। अप्रमाणानि धर्मभैषज्यानि समुदानेतव्यानि । अप्रमाणः क्लेशव्याध्यातुरः सत्त्वधातुः चिकित्सितव्यः । अप्रमाणा अमृतसंभाराः समुदानेतव्याः । अप्रमाणानि बुद्धक्षेत्राण्याक्रमितव्यानि । अप्रमाणास्तथागताः पूजयितव्याः । अप्रमाणानि बोधिसत्त्वपर्षन्मण्डलान्यवगाहयितव्यानि । अप्रमाणानि तथागतशासनानि संधारयितव्यानि । अप्रमाणानि सत्त्वद्रोहिण्यानि सोढव्यानि । अप्रमाणा अक्षणापायपथाः समुच्छेत्तव्याः । अप्रमाणानि सत्त्वसुखान्युपसंहर्तव्यानि । अप्रमाणाः सत्त्वसंग्रहाः कर्तव्याः । अप्रमाणानि धारणीमुखानि परिशोधयितव्यानि । अप्रमाणानि प्रणिधानमुखान्यभिनिर्हर्तव्यानि । अप्रमाणानि महामैत्रीमहाकरुणाबलानि परिभावयितव्यानि । अप्रमाणानि धर्मपर्येष्ट्यभियोगानि न प्रतिप्रस्रम्भयितव्यानि । अप्रमाणानि निध्यप्तिबलान्यनुसर्तव्यानि । अप्रमाणा अभिज्ञाभिनिर्हारा उत्पादयितव्याः । अप्रमाणा विद्याज्ञानालोका विशोधयितव्याः । अप्रमाणा सत्त्वगतिरनुगन्तव्या । अप्रमाणा भवोत्पत्तिः (ग्व् ३६३) परिग्रहीतव्याः । अप्रमाणा कायविभक्तिः संदर्शयितव्या । अप्रमाणा मन्त्रविभक्तिः परिज्ञातव्या । अप्रमाणाः सत्त्वचित्तविमात्रता अनुप्रवेष्टव्याः । विस्तीर्णो बोधिसत्त्वगोचरो ऽनुप्रवेष्टव्यः । विपुलं बोधिसत्त्वभवनमनुविचरितव्यम् । गम्भीरो बोधिसत्त्वविहारो व्यवलोकयितव्यः । दुरनुबोधो बोधिसत्त्वविषयो ऽनुबोद्धव्यः । दुर्गमा बोधिसत्त्वगतिर्गन्तव्या । दुरासदा बोधिसत्त्ववेगाः संधारयितव्याः । दुरवक्रामो बोधिसत्त्वनियामो ऽवक्रमितव्यः । विचित्रा बोधिसत्त्वचर्या अनुबोद्धव्या । सर्वत्रानुगतं बोधिसत्त्वविकुर्वणं संदर्शयितव्यम् । अभिसंभिन्ना बोधिसत्त्वेन धर्ममेघाः संप्रत्येष्टव्याः । अनन्तमध्यं बोधिसत्त्वचर्याजालं प्रविस्तरितव्यम् । अपर्यन्ता बोधिसत्त्वेन पारमिताः परिपूरयितव्याः । अप्रमेयाणि बोधिसत्त्वेन व्याकरणानि संप्रत्येष्टव्यानि । असंख्येयानि बोधिसत्त्वेन क्षान्तिमुखान्यवतर्तव्यानि । असंख्येया बोधिसत्त्वेन भूमयः परिशोधयितव्याः । असमन्तानि बोधिसत्त्वेन धर्ममुखानि पर्यवदापयितव्यानि । अनभिलाप्यानि बोधिसत्त्वेन बुद्धक्षेत्राणि परिशोधयितव्यानि । अपर्यन्तान् बोधिसत्त्वेन कल्पान् संनाहः संनद्धव्यः । अमाप्या बोधिसत्त्वेन तथागताः पूजयितव्याः । अचिन्त्या बोधिसत्त्वेन प्रणिधानाभिनिर्हारा अभिनिर्हर्तव्याः । संक्षिप्तेन कुलपुत्र सर्वसत्त्वसमोक्ता बोधिसत्त्वानां चर्या सत्त्वपरिपाचनतया । सर्वकल्पसमोक्ता सर्वकल्पसंवसनतया । सर्वोपपत्तिसमोक्ता सर्वत्रजन्मसंदर्शनेन । सर्वाध्वसमोक्ता त्र्यध्वज्ञानानुबोधाय । सर्वधर्मसमोक्ता तत्प्रतिपत्त्या । सर्वक्षेत्रसमोक्ता तत्परिशोधनेन । सर्वप्रणिधानसमोक्ता तत्परिपूरणतया । सर्वबुद्धसमोक्ता तत्पूजाभिनिर्हारेण । सर्वबोधिसत्त्वसमोक्ता तत्प्रणिधानैकत्वेन । सर्वकल्याणमित्रसमोक्ता बोधिसत्त्वानां चर्या तदारागणतया ॥ तस्मात्तर्हि कुलपुत्र न ते परिखेद उत्पादयितव्यः कल्याणमित्रपरिमार्गणासु । न परितृप्तिरुत्पादयितव्या कल्याणमित्रसंदर्शनेषु । न परितुष्टिरापत्तव्या कल्याणमित्रपरिपृच्छासु । नाशयो विनिवर्तयितव्यः कल्याणमित्रसंसर्गेषु । न प्रयोगः प्रतिप्रस्रम्भयितव्यः कल्याणमित्रगौरवोपस्थानेषु । न विलोमग्राहिणा भवितव्यं कल्याणमित्राववादानुशासनीषु । न संशय उत्पादयितव्यः कल्याणमित्रगुणप्रतिलाभेषु । न विचिकित्सा करणीया कल्याणमित्रनिर्याणमुखसंदर्शनेषु । न दोषोत्पादनं करणीयं कल्याणमित्रोपायसंधिलोकानुवर्तनप्रतिचारेषु । न कायचित्तविनिवर्तनं करणीयं कल्याणमित्रप्रसादविवर्धनेषु । तत्कस्य हेतोः? कल्याणमित्राधीनाः कुलपुत्र बोधिसत्त्वानां सर्वबोधिसत्त्वचर्याःश्रवाः । कल्याणमित्रप्रभवाः सर्वबोधिसत्त्वगुणपरिनिष्पत्तयः । कल्याणमित्रप्रभवाणि सर्वबोधिसत्त्वप्रणिधानस्रोतांसि । कल्याणमित्रजनितानि सर्वबोधिसत्त्वकुशलमूलानि । कल्याणमित्रोत्थापिताः सर्वबोधिसत्त्वसंभाराः । कल्याणमित्रनिर्याताः सर्वबोधिसत्त्वधर्ममुखालोकाः । कल्याणमित्रसंभूताः सर्वबोधिनिर्याणमुखविशुद्धयः । कल्याणमित्रप्रतिबद्धाः सर्वबोधिसत्त्वशिक्षाप्रतिपत्तयः । कल्याणमित्रप्रतिष्ठिताः सर्वबोधिसत्त्वगुणधर्माः । कल्याणमित्रमूलाः सर्वबोधिसत्त्वाध्याशयपरिशुद्धयः । (ग्व् ३६४) कल्याणमित्रसंजाता सर्वबोधिसत्त्वचित्तोत्पाददृढता । कल्याणमित्रनेत्रिकाः सर्वबोधिसत्त्वसमुद्रधारणीप्रतीभानमुखालोकाः । कल्याणमित्रसंधारिताः सर्वबोधिसत्त्वविशुद्धिमुखकोशाः । कल्याणमित्रसंजनिताः सर्वबोधिसत्त्वज्ञानालोकाः । कल्याणमित्रहस्तगता सर्वबोधिसत्त्वप्रणिधानवैशेषिकता । कल्याणमित्रप्रधान एकोतीभावः । कल्याणमित्रगोत्राः सर्वबोधिसत्त्वसमुदागमवैशेषिकश्रद्धाः । कल्याणमित्रकोशगतानि सर्वबोधिसत्त्वगुह्यस्थानानि । कल्याणमित्राकराः सर्वबोधिसत्त्वधर्माकराः । कल्याणमित्रविवर्धिताः सर्वबोधिसत्त्वेन्द्रियवेगाङ्कुराः । कल्याणमित्रविवर्धिताः सर्वबोधिसत्त्वज्ञानसागराः । कल्याणमित्रप्रतिपालिताः सर्वबोधिसत्त्वनिधानकोशाः । कल्याणमित्ररक्षिताः सर्वबोधिसत्त्वपुण्योपचयाः । कल्याणमित्रजनिताः सर्वबोधिसत्त्वजन्मविशुद्धयः । कल्याणमित्रमुखागताः सर्वबोधिसत्त्वधर्ममेघाः । कल्याणमित्रकोष्ठगताः सर्वबोधिसत्त्वनिर्याणपथप्रवेशाः । कल्याणमित्राराधनप्रतिलब्धा सर्वबुद्धबोधिः । कल्याणमित्रसंगृहीताः सर्वबोधिसत्त्वचर्याः । कल्याणमित्रोद्द्योतिताः सर्वबोधिसत्त्वगुणोद्भावनाः । कल्याणमित्रसंदर्शिताः सर्वबोधिसत्त्वदिगनुगमाः । कल्याणमित्रसंवर्णिता सर्वबोधिसत्त्वचित्ताध्याशयमहात्मता । कल्याणमित्रसंभूतं बोधिसत्त्वानां महामैत्रीबलम् । कल्याणमित्रसंजनितं बोधिसत्त्वानां महाकरुणाबलम् । कल्याणमित्रसंगृहीतानि सर्वबोधिसत्त्वाधिपत्यानि । कल्याणमित्रसंजनितानि सर्वबोध्यङ्गानि । कल्याणमित्रसंभवाः सर्वबोधिसत्त्वहितोपसंहाराः । कल्याणमित्रसंधारिताः कुलपुत्र बोधिसत्त्वा न पतन्ति दुर्गतिषु । कल्याणमित्रपरिगृहीता बोधिसत्त्वा न निवर्तन्ते महायानात् । कल्याणमित्रसमन्वाहृता बोधिसत्त्वा नातिक्रामन्ति बोधिसत्त्वशिक्षाम् । कल्याणमित्रस्वारक्षिता बोधिसत्त्वा न गच्छन्ति पापमित्रवशम् । कल्याणमित्रपरिपालिता बोधिसत्त्वा न परिहीयन्ते बोधिसत्त्वधर्मेभ्यः । कल्याणमित्रसंगृहीता बोधिसत्त्वा अतिक्रामन्ति पृथग्जनभूमिम् । कल्याणमित्रानुशिक्षिता बोधिसत्त्वा नावक्रामन्ति श्रावकप्रत्येकबुद्धनिपातम् । कल्याणमित्रप्रतिच्छन्ना बोधिसत्त्वा अभ्युद्गता भवन्ति लोकात् । कल्याणमित्रसंवर्धिता बोधिसत्त्वा अनुपलिप्ता भवन्ति लोकधर्मैः । कल्याणमित्रपर्युपासिता बोधिसत्त्वा असंप्रमोषचारिणो भवन्ति सर्वचर्यासु । कल्याणमित्रोत्थापिता बोधिसत्त्वा न निवर्तन्ते सर्वारम्भेभ्यः । कल्याणमित्रपरिगृहीता बोधिसत्त्वा दुर्धर्षा भवन्ति कर्मक्लेशैः । कल्याणमित्रबलोपस्तब्धा बोधिसत्त्वा अनवमर्द्या भवन्ति सर्वमारैः । कल्याणमित्रोपनिश्रयविहारिणो बोधिसत्त्वा विवर्धन्ते सर्वबोध्यङ्गैः । तत्कस्य हेतोः? विशोधकानि कुलपुत्र कल्याणमित्राण्यावरणीयानां विनिवर्तकानि । कल्याणमित्राण्यपायेभ्यः संबोधनानि । कल्याणमित्राण्यकरणीयानां संनिवारकानि प्रमादस्थानेभ्यः । विधमितारो ऽविद्यान्धकारस्य । निर्दारयितारो दृष्टिबन्धनानाम् । निष्क्रामयितारः संसारात् । उत्खाटयितारो लोकनिकेतात् । निर्मोचयितारो मारपशेभ्यः । समाबृंहयितारो दुःशल्यानाम् । परिमोचयितारः अज्ञानगहनात् । समतिक्रामयितारो दृष्टिकान्तारात् । उत्तारयितारो भवौघेभ्यः । उद्धर्तारः कामपङ्कात् । विनिवर्तयितारः (ग्व् ३६५) कुमार्गात् । संदर्शयितारो बोधिसत्त्वमार्गस्य । नियोजयितारो बोधिसत्त्वसमादानेन । प्रतिष्ठापयितारः प्रतिपत्तिषु । प्रणेतारः सर्वज्ञतागमनदिशम् । विशोधयितारः प्रज्ञाचक्षुषः । विवर्धयितारो बोधिचित्तस्य । संजनयितारो महाकरुणायाः । आख्यातारः चर्यायाः । अववादितारः पारमितासु । प्रतियापयितारः भूमिषु । विभजितारः क्षान्तीनाम् । संभावयितारः सर्वकुशलमूलानाम् । उत्थापयितारः सर्वसंभाराणाम् । दातारः सर्वबोधिसत्त्वगुणानाम् । संप्रापयितारः सर्वबुद्धपादमूलेषु । संदर्शयितारः सर्वगुणेषु । समादापयितारः अर्थेषु । समुत्तेजयितारः प्रतिपत्तिषु । निदर्शयितारो निर्याणमुखानाम् । आरक्षितारः प्रणाशपथेभ्यः । अवभासयितारो धर्मालोकमुखानाम् । अभिप्रवर्षयितारो धर्मश्रवणमेघानाम् । नाशयितारः सर्वक्लेशानाम् । विनिवर्तयितारः सर्वदृष्टिकृतानाम् । निवेशयितारः सर्वबुद्धधर्मेषु ॥ अपि च कुलपुत्र मातृभूतानि कल्याणमित्राणि बुद्धकुलेषु जनयित्रीणि । पितृभूतानि कल्याणमित्राणि विपुलहितोपसंहरणतया । धात्रीभूतानि कल्याणमित्राणि सर्वपापारक्षणतया । आचार्यभूतानि कल्याणमित्राणि बोधिसत्त्वशिक्षानुबोधनतया । दैशिकभूतानि कल्याणमित्राणि पारमितामार्गावतरणतया । वैद्यभूतानि कल्याणमित्राणि क्लेशव्याधिपरिमोचनतया । हिमवत्पर्वतभूतानि कल्याणमित्राणि ज्ञानौषधिविवर्धनतया । शूरभूतानि कल्याणमित्राणि सर्वभयारक्षणतया । दाशभूतानि कल्याणमित्राणि संभारमहौघोत्तरणतया । कर्णधारभूतानि कल्याणमित्राणि सर्वज्ञज्ञानरत्नद्वीपसंप्रापणतया ॥ तस्मात्तर्हि कुलपुत्र एवं मनसिकारात् प्रतिप्रस्रब्धेन कल्याणमित्राण्युपसंक्रमितव्यानि पृथिवीसमचित्तेन सर्वभारवहनापरिणमनतया । वज्रसमचित्तेनाभेद्याशयतया । चक्रवालसमचित्तेन सर्वदुःखासंप्रवेधनतया । समचित्तेन यथेष्टाज्ञाकरणतया । शिष्यसमचित्तेन सर्वाज्ञाविलोमनतया । लोकदाससमचित्तेन सर्वकर्मसमादानाविजुगुप्सनतया । धात्रीसमचित्तेन सर्वक्लेशापरितमनतया । भृत्यसमचित्तेन किंकरणीप्रदक्षिणग्राहतया । रजोपहरणसमचित्तेन मानातिमानविवर्जनतया । पूर्णचन्द्रसमचित्तेन कालाकालानामावमनतया । आजानेयाश्वसमचित्तेन सर्वखटुकताविवर्जनतया । यानसमचित्तेन गुरुभारवहनतया । नागसमचित्तेन दान्ताजानेयचित्ततया । शैलसमचित्तेन अचलाकम्प्यतया । श्वसमचित्तेन अक्रोधनतया । चण्डालकुमारकसमचित्तेन निर्माननिरहंकारतया । छिन्नविषाणर्षभसमचित्तेन सर्वदर्पविगतेन । अन्तेवासिसमचित्तेनानतिमानतया । नौसमचित्तेन गमनागमनापरिखिन्नतया । सेतुसंक्रमचित्तेन कल्याणमित्राज्ञोत्तरणतया । सुपुत्रसमचित्तेन कल्याणमित्रमुखोदीक्षणतया । राजकुमारसमचित्तेन धर्मराजाज्ञाप्रतिवहनतया ॥ आत्मनि च ते कुलपुत्र आतुरसंज्ञोत्पादयितव्या, कल्याणमित्रेषु वैद्यसंज्ञा, अनुशासनीषु भैषज्यसंज्ञा, प्रतिपत्तिषु व्याधिनिर्घातनसंज्ञा । आत्मनि च ते कुलपुत्र अध्वगतसंज्ञोत्पादयितव्या, कल्याणमित्रेषु दैशिकसंज्ञोत्पादयितव्या, अनुशासनीषु मार्गसंज्ञा, प्रतिपत्तिषु (ग्व् ३६६) क्षेत्रदिग्गमनसंज्ञोत्पादयितव्या । आत्मनि च ते कुलपुत्र पारगसंज्ञोत्पादयितव्या, कल्याणमित्रेषु नाविकसंज्ञा, अनुशासनीषु तीर्थसंज्ञा, प्रतिपत्तिषु नौसंज्ञोत्पादयितव्या । आत्मनि च ते कुलपुत्र कर्षकसंज्ञोत्पादयितव्या, कल्याणमित्रेषु भुजगेन्द्रसंज्ञा, अनुशासनीषु वर्षसंज्ञा, प्रतिपत्तिषु शस्यनिष्पत्तिसंज्ञोत्पादयितव्या । आत्मनि च ते कुलपुत्र दरिद्रसंज्ञोत्पादयितव्या, कल्याणमित्रेषु वैश्रवणसंज्ञा, अनुशासनीषु धनसंज्ञा, प्रतिपत्तिषु दारिद्र्यापनयनसंज्ञोत्पादयितव्या । आत्मनि च ते कुलपुत्र अन्तेवासिकसंज्ञोत्पादयितव्या, कल्याणमित्रेष्वाचार्यसंज्ञा, अनुशासनीषु शिल्पसंज्ञा, प्रतिपत्तिष्वधिगमनसंज्ञोत्पादयितव्या । आत्मनि च ते कुलपुत्र अभीरुसंज्ञोत्पादयितव्या, कल्याणमित्रेषु शूरसंज्ञा, अनुशासनीषु प्रहरणसंज्ञा, प्रतिपत्तिषु शत्रुनिर्घातनसंज्ञोत्पादयितव्या । आत्मनि च ते कुलपुत्र वणिक्संज्ञोत्पादयितव्या, कल्याणमित्रेषु कर्णधारसंज्ञा, अनुशासनीषु रत्नसंज्ञा, प्रतिपत्तिषु रत्नग्रहणसंज्ञोत्पादयितव्या । आत्मनि च ते कुलपुत्र सत्पुत्रसंज्ञोत्पादयितव्या, कल्याणमित्रेषु मातापितृसंज्ञा, अनुशासनीषु कुलवृत्तिसंज्ञा, प्रतिपत्तिषु वृत्त्यविप्रणाशसंज्ञोत्पादयितव्या । आत्मनि च ते कुलपुत्र राजकुमारसंज्ञोत्पादयितव्या, कल्याणमित्रेषु धर्मराजाग्रामात्यसंज्ञा, अनुशासनीषु राजशिक्षा, प्रतिपत्तिषु ज्ञानराजमकुटालंकारधर्मपट्टशिरोबन्धनधर्मराजनगरव्यवलोकनसंज्ञोत्पादयितव्या । एवं चित्तसंज्ञामनसिकारपरिभावितेन कुलपुत्र कल्याणमित्राण्युपसंक्रमितव्यानि । तत्कस्य हेतोः? एवं कल्याणमित्राध्याशयपरिशुद्धा हि कुलपुत्र बोधिसत्त्वाः कल्याणमित्राज्ञासु प्रतिपद्यमाना विवर्धन्ते सर्वकुशलमूलैः हिमवत्संनिश्रिता इव तृणगुल्मौषधिवनस्पतयः । भाजनीभवन्ति सर्वबुद्धधर्माणां महासागर इव जलस्य । आकरीभवन्ति सर्वगुणानां महासमुद्र इव रत्नानाम् । उत्तापयन्ति बोधिचित्तं सुवर्णमिवाग्निसंतापे । अभ्युद्गता भवन्ति लोकात्, सुमेरुरिव सागरात् । अनुपलिप्ता भवन्ति लोकधर्मैः, पद्ममिव जलेन् । संवसन्ति सर्वदुश्चरितैः, महासागर इव पूतिकुणपेन । विवर्धन्ते शुक्लधर्मैः, चन्द्र इव शुक्लपक्षे । अवभासयन्ति धर्मधातुं सूर्य इव जम्बुद्वीपम् । प्रवर्धयन्ति बोधिसत्त्वप्रणिधानशरीराणि कुमारका इव मातृपितृनिश्रिताः । संक्षिप्तेन कुलपुत्र कल्याणमित्रानुशासनीषु प्रतिपन्ना बोधिसत्त्वा दशानभिलाप्यगुणकोटीनियुतशतसहस्राणि प्रतिगृह्णन्ति । दशाध्याशयकोटीनियुतशतसहस्राणि परिशोधयन्ति । दश बोधिसत्त्वेन्द्रियकोटीनियुतशतसहस्राणि विवर्धयन्ति । दशाधिष्ठानकोटीनियुतशतसहस्राणि विशोधयन्ति । चरणीयधर्मासंख्येयशतसहस्राणि परिशोधयन्ति । दश मारासंख्येयशतसहस्राणि समतिक्रामन्ति । दश धर्ममुखद्वारासंख्येयशतसहस्राणि प्रतिवसन्ति । दशसंभारविशुद्धिमुखासंख्येयकोटीनियुतशतसहस्राणि परिपूरयन्ति । दश चर्यासंख्येयशतसहस्राणि परिपूरयन्ति । दश चर्यासंख्येयशतसहस्राणि पर्यवदापयन्ति । दश महाप्रणिधानासंख्येयशतसहस्राण्यभिनिर्हरन्ति । संक्षिप्तेन कुलपुत्र सर्वबोधिसत्त्वचर्याः सर्वबोधिसत्त्वपारमिताः सर्वबोधिसत्त्वभूमयः सर्वबोधिसत्त्वसमाधिमुखानि सर्वबोधिसत्त्वाभिज्ञाज्ञानविकुर्वितानि सर्वबोधिसत्त्वधारणीप्रतिभानालोकाः, (ग्व् ३६७) सर्वबोधिसत्त्वपरिणमनाज्ञानाभिज्ञाप्रमाणताः, सर्वबोधिसत्त्वप्रणिधानाभिनिर्हाराः, सर्वबुद्धधर्मप्रतिलम्भपरिनिष्पत्तयः कल्याणमित्राधीनाः कल्याणमित्रमूलाः कल्याणमित्रप्रभवाः कल्याणमित्रयोनिकाः कल्याणमित्रायद्वाराः कल्याणमित्रसंजाताः कल्याणमित्रसंवर्धिताः कल्याणमित्रप्रतिष्ठानाः कल्याणमित्रहेतुकाः कल्याणमित्रप्रभूताः ॥ अथ खलु सुधनः श्रेष्ठिदारकः इमामेवंरूपां कल्याणमित्रागुणवर्णानुशासनीं बोधिसत्त्वचर्याप्रमाणतां बुद्धधर्मविस्तीर्णतां च श्रुत्वा तुष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातः श्रीसंभवस्य दारकस्य श्रीमत्याश्च दारिकायाः पादौ शिरसाभिवन्द्य श्रीसंभवं दारकं श्रीमतीं दारिकां च अनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनः पुनरवलोक्य श्रीसंभवस्य दारकस्य श्रीमत्याश्च दारिकाया अन्तिकात्प्रक्रान्तः ॥ ५१ ॥
/ apramāṇāni dharmabhaiṣajyāni samudānetavyāni / apramāṇaḥ kleśavyādhyāturaḥ sattvadhātuḥ cikitsitavyaḥ / apramāṇā amṛtasaṃbhārāḥ samudānetavyāḥ / apramāṇāni buddhakṣetrāṇyākramitavyāni / apramāṇāstathāgatāḥ pūjayitavyāḥ / apramāṇāni bodhisattvaparṣanmaṇḍalānyavagāhayitavyāni / apramāṇāni tathāgataśāsanāni saṃdhārayitavyāni / apramāṇāni sattvadrohiṇyāni soḍhavyāni / apramāṇā akṣaṇāpāyapathāḥ samucchettavyāḥ / apramāṇāni sattvasukhānyupasaṃhartavyāni / apramāṇāḥ sattvasaṃgrahāḥ kartavyāḥ / apramāṇāni dhāraṇīmukhāni pariśodhayitavyāni / apramāṇāni praṇidhānamukhānyabhinirhartavyāni / apramāṇāni mahāmaitrīmahākaruṇābalāni paribhāvayitavyāni / apramāṇāni dharmaparyeṣṭyabhiyogāni na pratiprasrambhayitavyāni / apramāṇāni nidhyaptibalānyanusartavyāni / apramāṇā abhijñābhinirhārā utpādayitavyāḥ / apramāṇā vidyājñānālokā viśodhayitavyāḥ / apramāṇā sattvagatiranugantavyā / apramāṇā bhavotpattiḥ (Gv 363) parigrahītavyāḥ / apramāṇā kāyavibhaktiḥ saṃdarśayitavyā / apramāṇā mantravibhaktiḥ parijñātavyā / apramāṇāḥ sattvacittavimātratā anupraveṣṭavyāḥ / vistīrṇo bodhisattvagocaro 'nupraveṣṭavyaḥ / vipulaṃ bodhisattvabhavanamanuvicaritavyam / gambhīro bodhisattvavihāro vyavalokayitavyaḥ / duranubodho bodhisattvaviṣayo 'nuboddhavyaḥ / durgamā bodhisattvagatirgantavyā / durāsadā bodhisattvavegāḥ saṃdhārayitavyāḥ / duravakrāmo bodhisattvaniyāmo 'vakramitavyaḥ / vicitrā bodhisattvacaryā anuboddhavyā / sarvatrānugataṃ bodhisattvavikurvaṇaṃ saṃdarśayitavyam / abhisaṃbhinnā bodhisattvena dharmameghāḥ saṃpratyeṣṭavyāḥ / anantamadhyaṃ bodhisattvacaryājālaṃ pravistaritavyam / aparyantā bodhisattvena pāramitāḥ paripūrayitavyāḥ / aprameyāṇi bodhisattvena vyākaraṇāni saṃpratyeṣṭavyāni / asaṃkhyeyāni bodhisattvena kṣāntimukhānyavatartavyāni / asaṃkhyeyā bodhisattvena bhūmayaḥ pariśodhayitavyāḥ / asamantāni bodhisattvena dharmamukhāni paryavadāpayitavyāni / anabhilāpyāni bodhisattvena buddhakṣetrāṇi pariśodhayitavyāni / aparyantān bodhisattvena kalpān saṃnāhaḥ saṃnaddhavyaḥ / amāpyā bodhisattvena tathāgatāḥ pūjayitavyāḥ / acintyā bodhisattvena praṇidhānābhinirhārā abhinirhartavyāḥ / saṃkṣiptena kulaputra sarvasattvasamoktā bodhisattvānāṃ caryā sattvaparipācanatayā / sarvakalpasamoktā sarvakalpasaṃvasanatayā / sarvopapattisamoktā sarvatrajanmasaṃdarśanena / sarvādhvasamoktā tryadhvajñānānubodhāya / sarvadharmasamoktā tatpratipattyā / sarvakṣetrasamoktā tatpariśodhanena / sarvapraṇidhānasamoktā tatparipūraṇatayā / sarvabuddhasamoktā tatpūjābhinirhāreṇa / sarvabodhisattvasamoktā tatpraṇidhānaikatvena / sarvakalyāṇamitrasamoktā bodhisattvānāṃ caryā tadārāgaṇatayā // tasmāttarhi kulaputra na te parikheda utpādayitavyaḥ kalyāṇamitraparimārgaṇāsu / na paritṛptirutpādayitavyā kalyāṇamitrasaṃdarśaneṣu / na parituṣṭirāpattavyā kalyāṇamitraparipṛcchāsu / nāśayo vinivartayitavyaḥ kalyāṇamitrasaṃsargeṣu / na prayogaḥ pratiprasrambhayitavyaḥ kalyāṇamitragauravopasthāneṣu / na vilomagrāhiṇā bhavitavyaṃ kalyāṇamitrāvavādānuśāsanīṣu / na saṃśaya utpādayitavyaḥ kalyāṇamitraguṇapratilābheṣu / na vicikitsā karaṇīyā kalyāṇamitraniryāṇamukhasaṃdarśaneṣu / na doṣotpādanaṃ karaṇīyaṃ kalyāṇamitropāyasaṃdhilokānuvartanapraticāreṣu / na kāyacittavinivartanaṃ karaṇīyaṃ kalyāṇamitraprasādavivardhaneṣu / tatkasya hetoḥ? kalyāṇamitrādhīnāḥ kulaputra bodhisattvānāṃ sarvabodhisattvacaryāḥśravāḥ / kalyāṇamitraprabhavāḥ sarvabodhisattvaguṇapariniṣpattayaḥ / kalyāṇamitraprabhavāṇi sarvabodhisattvapraṇidhānasrotāṃsi / kalyāṇamitrajanitāni sarvabodhisattvakuśalamūlāni / kalyāṇamitrotthāpitāḥ sarvabodhisattvasaṃbhārāḥ / kalyāṇamitraniryātāḥ sarvabodhisattvadharmamukhālokāḥ / kalyāṇamitrasaṃbhūtāḥ sarvabodhiniryāṇamukhaviśuddhayaḥ / kalyāṇamitrapratibaddhāḥ sarvabodhisattvaśikṣāpratipattayaḥ / kalyāṇamitrapratiṣṭhitāḥ sarvabodhisattvaguṇadharmāḥ / kalyāṇamitramūlāḥ sarvabodhisattvādhyāśayapariśuddhayaḥ / (Gv 364) kalyāṇamitrasaṃjātā sarvabodhisattvacittotpādadṛḍhatā / kalyāṇamitranetrikāḥ sarvabodhisattvasamudradhāraṇīpratībhānamukhālokāḥ / kalyāṇamitrasaṃdhāritāḥ sarvabodhisattvaviśuddhimukhakośāḥ / kalyāṇamitrasaṃjanitāḥ sarvabodhisattvajñānālokāḥ / kalyāṇamitrahastagatā sarvabodhisattvapraṇidhānavaiśeṣikatā / kalyāṇamitrapradhāna ekotībhāvaḥ / kalyāṇamitragotrāḥ sarvabodhisattvasamudāgamavaiśeṣikaśraddhāḥ / kalyāṇamitrakośagatāni sarvabodhisattvaguhyasthānāni / kalyāṇamitrākarāḥ sarvabodhisattvadharmākarāḥ / kalyāṇamitravivardhitāḥ sarvabodhisattvendriyavegāṅkurāḥ / kalyāṇamitravivardhitāḥ sarvabodhisattvajñānasāgarāḥ / kalyāṇamitrapratipālitāḥ sarvabodhisattvanidhānakośāḥ / kalyāṇamitrarakṣitāḥ sarvabodhisattvapuṇyopacayāḥ / kalyāṇamitrajanitāḥ sarvabodhisattvajanmaviśuddhayaḥ / kalyāṇamitramukhāgatāḥ sarvabodhisattvadharmameghāḥ / kalyāṇamitrakoṣṭhagatāḥ sarvabodhisattvaniryāṇapathapraveśāḥ / kalyāṇamitrārādhanapratilabdhā sarvabuddhabodhiḥ / kalyāṇamitrasaṃgṛhītāḥ sarvabodhisattvacaryāḥ / kalyāṇamitroddyotitāḥ sarvabodhisattvaguṇodbhāvanāḥ / kalyāṇamitrasaṃdarśitāḥ sarvabodhisattvadiganugamāḥ / kalyāṇamitrasaṃvarṇitā sarvabodhisattvacittādhyāśayamahātmatā / kalyāṇamitrasaṃbhūtaṃ bodhisattvānāṃ mahāmaitrībalam / kalyāṇamitrasaṃjanitaṃ bodhisattvānāṃ mahākaruṇābalam / kalyāṇamitrasaṃgṛhītāni sarvabodhisattvādhipatyāni / kalyāṇamitrasaṃjanitāni sarvabodhyaṅgāni / kalyāṇamitrasaṃbhavāḥ sarvabodhisattvahitopasaṃhārāḥ / kalyāṇamitrasaṃdhāritāḥ kulaputra bodhisattvā na patanti durgatiṣu / kalyāṇamitraparigṛhītā bodhisattvā na nivartante mahāyānāt / kalyāṇamitrasamanvāhṛtā bodhisattvā nātikrāmanti bodhisattvaśikṣām / kalyāṇamitrasvārakṣitā bodhisattvā na gacchanti pāpamitravaśam / kalyāṇamitraparipālitā bodhisattvā na parihīyante bodhisattvadharmebhyaḥ / kalyāṇamitrasaṃgṛhītā bodhisattvā atikrāmanti pṛthagjanabhūmim / kalyāṇamitrānuśikṣitā bodhisattvā nāvakrāmanti śrāvakapratyekabuddhanipātam / kalyāṇamitrapraticchannā bodhisattvā abhyudgatā bhavanti lokāt / kalyāṇamitrasaṃvardhitā bodhisattvā anupaliptā bhavanti lokadharmaiḥ / kalyāṇamitraparyupāsitā bodhisattvā asaṃpramoṣacāriṇo bhavanti sarvacaryāsu / kalyāṇamitrotthāpitā bodhisattvā na nivartante sarvārambhebhyaḥ / kalyāṇamitraparigṛhītā bodhisattvā durdharṣā bhavanti karmakleśaiḥ / kalyāṇamitrabalopastabdhā bodhisattvā anavamardyā bhavanti sarvamāraiḥ / kalyāṇamitropaniśrayavihāriṇo bodhisattvā vivardhante sarvabodhyaṅgaiḥ / tatkasya hetoḥ? viśodhakāni kulaputra kalyāṇamitrāṇyāvaraṇīyānāṃ vinivartakāni / kalyāṇamitrāṇyapāyebhyaḥ saṃbodhanāni / kalyāṇamitrāṇyakaraṇīyānāṃ saṃnivārakāni pramādasthānebhyaḥ / vidhamitāro 'vidyāndhakārasya / nirdārayitāro dṛṣṭibandhanānām / niṣkrāmayitāraḥ saṃsārāt / utkhāṭayitāro lokaniketāt / nirmocayitāro mārapaśebhyaḥ / samābṛṃhayitāro duḥśalyānām / parimocayitāraḥ ajñānagahanāt / samatikrāmayitāro dṛṣṭikāntārāt / uttārayitāro bhavaughebhyaḥ / uddhartāraḥ kāmapaṅkāt / vinivartayitāraḥ (Gv 365) kumārgāt / saṃdarśayitāro bodhisattvamārgasya / niyojayitāro bodhisattvasamādānena / pratiṣṭhāpayitāraḥ pratipattiṣu / praṇetāraḥ sarvajñatāgamanadiśam / viśodhayitāraḥ prajñācakṣuṣaḥ / vivardhayitāro bodhicittasya / saṃjanayitāro mahākaruṇāyāḥ / ākhyātāraḥ caryāyāḥ / avavāditāraḥ pāramitāsu / pratiyāpayitāraḥ bhūmiṣu / vibhajitāraḥ kṣāntīnām / saṃbhāvayitāraḥ sarvakuśalamūlānām / utthāpayitāraḥ sarvasaṃbhārāṇām / dātāraḥ sarvabodhisattvaguṇānām / saṃprāpayitāraḥ sarvabuddhapādamūleṣu / saṃdarśayitāraḥ sarvaguṇeṣu / samādāpayitāraḥ artheṣu / samuttejayitāraḥ pratipattiṣu / nidarśayitāro niryāṇamukhānām / ārakṣitāraḥ praṇāśapathebhyaḥ / avabhāsayitāro dharmālokamukhānām / abhipravarṣayitāro dharmaśravaṇameghānām / nāśayitāraḥ sarvakleśānām / vinivartayitāraḥ sarvadṛṣṭikṛtānām / niveśayitāraḥ sarvabuddhadharmeṣu // api ca kulaputra mātṛbhūtāni kalyāṇamitrāṇi buddhakuleṣu janayitrīṇi / pitṛbhūtāni kalyāṇamitrāṇi vipulahitopasaṃharaṇatayā / dhātrībhūtāni kalyāṇamitrāṇi sarvapāpārakṣaṇatayā / ācāryabhūtāni kalyāṇamitrāṇi bodhisattvaśikṣānubodhanatayā / daiśikabhūtāni kalyāṇamitrāṇi pāramitāmārgāvataraṇatayā / vaidyabhūtāni kalyāṇamitrāṇi kleśavyādhiparimocanatayā / himavatparvatabhūtāni kalyāṇamitrāṇi jñānauṣadhivivardhanatayā / śūrabhūtāni kalyāṇamitrāṇi sarvabhayārakṣaṇatayā / dāśabhūtāni kalyāṇamitrāṇi saṃbhāramahaughottaraṇatayā / karṇadhārabhūtāni kalyāṇamitrāṇi sarvajñajñānaratnadvīpasaṃprāpaṇatayā // tasmāttarhi kulaputra evaṃ manasikārāt pratiprasrabdhena kalyāṇamitrāṇyupasaṃkramitavyāni pṛthivīsamacittena sarvabhāravahanāpariṇamanatayā / vajrasamacittenābhedyāśayatayā / cakravālasamacittena sarvaduḥkhāsaṃpravedhanatayā / samacittena yatheṣṭājñākaraṇatayā / śiṣyasamacittena sarvājñāvilomanatayā / lokadāsasamacittena sarvakarmasamādānāvijugupsanatayā / dhātrīsamacittena sarvakleśāparitamanatayā / bhṛtyasamacittena kiṃkaraṇīpradakṣiṇagrāhatayā / rajopaharaṇasamacittena mānātimānavivarjanatayā / pūrṇacandrasamacittena kālākālānāmāvamanatayā / ājāneyāśvasamacittena sarvakhaṭukatāvivarjanatayā / yānasamacittena gurubhāravahanatayā / nāgasamacittena dāntājāneyacittatayā / śailasamacittena acalākampyatayā / śvasamacittena akrodhanatayā / caṇḍālakumārakasamacittena nirmānanirahaṃkāratayā / chinnaviṣāṇarṣabhasamacittena sarvadarpavigatena / antevāsisamacittenānatimānatayā / nausamacittena gamanāgamanāparikhinnatayā / setusaṃkramacittena kalyāṇamitrājñottaraṇatayā / suputrasamacittena kalyāṇamitramukhodīkṣaṇatayā / rājakumārasamacittena dharmarājājñāprativahanatayā // ātmani ca te kulaputra āturasaṃjñotpādayitavyā, kalyāṇamitreṣu vaidyasaṃjñā, anuśāsanīṣu bhaiṣajyasaṃjñā, pratipattiṣu vyādhinirghātanasaṃjñā / ātmani ca te kulaputra adhvagatasaṃjñotpādayitavyā, kalyāṇamitreṣu daiśikasaṃjñotpādayitavyā, anuśāsanīṣu mārgasaṃjñā, pratipattiṣu (Gv 366) kṣetradiggamanasaṃjñotpādayitavyā / ātmani ca te kulaputra pāragasaṃjñotpādayitavyā, kalyāṇamitreṣu nāvikasaṃjñā, anuśāsanīṣu tīrthasaṃjñā, pratipattiṣu nausaṃjñotpādayitavyā / ātmani ca te kulaputra karṣakasaṃjñotpādayitavyā, kalyāṇamitreṣu bhujagendrasaṃjñā, anuśāsanīṣu varṣasaṃjñā, pratipattiṣu śasyaniṣpattisaṃjñotpādayitavyā / ātmani ca te kulaputra daridrasaṃjñotpādayitavyā, kalyāṇamitreṣu vaiśravaṇasaṃjñā, anuśāsanīṣu dhanasaṃjñā, pratipattiṣu dāridryāpanayanasaṃjñotpādayitavyā / ātmani ca te kulaputra antevāsikasaṃjñotpādayitavyā, kalyāṇamitreṣvācāryasaṃjñā, anuśāsanīṣu śilpasaṃjñā, pratipattiṣvadhigamanasaṃjñotpādayitavyā / ātmani ca te kulaputra abhīrusaṃjñotpādayitavyā, kalyāṇamitreṣu śūrasaṃjñā, anuśāsanīṣu praharaṇasaṃjñā, pratipattiṣu śatrunirghātanasaṃjñotpādayitavyā / ātmani ca te kulaputra vaṇiksaṃjñotpādayitavyā, kalyāṇamitreṣu karṇadhārasaṃjñā, anuśāsanīṣu ratnasaṃjñā, pratipattiṣu ratnagrahaṇasaṃjñotpādayitavyā / ātmani ca te kulaputra satputrasaṃjñotpādayitavyā, kalyāṇamitreṣu mātāpitṛsaṃjñā, anuśāsanīṣu kulavṛttisaṃjñā, pratipattiṣu vṛttyavipraṇāśasaṃjñotpādayitavyā / ātmani ca te kulaputra rājakumārasaṃjñotpādayitavyā, kalyāṇamitreṣu dharmarājāgrāmātyasaṃjñā, anuśāsanīṣu rājaśikṣā, pratipattiṣu jñānarājamakuṭālaṃkāradharmapaṭṭaśirobandhanadharmarājanagaravyavalokanasaṃjñotpādayitavyā / evaṃ cittasaṃjñāmanasikāraparibhāvitena kulaputra kalyāṇamitrāṇyupasaṃkramitavyāni / tatkasya hetoḥ? evaṃ kalyāṇamitrādhyāśayapariśuddhā hi kulaputra bodhisattvāḥ kalyāṇamitrājñāsu pratipadyamānā vivardhante sarvakuśalamūlaiḥ himavatsaṃniśritā iva tṛṇagulmauṣadhivanaspatayaḥ / bhājanībhavanti sarvabuddhadharmāṇāṃ mahāsāgara iva jalasya / ākarībhavanti sarvaguṇānāṃ mahāsamudra iva ratnānām / uttāpayanti bodhicittaṃ suvarṇamivāgnisaṃtāpe / abhyudgatā bhavanti lokāt, sumeruriva sāgarāt / anupaliptā bhavanti lokadharmaiḥ, padmamiva jalen / saṃvasanti sarvaduścaritaiḥ, mahāsāgara iva pūtikuṇapena / vivardhante śukladharmaiḥ, candra iva śuklapakṣe / avabhāsayanti dharmadhātuṃ sūrya iva jambudvīpam / pravardhayanti bodhisattvapraṇidhānaśarīrāṇi kumārakā iva mātṛpitṛniśritāḥ / saṃkṣiptena kulaputra kalyāṇamitrānuśāsanīṣu pratipannā bodhisattvā daśānabhilāpyaguṇakoṭīniyutaśatasahasrāṇi pratigṛhṇanti / daśādhyāśayakoṭīniyutaśatasahasrāṇi pariśodhayanti / daśa bodhisattvendriyakoṭīniyutaśatasahasrāṇi vivardhayanti / daśādhiṣṭhānakoṭīniyutaśatasahasrāṇi viśodhayanti / caraṇīyadharmāsaṃkhyeyaśatasahasrāṇi pariśodhayanti / daśa mārāsaṃkhyeyaśatasahasrāṇi samatikrāmanti / daśa dharmamukhadvārāsaṃkhyeyaśatasahasrāṇi prativasanti / daśasaṃbhāraviśuddhimukhāsaṃkhyeyakoṭīniyutaśatasahasrāṇi paripūrayanti / daśa caryāsaṃkhyeyaśatasahasrāṇi paripūrayanti / daśa caryāsaṃkhyeyaśatasahasrāṇi paryavadāpayanti / daśa mahāpraṇidhānāsaṃkhyeyaśatasahasrāṇyabhinirharanti / saṃkṣiptena kulaputra sarvabodhisattvacaryāḥ sarvabodhisattvapāramitāḥ sarvabodhisattvabhūmayaḥ sarvabodhisattvasamādhimukhāni sarvabodhisattvābhijñājñānavikurvitāni sarvabodhisattvadhāraṇīpratibhānālokāḥ, (Gv 367) sarvabodhisattvapariṇamanājñānābhijñāpramāṇatāḥ, sarvabodhisattvapraṇidhānābhinirhārāḥ, sarvabuddhadharmapratilambhapariniṣpattayaḥ kalyāṇamitrādhīnāḥ kalyāṇamitramūlāḥ kalyāṇamitraprabhavāḥ kalyāṇamitrayonikāḥ kalyāṇamitrāyadvārāḥ kalyāṇamitrasaṃjātāḥ kalyāṇamitrasaṃvardhitāḥ kalyāṇamitrapratiṣṭhānāḥ kalyāṇamitrahetukāḥ kalyāṇamitraprabhūtāḥ // atha khalu sudhanaḥ śreṣṭhidārakaḥ imāmevaṃrūpāṃ kalyāṇamitrāguṇavarṇānuśāsanīṃ bodhisattvacaryāpramāṇatāṃ buddhadharmavistīrṇatāṃ ca śrutvā tuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajātaḥ śrīsaṃbhavasya dārakasya śrīmatyāśca dārikāyāḥ pādau śirasābhivandya śrīsaṃbhavaṃ dārakaṃ śrīmatīṃ dārikāṃ ca anekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya śrīsaṃbhavasya dārakasya śrīmatyāśca dārikāyā antikātprakrāntaḥ // 51 //
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.