Library·Gandavyuhasutra·4·4.2

Gandavyuhasutra 4.2

Gand 4.2

अथ खलु सुधनः श्रेष्ठिदारको ऽनुपूर्वेण येन रामावरान्तो जनपदस्तेनोपजगाम । उपेत्य रामावरान्ते जनपदे विचरन् पूवकुशलमूलसंभवो दारकर्माधिष्ठानमनोभिरुचितान् भोगान् परिभुञ्जानो येन सुग्रीवः पर्वतस्तेनोपसंक्रम्य सुग्रीवं पर्वतमधिरुह्य मेघश्रियं भिक्षुमनुगवेषमाणः पूर्वां दिशं निर्ययौ । एवं दक्षिणां पश्चिमामुत्तरामुत्तरपूर्वां पूर्वदक्षिणां दक्षिणपश्चिमां पश्चिमोत्तरामपि दिशं निर्ययौ । मेघश्रियं भिक्षुमनुगवेषमाणः ऊर्ध्वतो ऽप्यवलोकयति स्म, अधस्तादपि । स सप्ताहस्यात्ययान्मेघश्रियं भिक्षुमपश्यदन्यतमस्मिन् पर्वतशिखरोत्सङ्गे चंक्रम्यमाणम् । स येन मेघश्रीर्भिक्षुस्तेनोपसंक्रम्य मेघश्रियो भिक्षोः पादौ शिरसाभिवन्द्य मेघश्रियं भिक्षुं प्रदक्षिणीकृत्य पुरतः प्राञ्जलिः स्थित्वा एतदवोचत् - यत्खलु आर्यो जानीयात् - मया अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम् । न च जाने कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम्, कथं बोधिसत्त्वचर्या प्रारब्धव्या, कथं बोधिसत्त्वचर्यायां चरितव्यम्, कथं बोधिसत्त्वचर्या परिपुरयितव्या, कथं परिशोधयितव्या, कथमवतर्तव्या, कथमभिनिर्हर्तव्या, कथमनुसर्तव्या, कथमध्यालम्बितव्या, कथं विस्तारयितव्या, कथं बोधिसत्त्वस्य परिपूर्णं भवति समन्तभद्रचर्यामण्डलम् । श्रुतं च मे आर्यो बोधिसत्त्वानामववादानुशासनीं ददातीति । तद्वदतु मे आर्यः कथं बोधिसत्त्वा निर्यान्ति अनुत्तरायां सम्यक्संबोधौ । एवमुक्ते मेघश्रीर्भिक्षुः सुधनं श्रिष्ठिदारकमेतदवोचत् - साधु साधु कुलपुत्र, यस्त्वमनुत्तरायां सम्यक्संबोधौ चित्तमुत्पाद्य बोधिसत्त्वचर्यां परिपृच्छसि । दुष्करं हि एतत् कुलपुत्र परमदुष्करं यदुत बोधिसत्त्वचर्यापरिमार्गणं बोधिसत्त्वोगोचरपरिमार्गणं बोधिसत्त्वनिर्याणविशुद्धिपरिमार्गणं बोधिसत्त्वमार्गविशुद्धिपरिमार्गणं बोधिसत्त्वचर्यावैपुल्यविशुद्धिपरिमार्गणं बोधिसत्त्वाभिज्ञानिर्हारविशुद्धिपरिमार्गणं बोधिसत्त्वविमोक्षसंदर्शनं बोधिसत्त्वलोककृपाप्रचारसंदर्शनं बोधिसत्त्वयथाशयजगदनुवर्तनं बोधिसत्त्वसंसारनिर्वाणमुखसंदर्शनं बोधिसत्त्वानां संस्कृतासंस्कृतदोषभयानुपलेपविचारपरिमार्गणम् । अहं कुलपुत्र अधिमुक्तिबलाधिपतेयतया चक्षुर्मतिश्रद्धानयनविशुद्धया अपराङ्मुखज्ञानालोकावभासेन समन्ताभिमुखावलोकनया समन्तविषयाप्रतिहतेन दर्शनेन सर्वावरणविगतेन विपश्यिना कौशल्येन समन्तचक्षुर्विषयपरिशुद्धया शरीरविशुद्ध्या सर्वदिक्स्रोतःप्रसराभिमुखप्रणतेन कयप्रणामकौशल्येन सर्वबुद्धधर्ममेघसंधारनेन च धारणीबलेन सर्वदिक्क्षेत्राभिमुखांस्तथागतान् पश्यामि । यदुत पूर्वस्यां दिशि एकं तथागतं पश्यामि । द्वावपि, दशापि, बुद्धशतमपि, बुद्धसहस्रमपि, बुद्धशतसहस्रमपि, बुद्धकोटीमपि, बुद्धकोटीशतमपि, बुद्धकोटीसहस्रमपि, बुद्धकोटिशतसहस्रमपि, बुद्धकोटीनियुतशतसहस्रमपि, यावदपरिमाणानप्रमेयानसंख्येयानचिन्त्यानतुल्यानसमन्तानसीमाप्राप्तानमाप्याननभिलाप्यानपि (ग्व् ४९) तथगतान् पश्यामि । जम्बुद्वीपपरमाणुरजःसमानपि तथागतान् पश्यामि । चातुर्द्वीपकलोकधातुपरमाणुरजःसमानपि, साहस्रद्विसाहस्रत्रिसाहस्रमहासाहस्रबुद्धक्षेत्रपरमाणुरजःसमानपि तथागतान् पश्यामि । दशबुद्धक्षेत्रपरमाणुरजःसमानपि तथागतान् पश्यामि । शतबुद्धक्षेत्रपरमाणुरजःसमानपि, बुद्धक्षेत्रसहस्रपरमाणुरजःसमानपि, बुद्धक्षेत्रशतसहस्रपरमाणुरजःसमानपि, बुद्धक्षेत्रकोटीपरमाणुरजःसमानपि, बुद्धक्षेत्रकोटीशतपरमाणुरजःसमानपि, बुद्धाक्षेत्रकोटीसहस्रपरमाणुरजःसमानपि, बुद्धक्षेत्रकोटीशतसहस्रपरमाणुरजःसमानपि, बुद्धक्षेत्रकोटीनियुतशतसहस्रपरमाणुरजःसमानपि, यावदनभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमानपि तथागतान् पश्यामि । यथ पूर्वस्यां दिशि, एवं दक्षिणायां पश्चिमायामुत्तरायामुत्तरपूर्वायां पूर्वदक्षिणायां दक्षिणपश्चिमायां पश्चिमोत्तरायामध ऊर्ध्वं दिशि एकमपि तथागतं पश्यामि । यावदनभिलाप्यानभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमानपि तथागतान् पश्यामि । एकैकस्यां दिशि अनुविलोकयन् नानावर्णांस्तथागतान् पश्यामि नानासंस्थानान् नानाविकुर्वितान् नानावृषभिताविक्रीडितान् विचित्रपर्षन्मण्डलव्यूहान् अनेकवर्णाननेकवर्णरश्मिजालावभासमुक्तान् विविधबुद्धक्षेत्रविशुद्धिभवनव्यूहान् नानविधायुःप्रमाणविशुद्धान् यथाशयजगद्विज्ञापनान् विविधाभिसंबोधिविशुद्धिमुखविकुर्वितान् बुद्धर्षभसिंहनादविनर्दितांस्तथागतान् पश्यामि । अस्या अहं कुलपुत्र समन्तमुखसर्वारम्बणविज्ञप्तिसमवसरणालोकाया बुद्धानुस्मृतेर्लाभी । किं मया शक्यं बोधिसत्त्वानामनन्तज्ञानमण्डलविशुद्धानां चर्या ज्ञातुम्, गुणान् वा वक्तुम्, ये ते समन्तावभासमण्डलबुद्धानुस्मृतिमुखप्रतिलब्धाः सर्वतथागतमण्डलसर्वबुद्धक्षेत्रभवनविशुद्धिव्यूहाभिमुखपश्यनतया । ये ते सर्वजगत्समारोपितबुद्धानुस्मृतिमुखप्रतिलब्धा यथाशयजगद्विज्ञप्तितथागतदर्शनविशुद्ध्या । ये ते दशबलसमारोपितबुद्धानुस्मृतिमुखप्रतिलब्धा दशतथागतबलाप्रमाणानुसरणतया । ये ते धर्मसमारोपितबुद्धानुस्मृतिमुखप्रतिलब्धा धर्मश्रवणाकारसर्वतथागतकायमेघावलोकनतया । ये ते दिग्विरोचनगर्भबुद्धानुस्मृतिमुखप्रतिलब्धाः सर्वदिक्समुद्रेष्वसंभिन्नबुद्धसमुद्रावतरणतया । ये ते दसदिक्प्रवेशबुद्धानुस्मृतिमुखप्रतिलब्धाः सूक्ष्मावलम्बनसर्वतथागतविकुर्वितवृषभितावतरणतया । ये ते कल्पसमारोपितबुद्धानुस्मृतिमुखप्रतिलब्धा अवरहितसर्वकल्पतथागतदर्शनविज्ञप्त्या । ये ते कालसमारोपितबुद्धानुस्मृतिमुखप्रतिलब्धाः सर्वकालतथागतकालदर्शनसंवासाविजहनतया । ये ते क्षेत्रसमारोपितबुद्धानुस्मृतिमुखप्रतिलब्धाः सर्वबुद्धक्षेत्राभ्युद्गतानभिभूतबुद्धकायदर्शनविज्ञप्त्या । ये ते त्र्यध्वसमारोपितबुद्धानुस्मृतिमुखप्रतिलब्धास्त्र्यध्वतथागतमण्डलस्वचित्ताशयसमवसरणतया । ये ते आरम्बणसमारोपितबुद्धानुस्मृतिमुखप्रतिलब्धाः सर्वारम्बणतथागतपरंपरासमुदागमदर्शनविज्ञप्त्या । ये ते शान्तसमारोपितबुद्धानुस्मृतिमुखप्रतिलब्धा एकक्षणसर्वलोकधातुषु सर्वतथागतपरिनिर्वाणविज्ञप्त्या । ये ते विगमसमारोपितबुद्धानुस्मृतिमुखप्रतिलब्धा एकदिवसे सर्वावासेषु सर्वतथागतप्रक्रमणविज्ञप्त्या । (ग्व् ५०) ये ते विपुलसमारोपितबुद्धानुस्मृतिमुखप्रतिलब्धा एकैकतथागतधर्मधातुपर्यङ्कपरिस्फुटबुद्धशरीरविज्ञप्त्या । ये ते सूक्ष्मसमारोपितबुद्धानुस्मृतिमुखप्रतिलब्धा एकवालपथेन अनभिलाप्यबुद्धोत्पादारागणावतरणतया । ये ते व्यूहसमारोपितबुद्धानुस्मृतिमुखप्रतिलब्धा एकक्षणे सर्वलोकधातुषु अभिसंबोधिविकुर्वितसंदर्शनविज्ञप्त्या । ये ते कार्य समारोपितबुद्धानुस्मृतिमुखप्रतिलब्धाः सर्वबुद्धोत्पादधर्मचक्रविकुर्वितज्ञानावभासप्रतिलाभतया । ये ते समारोपितबुद्धानुस्मृतिमुखप्रतिलब्धाः स्वचित्ताशयदर्शनसर्वतथागतप्रतिभासप्राप्त्या । ये ते कर्मसमारोपितबुद्धानुस्मृतिमुखप्रतिलब्धाः सर्वजगद्यथोपचितकर्मप्रतिबिम्बसंदर्शनतया । ये ते विकुर्वितसमारोपितबुद्धानुस्मृतिमुखप्रतिलब्धा अशेषसर्वधर्मधातुनलिनीपद्मपरिस्फुटविपुलबुद्धविकुर्वितदर्शनसमन्तदिगभिमुखविज्ञप्त्या । ये ते गगनसमारोपितबुद्धानुस्मृतिमुखप्रतिलब्धास्तथागतबिम्बमेघरचितधर्मधातुगगनालोकनतया ॥ गच्छ कुलपुत्र, अयमिहैव दक्षिणापथे सागरमुखो नाम दिक्प्रत्युद्देशः । तत्र सागरमेघो नाम भिक्षुः प्रतिवसति । तमुपसंक्रम्य परिपृच्छ, कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् । स ते कुलपुत्र कल्याणमित्रं परिदीपयिष्यति । कुशलमूलसंभारहेतुं समवतारयिष्यति । विपुलां संभारभूमिं संजनयिष्यति । विपुलं कुशलमूलवेगबलं संवर्णयिष्यति । विपुलं बोधिचित्तसंभारहेतुं जनयिष्यति । विपुलं महायानावभासहेतुमुपस्तम्भयिष्यति । विपुलं पारमितासंभारबलं प्रभावयिष्यति । विपुलं चर्यासागरावतारनयं परिशोधयिष्यति । विपुलं प्रणिधानमण्डलं विशोधयिष्यति । विपुलं समन्तमुखनिर्याणव्यूहं संवर्धयिष्यति । विपुलं महाकरुणाबलं प्रवर्धयिष्यति ॥ अथ खलु सुधनः श्रेष्ठिदारको मेघश्रियो भिक्षोः पादौ शिरसाभिवन्द्य मेघश्रियं भिक्षुमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य् अवलोक्य च मेघश्रियो भिक्षोरन्तिकात् प्रक्रान्तः

atha khalu sudhanaḥ śreṣṭhidārako 'nupūrveṇa yena rāmāvarānto janapadastenopajagāma / upetya rāmāvarānte janapade vicaran pūvakuśalamūlasaṃbhavo dārakarmādhiṣṭhānamanobhirucitān bhogān paribhuñjāno yena sugrīvaḥ parvatastenopasaṃkramya sugrīvaṃ parvatamadhiruhya meghaśriyaṃ bhikṣumanugaveṣamāṇaḥ pūrvāṃ diśaṃ niryayau / evaṃ dakṣiṇāṃ paścimāmuttarāmuttarapūrvāṃ pūrvadakṣiṇāṃ dakṣiṇapaścimāṃ paścimottarāmapi diśaṃ niryayau / meghaśriyaṃ bhikṣumanugaveṣamāṇaḥ ūrdhvato 'pyavalokayati sma, adhastādapi / sa saptāhasyātyayānmeghaśriyaṃ bhikṣumapaśyadanyatamasmin parvataśikharotsaṅge caṃkramyamāṇam / sa yena meghaśrīrbhikṣustenopasaṃkramya meghaśriyo bhikṣoḥ pādau śirasābhivandya meghaśriyaṃ bhikṣuṃ pradakṣiṇīkṛtya purataḥ prāñjaliḥ sthitvā etadavocat - yatkhalu āryo jānīyāt - mayā anuttarāyāṃ samyaksaṃbodhau cittamutpāditam / na ca jāne kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam, kathaṃ bodhisattvacaryā prārabdhavyā, kathaṃ bodhisattvacaryāyāṃ caritavyam, kathaṃ bodhisattvacaryā paripurayitavyā, kathaṃ pariśodhayitavyā, kathamavatartavyā, kathamabhinirhartavyā, kathamanusartavyā, kathamadhyālambitavyā, kathaṃ vistārayitavyā, kathaṃ bodhisattvasya paripūrṇaṃ bhavati samantabhadracaryāmaṇḍalam / śrutaṃ ca me āryo bodhisattvānāmavavādānuśāsanīṃ dadātīti / tadvadatu me āryaḥ kathaṃ bodhisattvā niryānti anuttarāyāṃ samyaksaṃbodhau / evamukte meghaśrīrbhikṣuḥ sudhanaṃ śriṣṭhidārakametadavocat - sādhu sādhu kulaputra, yastvamanuttarāyāṃ samyaksaṃbodhau cittamutpādya bodhisattvacaryāṃ paripṛcchasi / duṣkaraṃ hi etat kulaputra paramaduṣkaraṃ yaduta bodhisattvacaryāparimārgaṇaṃ bodhisattvogocaraparimārgaṇaṃ bodhisattvaniryāṇaviśuddhiparimārgaṇaṃ bodhisattvamārgaviśuddhiparimārgaṇaṃ bodhisattvacaryāvaipulyaviśuddhiparimārgaṇaṃ bodhisattvābhijñānirhāraviśuddhiparimārgaṇaṃ bodhisattvavimokṣasaṃdarśanaṃ bodhisattvalokakṛpāpracārasaṃdarśanaṃ bodhisattvayathāśayajagadanuvartanaṃ bodhisattvasaṃsāranirvāṇamukhasaṃdarśanaṃ bodhisattvānāṃ saṃskṛtāsaṃskṛtadoṣabhayānupalepavicāraparimārgaṇam / ahaṃ kulaputra adhimuktibalādhipateyatayā cakṣurmatiśraddhānayanaviśuddhayā aparāṅmukhajñānālokāvabhāsena samantābhimukhāvalokanayā samantaviṣayāpratihatena darśanena sarvāvaraṇavigatena vipaśyinā kauśalyena samantacakṣurviṣayapariśuddhayā śarīraviśuddhyā sarvadiksrotaḥprasarābhimukhapraṇatena kayapraṇāmakauśalyena sarvabuddhadharmameghasaṃdhāranena ca dhāraṇībalena sarvadikkṣetrābhimukhāṃstathāgatān paśyāmi / yaduta pūrvasyāṃ diśi ekaṃ tathāgataṃ paśyāmi / dvāvapi, daśāpi, buddhaśatamapi, buddhasahasramapi, buddhaśatasahasramapi, buddhakoṭīmapi, buddhakoṭīśatamapi, buddhakoṭīsahasramapi, buddhakoṭiśatasahasramapi, buddhakoṭīniyutaśatasahasramapi, yāvadaparimāṇānaprameyānasaṃkhyeyānacintyānatulyānasamantānasīmāprāptānamāpyānanabhilāpyānapi (Gv 49) tathagatān paśyāmi / jambudvīpaparamāṇurajaḥsamānapi tathāgatān paśyāmi / cāturdvīpakalokadhātuparamāṇurajaḥsamānapi, sāhasradvisāhasratrisāhasramahāsāhasrabuddhakṣetraparamāṇurajaḥsamānapi tathāgatān paśyāmi / daśabuddhakṣetraparamāṇurajaḥsamānapi tathāgatān paśyāmi / śatabuddhakṣetraparamāṇurajaḥsamānapi, buddhakṣetrasahasraparamāṇurajaḥsamānapi, buddhakṣetraśatasahasraparamāṇurajaḥsamānapi, buddhakṣetrakoṭīparamāṇurajaḥsamānapi, buddhakṣetrakoṭīśataparamāṇurajaḥsamānapi, buddhākṣetrakoṭīsahasraparamāṇurajaḥsamānapi, buddhakṣetrakoṭīśatasahasraparamāṇurajaḥsamānapi, buddhakṣetrakoṭīniyutaśatasahasraparamāṇurajaḥsamānapi, yāvadanabhilāpyabuddhakṣetraparamāṇurajaḥsamānapi tathāgatān paśyāmi / yatha pūrvasyāṃ diśi, evaṃ dakṣiṇāyāṃ paścimāyāmuttarāyāmuttarapūrvāyāṃ pūrvadakṣiṇāyāṃ dakṣiṇapaścimāyāṃ paścimottarāyāmadha ūrdhvaṃ diśi ekamapi tathāgataṃ paśyāmi / yāvadanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamānapi tathāgatān paśyāmi / ekaikasyāṃ diśi anuvilokayan nānāvarṇāṃstathāgatān paśyāmi nānāsaṃsthānān nānāvikurvitān nānāvṛṣabhitāvikrīḍitān vicitraparṣanmaṇḍalavyūhān anekavarṇānanekavarṇaraśmijālāvabhāsamuktān vividhabuddhakṣetraviśuddhibhavanavyūhān nānavidhāyuḥpramāṇaviśuddhān yathāśayajagadvijñāpanān vividhābhisaṃbodhiviśuddhimukhavikurvitān buddharṣabhasiṃhanādavinarditāṃstathāgatān paśyāmi / asyā ahaṃ kulaputra samantamukhasarvārambaṇavijñaptisamavasaraṇālokāyā buddhānusmṛterlābhī / kiṃ mayā śakyaṃ bodhisattvānāmanantajñānamaṇḍalaviśuddhānāṃ caryā jñātum, guṇān vā vaktum, ye te samantāvabhāsamaṇḍalabuddhānusmṛtimukhapratilabdhāḥ sarvatathāgatamaṇḍalasarvabuddhakṣetrabhavanaviśuddhivyūhābhimukhapaśyanatayā / ye te sarvajagatsamāropitabuddhānusmṛtimukhapratilabdhā yathāśayajagadvijñaptitathāgatadarśanaviśuddhyā / ye te daśabalasamāropitabuddhānusmṛtimukhapratilabdhā daśatathāgatabalāpramāṇānusaraṇatayā / ye te dharmasamāropitabuddhānusmṛtimukhapratilabdhā dharmaśravaṇākārasarvatathāgatakāyameghāvalokanatayā / ye te digvirocanagarbhabuddhānusmṛtimukhapratilabdhāḥ sarvadiksamudreṣvasaṃbhinnabuddhasamudrāvataraṇatayā / ye te dasadikpraveśabuddhānusmṛtimukhapratilabdhāḥ sūkṣmāvalambanasarvatathāgatavikurvitavṛṣabhitāvataraṇatayā / ye te kalpasamāropitabuddhānusmṛtimukhapratilabdhā avarahitasarvakalpatathāgatadarśanavijñaptyā / ye te kālasamāropitabuddhānusmṛtimukhapratilabdhāḥ sarvakālatathāgatakāladarśanasaṃvāsāvijahanatayā / ye te kṣetrasamāropitabuddhānusmṛtimukhapratilabdhāḥ sarvabuddhakṣetrābhyudgatānabhibhūtabuddhakāyadarśanavijñaptyā / ye te tryadhvasamāropitabuddhānusmṛtimukhapratilabdhāstryadhvatathāgatamaṇḍalasvacittāśayasamavasaraṇatayā / ye te ārambaṇasamāropitabuddhānusmṛtimukhapratilabdhāḥ sarvārambaṇatathāgataparaṃparāsamudāgamadarśanavijñaptyā / ye te śāntasamāropitabuddhānusmṛtimukhapratilabdhā ekakṣaṇasarvalokadhātuṣu sarvatathāgataparinirvāṇavijñaptyā / ye te vigamasamāropitabuddhānusmṛtimukhapratilabdhā ekadivase sarvāvāseṣu sarvatathāgataprakramaṇavijñaptyā / (Gv 50) ye te vipulasamāropitabuddhānusmṛtimukhapratilabdhā ekaikatathāgatadharmadhātuparyaṅkaparisphuṭabuddhaśarīravijñaptyā / ye te sūkṣmasamāropitabuddhānusmṛtimukhapratilabdhā ekavālapathena anabhilāpyabuddhotpādārāgaṇāvataraṇatayā / ye te vyūhasamāropitabuddhānusmṛtimukhapratilabdhā ekakṣaṇe sarvalokadhātuṣu abhisaṃbodhivikurvitasaṃdarśanavijñaptyā / ye te kārya samāropitabuddhānusmṛtimukhapratilabdhāḥ sarvabuddhotpādadharmacakravikurvitajñānāvabhāsapratilābhatayā / ye te samāropitabuddhānusmṛtimukhapratilabdhāḥ svacittāśayadarśanasarvatathāgatapratibhāsaprāptyā / ye te karmasamāropitabuddhānusmṛtimukhapratilabdhāḥ sarvajagadyathopacitakarmapratibimbasaṃdarśanatayā / ye te vikurvitasamāropitabuddhānusmṛtimukhapratilabdhā aśeṣasarvadharmadhātunalinīpadmaparisphuṭavipulabuddhavikurvitadarśanasamantadigabhimukhavijñaptyā / ye te gaganasamāropitabuddhānusmṛtimukhapratilabdhāstathāgatabimbamegharacitadharmadhātugaganālokanatayā // gaccha kulaputra, ayamihaiva dakṣiṇāpathe sāgaramukho nāma dikpratyuddeśaḥ / tatra sāgaramegho nāma bhikṣuḥ prativasati / tamupasaṃkramya paripṛccha, kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam / sa te kulaputra kalyāṇamitraṃ paridīpayiṣyati / kuśalamūlasaṃbhārahetuṃ samavatārayiṣyati / vipulāṃ saṃbhārabhūmiṃ saṃjanayiṣyati / vipulaṃ kuśalamūlavegabalaṃ saṃvarṇayiṣyati / vipulaṃ bodhicittasaṃbhārahetuṃ janayiṣyati / vipulaṃ mahāyānāvabhāsahetumupastambhayiṣyati / vipulaṃ pāramitāsaṃbhārabalaṃ prabhāvayiṣyati / vipulaṃ caryāsāgarāvatāranayaṃ pariśodhayiṣyati / vipulaṃ praṇidhānamaṇḍalaṃ viśodhayiṣyati / vipulaṃ samantamukhaniryāṇavyūhaṃ saṃvardhayiṣyati / vipulaṃ mahākaruṇābalaṃ pravardhayiṣyati // atha khalu sudhanaḥ śreṣṭhidārako meghaśriyo bhikṣoḥ pādau śirasābhivandya meghaśriyaṃ bhikṣumanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛty avalokya ca meghaśriyo bhikṣorantikāt prakrāntaḥ

Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.

Sanskrit only: no published translation is held for this verse.

Permanent address: hreem.cc/library/Gand/4.2

Cite as: Gandavyuhasutra 4.2, in HREEM (hreem.cc/library/Gand/4.2), after GRETIL, Gandavyuhasutra Based on the edition by P.L.

Edition, numbering and licence

GRETIL 4_rellit/buddh/bsu016_u.htm — Gandavyuhasutra Based on the edition by P.L. Vaidya. Gaṇḍavyūhasūtram, Darbhanga: The Mithila Institute, 1960 (Buddhist Sanskrit Texts No. 5). Input by members of the Sanskrit Buddhist Input Project. With kind permission of the Digital Sanskrit Buddhist Canon | NOTE: the file numbers verses only within chapters; chapter numbers were inferred from each restart at 1 — verify against a printed edition before citing formally.

GRETIL (SUB Göttingen), CC BY-NC-SA 4.0 — non-commercial use with attribution; the Companion is kept free while this corpus is held. Devanagari generated mechanically from GRETIL's IAST.

More about this text