमुद्रा आभासमागच्छन्ति । अनन्तमध्या बोधिसत्त्वपारमितानयसागरपरिशुद्धयो ऽवभासमागच्छन्ति । अनन्तमध्या बोधिसत्त्वपूर्वयोगसमुद्रा आभासमागच्छन्ति । अनन्तमध्या बुद्धक्षेत्रपरिशोधननयसमुद्रा आभासमागच्छन्ति । अनन्तमध्या बोधिसत्त्वमहामैत्रीनयसमुद्राः सर्वसत्त्वमहामैत्रीनयसमुद्राः सर्वसत्त्वपरिपाकविनयपराक्रमप्रयोगसागरा अवक्रामन्ति । अनन्तमध्या बोधिसत्त्वमहाकरुणामेघनयसागराः संभवन्ति । अनन्तमध्या बोधिसत्त्वमहाप्रीतिवेगसागरा विवर्धन्ते । प्रतिचित्तक्षणमनन्तमध्याः सर्वसत्त्वसंग्रहप्रयोगसागरा निष्पद्यन्ते ॥ सा अहं कुलपुत्र तेषु बुद्धक्षेत्रशतपरमाणुरजःसमेषु कल्पेषु बोधिसत्त्वस्य एकैकस्माद्रोमविवरात्प्रतिचित्तक्षणमनन्तमध्यान् धर्मनयसागरानवतरमाणा पर्यन्तं नाधिगच्छामि । न च अवतीर्णपूर्वमवतरामि । न प्रतिलब्धपूर्वं प्रतिलभे यावदन्तःपुरमध्यगतस्याप्यहं कुलपुत्र सर्वार्थसिद्धस्य स्त्रीगणपरिवृतस्य नानाविमोक्षनयसागरावतारैः । एकैकस्माद्रोमविवरादनन्तमध्यांस्त्र्यध्वनयसागरानवतारामि धर्मधात्ववतारनयसमुद्रावतारेण ॥ एतमहं कुलपुत्र सर्वबोधिसत्त्वसमाधिसागरव्यवलोकनविषयं बोधिसत्त्वविमोक्षं प्रजानामि, समापद्ये । किं मया शक्यं बोधिसत्त्वानामनन्तमध्योपायनयसागरप्रसृतानां सर्वसत्त्वसमसदृशसंस्थानसंस्थितकायविज्ञप्तिसंदर्शकानां सर्वजगदाशयानुकूलचर्यासंदर्शकानाम् (ग्व् ३३४) अनन्तमध्यवर्णनिर्मितमेघसमुद्रसर्वरोममुखप्रमुञ्चकानां सर्वशरीरधर्मतास्वभावप्रकृतिपरिशुद्धानामाकाशलक्षणजगत्प्रकृत्यवबोधनिर्विकल्पानां सर्वत्रानुगतबुद्धिविनिश्चयतथागतसमविकुर्वितपरमाणाम् अनन्तमध्यविमोक्षविषयविकुर्वितनिर्यातानां विपुलधर्मधातुचित्तोत्पादप्रवेशविहारवशवर्तिनां समन्तमुखसर्वधर्मभूमिविमोक्षसागरविक्रीडितानां चर्यां ज्ञातुं गुणान् वा वक्तुम्, निखिलान् वा गुणनिधीन् संदर्शयितुम् ॥ गच्छ कुलपुत्र, इहैव भगवतो वैरोचनस्य पादमूले विविधरत्नव्यूहमहामणिराजपद्मगर्भासननिषण्णा बोधिसत्त्वजनेत्री माया नाम देवी । तामुपसंक्रम्य परिपृच्छ - कथं बोधिसत्त्वा बोधिसत्त्वचर्यां चरन्तो ऽनुपलिप्ता भवन्ति सर्वलोकधर्ममलैः । अप्रतिप्रस्रब्धा भवन्ति तथागतपूजाप्रयोगेषु । अवैवर्तिका भवन्ति सर्वबोधिसत्त्वकर्मान्तेभ्यः । सर्वावरणविगता भवन्ति बोधिसत्त्वविमोक्षावतारेषु । अपरप्रत्यया भवन्ति सर्वबोधिसत्त्वविहारेषु । संमुखीभावगता भवन्ति सर्वतथागतानाम् । न विवर्तन्ते सर्वसत्त्वसंग्रहप्रयोगेभ्यः, न निवर्तन्ते ऽपरान्तकोटीगतकल्पसर्वबोधिसत्त्वचर्यासंवासेभ्यः । न प्रत्युदावर्तन्ते महायानप्रणिधानात् । न संसीदन्ति जगत्कुशलमूलसंधारणविवर्धनतया ॥ अथ खलु गोपा शाक्यकन्या एतमेव विमोक्षमुखनयं संदर्शयन्ती बुद्धाधिष्ठानेन तस्यां वेलायामिमा गाथा अभाषत - संबोधिचर्याचरणप्रयुक्तं पश्यन्ति सत्त्वाः खलु ये ऽग्रसत्त्वम् । प्रसन्नचित्ताः प्रतिघातिनो वा व्रजन्ति ते संग्रहमस्य सर्वे

tatkiṃ manyase kulaputra - anyā sā tena kālena tena samayena padmaśrīgarbhasaṃbhavā nāma rājabhāryā abhūt tejodhipateḥ kumārasya mātā caturaśītistrīsahasrāṇāṃ pramukhānām? na khalvevaṃ draṣṭavyam / eṣā sā kulaputra māyādevī bhagavato mātā bodhisattvajananī samantāvabhāsānāvaraṇavimokṣapratiṣṭhitā asaṃkhyeyasarvatathāgatasamudrāgamapratyakṣā sarvabodhisattvajanmasaṃdarśanavidhijñā tena kālena tena samayena padmaśrīgarbhasaṃbhavā nāma rājño dhanateragramahiṣyabhūt / tatkiṃ manyase kulaputra - anyā sā tena kālena tena samayena sudarśanā nāma agragaṇikā abhūt? na khalvevaṃ draṣṭavyam / eṣā sā sunetrā nāma daṇḍapāṇeḥ śākyasya bhāryā mama mātā tena kālena tena samayena sudarśanā nāma agragaṇikābhūt / tatkiṃ manyase kulaputra - anyā sā tena kālena tena samayena sucalitaratiprabhāsaśrīrnāma gaṇikādārikābhūt? na khalvevaṃ draṣṭavyam / ahaṃ sā tena kālena tena samayena sucalitaratiprabhāsaśrīrgaṇikādārikā abhūt / tatkiṃ manyase kulaputra - anyaḥ sa tena kālena tena samayena tejodhipate rājñaḥ parivāro 'bhūt? na khalvevaṃ draṣṭavyam / ime te bodhisattvāḥ sarve samantabhadrabodhisattvacaryāpraṇidhānaparipūryāṃ bhagavatā pratiṣṭhāpitā asminneva parṣanmaṇḍale saṃniṣaṇṇāsarvalokadhātupratibhāsaprāptena kāyena sarvabodhisattvasamādhivihārasaṃbhinnena cittena sarvatathāgataḥ saṃmukhabhāvavadanavijñaptena cakṣuṣā sarvatathāgatagaganasvarāṅgameghacakranigarjitanirghoṣavijñaptena śrotreṇa sarvadharmavihāravaśavartinā āśvāsapraśvāsena sarvabuddhakṣetrānucalitena nirghoṣeṇa sarvatathāgataparṣanmaṇḍalopasaṃkramaṇāpratiprasrabdhena bodhisattvakāyena bodhisattvayathāśayābhimukhena paripākavinayānukūlena ātmabhāvābhinirhāreṇa aśeṣasarvadigjālaprasṛtena nānāgatasarvakalpāvyavacchinnena samantabhadrabodhisattvacaryāpraṇidhānaparipūrisamudāgamena samanvāgatā bhagavataḥ parṣanmaṇḍale saṃniṣaṇṇāḥ / sa khalu kulaputra sūryagātrapravarastathāgatastejodhipatinā cakravartinā ca mayā ca yāvajjīvamupasthito 'bhūt cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ // tasya khalu punaḥ kulaputra sūryagātrapravarasya tathāgatasya parinirvṛtasyānantaraṃ tasyāmeva lokadhātau prasannagātro nāma tathāgato loka udapādi / so 'pyasmābhirārāgitaḥ satkṛto gurukṛto mānitaḥ pūjitaḥ / tasyānantaraṃ sarvagātrajñānapratibhāsacandro nāma tathāgato loka udapādi / so 'pyasmābhirdevendrabhūtairārāgitaḥ / tasyānantaraṃ jāmbūnadatejorājo nāma tathāgata ārāgitaḥ / tasyānantaraṃ lakṣaṇabhūṣitagātro nāma tathāgata ārāgitaḥ / tasyānantaraṃ vicitraraśmijvalanacandro nāma tathāgata ārāgitaḥ / tasyānantaraṃ suvilokitajñānaketurnāma tathāgata (Gv 331) ārāgitaḥ / tasyānantaraṃ vipulamahājñānaraśmirājo nāma tathāgata ārāgitaḥ / tasyānantaraṃ nārāyaṇavajravīryo nāma tathāgata ārāgitaḥ / tasyānantaramaparājitajñānasthāmo nāma tathāgata ārāgitaḥ / tasyānantaraṃ samantavilokitajñāno nāma tathāgata ārāgitaḥ / tasyānantaraṃ vimalaśrīmegho nāma tathāgata ārāgitaḥ / tasyānantaraṃ siṃhavijṛmbhitaprabho nāma tathāgata ārāgitaḥ / tasyānantaraṃ jñānaraśmijvalanacūḍo nāma tathāgata ārāgitaḥ / tasyānantaraṃ guṇaraśmidhvajonāma tathāgata ārāgitaḥ / tasyānantaraṃ jñānabhāskaratejo nāma tathāgata ārāgitaḥ / tasyānantaraṃ ratnapadmapraphullitagātro nāma tathāgata ārāgitaḥ / tasyānantaraṃ puṇyapradīpadhvajo nāma tathāgata ārāgitaḥ / tasyānantaraṃ jñānaraśmimeghaprabho nāma tathāgata ārāgitaḥ / tasyānantaraṃ samantavairocanacandro nāma tathāgata ārāgitaḥ / tasyānantaraṃ ābharaṇacchatranirghoṣo nāma tathāgata ārāgitaḥ / tasyānantaraṃ samantajñānālokavikramasiṃho nāma tathāgata ārāgitaḥ / tasyānantaraṃ dharmadhātuviṣayamaticandro nāma tathāgata ārāgitaḥ / tasyānantaraṃ sattvagaganacittapratibhāsabimbo nāma tathāgata ārāgitaḥ / tasyānantaraṃ praśamagandhasunābho nāma tathāgata ārāgitaḥ / tasyānantaraṃ samantānuravitaśāntanirghoṣo nāma tathāgata ārāgitaḥ / tasyānantaraṃ sudṛḍhajñānaraśmijālabimbaskandho nāma tathāgata ārāgitaḥ / tasyānantaraṃ amṛtaparvataprabhātejo nāma tathāgata ārāgitaḥ / tasyānantaraṃ dharmasāgaranigarjitaghoṣo nāma tathāgata ārāgitaḥ / tasyānantaraṃ buddhagaganaprabhāsacūḍo nāma tathāgata ārāgitaḥ / tasyānantaraṃ raśmicandro nāma tathāgata ārāgitaḥ / tasyānantaraṃ raśmicandrorṇamegho nāma tathāgata ārāgitaḥ / tasyānantaraṃ suparipūrṇajñānamukhaktro nāma tathāgata ārāgitaḥ / tasyānantaraṃ suviśuddhajñānakusumāvabhāso nāma tathāgata ārāgitaḥ / tasyānantaraṃ ratnārciḥparvataśrītejorājo nāma tathāgata ārāgitaḥ / tasyānantaraṃ vipulaguṇajyotiḥprabho nāma tathāgata ārāgitaḥ / tasyānantaraṃ samādhimervabhyudgatajñāno nāma tathāgata ārāgitaḥ / tasyānantaraṃ ratnacandradhvajo nāma tathāgata ārāgitaḥ / tasyānantaramarcirmaṇḍalagātro nāma tathāgata ārāgitaḥ / tasyānantaraṃ ratnāgraprabhatejo nāma tathāgata ārāgitaḥ / tasyānantaraṃ samantajñānacaryāvilambo nāma tathāgata ārāgitaḥ / tasyānantaraṃ arciḥsamudramukhavegapradīpo nāma tathāgata ārāgitaḥ / tasyānantaraṃ dharmavimānanirghoṣarājo nāma tathāgata ārāgitaḥ / tasyānantaramasadṛśaguṇakīrtidhvajo nāma tathāgata ārāgitaḥ / tasyānantaraṃ pralambabāhurnāma tathāgata ārāgitaḥ / tasyānantaraṃ pūrvapraṇidhinirmāṇacandro nāma tathāgata ārāgitaḥ / tasyānantaramākāśajñānārthapradīpo nāma tathāgata ārāgitaḥ / tasyānantaraṃ dharmodgatanabheśvaro nāma tathāgata ārāgitaḥ / tasyānantaraṃ vairocanaśrīgarbharājo nāma tathāgata ārāgitaḥ / tasyānantaraṃ dharmanārāyaṇaketurnāma tathāgata ārāgitaḥ / tasyānantaraṃ jñānaketurnāma tathāgata ārāgitaḥ / tasyānantaraṃ dharmasāgarapadmo nāma tathāgata ārāgitaḥ / iti hi kulaputra etāṃstathāgatān pramukhān kṛtvā tasyāṃ lokadhātau ṣaṣṭibuddhakoṭīniyutaśatasahasrāṇyutpannāni (Gv 332) abhūvan, yānyasmābhirārāgitāni satkṛtāni gurukṛtāni mānitāni pūjitāni cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ // teṣāṃ khalu kulaputra ṣaṣṭerbuddhakoṭīniyutaśatasahasrāṇāṃ sarvapaścimo vipuladharmādhimuktisaṃbhavatejo nāma tathāgata utpanno 'bhūt / tasya bhagavato nagare praviṣṭasya mayā rājabhāryābhūtayā sārdhaṃ svāminā sarvākārapūjāmukhaṃ prayuktayā tathāgatapūjayā pūjāṃ kṛtvā sarvatathāgatotpattisaṃbhavapradīpo nāma tathāgatadharmaparyāyastasya bhagavato 'ntikāt śrutaḥ, yasya sahaśravaṇānmayā jñānacakṣuḥ pratilabdham / eṣa ca sarvabodhisattvasamādhinayasāgaravyavalokanaviṣayo bodhisattvavimokṣaḥ pratilabdhaḥ // sā khalvahaṃ kulaputra etaṃ vimokṣaṃ bhāvayamānā buddhakṣetraśataparamāṇurajaḥsamān kalpānāgatān bodhisattvena sārdhaṃ bodhisattvacaryāṃ caramāṇā / teṣu ca me buddhakṣetraparamāṇurajaḥsameṣu kalpeṣu anantamadhyāstathāgatā ārāgitāḥ / kvacit kalpe kalpastho 'pi ekatathāgata ārāgitaḥ / kvacit kalpe dvau tathāgatāvārāgitau / kvacit kalpe yāvadanabhilāpyāstathāgatā ārāgitāḥ / kvacit kalpe buddhakṣetraparamāṇurajaḥsamāstathāgatā ārāgitāḥ / na ca me jātu bodhisattvasya kāyo jñātaḥ - kiṃpramāṇaḥ kīdṛksaṃsthānaḥ kīdṛgvarṇaḥ / na kāyakarma jñātaṃ na vākkarma na manaskarma jñātaṃ na jñānadarśanaṃ na jñānagocaraṃ na jñānasamādhiviṣayo jñātaḥ / ye khalu punaḥ kulaputra sattvā bodhisattvaṃ bodhisattvacārikāṃ carantaṃ dṛṣṭvā bodhisattvasyāntike 'nunayacittamutpādayāmāsuḥ, nānāsaṃketairnānāsaṃvāsaiśca prasādaṃ janayāmāsuḥ, sarve te bodhisattvena laukikalokottarairvividhairupāyaiḥ saṃgṛhītā bodhisattvasya parivārā bhavanti sma / te bodhisattvasya bodhisattvacaryāṃ carataḥ parivārasaṃvāse na avaivartikā bhavanti sma anuttarāyāṃ samyaksaṃbodhau // sāhaṃ kulaputra vipuladharmādhimuktisaṃbhavatejastathāgatasya sahadarśanādimaṃ sarvabodhisattvasamādhisāgaravyavalokanaviṣayaṃ bodhisattvavimokṣaṃ pratilabhya bodhisattvena sārdhaṃ buddhakṣetraśataparamāṇurajaḥsamān kalpānāgatā etaṃ vimokṣaṃ saṃbhāvayamānā / ye ca teṣu buddhakṣetraparamāṇurajaḥsameṣu kalpeṣu tathāgatā utpannāḥ, sarve te mayā tathāgatā ārāgitāḥ pūjitā upasthitāḥ / sarveṣāṃ ca me teṣāṃ tathāgatānāṃ dharmadeśanā śrutā, śrutvā udgṛhītā saṃdhāritā / sarveṣāṃ ca mayā teṣāṃ buddhānāṃ bhagavatāmantikādeṣa vimokṣaḥ pratilabdho nānānayairvā nānāsūtrāntanayanirghoṣairnānāvimokṣaśarīrairnānāvimokṣadvārairnānāvimokṣavicārairnānādhvajapraveśaiḥ nānābuddhakṣetrasāgarāvatāraiḥ nānābuddhadarśanasamudravijñaptibhiḥ nānātathāgataparṣanmaṇḍalāvatāraiḥ nānābodhisattvapraṇidhānasāgaranayapathaiḥ nānābodhisattvacaryāprasaraiḥ nānābodhisattvacaryābhinirhāraiḥ nānābodhisattvaprasaraiḥ / na ca bodhisattvasya samantabhadravimokṣanayamavatarāmi / tatkasya hetoḥ? ākāśatalapraveśāpramāṇā hi kulaputra samantabhadrāṇāṃ bodhisattvānāṃ vimokṣanayāḥ sarvasattvasaṃjñāgatatalāpramāṇāḥ tryadhvaparivartasāgaratalāpramāṇā (Gv 333) diksamudratalāpramāṇā dharmadhātunayasāgaratalāpramāṇāḥ / tathāgataviṣayasamaśarīrā hi kulaputra samantabhadrāṇāṃ bodhisattvānāṃ vimokṣanayāḥ // sā ahaṃ kulaputra buddhakṣetraparmāṇurajaḥsamān kalpān bodhisattvaśarīraṃ prekṣamāṇā atṛptaiva darśanena / tadyathāpi nāma kulaputra ekāntarāgacaritayoḥ strīpuruṣayoranyonyasamāgame saṃketakṛtayorapramāṇā ayoniśomanasikāraprabhavāḥ śubhasaṃjñāvitarkasaṃmohasaṃbhavāścittotpādā utpadyante, evameva kulaputra mama bodhisattvasya śarīraṃ prekṣamāṇāyā ekaikasmādromavivarādanantamadhyāpramāṇanirdeśā lokadhātuvaṃśaprasarā nānāpratiṣṭhānā nānāsaṃdhivyūhā nānāsaṃsthānā nānāparvatavyūhā nānāpṛthivītalavyūhanirdeśā nānāgaganameghasaṃchannālaṃkārā nānākalpanāmasaṃkhyānirdeśā nānābuddhotpādatathāgatavaṃśaprabhavā nānābodhimaṇḍālaṃkārā nānātathāgatadharmacakrapravartanavikurvitā nānātathāgataparṣanmaṇḍalavyūhā nānāsūtrāntanayanirdeśanirghoṣā nānāyānanayanirhāraprabhavā nānāpariśuddhaprabhālokāvabhāsā adṛṣṭapūrvanimittāḥ praticittakṣaṇaṃ cakṣuṣa ābhāsamāgacchanti / ekaikasmādromavivarādanantamadhyā buddhasamudrāścakṣuṣa ābhāsamāgacchanti / nānābodhimaṇḍālaṃkārā nānādharmacakrapravartanavikurvitā nānāsūtrāntanirghoṣavikurvitāḥ apratisrabdhayogena praticittakṣaṇaṃ cakṣuṣa ābhāsamāgacchanti / ekaikasmādromavivarādanantamadhyāḥ sattvasamudrā nānābhavanārāmaparvatavimānanadīsamudranilayā nānārūpakāyā nānāparibhogaviṣayā nānācārayogacāraprayogā nānendriyapariniṣpattisaṃsthānāḥ praticittakṣaṇaṃ cakṣuṣa ābhāsamāgacchanti / ekaikasmādromavivarādanantamadhyāstryadhvasāgarapraveśanayā avabhāsamāgacchanti / anantamadhyā bodhisattvapraṇidhānasamudrā viśudhyante / anantamadhyā bodhisattvabhūmicaryāvimātratāsamudrā ābhāsamāgacchanti / anantamadhyā bodhisattvapāramitānayasāgarapariśuddhayo 'vabhāsamāgacchanti / anantamadhyā bodhisattvapūrvayogasamudrā ābhāsamāgacchanti / anantamadhyā buddhakṣetrapariśodhananayasamudrā ābhāsamāgacchanti / anantamadhyā bodhisattvamahāmaitrīnayasamudrāḥ sarvasattvamahāmaitrīnayasamudrāḥ sarvasattvaparipākavinayaparākramaprayogasāgarā avakrāmanti / anantamadhyā bodhisattvamahākaruṇāmeghanayasāgarāḥ saṃbhavanti / anantamadhyā bodhisattvamahāprītivegasāgarā vivardhante / praticittakṣaṇamanantamadhyāḥ sarvasattvasaṃgrahaprayogasāgarā niṣpadyante // sā ahaṃ kulaputra teṣu buddhakṣetraśataparamāṇurajaḥsameṣu kalpeṣu bodhisattvasya ekaikasmādromavivarātpraticittakṣaṇamanantamadhyān dharmanayasāgarānavataramāṇā paryantaṃ nādhigacchāmi / na ca avatīrṇapūrvamavatarāmi / na pratilabdhapūrvaṃ pratilabhe yāvadantaḥpuramadhyagatasyāpyahaṃ kulaputra sarvārthasiddhasya strīgaṇaparivṛtasya nānāvimokṣanayasāgarāvatāraiḥ / ekaikasmādromavivarādanantamadhyāṃstryadhvanayasāgarānavatārāmi dharmadhātvavatāranayasamudrāvatāreṇa // etamahaṃ kulaputra sarvabodhisattvasamādhisāgaravyavalokanaviṣayaṃ bodhisattvavimokṣaṃ prajānāmi, samāpadye / kiṃ mayā śakyaṃ bodhisattvānāmanantamadhyopāyanayasāgaraprasṛtānāṃ sarvasattvasamasadṛśasaṃsthānasaṃsthitakāyavijñaptisaṃdarśakānāṃ sarvajagadāśayānukūlacaryāsaṃdarśakānām (Gv 334) anantamadhyavarṇanirmitameghasamudrasarvaromamukhapramuñcakānāṃ sarvaśarīradharmatāsvabhāvaprakṛtipariśuddhānāmākāśalakṣaṇajagatprakṛtyavabodhanirvikalpānāṃ sarvatrānugatabuddhiviniścayatathāgatasamavikurvitaparamāṇām anantamadhyavimokṣaviṣayavikurvitaniryātānāṃ vipuladharmadhātucittotpādapraveśavihāravaśavartināṃ samantamukhasarvadharmabhūmivimokṣasāgaravikrīḍitānāṃ caryāṃ jñātuṃ guṇān vā vaktum, nikhilān vā guṇanidhīn saṃdarśayitum // gaccha kulaputra, ihaiva bhagavato vairocanasya pādamūle vividharatnavyūhamahāmaṇirājapadmagarbhāsananiṣaṇṇā bodhisattvajanetrī māyā nāma devī / tāmupasaṃkramya paripṛccha - kathaṃ bodhisattvā bodhisattvacaryāṃ caranto 'nupaliptā bhavanti sarvalokadharmamalaiḥ / apratiprasrabdhā bhavanti tathāgatapūjāprayogeṣu / avaivartikā bhavanti sarvabodhisattvakarmāntebhyaḥ / sarvāvaraṇavigatā bhavanti bodhisattvavimokṣāvatāreṣu / aparapratyayā bhavanti sarvabodhisattvavihāreṣu / saṃmukhībhāvagatā bhavanti sarvatathāgatānām / na vivartante sarvasattvasaṃgrahaprayogebhyaḥ, na nivartante 'parāntakoṭīgatakalpasarvabodhisattvacaryāsaṃvāsebhyaḥ / na pratyudāvartante mahāyānapraṇidhānāt / na saṃsīdanti jagatkuśalamūlasaṃdhāraṇavivardhanatayā // atha khalu gopā śākyakanyā etameva vimokṣamukhanayaṃ saṃdarśayantī buddhādhiṣṭhānena tasyāṃ velāyāmimā gāthā abhāṣata - saṃbodhicaryācaraṇaprayuktaṃ paśyanti sattvāḥ khalu ye 'grasattvam / prasannacittāḥ pratighātino vā vrajanti te saṃgrahamasya sarve

Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.

Sanskrit only: no published translation is held for this verse.

Permanent address: hreem.cc/library/Gand/24.90

Cite as: Gandavyuhasutra 24.90, in HREEM (hreem.cc/library/Gand/24.90), after GRETIL, Gandavyuhasutra Based on the edition by P.L.

Edition, numbering and licence

GRETIL 4_rellit/buddh/bsu016_u.htm — Gandavyuhasutra Based on the edition by P.L. Vaidya. Gaṇḍavyūhasūtram, Darbhanga: The Mithila Institute, 1960 (Buddhist Sanskrit Texts No. 5). Input by members of the Sanskrit Buddhist Input Project. With kind permission of the Digital Sanskrit Buddhist Canon | NOTE: the file numbers verses only within chapters; chapter numbers were inferred from each restart at 1 — verify against a printed edition before citing formally.

GRETIL (SUB Göttingen), CC BY-NC-SA 4.0 — non-commercial use with attribution; the Companion is kept free while this corpus is held. Devanagari generated mechanically from GRETIL's IAST.

More about this text