सा खल्वहं कुलपुत्र तदा राज्ञः शुद्धोदनस्य गृहगता भवामि । अथ बोधिसत्त्वस्य तुषितभवनाच्च्यवनकालसमये प्रत्युपस्थिते सर्वरोममुखेभ्य एकैकस्माद्रोममुखादनभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमाः सर्वबोधिसत्त्वजननीगुणनयव्यूहाः सर्वतथागतजननीगुणमण्डलप्रभवप्रभासा नाम रश्मयो निश्चरित्वा सर्वावन्तं लोकधातुमवभास्य मम शरीरे निपत्य मूर्धानमुपादाय सर्वरोमकूपेष्वनुप्राविशन् । समनन्तरप्रविष्टाभिश्च कुलपुत्र ताभिर्बोधिसत्त्वरश्मिभिरनेकनामधेयाभिर्नानाबोधिसत्त्वजननीविकुर्वितव्यूहप्रमुञ्चनीभिः, अथ तावदेव मम काये बोधिसत्त्वरश्मिमुखमण्डलाभिविज्ञप्ताः सर्वबोधिसत्त्वजन्मविकुर्वितनयव्यूहाः संदृश्यन्ते स्म अन्तर्गतेन परिवारेण । समनन्तरप्रविष्टाभिश्च कुलपुत्र मम काये ताभिर्बोधिसत्त्वरश्मिभिः, अथ तावदेव येषां बोधिसत्त्वानां तानि बोधिसत्त्वरश्मिमुखमण्डलानि विज्ञप्तानि जन्मनयविकुर्वितानि प्रवर्तन्ते, सर्वे ते मम चक्षुष आभासमगमन्, यदुत बोधिमण्डवराग्रगता बुद्धसिंहासननिषण्णा बोधिसत्त्वपर्षन्मण्डलपरिवृता लोकेन्द्राभिपूजिता धर्मचक्रं प्रवर्तयमानाः । ये च तैस्तथागतैः पूर्वबोधिसत्त्वचर्यां चरद्भिस्तथागता आरागिताः, ते ऽपि सर्वे मम चक्षुष आभासमगमन् । प्रथमचित्तोत्पादजन्मविकुर्विताः साभिसंबोधिधर्मचक्रप्रवर्तनपरिनिर्वाणविकुर्विताः सर्वबुद्धक्षेत्रविशुद्धव्यूहाः, यानि च तेषां तथागतानां निर्माणमण्डलानि प्रतिचित्तक्षणं सर्वधर्मधातुं स्फरन्ति, तान्यपि सर्वाणि मम चक्षुष आभासमगमन् । तस्या मम कुलपुत्र काये ताभिर्बोधिसत्त्वरश्मिभिरनुप्रविष्टाभिः सर्वजगदभ्युद्गतः कायः संस्थितो ऽभूत्, आकाशधातुविपुलश्च कुक्षिः, न च मनुष्याश्रयप्रमाणादतिक्रान्तः । यावन्तश्च दशसु दिक्षु बोधिसत्त्वगर्भावासभवनव्यूहाः, ते सर्वे मम काये ऽन्तर्गता अनुप्रविष्टाः सर्वे संदृश्यन्ते ॥ समनन्तरप्रादुर्भूतस्य च मम कुलपुत्र काये बोधिसत्त्वगर्भावासभवनव्यूहपरिभोगस्य, अथ तावदेव बोधिसत्त्वः सार्धं दशबुद्धक्षेत्रपरमाणुरजःसमैर्बोधिसत्त्वैरेकप्रणिधानैः सभागचरितैरेककुशलमूलैर् (ग्व् ३४६) एकव्यूहैरेकविमोक्षविहारिभिरेकज्ञानभूमिसंवासिभिरेकविकुर्वितनिर्यातैरेकप्रणिधानसमुदागतैरेकचर्यानिर्यातैर्धर्मकायपरिशुद्धैरनन्तमध्यरूपकायाधिष्ठानैः समन्तभद्रबोधिसत्त्वचर्याप्रणिधिविकुर्वितनिर्यातैर्नागेन्द्रगर्भमणिकूटागारगतैः सागरनागराजपूर्वंगमैरशीत्या नागेन्द्रसहस्रैः सर्वलोकेन्द्रसहस्रैश्चाभिपूज्यमानो महता बोधिसत्त्वविकुर्वितेन सर्वतुषितभवनच्युतिसंदर्शनेन एकैकस्मात्तुषितभवनात् सर्वलोकधातुप्रसृतचातुर्द्वीपोपपत्तिप्रतिलाभसंदर्शनेन अचिन्त्यसत्त्वपरिपाकोपायकौशल्यानुगतेन प्रमत्तसर्वसत्त्वसंचोदनेन सर्वाभिनिवेशोच्चालनेन महारश्मिजालप्रमुञ्चनेन सर्वलोकान्धकारविधमनेन सर्वापायदुःखव्युपशमनेन सर्वनिरयगतिनिवर्तनेन सर्वसत्त्वपूर्वकर्मसंचोदनेन सर्वसत्त्वधातुपरित्रायणेन सर्वसत्त्वाभिमुखकायसंदर्शनेन तुषितभवनाच्च्युत्वा सार्धं सपरिवारेण मम कुक्षौ प्राविशत् ॥ ते सर्वे मम कुक्षौ त्रिसाहस्रलोकधातुविपुलेन यावदनभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमलोकधातुविपुलेन आक्रमविक्रमेण अनुविचरन्ति स्म । सर्वाणि च दशसु दिक्षु सर्वलोकधातुप्रसरेषु सर्वतथागतपादमूलेषु सर्वबोधिसत्त्वपर्षन्मण्डलानि प्रतिचित्तक्षणमनभिलाप्यानि मम कुक्षौ समवसरन्ति स्म बोधिसत्त्वगर्भावासविकुर्वितं द्रष्टुम् । चत्वारश्च महाराजाः शक्रसुयामसंतुषितसुनिर्मितवशवर्तिनश्च देवेन्द्राः ब्रह्मेन्द्राश्च गर्भावासोपगतबोधिसत्त्वमुपसंक्रामन्ति स्म दर्शनाय वन्दनाय पर्युपासनाय धर्मश्रवणाय सांकथ्यानुभावनाय । न चायं मम कुक्षिस्तावन्ति पर्षन्मण्डलानि प्रतीच्छन् विपुलीभवति । न चास्मान्मनुष्याश्रयादयं मम कायो विशिष्टतरः संतिष्ठते । तानि च तावन्ति पर्षन्मण्डलानि संप्रतीच्छति । सर्वे च ते देवमनुष्या नानाबोधिसत्त्वपरिभोगपरिशुद्धिव्यूहानपश्यन् । तत्कस्य हेतोः? यथापि तदस्यैव महाप्रणिधानमायागतस्य बोधिसत्त्वविमोक्षस्य सुभाषितत्वात् ॥ यथा चाहं कुलपुत्र अस्यां भागवत्यां चातुर्द्वीपिकायां जम्बुद्वीपे बोधिसत्त्वं कुक्षिणा संप्रतीच्छामि, एवं त्रिसाहस्रमहासाहस्रे लोकधातौ सर्वचातुर्द्वीपिकाजम्बुद्वीपेषु संप्रतीच्छामि अनेन च विकुर्वितव्यूहेन । न चायं मम कायो द्वयीभवति नाद्वयीभवति, न चैकत्वे संतिष्ठते न बहुत्वे, यथापि नाम तदस्यैव महाप्रणिधानज्ञानमायागतस्य बोधिसत्त्वविमोक्षस्य सुभाषितत्वात् । यथा चाहं कुलपुत्र अस्य भगवतो वैरोचनस्य माता अभूवम्, तथा पूर्वकाणामपि तथागतानामनन्तमध्यानां माता अभूवम् । यत्र बोधिसत्त्वो लोक उपपादुक उपापद्यत पद्मगर्भे, तत्राहं नलिनीदेवता भूत्वा बोधिसत्त्वं संप्रतीच्छामि । लोकश्च मां बोधिसत्त्वजननीति संजानाति । यत्रोत्सङ्गे प्रादुर्बभूव, तत्राहमस्य जनन्यभूवम् । यत्र बुद्धक्षेत्रे प्रादुर्भवति, तत्राहं बोधिमण्डदेवता भवामि । इति हि कुलपुत्र यावद्भिरुपायमुखैश्चरमभविका बोधिसत्त्वा लोक उपपत्तिं संदर्शयन्ति, तावद्भिरुपायमुखैरहं बोधिसत्त्वजननी भवामि ॥ यथा अहं कुलपुत्र इह लोकधातौ अस्य भगवतः सर्वबोधिसत्त्वजन्मविकुर्वितसंदर्शनेषु जनेत्र्यभूवम्, तथा भगवतः क्रकुच्छन्दस्यापि तथागतस्य, कनकमुनेः, काश्यपस्य तथागतस्य (ग्व् ३४७) जनेत्र्यभूवम् । तथा सर्वेषां भद्रकल्पिकानामनागतानां तथागतानां जनेत्री भविष्यामि । तद्यथा मैत्रेयस्य बोधिसत्त्वस्य तुषितभवनगतस्य च्युतिसंदर्शनकाले प्रवृत्ते सर्वबोधिसत्त्वोपपत्तिसंभवगर्भसंवासविकुर्वितसंदर्शनप्रभासायां रश्म्यामुत्सृष्टायां प्रभासितेषु सर्वधर्मधातुनयतलेषु यावन्ति मम धर्मधातुनयतलानि चक्षुषो ऽवभासमागमिष्यन्ति, येषु मैत्रेयेण बोधिसत्त्वेन मनुष्यलोके मनुष्येन्द्रकुलेषु जन्मोपपत्तिसंदर्शनेन सत्त्वा विनयितव्याः, तेष्वहं सर्वत्र बोधिसत्त्वजननी भविष्यामि । यथा च मैत्रेयस्य बोधिसत्त्वस्य, तथा सिंहस्य यो मैत्रेयस्यानन्तरमनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते, तथा प्रद्योतस्य केतोः सुनेत्रस्य कुसुमस्य कुसुमश्रियः तिष्यस्य पुष्यस्य सुमनसो वज्रस्य विरजसः चन्द्रोल्काधारिणो यशसो वज्रशुद्धस्य एकार्थदर्शिनो सिताङ्गस्य पारंगतस्य रत्नार्चिःपर्वतस्य महोल्काधारिणः पद्मोत्तरस्य विघुष्टशब्दस्य अपरिमितगुणधर्मस्य दीपश्रियो विभूषिताङ्गस्य सुप्रयाणस्य मैत्रश्रियो निर्मितस्यानिकेतस्य ज्वलिततेजसो ऽनन्तघोषस्य अनिनेमस्य अनिनेत्रस्य विमतिविकिरणस्य परिशुद्धस्य सुविशालाभस्य यशःशुद्धोदितस्य मेघश्रियो विचित्रभूतस्य सर्वरत्नविचित्रवर्णमणिकुण्डलस्य सागरमतेः शुभरत्नस्य अनिहतमल्लस्य परिपूर्णमनोरथस्य महेश्वरस्य इन्द्रश्रियो ऽग्निश्रियः चन्दनमेघस्य सितविशालाक्षस्य श्रेष्ठमतेर्विभावितमतेरवरोपणराजस्योत्तापनराजमतेर्विभूषितस्य विभूतेः केशरनन्दिन ईश्वरदेवस्य ईश्वरस्य उष्णीषश्रियो वज्रज्ञानपर्वतस्य श्रीगर्भस्य कनकजालकायविभूषितस्य सुविभक्तस्य ईश्वरदेवस्य महेन्द्रदेवस्य अनिलश्रियो विशुद्धनन्दिनो ऽर्चिष्मतो वरुणश्रियो विशुद्धमतेरग्रयानस्य निहितगुणोदितस्य अरिगुप्तस्य वाक्यनुदस्य वशीभूतस्य गुणतेजस्य वैरोचनकेतोर्विभवगन्धस्य विभावनगन्धस्य विभक्ताङ्गस्य सुविशाखस्य सर्वगन्धार्चिमुखस्य वज्रमणिविचित्रस्य प्रहसितनेत्रस्य निहतरागरजसः प्रवृद्धकायराजस्य वासुदेवस्य उदारदेवस्य निरोधनिम्नस्य विबुद्धेर्धूतरजसः अर्चिर्महेन्द्रस्य उपशमवतो विशाखदेवस्य वज्रगिरो ज्ञानार्चिज्वलितशरीरस्य क्षेमंकरस्य औपगमस्य शार्दूलस्य परिपूर्णशुभस्य रुचिरभद्रयशसः पराक्रमविक्रमस्य परमार्थविक्रामिणः शान्तरश्मेरेकोत्तरस्य गम्भीरेश्वरस्य भूमिमतेरसितस्य घोषश्रियो विशिष्टस्य विभूतपतेर्विभूतभूतस्य वैद्योत्तमस्य गुणचन्द्रस्य प्रहर्षिततेजसो गुणसंचयस्य चन्द्रोद्गतस्य भास्करदेवस्य भीष्मयशसो रश्मिमुखस्य शालेन्द्रस्कधस्य यशसः औषधिराजस्य रत्नवरस्य वज्रमतेः सितश्रियो निर्घौतालयस्य मणिराजस्य महायशसो वेगधारिणो ऽमिताभस्य महासनार्चिषो मोहधर्मेश्वरस्य निहतधीरस्य देवशुद्धस्य दृढप्रभस्य विश्वामित्रस्य विमुक्तिघोषस्य विनर्दितराजस्य वाक्यच्छेदस्य चम्पकविमलप्रभस्य अनवद्यस्य विशिष्टचन्द्रस्य उल्काधारिणो विचित्रगात्रस्य अनभिलाप्योद्गतस्य जगन्मित्रस्य प्रभूतरश्मेः स्वराङ्गशूरस्य करुणावृक्षस्य धृतमतितेजसः कुन्दश्रियो ऽर्चिश्चन्द्रस्य अनिहितमतेरनुनयविगतस्य अनिलम्भमतेरुपचितस्कन्धस्य अपायप्रमथनस्य अदीनकुसुमस्य सिंहविनर्दितस्य अनिहानार्थस्य अनावरणदर्शिनः परगणमथनस्य अनिलनेमस्य अकम्पितसागरस्य शोभनसागरस्य (ग्व् ३४८) अपराजितमेरोरनिलयज्ञानस्य अनन्तासनस्य अयुधिष्ठिरस्य चर्यागतस्य उत्तरदत्तस्य अत्यन्तचन्द्रमसो ऽनुग्रहचन्द्रस्य अचलस्कन्धस्य अग्रसानुमतेरनुग्रहमतेरभ्युद्धरस्य अर्चितनमस्यानुपगमनाम्नो निहततेजसो विश्ववर्णस्य अनिमित्तप्रज्ञस्य अचलदेवस्य अचिन्त्यश्रियो विमोक्षचन्द्रस्य अनुत्तरराजस्य चन्द्रस्कन्धार्चितब्रह्मणो ऽकम्प्यनेत्रस्य अनुनयगात्रस्य अभ्युद्गतकर्मणो ऽनुधर्ममतेरनुत्तरश्रियो ब्रह्मदेवस्य अचिन्त्यगुणानुत्तरधर्मगोचरस्य अपर्यन्तभद्रस्य अनुरूपस्वरस्य अभ्युच्चदेवस्य बोधिसत्त्वस्य । इति हि कुलपुत्र एतान् मैत्रेयप्रमुखाननागतांस्तथागतान् प्रमुखान् कृत्वा सर्वेषां भद्रकल्पिकानां तथागतानामर्हतां सम्यक्संबुद्धानामहमेव जननी भविष्यामि अस्यां त्रिसाहस्रमहासाहस्रायां लोकधातौ । यथा च इह लोकधातौ, तथा दशसु दिक्षु अपरिमाणेषु लोकधातुषु अनन्तमध्यान् धर्मधातुनयानवतरमाणा यथा च मैत्रेयस्य तथागतस्य अनभिलाप्यैर्गुणविशेषैर्जननी भविष्यामि, एवमनभिलाप्यगुणविशेषैः सिंहस्य एवं यावद्रोचमस्य तथागतस्य जननी भविष्यामि । यथा च भद्रकल्पिकानां तथागतानाम्, एवमस्मिन् सर्वावति कुसुमतलगर्भव्यूहालंकारे लोकधातुसमुद्रे सर्वलोकधातुवंशेषु सर्वलोकधातुप्रसरेषु सर्वलोकधातुषु सर्वजम्बुद्वीपेष्वपरान्तकोटीगतान् कल्पान् समन्तभद्रायां बोधिसत्त्वचर्यायां चरमाणा सर्वकल्पेषु सर्वसत्त्वपरिपाकविनयमधिष्ठाय सर्वेषामनागतानां तथागतानां बोधिसत्त्वभूतानां जननी भविष्यामि ॥ एवमुक्ते सुधनः श्रेष्ठिदारको मायादेवीमेतदवोचत् - कियच्चिरप्रतिलब्धस्त्वया अयमार्ये महाप्रणिधानज्ञानमायागतव्यूहो बोधिसत्त्वविमोक्षः? आह - भूतपूर्वं कुलपुत्र अतीते ऽध्वनि अचिन्त्यानां चित्तविषयसमतिक्रान्तानामभिजातबोधिसत्त्वचक्षुष्पथविज्ञप्तानां विज्ञानगणनासमतिक्रान्तानां परेण शुभप्रभो नाम कल्पो ऽभूत् । तस्मिन् खलु पुनः शुभप्रभे कल्पे मेरूद्गतश्रीर्नाम लोकधातुरभूद्विशुद्धसंक्लिष्टानेकरत्नमयी सचक्रवालसुमेरुसागरा पञ्चगतिप्रचारा चित्रा दर्शनीया । तस्यां खलु मेरूद्गतश्रियां लोकधातौ दश चातुर्द्वीपिककोटीशतान्यभूवन् । तेषां खलु दशानां चातुर्द्वीपिककोटीशतानां मध्ये सिंहध्वजाग्रतेजो नाम मध्यमा चातुर्द्वीपिकाभूत्, यस्यामशीतिराजधानीकोटीशतान्यभूवन् । तेषां खलु अशीतीनां राजधानीकोतीशतानां मध्ये ध्वजाग्रवती नाम मध्यमराजधान्यभूत् । तस्यां महातेजःपराक्रमो नाम राजा अभूच्चक्रवर्ती । तस्यां खलु पुनर्ध्वजाग्रवत्यां राजधान्यां चित्रमञ्जरिप्रभासो नाम बोधिमण्डो ऽभूत् । तत्र नेत्रश्रीर्नाम बोधिमण्डदेवता अभूत् । तस्मिन् खलु पुनश्चित्रमञ्जरिप्रभासे बोधिमण्डे विमलध्वजो नाम बोधिसत्त्वो निषण्णो ऽभूत् सर्वज्ञताधर्माधिगमाय । तस्य सर्वज्ञताधर्माधिगमान्तरायाय सुवर्णप्रभो नाम मारो महासैन्यपरिवारो ऽन्तर्धितकाय उपक्रान्तो ऽभूत् । स च महातेजःपराक्रमश्चक्रवर्ती बोधिसत्त्ववशिताप्रतिलब्धो ऽभूत् महर्द्धिविकुर्वितनिर्यातः । स ततो महासैन्याद्विपुलतरमुग्रतरं च महान्तं बलकायमभिनिर्माय तं बोधिमण्डं समन्तादनुपरिवारयामास मारसैन्यपराजयाय । तेन हि महती मारसेना (ग्व् ३४९) विकीर्णा । तेन च भगवता विमलध्वजेन तथागतेन अनुत्तरा सम्यक्संबोधिरभिसंबुद्धा । अथ खलु नेत्रश्रीबोधिमण्डदेवता महातेजःपराक्रमस्य चक्रवर्तिनो ऽन्तिके पुत्रसंज्ञामुत्पाद्य तस्य तथागतस्य चरणयोः प्रणिपत्य प्रणिधानमकार्षीत् - यत्र यत्राहं भगवन् उत्पद्येयम्, तत्र तत्रैष मे महातेजःपराक्रमश्चक्रवर्ती पुत्रो भवेत् । यदा चैषो ऽनुत्तरां सम्यक्संबोधिमभिसंबुध्येत, तदाप्यहमेतस्य जननी भवेयम् । सैवं प्रणिधानं कृत्वा तस्मिन्नेव चित्रमञ्जरिप्रभासे बोधिमण्डे तस्मिन्नेव शुभप्रभे कल्पे दश नयुतानि तथागतानामारागयामास ॥ तत्किं मन्यसे कुलपुत्र - अन्या सा तेन कालेन तेन समयेन नेत्रश्रीर्नाम बोधिमण्डदेवता अभूत्? न खलु पुनस्ते कुलपुत्र एवं द्रष्टव्यम् । अहं सा तेन कालेन तेन समयेन नेत्रश्रीर्नाम बोधिमण्डदेवता अभूवम् । तत्किं मन्यसे कुलपुत्र - अन्यः स तेन कालेन तेन समयेन महातेजःपराक्रमो नाम चक्रवर्त्यभूद्बोधिसत्त्ववशिताप्रतिलब्धो महर्द्धिकविकुर्वितनिर्यातो येन सा महती मारसेना विकीर्णा? न खल्वेवं द्रष्टव्यम् । अयं स भगवान् वैरोचनस्तथागतो ऽर्हन् सम्यक्संबुद्धः तेन कालेन तेन समयेन महातेजःपराक्रमो नाम राजा चक्रवर्त्यभूत् । सा अहं कुलपुत्र तत उपादाय यत्रतत्रोपपन्नाः, सर्वत्र एष मम पुत्रत्वमुपागतः सर्वबुद्धक्षेत्रेषु बोधिसत्त्वचर्यां चरन् सर्वगतिमुखेषु सर्वोपपत्तिमुखेषु सर्वकुशलमूलमुखेषु सर्वबोधिसत्त्वचर्याविचारपराक्रमेषु सर्वजातकनयेषु सर्वदेवेन्द्रजन्मसु सर्वलोकेन्द्रगतेषु सर्वेश्वरभूमिषु सर्वगतिप्रभागेषु । यत्र यत्रोपपद्यते सत्त्वपरिपाकहेतोः, सर्वत्र अहमेवास्य जनन्यभूवम् । चरमे च भवे ऽस्य अहमेव सर्वत्रानुगता जनन्यभूवम् । सर्वबोधिसत्त्वजन्ममुखेषु क्षणे क्षणे यावन्ति बोधिसत्त्वजन्मविकुर्वितान्यादर्शयामास, सर्वत्राहमेवास्य माता अभूवम् । अतीतानामपि तथागतानाम्, अनन्तमध्यानामपरिमाणानामहं जनन्यभूवम् । प्रत्युत्पन्नानामपि दशसु दिक्षु अनन्तमध्यानामपरिमाणानां तथागतानामहमेव जननीत्वं प्रत्यनुभवामि । यावतां च तथागतानामहं चरमे भवे बोधिसत्त्वमाता अभूवम्, सर्वेषां च तेषां तथागतानां नाभिमण्डलेभ्यो रश्मयो निश्चरित्वा महाकायमासनं चावभासयामासुः । एतमहं कुलपुत्र महाप्रणिधानज्ञानमायागतव्यूहं बोधिसत्त्वविमोक्षं प्रजानामि । किं मया शक्यं महाकरुणागर्भाणां बोधिसत्त्वानां सर्वज्ञतापरिपाकविनयापरितृप्तकुक्षीणां सर्वतथागतविकुर्वितरोममुखनिर्यातनिदर्शनवशवर्तिना चर्यां ज्ञातुं गुणान् वा वक्तुम् ॥ गच्छ कुलपुत्र, इयमिहैव त्रिदशेन्द्रभवने सुरेन्द्राभा नाम देवकन्या स्मृतिमतो देवपुत्रस्य दुहिता । तामुपसंक्रम्य परिपृच्छ - कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपतव्यम् ॥ अथ खलु सुधनः श्रेष्ठिदारको मायाया देव्याः पादौ शिरसाभिवन्द्य मायादेवीमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनः पुनरवलोक्य मायादेव्या अन्तिकात्प्रक्रान्तः
sā khalvahaṃ kulaputra tadā rājñaḥ śuddhodanasya gṛhagatā bhavāmi / atha bodhisattvasya tuṣitabhavanāccyavanakālasamaye pratyupasthite sarvaromamukhebhya ekaikasmādromamukhādanabhilāpyabuddhakṣetraparamāṇurajaḥsamāḥ sarvabodhisattvajananīguṇanayavyūhāḥ sarvatathāgatajananīguṇamaṇḍalaprabhavaprabhāsā nāma raśmayo niścaritvā sarvāvantaṃ lokadhātumavabhāsya mama śarīre nipatya mūrdhānamupādāya sarvaromakūpeṣvanuprāviśan / samanantarapraviṣṭābhiśca kulaputra tābhirbodhisattvaraśmibhiranekanāmadheyābhirnānābodhisattvajananīvikurvitavyūhapramuñcanībhiḥ, atha tāvadeva mama kāye bodhisattvaraśmimukhamaṇḍalābhivijñaptāḥ sarvabodhisattvajanmavikurvitanayavyūhāḥ saṃdṛśyante sma antargatena parivāreṇa / samanantarapraviṣṭābhiśca kulaputra mama kāye tābhirbodhisattvaraśmibhiḥ, atha tāvadeva yeṣāṃ bodhisattvānāṃ tāni bodhisattvaraśmimukhamaṇḍalāni vijñaptāni janmanayavikurvitāni pravartante, sarve te mama cakṣuṣa ābhāsamagaman, yaduta bodhimaṇḍavarāgragatā buddhasiṃhāsananiṣaṇṇā bodhisattvaparṣanmaṇḍalaparivṛtā lokendrābhipūjitā dharmacakraṃ pravartayamānāḥ / ye ca taistathāgataiḥ pūrvabodhisattvacaryāṃ caradbhistathāgatā ārāgitāḥ, te 'pi sarve mama cakṣuṣa ābhāsamagaman / prathamacittotpādajanmavikurvitāḥ sābhisaṃbodhidharmacakrapravartanaparinirvāṇavikurvitāḥ sarvabuddhakṣetraviśuddhavyūhāḥ, yāni ca teṣāṃ tathāgatānāṃ nirmāṇamaṇḍalāni praticittakṣaṇaṃ sarvadharmadhātuṃ spharanti, tānyapi sarvāṇi mama cakṣuṣa ābhāsamagaman / tasyā mama kulaputra kāye tābhirbodhisattvaraśmibhiranupraviṣṭābhiḥ sarvajagadabhyudgataḥ kāyaḥ saṃsthito 'bhūt, ākāśadhātuvipulaśca kukṣiḥ, na ca manuṣyāśrayapramāṇādatikrāntaḥ / yāvantaśca daśasu dikṣu bodhisattvagarbhāvāsabhavanavyūhāḥ, te sarve mama kāye 'ntargatā anupraviṣṭāḥ sarve saṃdṛśyante // samanantaraprādurbhūtasya ca mama kulaputra kāye bodhisattvagarbhāvāsabhavanavyūhaparibhogasya, atha tāvadeva bodhisattvaḥ sārdhaṃ daśabuddhakṣetraparamāṇurajaḥsamairbodhisattvairekapraṇidhānaiḥ sabhāgacaritairekakuśalamūlair (Gv 346) ekavyūhairekavimokṣavihāribhirekajñānabhūmisaṃvāsibhirekavikurvitaniryātairekapraṇidhānasamudāgatairekacaryāniryātairdharmakāyapariśuddhairanantamadhyarūpakāyādhiṣṭhānaiḥ samantabhadrabodhisattvacaryāpraṇidhivikurvitaniryātairnāgendragarbhamaṇikūṭāgāragataiḥ sāgaranāgarājapūrvaṃgamairaśītyā nāgendrasahasraiḥ sarvalokendrasahasraiścābhipūjyamāno mahatā bodhisattvavikurvitena sarvatuṣitabhavanacyutisaṃdarśanena ekaikasmāttuṣitabhavanāt sarvalokadhātuprasṛtacāturdvīpopapattipratilābhasaṃdarśanena acintyasattvaparipākopāyakauśalyānugatena pramattasarvasattvasaṃcodanena sarvābhiniveśoccālanena mahāraśmijālapramuñcanena sarvalokāndhakāravidhamanena sarvāpāyaduḥkhavyupaśamanena sarvanirayagatinivartanena sarvasattvapūrvakarmasaṃcodanena sarvasattvadhātuparitrāyaṇena sarvasattvābhimukhakāyasaṃdarśanena tuṣitabhavanāccyutvā sārdhaṃ saparivāreṇa mama kukṣau prāviśat // te sarve mama kukṣau trisāhasralokadhātuvipulena yāvadanabhilāpyabuddhakṣetraparamāṇurajaḥsamalokadhātuvipulena ākramavikrameṇa anuvicaranti sma / sarvāṇi ca daśasu dikṣu sarvalokadhātuprasareṣu sarvatathāgatapādamūleṣu sarvabodhisattvaparṣanmaṇḍalāni praticittakṣaṇamanabhilāpyāni mama kukṣau samavasaranti sma bodhisattvagarbhāvāsavikurvitaṃ draṣṭum / catvāraśca mahārājāḥ śakrasuyāmasaṃtuṣitasunirmitavaśavartinaśca devendrāḥ brahmendrāśca garbhāvāsopagatabodhisattvamupasaṃkrāmanti sma darśanāya vandanāya paryupāsanāya dharmaśravaṇāya sāṃkathyānubhāvanāya / na cāyaṃ mama kukṣistāvanti parṣanmaṇḍalāni pratīcchan vipulībhavati / na cāsmānmanuṣyāśrayādayaṃ mama kāyo viśiṣṭataraḥ saṃtiṣṭhate / tāni ca tāvanti parṣanmaṇḍalāni saṃpratīcchati / sarve ca te devamanuṣyā nānābodhisattvaparibhogapariśuddhivyūhānapaśyan / tatkasya hetoḥ? yathāpi tadasyaiva mahāpraṇidhānamāyāgatasya bodhisattvavimokṣasya subhāṣitatvāt // yathā cāhaṃ kulaputra asyāṃ bhāgavatyāṃ cāturdvīpikāyāṃ jambudvīpe bodhisattvaṃ kukṣiṇā saṃpratīcchāmi, evaṃ trisāhasramahāsāhasre lokadhātau sarvacāturdvīpikājambudvīpeṣu saṃpratīcchāmi anena ca vikurvitavyūhena / na cāyaṃ mama kāyo dvayībhavati nādvayībhavati, na caikatve saṃtiṣṭhate na bahutve, yathāpi nāma tadasyaiva mahāpraṇidhānajñānamāyāgatasya bodhisattvavimokṣasya subhāṣitatvāt / yathā cāhaṃ kulaputra asya bhagavato vairocanasya mātā abhūvam, tathā pūrvakāṇāmapi tathāgatānāmanantamadhyānāṃ mātā abhūvam / yatra bodhisattvo loka upapāduka upāpadyata padmagarbhe, tatrāhaṃ nalinīdevatā bhūtvā bodhisattvaṃ saṃpratīcchāmi / lokaśca māṃ bodhisattvajananīti saṃjānāti / yatrotsaṅge prādurbabhūva, tatrāhamasya jananyabhūvam / yatra buddhakṣetre prādurbhavati, tatrāhaṃ bodhimaṇḍadevatā bhavāmi / iti hi kulaputra yāvadbhirupāyamukhaiścaramabhavikā bodhisattvā loka upapattiṃ saṃdarśayanti, tāvadbhirupāyamukhairahaṃ bodhisattvajananī bhavāmi // yathā ahaṃ kulaputra iha lokadhātau asya bhagavataḥ sarvabodhisattvajanmavikurvitasaṃdarśaneṣu janetryabhūvam, tathā bhagavataḥ krakucchandasyāpi tathāgatasya, kanakamuneḥ, kāśyapasya tathāgatasya (Gv 347) janetryabhūvam / tathā sarveṣāṃ bhadrakalpikānāmanāgatānāṃ tathāgatānāṃ janetrī bhaviṣyāmi / tadyathā maitreyasya bodhisattvasya tuṣitabhavanagatasya cyutisaṃdarśanakāle pravṛtte sarvabodhisattvopapattisaṃbhavagarbhasaṃvāsavikurvitasaṃdarśanaprabhāsāyāṃ raśmyāmutsṛṣṭāyāṃ prabhāsiteṣu sarvadharmadhātunayataleṣu yāvanti mama dharmadhātunayatalāni cakṣuṣo 'vabhāsamāgamiṣyanti, yeṣu maitreyeṇa bodhisattvena manuṣyaloke manuṣyendrakuleṣu janmopapattisaṃdarśanena sattvā vinayitavyāḥ, teṣvahaṃ sarvatra bodhisattvajananī bhaviṣyāmi / yathā ca maitreyasya bodhisattvasya, tathā siṃhasya yo maitreyasyānantaramanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyate, tathā pradyotasya ketoḥ sunetrasya kusumasya kusumaśriyaḥ tiṣyasya puṣyasya sumanaso vajrasya virajasaḥ candrolkādhāriṇo yaśaso vajraśuddhasya ekārthadarśino sitāṅgasya pāraṃgatasya ratnārciḥparvatasya maholkādhāriṇaḥ padmottarasya vighuṣṭaśabdasya aparimitaguṇadharmasya dīpaśriyo vibhūṣitāṅgasya suprayāṇasya maitraśriyo nirmitasyāniketasya jvalitatejaso 'nantaghoṣasya aninemasya aninetrasya vimativikiraṇasya pariśuddhasya suviśālābhasya yaśaḥśuddhoditasya meghaśriyo vicitrabhūtasya sarvaratnavicitravarṇamaṇikuṇḍalasya sāgaramateḥ śubharatnasya anihatamallasya paripūrṇamanorathasya maheśvarasya indraśriyo 'gniśriyaḥ candanameghasya sitaviśālākṣasya śreṣṭhamatervibhāvitamateravaropaṇarājasyottāpanarājamatervibhūṣitasya vibhūteḥ keśaranandina īśvaradevasya īśvarasya uṣṇīṣaśriyo vajrajñānaparvatasya śrīgarbhasya kanakajālakāyavibhūṣitasya suvibhaktasya īśvaradevasya mahendradevasya anilaśriyo viśuddhanandino 'rciṣmato varuṇaśriyo viśuddhamateragrayānasya nihitaguṇoditasya ariguptasya vākyanudasya vaśībhūtasya guṇatejasya vairocanaketorvibhavagandhasya vibhāvanagandhasya vibhaktāṅgasya suviśākhasya sarvagandhārcimukhasya vajramaṇivicitrasya prahasitanetrasya nihatarāgarajasaḥ pravṛddhakāyarājasya vāsudevasya udāradevasya nirodhanimnasya vibuddherdhūtarajasaḥ arcirmahendrasya upaśamavato viśākhadevasya vajragiro jñānārcijvalitaśarīrasya kṣemaṃkarasya aupagamasya śārdūlasya paripūrṇaśubhasya rucirabhadrayaśasaḥ parākramavikramasya paramārthavikrāmiṇaḥ śāntaraśmerekottarasya gambhīreśvarasya bhūmimaterasitasya ghoṣaśriyo viśiṣṭasya vibhūtapatervibhūtabhūtasya vaidyottamasya guṇacandrasya praharṣitatejaso guṇasaṃcayasya candrodgatasya bhāskaradevasya bhīṣmayaśaso raśmimukhasya śālendraskadhasya yaśasaḥ auṣadhirājasya ratnavarasya vajramateḥ sitaśriyo nirghautālayasya maṇirājasya mahāyaśaso vegadhāriṇo 'mitābhasya mahāsanārciṣo mohadharmeśvarasya nihatadhīrasya devaśuddhasya dṛḍhaprabhasya viśvāmitrasya vimuktighoṣasya vinarditarājasya vākyacchedasya campakavimalaprabhasya anavadyasya viśiṣṭacandrasya ulkādhāriṇo vicitragātrasya anabhilāpyodgatasya jaganmitrasya prabhūtaraśmeḥ svarāṅgaśūrasya karuṇāvṛkṣasya dhṛtamatitejasaḥ kundaśriyo 'rciścandrasya anihitamateranunayavigatasya anilambhamaterupacitaskandhasya apāyapramathanasya adīnakusumasya siṃhavinarditasya anihānārthasya anāvaraṇadarśinaḥ paragaṇamathanasya anilanemasya akampitasāgarasya śobhanasāgarasya (Gv 348) aparājitameroranilayajñānasya anantāsanasya ayudhiṣṭhirasya caryāgatasya uttaradattasya atyantacandramaso 'nugrahacandrasya acalaskandhasya agrasānumateranugrahamaterabhyuddharasya arcitanamasyānupagamanāmno nihatatejaso viśvavarṇasya animittaprajñasya acaladevasya acintyaśriyo vimokṣacandrasya anuttararājasya candraskandhārcitabrahmaṇo 'kampyanetrasya anunayagātrasya abhyudgatakarmaṇo 'nudharmamateranuttaraśriyo brahmadevasya acintyaguṇānuttaradharmagocarasya aparyantabhadrasya anurūpasvarasya abhyuccadevasya bodhisattvasya / iti hi kulaputra etān maitreyapramukhānanāgatāṃstathāgatān pramukhān kṛtvā sarveṣāṃ bhadrakalpikānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmahameva jananī bhaviṣyāmi asyāṃ trisāhasramahāsāhasrāyāṃ lokadhātau / yathā ca iha lokadhātau, tathā daśasu dikṣu aparimāṇeṣu lokadhātuṣu anantamadhyān dharmadhātunayānavataramāṇā yathā ca maitreyasya tathāgatasya anabhilāpyairguṇaviśeṣairjananī bhaviṣyāmi, evamanabhilāpyaguṇaviśeṣaiḥ siṃhasya evaṃ yāvadrocamasya tathāgatasya jananī bhaviṣyāmi / yathā ca bhadrakalpikānāṃ tathāgatānām, evamasmin sarvāvati kusumatalagarbhavyūhālaṃkāre lokadhātusamudre sarvalokadhātuvaṃśeṣu sarvalokadhātuprasareṣu sarvalokadhātuṣu sarvajambudvīpeṣvaparāntakoṭīgatān kalpān samantabhadrāyāṃ bodhisattvacaryāyāṃ caramāṇā sarvakalpeṣu sarvasattvaparipākavinayamadhiṣṭhāya sarveṣāmanāgatānāṃ tathāgatānāṃ bodhisattvabhūtānāṃ jananī bhaviṣyāmi // evamukte sudhanaḥ śreṣṭhidārako māyādevīmetadavocat - kiyaccirapratilabdhastvayā ayamārye mahāpraṇidhānajñānamāyāgatavyūho bodhisattvavimokṣaḥ? āha - bhūtapūrvaṃ kulaputra atīte 'dhvani acintyānāṃ cittaviṣayasamatikrāntānāmabhijātabodhisattvacakṣuṣpathavijñaptānāṃ vijñānagaṇanāsamatikrāntānāṃ pareṇa śubhaprabho nāma kalpo 'bhūt / tasmin khalu punaḥ śubhaprabhe kalpe merūdgataśrīrnāma lokadhāturabhūdviśuddhasaṃkliṣṭānekaratnamayī sacakravālasumerusāgarā pañcagatipracārā citrā darśanīyā / tasyāṃ khalu merūdgataśriyāṃ lokadhātau daśa cāturdvīpikakoṭīśatānyabhūvan / teṣāṃ khalu daśānāṃ cāturdvīpikakoṭīśatānāṃ madhye siṃhadhvajāgratejo nāma madhyamā cāturdvīpikābhūt, yasyāmaśītirājadhānīkoṭīśatānyabhūvan / teṣāṃ khalu aśītīnāṃ rājadhānīkotīśatānāṃ madhye dhvajāgravatī nāma madhyamarājadhānyabhūt / tasyāṃ mahātejaḥparākramo nāma rājā abhūccakravartī / tasyāṃ khalu punardhvajāgravatyāṃ rājadhānyāṃ citramañjariprabhāso nāma bodhimaṇḍo 'bhūt / tatra netraśrīrnāma bodhimaṇḍadevatā abhūt / tasmin khalu punaścitramañjariprabhāse bodhimaṇḍe vimaladhvajo nāma bodhisattvo niṣaṇṇo 'bhūt sarvajñatādharmādhigamāya / tasya sarvajñatādharmādhigamāntarāyāya suvarṇaprabho nāma māro mahāsainyaparivāro 'ntardhitakāya upakrānto 'bhūt / sa ca mahātejaḥparākramaścakravartī bodhisattvavaśitāpratilabdho 'bhūt maharddhivikurvitaniryātaḥ / sa tato mahāsainyādvipulataramugrataraṃ ca mahāntaṃ balakāyamabhinirmāya taṃ bodhimaṇḍaṃ samantādanuparivārayāmāsa mārasainyaparājayāya / tena hi mahatī mārasenā (Gv 349) vikīrṇā / tena ca bhagavatā vimaladhvajena tathāgatena anuttarā samyaksaṃbodhirabhisaṃbuddhā / atha khalu netraśrībodhimaṇḍadevatā mahātejaḥparākramasya cakravartino 'ntike putrasaṃjñāmutpādya tasya tathāgatasya caraṇayoḥ praṇipatya praṇidhānamakārṣīt - yatra yatrāhaṃ bhagavan utpadyeyam, tatra tatraiṣa me mahātejaḥparākramaścakravartī putro bhavet / yadā caiṣo 'nuttarāṃ samyaksaṃbodhimabhisaṃbudhyeta, tadāpyahametasya jananī bhaveyam / saivaṃ praṇidhānaṃ kṛtvā tasminneva citramañjariprabhāse bodhimaṇḍe tasminneva śubhaprabhe kalpe daśa nayutāni tathāgatānāmārāgayāmāsa // tatkiṃ manyase kulaputra - anyā sā tena kālena tena samayena netraśrīrnāma bodhimaṇḍadevatā abhūt? na khalu punaste kulaputra evaṃ draṣṭavyam / ahaṃ sā tena kālena tena samayena netraśrīrnāma bodhimaṇḍadevatā abhūvam / tatkiṃ manyase kulaputra - anyaḥ sa tena kālena tena samayena mahātejaḥparākramo nāma cakravartyabhūdbodhisattvavaśitāpratilabdho maharddhikavikurvitaniryāto yena sā mahatī mārasenā vikīrṇā? na khalvevaṃ draṣṭavyam / ayaṃ sa bhagavān vairocanastathāgato 'rhan samyaksaṃbuddhaḥ tena kālena tena samayena mahātejaḥparākramo nāma rājā cakravartyabhūt / sā ahaṃ kulaputra tata upādāya yatratatropapannāḥ, sarvatra eṣa mama putratvamupāgataḥ sarvabuddhakṣetreṣu bodhisattvacaryāṃ caran sarvagatimukheṣu sarvopapattimukheṣu sarvakuśalamūlamukheṣu sarvabodhisattvacaryāvicāraparākrameṣu sarvajātakanayeṣu sarvadevendrajanmasu sarvalokendragateṣu sarveśvarabhūmiṣu sarvagatiprabhāgeṣu / yatra yatropapadyate sattvaparipākahetoḥ, sarvatra ahamevāsya jananyabhūvam / carame ca bhave 'sya ahameva sarvatrānugatā jananyabhūvam / sarvabodhisattvajanmamukheṣu kṣaṇe kṣaṇe yāvanti bodhisattvajanmavikurvitānyādarśayāmāsa, sarvatrāhamevāsya mātā abhūvam / atītānāmapi tathāgatānām, anantamadhyānāmaparimāṇānāmahaṃ jananyabhūvam / pratyutpannānāmapi daśasu dikṣu anantamadhyānāmaparimāṇānāṃ tathāgatānāmahameva jananītvaṃ pratyanubhavāmi / yāvatāṃ ca tathāgatānāmahaṃ carame bhave bodhisattvamātā abhūvam, sarveṣāṃ ca teṣāṃ tathāgatānāṃ nābhimaṇḍalebhyo raśmayo niścaritvā mahākāyamāsanaṃ cāvabhāsayāmāsuḥ / etamahaṃ kulaputra mahāpraṇidhānajñānamāyāgatavyūhaṃ bodhisattvavimokṣaṃ prajānāmi / kiṃ mayā śakyaṃ mahākaruṇāgarbhāṇāṃ bodhisattvānāṃ sarvajñatāparipākavinayāparitṛptakukṣīṇāṃ sarvatathāgatavikurvitaromamukhaniryātanidarśanavaśavartinā caryāṃ jñātuṃ guṇān vā vaktum // gaccha kulaputra, iyamihaiva tridaśendrabhavane surendrābhā nāma devakanyā smṛtimato devaputrasya duhitā / tāmupasaṃkramya paripṛccha - kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipatavyam // atha khalu sudhanaḥ śreṣṭhidārako māyāyā devyāḥ pādau śirasābhivandya māyādevīmanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya māyādevyā antikātprakrāntaḥ
Sanskrit only: no published translation is held for this verse.