Library·Gandavyuhasutra·4

Gandavyuhasutra 4

अथ खलु मञ्जुश्रीः कुमारभूत इमा गाथा भाषित्वा सुधनं श्रेष्ठिदारकमेतदवोचत् - साधु साधु कुलपुत्र, यस्त्वमनुत्तरायै सम्यक्संबोधये चित्तमुत्पाद्य बोधिसत्त्वचर्यां परिगवेषितव्यां मन्यसे । दुर्लभास्ते कुलपुत्र सत्त्वा ये ऽनुत्तरायै सम्यक्संबोधये चित्तमुत्पादयन्ति । अतस्ते दुर्लभतमाः सत्त्वा ये ऽनुत्तरायै सम्यक्संबोधये चित्तमुत्पाद्य बोधिसत्त्वचर्यां परिगवेषन्ते । तेन हि कुलपुत्र भूतकल्याणमित्रेषु निश्चयप्राप्तेन बोधिसत्त्वेन भवितव्यं सर्वज्ञज्ञानप्रतिलम्भाय । अपरिखिन्नमानसेन भवितव्यं कल्याणमित्रपर्येष्टिषु । अतृप्तेन भवितव्यं कल्याणमित्रदर्शनेषु । प्रदक्षिणग्राहिणा ते भवितव्यं कल्याणमित्रानुशासनीषु । अप्रतिहतेन भवितव्यं कल्याणमित्रोपायकौशल्यचरितेषु । अस्ति कुलपुत्र इहैव दक्षिणापथे रामावरान्तो नाम जनपदः । तत्र सुग्रीवो नाम पर्वतः । तत्र मेघश्रीर्नाम भिक्षुः प्रतिवसति । तमुपसंक्रम्य परिपृच्छ - कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रयोक्तव्यम् । कथं बोधिसत्त्वचर्या प्रारभ्या? कथं बोधिसत्त्वचर्यायां चरितव्यम्? कथं बोधिसत्त्वचर्या परिपूरयितव्या? कथं परिशोधयितव्या? कथमवतर्तव्या? कथमभिनिर्हर्तव्या? कथमनुसर्तव्या? कथमध्यालम्बितव्या? कथं विस्तारयितव्या? कथं बोधिसत्त्वस्य परिपूर्णं भवति समन्तभद्रचर्यामण्डलम्? स ते कुलपुत्र कल्याणमित्रः समन्तभद्रचर्यामण्डलमुपदेक्ष्यति ॥ अथ खलु सुधनः श्रेष्ठिदारकस्तुष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातो मञ्जुश्रियः कुमारभूतस्य पादौ शिरसाभिवन्द्य मञ्जुश्रियं कुमारभूतमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य अनेकशतसहस्रकृत्वो ऽवलोक्य कल्याणमित्रप्रेमानुगतचित्तः कल्याणमित्रादर्शनमसहमानो ऽश्रुमुखो रुदन् मञ्जुश्रियः कुमारभूतस्यान्तिकात्प्रक्रान्तः

atha khalu mañjuśrīḥ kumārabhūta imā gāthā bhāṣitvā sudhanaṃ śreṣṭhidārakametadavocat - sādhu sādhu kulaputra, yastvamanuttarāyai samyaksaṃbodhaye cittamutpādya bodhisattvacaryāṃ parigaveṣitavyāṃ manyase / durlabhāste kulaputra sattvā ye 'nuttarāyai samyaksaṃbodhaye cittamutpādayanti / ataste durlabhatamāḥ sattvā ye 'nuttarāyai samyaksaṃbodhaye cittamutpādya bodhisattvacaryāṃ parigaveṣante / tena hi kulaputra bhūtakalyāṇamitreṣu niścayaprāptena bodhisattvena bhavitavyaṃ sarvajñajñānapratilambhāya / aparikhinnamānasena bhavitavyaṃ kalyāṇamitraparyeṣṭiṣu / atṛptena bhavitavyaṃ kalyāṇamitradarśaneṣu / pradakṣiṇagrāhiṇā te bhavitavyaṃ kalyāṇamitrānuśāsanīṣu / apratihatena bhavitavyaṃ kalyāṇamitropāyakauśalyacariteṣu / asti kulaputra ihaiva dakṣiṇāpathe rāmāvarānto nāma janapadaḥ / tatra sugrīvo nāma parvataḥ / tatra meghaśrīrnāma bhikṣuḥ prativasati / tamupasaṃkramya paripṛccha - kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ prayoktavyam / kathaṃ bodhisattvacaryā prārabhyā? kathaṃ bodhisattvacaryāyāṃ caritavyam? kathaṃ bodhisattvacaryā paripūrayitavyā? kathaṃ pariśodhayitavyā? kathamavatartavyā? kathamabhinirhartavyā? kathamanusartavyā? kathamadhyālambitavyā? kathaṃ vistārayitavyā? kathaṃ bodhisattvasya paripūrṇaṃ bhavati samantabhadracaryāmaṇḍalam? sa te kulaputra kalyāṇamitraḥ samantabhadracaryāmaṇḍalamupadekṣyati // atha khalu sudhanaḥ śreṣṭhidārakastuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajāto mañjuśriyaḥ kumārabhūtasya pādau śirasābhivandya mañjuśriyaṃ kumārabhūtamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya anekaśatasahasrakṛtvo 'valokya kalyāṇamitrapremānugatacittaḥ kalyāṇamitrādarśanamasahamāno 'śrumukho rudan mañjuśriyaḥ kumārabhūtasyāntikātprakrāntaḥ

Sanskrit only: no published translation is held for this verse.

अथ खलु सुधनः श्रेष्ठिदारको ऽनुपूर्वेण येन रामावरान्तो जनपदस्तेनोपजगाम । उपेत्य रामावरान्ते जनपदे विचरन् पूवकुशलमूलसंभवो दारकर्माधिष्ठानमनोभिरुचितान् भोगान् परिभुञ्जानो येन सुग्रीवः पर्वतस्तेनोपसंक्रम्य सुग्रीवं पर्वतमधिरुह्य मेघश्रियं भिक्षुमनुगवेषमाणः पूर्वां दिशं निर्ययौ । एवं दक्षिणां पश्चिमामुत्तरामुत्तरपूर्वां पूर्वदक्षिणां दक्षिणपश्चिमां पश्चिमोत्तरामपि दिशं निर्ययौ । मेघश्रियं भिक्षुमनुगवेषमाणः ऊर्ध्वतो ऽप्यवलोकयति स्म, अधस्तादपि । स सप्ताहस्यात्ययान्मेघश्रियं भिक्षुमपश्यदन्यतमस्मिन् पर्वतशिखरोत्सङ्गे चंक्रम्यमाणम् । स येन मेघश्रीर्भिक्षुस्तेनोपसंक्रम्य मेघश्रियो भिक्षोः पादौ शिरसाभिवन्द्य मेघश्रियं भिक्षुं प्रदक्षिणीकृत्य पुरतः प्राञ्जलिः स्थित्वा एतदवोचत् - यत्खलु आर्यो जानीयात् - मया अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम् । न च जाने कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम्, कथं बोधिसत्त्वचर्या प्रारब्धव्या, कथं बोधिसत्त्वचर्यायां चरितव्यम्, कथं बोधिसत्त्वचर्या परिपुरयितव्या, कथं परिशोधयितव्या, कथमवतर्तव्या, कथमभिनिर्हर्तव्या, कथमनुसर्तव्या, कथमध्यालम्बितव्या, कथं विस्तारयितव्या, कथं बोधिसत्त्वस्य परिपूर्णं भवति समन्तभद्रचर्यामण्डलम् । श्रुतं च मे आर्यो बोधिसत्त्वानामववादानुशासनीं ददातीति । तद्वदतु मे आर्यः कथं बोधिसत्त्वा निर्यान्ति अनुत्तरायां सम्यक्संबोधौ । एवमुक्ते मेघश्रीर्भिक्षुः सुधनं श्रिष्ठिदारकमेतदवोचत् - साधु साधु कुलपुत्र, यस्त्वमनुत्तरायां सम्यक्संबोधौ चित्तमुत्पाद्य बोधिसत्त्वचर्यां परिपृच्छसि । दुष्करं हि एतत् कुलपुत्र परमदुष्करं यदुत बोधिसत्त्वचर्यापरिमार्गणं बोधिसत्त्वोगोचरपरिमार्गणं बोधिसत्त्वनिर्याणविशुद्धिपरिमार्गणं बोधिसत्त्वमार्गविशुद्धिपरिमार्गणं बोधिसत्त्वचर्यावैपुल्यविशुद्धिपरिमार्गणं बोधिसत्त्वाभिज्ञानिर्हारविशुद्धिपरिमार्गणं बोधिसत्त्वविमोक्षसंदर्शनं बोधिसत्त्वलोककृपाप्रचारसंदर्शनं बोधिसत्त्वयथाशयजगदनुवर्तनं बोधिसत्त्वसंसारनिर्वाणमुखसंदर्शनं बोधिसत्त्वानां संस्कृतासंस्कृतदोषभयानुपलेपविचारपरिमार्गणम् । अहं कुलपुत्र अधिमुक्तिबलाधिपतेयतया चक्षुर्मतिश्रद्धानयनविशुद्धया अपराङ्मुखज्ञानालोकावभासेन समन्ताभिमुखावलोकनया समन्तविषयाप्रतिहतेन दर्शनेन सर्वावरणविगतेन विपश्यिना कौशल्येन समन्तचक्षुर्विषयपरिशुद्धया शरीरविशुद्ध्या सर्वदिक्स्रोतःप्रसराभिमुखप्रणतेन कयप्रणामकौशल्येन सर्वबुद्धधर्ममेघसंधारनेन च धारणीबलेन सर्वदिक्क्षेत्राभिमुखांस्तथागतान् पश्यामि । यदुत पूर्वस्यां दिशि एकं तथागतं पश्यामि । द्वावपि, दशापि, बुद्धशतमपि, बुद्धसहस्रमपि, बुद्धशतसहस्रमपि, बुद्धकोटीमपि, बुद्धकोटीशतमपि, बुद्धकोटीसहस्रमपि, बुद्धकोटिशतसहस्रमपि, बुद्धकोटीनियुतशतसहस्रमपि, यावदपरिमाणानप्रमेयानसंख्येयानचिन्त्यानतुल्यानसमन्तानसीमाप्राप्तानमाप्याननभिलाप्यानपि (ग्व् ४९) तथगतान् पश्यामि । जम्बुद्वीपपरमाणुरजःसमानपि तथागतान् पश्यामि । चातुर्द्वीपकलोकधातुपरमाणुरजःसमानपि, साहस्रद्विसाहस्रत्रिसाहस्रमहासाहस्रबुद्धक्षेत्रपरमाणुरजःसमानपि तथागतान् पश्यामि । दशबुद्धक्षेत्रपरमाणुरजःसमानपि तथागतान् पश्यामि । शतबुद्धक्षेत्रपरमाणुरजःसमानपि, बुद्धक्षेत्रसहस्रपरमाणुरजःसमानपि, बुद्धक्षेत्रशतसहस्रपरमाणुरजःसमानपि, बुद्धक्षेत्रकोटीपरमाणुरजःसमानपि, बुद्धक्षेत्रकोटीशतपरमाणुरजःसमानपि, बुद्धाक्षेत्रकोटीसहस्रपरमाणुरजःसमानपि, बुद्धक्षेत्रकोटीशतसहस्रपरमाणुरजःसमानपि, बुद्धक्षेत्रकोटीनियुतशतसहस्रपरमाणुरजःसमानपि, यावदनभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमानपि तथागतान् पश्यामि । यथ पूर्वस्यां दिशि, एवं दक्षिणायां पश्चिमायामुत्तरायामुत्तरपूर्वायां पूर्वदक्षिणायां दक्षिणपश्चिमायां पश्चिमोत्तरायामध ऊर्ध्वं दिशि एकमपि तथागतं पश्यामि । यावदनभिलाप्यानभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमानपि तथागतान् पश्यामि । एकैकस्यां दिशि अनुविलोकयन् नानावर्णांस्तथागतान् पश्यामि नानासंस्थानान् नानाविकुर्वितान् नानावृषभिताविक्रीडितान् विचित्रपर्षन्मण्डलव्यूहान् अनेकवर्णाननेकवर्णरश्मिजालावभासमुक्तान् विविधबुद्धक्षेत्रविशुद्धिभवनव्यूहान् नानविधायुःप्रमाणविशुद्धान् यथाशयजगद्विज्ञापनान् विविधाभिसंबोधिविशुद्धिमुखविकुर्वितान् बुद्धर्षभसिंहनादविनर्दितांस्तथागतान् पश्यामि । अस्या अहं कुलपुत्र समन्तमुखसर्वारम्बणविज्ञप्तिसमवसरणालोकाया बुद्धानुस्मृतेर्लाभी । किं मया शक्यं बोधिसत्त्वानामनन्तज्ञानमण्डलविशुद्धानां चर्या ज्ञातुम्, गुणान् वा वक्तुम्, ये ते समन्तावभासमण्डलबुद्धानुस्मृतिमुखप्रतिलब्धाः सर्वतथागतमण्डलसर्वबुद्धक्षेत्रभवनविशुद्धिव्यूहाभिमुखपश्यनतया । ये ते सर्वजगत्समारोपितबुद्धानुस्मृतिमुखप्रतिलब्धा यथाशयजगद्विज्ञप्तितथागतदर्शनविशुद्ध्या । ये ते दशबलसमारोपितबुद्धानुस्मृतिमुखप्रतिलब्धा दशतथागतबलाप्रमाणानुसरणतया । ये ते धर्मसमारोपितबुद्धानुस्मृतिमुखप्रतिलब्धा धर्मश्रवणाकारसर्वतथागतकायमेघावलोकनतया । ये ते दिग्विरोचनगर्भबुद्धानुस्मृतिमुखप्रतिलब्धाः सर्वदिक्समुद्रेष्वसंभिन्नबुद्धसमुद्रावतरणतया । ये ते दसदिक्प्रवेशबुद्धानुस्मृतिमुखप्रतिलब्धाः सूक्ष्मावलम्बनसर्वतथागतविकुर्वितवृषभितावतरणतया । ये ते कल्पसमारोपितबुद्धानुस्मृतिमुखप्रतिलब्धा अवरहितसर्वकल्पतथागतदर्शनविज्ञप्त्या । ये ते कालसमारोपितबुद्धानुस्मृतिमुखप्रतिलब्धाः सर्वकालतथागतकालदर्शनसंवासाविजहनतया । ये ते क्षेत्रसमारोपितबुद्धानुस्मृतिमुखप्रतिलब्धाः सर्वबुद्धक्षेत्राभ्युद्गतानभिभूतबुद्धकायदर्शनविज्ञप्त्या । ये ते त्र्यध्वसमारोपितबुद्धानुस्मृतिमुखप्रतिलब्धास्त्र्यध्वतथागतमण्डलस्वचित्ताशयसमवसरणतया । ये ते आरम्बणसमारोपितबुद्धानुस्मृतिमुखप्रतिलब्धाः सर्वारम्बणतथागतपरंपरासमुदागमदर्शनविज्ञप्त्या । ये ते शान्तसमारोपितबुद्धानुस्मृतिमुखप्रतिलब्धा एकक्षणसर्वलोकधातुषु सर्वतथागतपरिनिर्वाणविज्ञप्त्या । ये ते विगमसमारोपितबुद्धानुस्मृतिमुखप्रतिलब्धा एकदिवसे सर्वावासेषु सर्वतथागतप्रक्रमणविज्ञप्त्या । (ग्व् ५०) ये ते विपुलसमारोपितबुद्धानुस्मृतिमुखप्रतिलब्धा एकैकतथागतधर्मधातुपर्यङ्कपरिस्फुटबुद्धशरीरविज्ञप्त्या । ये ते सूक्ष्मसमारोपितबुद्धानुस्मृतिमुखप्रतिलब्धा एकवालपथेन अनभिलाप्यबुद्धोत्पादारागणावतरणतया । ये ते व्यूहसमारोपितबुद्धानुस्मृतिमुखप्रतिलब्धा एकक्षणे सर्वलोकधातुषु अभिसंबोधिविकुर्वितसंदर्शनविज्ञप्त्या । ये ते कार्य समारोपितबुद्धानुस्मृतिमुखप्रतिलब्धाः सर्वबुद्धोत्पादधर्मचक्रविकुर्वितज्ञानावभासप्रतिलाभतया । ये ते समारोपितबुद्धानुस्मृतिमुखप्रतिलब्धाः स्वचित्ताशयदर्शनसर्वतथागतप्रतिभासप्राप्त्या । ये ते कर्मसमारोपितबुद्धानुस्मृतिमुखप्रतिलब्धाः सर्वजगद्यथोपचितकर्मप्रतिबिम्बसंदर्शनतया । ये ते विकुर्वितसमारोपितबुद्धानुस्मृतिमुखप्रतिलब्धा अशेषसर्वधर्मधातुनलिनीपद्मपरिस्फुटविपुलबुद्धविकुर्वितदर्शनसमन्तदिगभिमुखविज्ञप्त्या । ये ते गगनसमारोपितबुद्धानुस्मृतिमुखप्रतिलब्धास्तथागतबिम्बमेघरचितधर्मधातुगगनालोकनतया ॥ गच्छ कुलपुत्र, अयमिहैव दक्षिणापथे सागरमुखो नाम दिक्प्रत्युद्देशः । तत्र सागरमेघो नाम भिक्षुः प्रतिवसति । तमुपसंक्रम्य परिपृच्छ, कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् । स ते कुलपुत्र कल्याणमित्रं परिदीपयिष्यति । कुशलमूलसंभारहेतुं समवतारयिष्यति । विपुलां संभारभूमिं संजनयिष्यति । विपुलं कुशलमूलवेगबलं संवर्णयिष्यति । विपुलं बोधिचित्तसंभारहेतुं जनयिष्यति । विपुलं महायानावभासहेतुमुपस्तम्भयिष्यति । विपुलं पारमितासंभारबलं प्रभावयिष्यति । विपुलं चर्यासागरावतारनयं परिशोधयिष्यति । विपुलं प्रणिधानमण्डलं विशोधयिष्यति । विपुलं समन्तमुखनिर्याणव्यूहं संवर्धयिष्यति । विपुलं महाकरुणाबलं प्रवर्धयिष्यति ॥ अथ खलु सुधनः श्रेष्ठिदारको मेघश्रियो भिक्षोः पादौ शिरसाभिवन्द्य मेघश्रियं भिक्षुमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य् अवलोक्य च मेघश्रियो भिक्षोरन्तिकात् प्रक्रान्तः

atha khalu sudhanaḥ śreṣṭhidārako 'nupūrveṇa yena rāmāvarānto janapadastenopajagāma / upetya rāmāvarānte janapade vicaran pūvakuśalamūlasaṃbhavo dārakarmādhiṣṭhānamanobhirucitān bhogān paribhuñjāno yena sugrīvaḥ parvatastenopasaṃkramya sugrīvaṃ parvatamadhiruhya meghaśriyaṃ bhikṣumanugaveṣamāṇaḥ pūrvāṃ diśaṃ niryayau / evaṃ dakṣiṇāṃ paścimāmuttarāmuttarapūrvāṃ pūrvadakṣiṇāṃ dakṣiṇapaścimāṃ paścimottarāmapi diśaṃ niryayau / meghaśriyaṃ bhikṣumanugaveṣamāṇaḥ ūrdhvato 'pyavalokayati sma, adhastādapi / sa saptāhasyātyayānmeghaśriyaṃ bhikṣumapaśyadanyatamasmin parvataśikharotsaṅge caṃkramyamāṇam / sa yena meghaśrīrbhikṣustenopasaṃkramya meghaśriyo bhikṣoḥ pādau śirasābhivandya meghaśriyaṃ bhikṣuṃ pradakṣiṇīkṛtya purataḥ prāñjaliḥ sthitvā etadavocat - yatkhalu āryo jānīyāt - mayā anuttarāyāṃ samyaksaṃbodhau cittamutpāditam / na ca jāne kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam, kathaṃ bodhisattvacaryā prārabdhavyā, kathaṃ bodhisattvacaryāyāṃ caritavyam, kathaṃ bodhisattvacaryā paripurayitavyā, kathaṃ pariśodhayitavyā, kathamavatartavyā, kathamabhinirhartavyā, kathamanusartavyā, kathamadhyālambitavyā, kathaṃ vistārayitavyā, kathaṃ bodhisattvasya paripūrṇaṃ bhavati samantabhadracaryāmaṇḍalam / śrutaṃ ca me āryo bodhisattvānāmavavādānuśāsanīṃ dadātīti / tadvadatu me āryaḥ kathaṃ bodhisattvā niryānti anuttarāyāṃ samyaksaṃbodhau / evamukte meghaśrīrbhikṣuḥ sudhanaṃ śriṣṭhidārakametadavocat - sādhu sādhu kulaputra, yastvamanuttarāyāṃ samyaksaṃbodhau cittamutpādya bodhisattvacaryāṃ paripṛcchasi / duṣkaraṃ hi etat kulaputra paramaduṣkaraṃ yaduta bodhisattvacaryāparimārgaṇaṃ bodhisattvogocaraparimārgaṇaṃ bodhisattvaniryāṇaviśuddhiparimārgaṇaṃ bodhisattvamārgaviśuddhiparimārgaṇaṃ bodhisattvacaryāvaipulyaviśuddhiparimārgaṇaṃ bodhisattvābhijñānirhāraviśuddhiparimārgaṇaṃ bodhisattvavimokṣasaṃdarśanaṃ bodhisattvalokakṛpāpracārasaṃdarśanaṃ bodhisattvayathāśayajagadanuvartanaṃ bodhisattvasaṃsāranirvāṇamukhasaṃdarśanaṃ bodhisattvānāṃ saṃskṛtāsaṃskṛtadoṣabhayānupalepavicāraparimārgaṇam / ahaṃ kulaputra adhimuktibalādhipateyatayā cakṣurmatiśraddhānayanaviśuddhayā aparāṅmukhajñānālokāvabhāsena samantābhimukhāvalokanayā samantaviṣayāpratihatena darśanena sarvāvaraṇavigatena vipaśyinā kauśalyena samantacakṣurviṣayapariśuddhayā śarīraviśuddhyā sarvadiksrotaḥprasarābhimukhapraṇatena kayapraṇāmakauśalyena sarvabuddhadharmameghasaṃdhāranena ca dhāraṇībalena sarvadikkṣetrābhimukhāṃstathāgatān paśyāmi / yaduta pūrvasyāṃ diśi ekaṃ tathāgataṃ paśyāmi / dvāvapi, daśāpi, buddhaśatamapi, buddhasahasramapi, buddhaśatasahasramapi, buddhakoṭīmapi, buddhakoṭīśatamapi, buddhakoṭīsahasramapi, buddhakoṭiśatasahasramapi, buddhakoṭīniyutaśatasahasramapi, yāvadaparimāṇānaprameyānasaṃkhyeyānacintyānatulyānasamantānasīmāprāptānamāpyānanabhilāpyānapi (Gv 49) tathagatān paśyāmi / jambudvīpaparamāṇurajaḥsamānapi tathāgatān paśyāmi / cāturdvīpakalokadhātuparamāṇurajaḥsamānapi, sāhasradvisāhasratrisāhasramahāsāhasrabuddhakṣetraparamāṇurajaḥsamānapi tathāgatān paśyāmi / daśabuddhakṣetraparamāṇurajaḥsamānapi tathāgatān paśyāmi / śatabuddhakṣetraparamāṇurajaḥsamānapi, buddhakṣetrasahasraparamāṇurajaḥsamānapi, buddhakṣetraśatasahasraparamāṇurajaḥsamānapi, buddhakṣetrakoṭīparamāṇurajaḥsamānapi, buddhakṣetrakoṭīśataparamāṇurajaḥsamānapi, buddhākṣetrakoṭīsahasraparamāṇurajaḥsamānapi, buddhakṣetrakoṭīśatasahasraparamāṇurajaḥsamānapi, buddhakṣetrakoṭīniyutaśatasahasraparamāṇurajaḥsamānapi, yāvadanabhilāpyabuddhakṣetraparamāṇurajaḥsamānapi tathāgatān paśyāmi / yatha pūrvasyāṃ diśi, evaṃ dakṣiṇāyāṃ paścimāyāmuttarāyāmuttarapūrvāyāṃ pūrvadakṣiṇāyāṃ dakṣiṇapaścimāyāṃ paścimottarāyāmadha ūrdhvaṃ diśi ekamapi tathāgataṃ paśyāmi / yāvadanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamānapi tathāgatān paśyāmi / ekaikasyāṃ diśi anuvilokayan nānāvarṇāṃstathāgatān paśyāmi nānāsaṃsthānān nānāvikurvitān nānāvṛṣabhitāvikrīḍitān vicitraparṣanmaṇḍalavyūhān anekavarṇānanekavarṇaraśmijālāvabhāsamuktān vividhabuddhakṣetraviśuddhibhavanavyūhān nānavidhāyuḥpramāṇaviśuddhān yathāśayajagadvijñāpanān vividhābhisaṃbodhiviśuddhimukhavikurvitān buddharṣabhasiṃhanādavinarditāṃstathāgatān paśyāmi / asyā ahaṃ kulaputra samantamukhasarvārambaṇavijñaptisamavasaraṇālokāyā buddhānusmṛterlābhī / kiṃ mayā śakyaṃ bodhisattvānāmanantajñānamaṇḍalaviśuddhānāṃ caryā jñātum, guṇān vā vaktum, ye te samantāvabhāsamaṇḍalabuddhānusmṛtimukhapratilabdhāḥ sarvatathāgatamaṇḍalasarvabuddhakṣetrabhavanaviśuddhivyūhābhimukhapaśyanatayā / ye te sarvajagatsamāropitabuddhānusmṛtimukhapratilabdhā yathāśayajagadvijñaptitathāgatadarśanaviśuddhyā / ye te daśabalasamāropitabuddhānusmṛtimukhapratilabdhā daśatathāgatabalāpramāṇānusaraṇatayā / ye te dharmasamāropitabuddhānusmṛtimukhapratilabdhā dharmaśravaṇākārasarvatathāgatakāyameghāvalokanatayā / ye te digvirocanagarbhabuddhānusmṛtimukhapratilabdhāḥ sarvadiksamudreṣvasaṃbhinnabuddhasamudrāvataraṇatayā / ye te dasadikpraveśabuddhānusmṛtimukhapratilabdhāḥ sūkṣmāvalambanasarvatathāgatavikurvitavṛṣabhitāvataraṇatayā / ye te kalpasamāropitabuddhānusmṛtimukhapratilabdhā avarahitasarvakalpatathāgatadarśanavijñaptyā / ye te kālasamāropitabuddhānusmṛtimukhapratilabdhāḥ sarvakālatathāgatakāladarśanasaṃvāsāvijahanatayā / ye te kṣetrasamāropitabuddhānusmṛtimukhapratilabdhāḥ sarvabuddhakṣetrābhyudgatānabhibhūtabuddhakāyadarśanavijñaptyā / ye te tryadhvasamāropitabuddhānusmṛtimukhapratilabdhāstryadhvatathāgatamaṇḍalasvacittāśayasamavasaraṇatayā / ye te ārambaṇasamāropitabuddhānusmṛtimukhapratilabdhāḥ sarvārambaṇatathāgataparaṃparāsamudāgamadarśanavijñaptyā / ye te śāntasamāropitabuddhānusmṛtimukhapratilabdhā ekakṣaṇasarvalokadhātuṣu sarvatathāgataparinirvāṇavijñaptyā / ye te vigamasamāropitabuddhānusmṛtimukhapratilabdhā ekadivase sarvāvāseṣu sarvatathāgataprakramaṇavijñaptyā / (Gv 50) ye te vipulasamāropitabuddhānusmṛtimukhapratilabdhā ekaikatathāgatadharmadhātuparyaṅkaparisphuṭabuddhaśarīravijñaptyā / ye te sūkṣmasamāropitabuddhānusmṛtimukhapratilabdhā ekavālapathena anabhilāpyabuddhotpādārāgaṇāvataraṇatayā / ye te vyūhasamāropitabuddhānusmṛtimukhapratilabdhā ekakṣaṇe sarvalokadhātuṣu abhisaṃbodhivikurvitasaṃdarśanavijñaptyā / ye te kārya samāropitabuddhānusmṛtimukhapratilabdhāḥ sarvabuddhotpādadharmacakravikurvitajñānāvabhāsapratilābhatayā / ye te samāropitabuddhānusmṛtimukhapratilabdhāḥ svacittāśayadarśanasarvatathāgatapratibhāsaprāptyā / ye te karmasamāropitabuddhānusmṛtimukhapratilabdhāḥ sarvajagadyathopacitakarmapratibimbasaṃdarśanatayā / ye te vikurvitasamāropitabuddhānusmṛtimukhapratilabdhā aśeṣasarvadharmadhātunalinīpadmaparisphuṭavipulabuddhavikurvitadarśanasamantadigabhimukhavijñaptyā / ye te gaganasamāropitabuddhānusmṛtimukhapratilabdhāstathāgatabimbamegharacitadharmadhātugaganālokanatayā // gaccha kulaputra, ayamihaiva dakṣiṇāpathe sāgaramukho nāma dikpratyuddeśaḥ / tatra sāgaramegho nāma bhikṣuḥ prativasati / tamupasaṃkramya paripṛccha, kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam / sa te kulaputra kalyāṇamitraṃ paridīpayiṣyati / kuśalamūlasaṃbhārahetuṃ samavatārayiṣyati / vipulāṃ saṃbhārabhūmiṃ saṃjanayiṣyati / vipulaṃ kuśalamūlavegabalaṃ saṃvarṇayiṣyati / vipulaṃ bodhicittasaṃbhārahetuṃ janayiṣyati / vipulaṃ mahāyānāvabhāsahetumupastambhayiṣyati / vipulaṃ pāramitāsaṃbhārabalaṃ prabhāvayiṣyati / vipulaṃ caryāsāgarāvatāranayaṃ pariśodhayiṣyati / vipulaṃ praṇidhānamaṇḍalaṃ viśodhayiṣyati / vipulaṃ samantamukhaniryāṇavyūhaṃ saṃvardhayiṣyati / vipulaṃ mahākaruṇābalaṃ pravardhayiṣyati // atha khalu sudhanaḥ śreṣṭhidārako meghaśriyo bhikṣoḥ pādau śirasābhivandya meghaśriyaṃ bhikṣumanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛty avalokya ca meghaśriyo bhikṣorantikāt prakrāntaḥ

Sanskrit only: no published translation is held for this verse.

एतमहं कुलपुत्र, एकं धर्मपर्यायं जानामि । किं मया शक्यं बोधिसत्त्वानां चर्या ज्ञातुं गुणान् वा वक्तुं सर्वबोधिसत्त्वचर्यासमुद्रावतीर्णानां परिशुद्धप्रणिध्यनुगमेन, सर्वप्रणिधानसागरावतीर्णानां सर्वकल्पसंवासव्यवच्छेदाय, सर्वसत्त्वसंसारावतीर्णानां यथाशयचर्यानुवर्तनतायैः सर्वजगच्चित्तसागरावतीर्णानामज्ञानविज्ञप्त्या, सर्वगुणसागरावतीर्णानामसङ्गदशबलज्ञानावलोकसंजननतायै, सर्वसत्त्वेन्द्रियसागरावतीर्णानां परिपाचनविनयकालानतिक्रमणतायै, सर्वक्षेत्रसागरावतीर्णानां सर्वक्षेत्रविशुद्धिप्रणिध्यभिनिर्हारेण, सर्वबुद्धसागरावतीर्णानां तथागतपूजोपस्थानप्रणिधिबलेन, सर्वधर्मसागरावतीर्णानां ज्ञानविज्ञप्त्या, सर्वगुणसागरावतीर्णानां प्रतिपत्यनुगमेन, सर्वजगन्मन्त्रसागरावतीर्णानां सर्वमन्त्रेसु धर्मचक्रप्रवर्तनाभिनिर्हरणतायै ॥ गच्छ कुलपुत्र, अयमिहैव दक्षिणापथे इतः षष्टियोजनैः सागरतीरं नाम लङ्कापथम् । तत्र सुप्रतिस्थितो नाम भिक्षुः प्रतिवसति । तमुपसंक्रम्य परिपृच्छ कथं बोधिसत्त्वेन महासत्त्वेन बोधिसत्त्वचर्या परिशोधयितव्या ॥ अथ खलु सुधनः श्रेष्ठिदारकः सागरमेघस्य भिक्षोः पादौ शिरसाभिवन्द्य सागरमेघं भिक्षुमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य अवलोक्य सागरमेघस्य भिक्षोरन्तिकात् प्रक्रान्तः

etamahaṃ kulaputra, ekaṃ dharmaparyāyaṃ jānāmi / kiṃ mayā śakyaṃ bodhisattvānāṃ caryā jñātuṃ guṇān vā vaktuṃ sarvabodhisattvacaryāsamudrāvatīrṇānāṃ pariśuddhapraṇidhyanugamena, sarvapraṇidhānasāgarāvatīrṇānāṃ sarvakalpasaṃvāsavyavacchedāya, sarvasattvasaṃsārāvatīrṇānāṃ yathāśayacaryānuvartanatāyaiḥ sarvajagaccittasāgarāvatīrṇānāmajñānavijñaptyā, sarvaguṇasāgarāvatīrṇānāmasaṅgadaśabalajñānāvalokasaṃjananatāyai, sarvasattvendriyasāgarāvatīrṇānāṃ paripācanavinayakālānatikramaṇatāyai, sarvakṣetrasāgarāvatīrṇānāṃ sarvakṣetraviśuddhipraṇidhyabhinirhāreṇa, sarvabuddhasāgarāvatīrṇānāṃ tathāgatapūjopasthānapraṇidhibalena, sarvadharmasāgarāvatīrṇānāṃ jñānavijñaptyā, sarvaguṇasāgarāvatīrṇānāṃ pratipatyanugamena, sarvajaganmantrasāgarāvatīrṇānāṃ sarvamantresu dharmacakrapravartanābhinirharaṇatāyai // gaccha kulaputra, ayamihaiva dakṣiṇāpathe itaḥ ṣaṣṭiyojanaiḥ sāgaratīraṃ nāma laṅkāpatham / tatra supratisthito nāma bhikṣuḥ prativasati / tamupasaṃkramya paripṛccha kathaṃ bodhisattvena mahāsattvena bodhisattvacaryā pariśodhayitavyā // atha khalu sudhanaḥ śreṣṭhidārakaḥ sāgarameghasya bhikṣoḥ pādau śirasābhivandya sāgarameghaṃ bhikṣumanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya avalokya sāgarameghasya bhikṣorantikāt prakrāntaḥ

Sanskrit only: no published translation is held for this verse.

एवमेव दक्षिणायां पश्चिमायामुत्तरायामुत्तरपूर्वायां पूर्वदक्षिणायां दक्षिणपश्चिमायां पश्चिमोत्तरायामध ऊर्ध्वायां दिशि एकमपि लोकधातुमतिक्रमामि । द्वावपि दशापि लोकधातुशतमपि यावदनभिलाप्यानभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमानपि लोकधातूनतिक्रमामि । ये च तेषु लोकधातुषु बुद्धा भगवन्तस्तिष्ठन्ति ध्रियन्ते यापयन्ति, तेषु तेषु लोकधातुसमुद्रेषु तासु तासु लोकधातुविशुद्धिषु, यावत् तेषु तेषु लोकधातुषु पर्षन्मण्डलेषु धर्मं देशयन्ति, तान् सर्वान् पश्यामि । तेषां च तथागतानां पूजां करोमि सर्वपुष्पैर्यावत्सर्वपरिग्रहैः । यच्च ते बुद्धा भगवन्तो भाषन्ते यावत्प्रभावयन्ति तत्सर्वमाजानामि उद्गृह्णामि । या च तेषां बुद्धानां भगवतां बुद्धक्षेत्रपरिशुद्धिस्तां सर्वामनुस्मरामि । येषां च सत्त्वानामाभासमागच्छामि, यैः समागच्छामि, ते सर्वे नियता भवन्त्यनुत्तरायां सम्यक्संबोधौ । ये च सत्त्वा ममाभासमागच्छन्ति, सूक्ष्मा वा उदारा वा हीना वा प्रणीता वा सुखिता वा दुःखिता वा, तेषां सर्वेषां तत्प्रमाणां कायमधितिष्ठामि परिपाकविनयकालानतिक्रमणतायै । ये च सत्त्वा मामुपसंक्रामन्ति तान् सर्वानत्रैव समन्तजवे ऽमोघविक्रमपर्यवसाने बोधिसत्त्वविमोक्षे प्रतिष्ठापयामि । एतमहं कुलपुत्र समन्तजवं तथागतपूजोपस्थानप्रयोगं (ग्व् ५८) सर्वसत्त्वपरिपाकानुकूलमसङ्गमुखं बोधिसत्त्वविमोक्षं प्रजानामि । किं मया शक्यं बोधिसत्त्वानां महासत्त्वानां महाकरुणाशीलानां महायानप्रतिपत्तिशीलानां बोधिसत्त्वमार्गाविप्रवासशीलानासङ्गशीलानां बोधिसत्त्वाशयगर्भाविपातनशीलानां बोधिचित्तापरित्यागशीलानां बुद्धधर्माध्यालम्बनशीलानां सर्वज्ञतामनसिकाराविप्रवसितशीलानां गगनसमशीलानां सर्वलोकानिश्रितशीलानामविनष्टशीलामनुपहतशीलानामखण्डशीलानामच्छिद्रशीलानामशबलशीलानामकल्माषशीलानां विशुद्धशीलानां विरजोनिर्मलशीलानां बोधिसत्त्वानां चर्या ज्ञातुं गुणान् वा वक्तुम् ॥ गच्छ कुलपुत्र, इहैव दक्षिणापथे वज्रपुरं नाम द्रमिडपट्टनम् । तत्र मेघो नाम द्रमिडः प्रतिवसति । तमुपसंक्रम्य परिपृच्छ - कथं बोधिसत्त्वेन महासत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथम् प्रतिपत्तव्यम् ॥ अथ खलु सुधनः श्रेइष्ठिदारकः सुप्रतिष्ठितस्य भिक्षोः पादौ शिरसाभिवन्द्य सुप्रतिष्ठितं भिक्षुमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य सुप्रतिष्ठितस्य भिक्षोरन्तिकात् प्रक्रान्तः

evameva dakṣiṇāyāṃ paścimāyāmuttarāyāmuttarapūrvāyāṃ pūrvadakṣiṇāyāṃ dakṣiṇapaścimāyāṃ paścimottarāyāmadha ūrdhvāyāṃ diśi ekamapi lokadhātumatikramāmi / dvāvapi daśāpi lokadhātuśatamapi yāvadanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamānapi lokadhātūnatikramāmi / ye ca teṣu lokadhātuṣu buddhā bhagavantastiṣṭhanti dhriyante yāpayanti, teṣu teṣu lokadhātusamudreṣu tāsu tāsu lokadhātuviśuddhiṣu, yāvat teṣu teṣu lokadhātuṣu parṣanmaṇḍaleṣu dharmaṃ deśayanti, tān sarvān paśyāmi / teṣāṃ ca tathāgatānāṃ pūjāṃ karomi sarvapuṣpairyāvatsarvaparigrahaiḥ / yacca te buddhā bhagavanto bhāṣante yāvatprabhāvayanti tatsarvamājānāmi udgṛhṇāmi / yā ca teṣāṃ buddhānāṃ bhagavatāṃ buddhakṣetrapariśuddhistāṃ sarvāmanusmarāmi / yeṣāṃ ca sattvānāmābhāsamāgacchāmi, yaiḥ samāgacchāmi, te sarve niyatā bhavantyanuttarāyāṃ samyaksaṃbodhau / ye ca sattvā mamābhāsamāgacchanti, sūkṣmā vā udārā vā hīnā vā praṇītā vā sukhitā vā duḥkhitā vā, teṣāṃ sarveṣāṃ tatpramāṇāṃ kāyamadhitiṣṭhāmi paripākavinayakālānatikramaṇatāyai / ye ca sattvā māmupasaṃkrāmanti tān sarvānatraiva samantajave 'moghavikramaparyavasāne bodhisattvavimokṣe pratiṣṭhāpayāmi / etamahaṃ kulaputra samantajavaṃ tathāgatapūjopasthānaprayogaṃ (Gv 58) sarvasattvaparipākānukūlamasaṅgamukhaṃ bodhisattvavimokṣaṃ prajānāmi / kiṃ mayā śakyaṃ bodhisattvānāṃ mahāsattvānāṃ mahākaruṇāśīlānāṃ mahāyānapratipattiśīlānāṃ bodhisattvamārgāvipravāsaśīlānāsaṅgaśīlānāṃ bodhisattvāśayagarbhāvipātanaśīlānāṃ bodhicittāparityāgaśīlānāṃ buddhadharmādhyālambanaśīlānāṃ sarvajñatāmanasikārāvipravasitaśīlānāṃ gaganasamaśīlānāṃ sarvalokāniśritaśīlānāmavinaṣṭaśīlāmanupahataśīlānāmakhaṇḍaśīlānāmacchidraśīlānāmaśabalaśīlānāmakalmāṣaśīlānāṃ viśuddhaśīlānāṃ virajonirmalaśīlānāṃ bodhisattvānāṃ caryā jñātuṃ guṇān vā vaktum // gaccha kulaputra, ihaiva dakṣiṇāpathe vajrapuraṃ nāma dramiḍapaṭṭanam / tatra megho nāma dramiḍaḥ prativasati / tamupasaṃkramya paripṛccha - kathaṃ bodhisattvena mahāsattvena bodhisattvacaryāyāṃ śikṣitavyam, katham pratipattavyam // atha khalu sudhanaḥ śreiṣṭhidārakaḥ supratiṣṭhitasya bhikṣoḥ pādau śirasābhivandya supratiṣṭhitaṃ bhikṣumanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya supratiṣṭhitasya bhikṣorantikāt prakrāntaḥ

Sanskrit only: no published translation is held for this verse.

अथ खलु सुधनः श्रेष्ठिदारको मेघस्य द्रमिडस्य पादौ शिरसाभिवन्द्य धर्मगौरवेण कृत्वा मूलं जातश्रद्धालक्षणं प्ररूपयमाणः कल्याणमित्रानुगतां सर्वज्ञतां संपश्यन् अश्रुमुखो रुदन् मेघं द्रमिडमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनः पुनरवलोक्य प्रणिपत्य मेघस्य द्रमिडस्यान्तिकात् प्रक्रान्तः

atha khalu sudhanaḥ śreṣṭhidārako meghasya dramiḍasya pādau śirasābhivandya dharmagauraveṇa kṛtvā mūlaṃ jātaśraddhālakṣaṇaṃ prarūpayamāṇaḥ kalyāṇamitrānugatāṃ sarvajñatāṃ saṃpaśyan aśrumukho rudan meghaṃ dramiḍamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya praṇipatya meghasya dramiḍasyāntikāt prakrāntaḥ

Sanskrit only: no published translation is held for this verse.

अथ खलु सुधनः श्रेष्ठिदारकस्तमेव बोधिसत्त्वसरस्वतीधारण्यालोकव्यूहमनुविचिन्तयन्, तमेव बोधिसत्त्वमन्त्रनयसागरमवतरन्, तमेव बोधिसत्त्वचित्तव्यवदानविशुद्धिमनुस्मरन्, तमेव बोधिसत्त्वकुशलवासनोपसंहाराभिनिर्हारमभिनिर्हरन्, तदेव बोधिसत्त्वपरिपाकमुखं विशोधनयन्, तदेव बोधिसत्त्वानां सत्त्वसंग्रहज्ञानमुत्तापयन्, तामेव बोधिसत्त्वाशयबलविशुद्धिं दृढीकुर्वाणः तदेव बोधिसत्त्वाध्याशयबलमुपस्तम्भयन्, तमेव बोधिसत्त्वाधिमुक्तिवंशं परिशोधयन्, तामेव बोधिसत्त्वाशयचित्तकल्याणतां संभावयन्, तमेव बोधिसत्त्वव्यवसायमुत्तारयन्, सुधनः श्रेइष्ठिदारको दृढप्रतिज्ञाप्रणिधिचित्तापरिखिन्नसंतानव्यूहो ऽनिवर्त्यविक्रान्तवीर्यः प्रत्युदावर्त्यमनोव्यवसायः असंहार्यश्रद्धाबलोपेतः वज्रनारायणाभेद्यचित्तः सर्वकल्याणमित्रानुशासनीप्रदक्षिणग्राही अनुपहतप्रज्ञाविषयः समन्तमुखविशुद्धयभिमुखः अप्रतिहतज्ञानविशुद्धिगोचरः समन्तनेत्रज्ञाननयालोकः समन्तभूमिधारण्यवभासप्रतिलब्धः धर्मधातुतलभेदाभिमुखचित्तः समन्ततलाप्रतिष्ठानव्यूहविशुद्धिस्वभावविज्ञप्तः अनिकेतासमाद्वयगोचरपरमः सर्वसंज्ञाविक्रमणज्ञानमुखविशुद्धः सर्वदिक्कुलभेददिक्प्रत्यूहव्यूहः लोकतलदिग्भेदानिवर्त्यः धर्मतलदिग्भेदाप्रत्युदावर्त्यः बुद्धदिक्कुलभेददर्शनविज्ञप्तिपरमः अधदिक्कुलभेदानुगतज्ञानी रुचिरधर्मचक्रसंभृतबुद्धिः समन्तरुचिरज्ञानसमाध्याकारलोकावभासितचित्तः समन्तविषयभूम्यनुगतमनःशरीरः तथागतज्ञानविद्युदवभासितसंतानः सर्वज्ञतोर्मिप्रसादावेगसंजातः बुद्धधर्मप्रसादवेगाविरहितः तथागताधिष्ठानावेगाविष्टः सर्वबुद्धस्वचित्तानुगमालोकावभासितः सर्वलोकधातुजालस्वशरीरस्फरणप्रणिधिसमन्वागतः सर्वधर्मधातुस्वकायसमवसरणाभिनिर्हारपरमो ऽनुपूर्वेण द्वादशभिर्वर्षैस्तं वनवासिजनपदमनुप्राप्तः । स तं मुक्तकं श्रेष्ठिनं परिमार्गमाणो ऽद्राक्षीत् । दृष्ट्वा च पुनः सर्वशरीरेण प्रणिपत्य पुरतः प्राञ्जलिः स्थित्वा एवमाह - आर्य, लब्धा मे लाभाः, यस्य मेघकल्याणमित्रसमवधानम् । तत्कस्य हेतोः? दुर्लभदर्शनानि हि कल्याणमित्राणि दुर्लभप्रादुर्भावानि दुःप्रत्यागतानि दुरुपसंक्रमणानि दुःपर्युपास्यानि । दुरासदानि दुःसंवासानि दुरभिसाध्यानि दुरनुबन्ध्यानि कल्यानमित्राणि । तच्च मेघकल्याणमित्रसमवधानं जातम् । मया आर्य अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम् । यदुत सर्वबुद्धारागणतायै सर्वबुद्धाभिराधनतायै सर्वबुद्धदर्शनतायै सर्वबुद्धविज्ञप्तये सर्वबुद्धसमतानुगमाय सर्वबुद्धप्रणिध्यनुगमाय सर्वबुद्धप्रणिधिपरिपूरये सर्वबुद्धसमुदागमज्ञानालोकनतायै सर्वबुद्धस्वशरीराभिनिर्हरणतायै सर्वबुद्धसमुदागमस्वचर्याभिनिर्हरणतायै सर्वबुद्धविकुर्वितप्रत्यक्षाभिज्ञतायै सर्वबुद्धबलवैशारद्यपरिशुद्धये सर्वधर्मदेशनाश्रवणावितृप्ततायै सर्वबुद्धधर्मदेशनाश्रवणोद्ग्रहणतायै सर्वबुद्धधर्मदेशनासंधारणतायै सर्वबुद्धधर्मदेशनाविभजनतायै सर्वबुद्धशासनसंधारणतायै सर्वबुद्धसत्त्वैकत्वतायै सर्वबोधिसत्त्वसभागतायै सर्वबोधिसत्त्वचर्यापरिशुद्ध्ये सर्वबोधिसत्त्वपारमितापरिपूरये (ग्व् ६४) सर्वबोधिसत्त्वप्रणिध्यभिनिर्हारविशुद्धये सर्वबोधिसत्त्वबुद्धाधिष्ठानकोशप्रतिलाभितायै सर्वबोधिसत्त्वधर्मनिधानकोशाक्षयज्ञानालोकतायै सर्वबोधिसत्त्वनिधानकोशानुगमाय सर्वबोधिसत्त्वाप्रमाणकोशाभिनिर्हरणतायै सर्वबोधिसत्त्वमहाकरुणानिधानकोशसत्त्वविनयनिष्ठापर्यन्तगमनतायै सर्वबोधिसत्त्वविकुर्वितनिधानकोशविज्ञप्तये सर्वबोधिसत्त्ववशितानिधानकोशस्वचित्तवशवर्तनतायै सर्वबोधिसत्त्वविशुद्धिनिधानकोशसर्वाकारव्यूहतायै । एवंचित्तो ऽहमार्य इहोपसंक्रान्तः, एवमभिप्रायः एवंमनोरथः एवमभिनन्द्यः एवमाशयः एवंनिध्यप्तिपरमः एवंगोचराभिमुखः एवनयानुगमाभिमुखः एवंविशुद्धिपरमः एवंव्यूहाभिप्रायः एवंप्रणतचित्तः एवंकल्याणप्रयोगः एवमभिमुखेन्द्रियः । श्रुतं च मे आर्यो बोधिसत्त्वानामववादानुशासनीं ददातीति, नयमुपदिशति, अनुगमनमवभासयति, मार्गमुपदिशति, तीर्थमवतारयति, धर्मद्वारं विवृणोति, संशयान् छिनत्ति, काङ्क्षां विनोदयति, कथंकथाशल्यमुद्धरति, विचिकित्सामलमपकर्षयति, चित्तगहनमवभासयति, चित्तमलमपहरति, चित्तसंततिं प्रसादयति, चित्तकौटिल्यमपनयति, चित्ततापं प्रह्लादयति, व्यावर्तयति, संसारचित्तं विनिवर्तयति, अकुशलेभ्यो विवर्तयति, नरकेभ्यो विवेचयति, निकेतनेभ्य उच्चालयति, अनभिनिवेशात् परिमोचयति, सर्वसङ्गेभ्य आवर्जयति, सर्वज्ञतायामभिमुखीकरोति, धर्मनगरानुप्रवेशाय आवर्तयति, महाकरुणायां प्रतिष्ठापयति, महामैत्र्यां नियोजयति, बोधिसत्त्वचर्यायां प्रवेशयति, समाधिमुखभवनतायां निवेशयति, अनुगममुखेषु स्थापयति, स्वभावनिध्यप्तौ स्फरति, बलानुगमेन विभजति सर्वजगत्समतानुगमाय चित्तम् । तद्वदतु मे आर्यः - कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्? कथमभियोक्तव्यम्? कथं प्रयोक्तव्यम्? कथं प्रयुक्तस्य क्षिप्रं विशुध्यति बोधिसत्त्वचर्यामण्डलम्? अथ खलु मुक्तकः श्रेष्ठी तस्यां वेलायां सर्वबुद्धक्षेत्रसमवसरणं नाम अनन्तावर्तधारणीमुखपूर्वंगमं बोधिसत्त्वसमाधिमुखं समापद्यत पूर्वकुशलमूलबलाधानेन तथागताधिष्ठानेन, मञ्जुश्रियश्च कुमारभूतस्य समन्वाहरेण ज्ञानालोकोपसंहारेण च । समनन्तरसमापन्नस्य च मुक्तकस्य श्रेष्ठिनस्तथारूपा कायपरिशुद्धिः संस्थिता यया कायपरिशुद्धया दशसु दिक्षु दशबुद्धक्षेत्रपरमाणुरजःसमा बुद्धा भगवन्तः सह बुद्धक्षेत्रपरिशुद्धया सपर्षन्मण्डलाः सह प्रभाविशुद्धया सपूर्वचर्यासंवासाः सबुद्धविकुर्विताः सप्रणिधानसंभाराः सहचर्यानिर्याणव्यूहविशुद्धया साभिसंबोधिसंदर्शनाः सहधर्मचक्रोद्दयोतनाः ससत्त्वपरिपाकाः सधर्मनिष्ठापर्यन्ताः सर्वकाये ऽन्तर्गताः अनुप्रविष्टाः संदृश्यन्ते स्म । अन्योन्यासंभिन्ना अन्योन्यानावरणा अन्योन्यसुविभक्ता अन्योन्यसुव्यवस्थितनानाकल्पसंस्थाना यथावद्विज्ञप्ता नानाबुद्धक्षेत्रव्यूहाः नानाबोधिसत्त्वपर्षन्मण्डलालंकारा नानाबुद्धविकुर्वितं संदर्शयन्तः संदृश्यन्ते स्म । नानायाननयव्यवस्थाना नानाप्रणिधानमुखपरिदीपनाः क्वचिल्लोकधातौ तुषितभवनोपपन्नाः संदृश्यन्ते । सर्वबुद्धकार्यं कुर्वन्तः क्वचित्तुषितभवनाच्च्यवमानाः, क्वचिन्मातुः कुक्षिगताः विविधविकुर्वितानि (ग्व् ६५) संदर्शयन्तः, क्वचिज्जायमानाः बालक्रीडामुपदर्शयन्तः, क्वचिदन्तःपुरमध्यगताः, क्वचिदभिनिष्क्रामन्तः क्वचिद्बोधिमण्डवरगताः महाव्यूहविकुर्वितमारसैन्यपराजयं कुर्वन्तः संदृश्यन्ते । क्वचिद्देवनागयक्षगन्धर्वपरिवृता ब्रह्मेन्द्रैर्धर्मचक्रप्रवर्तनायाध्येष्यमाणाः, क्वचिद्धर्मचक्रं प्रवर्तयन्तः क्वचित्सर्वसत्त्वभवनगताः क्वचित्परिनिर्वायमाणाः संदृश्यन्ते । क्वचिल्लोकधातौ तथागतानां परिनिर्वृतानां धातुविभङ्गाः संदृश्यन्ते । क्वचिद्बुद्धक्षेत्रदेवमनुष्यास्तथागतचैत्यान्यलंकुर्वन्तः संदृश्यन्ते । यच्च ते बुद्धा भगवन्तो भाषन्ते नानासत्त्वनिकायेषु नानासत्त्वलोकेषु नानासत्त्वगतिषु नानासत्त्वोपपत्तिषु नानासत्त्वसंनिपातेषु नानासत्त्वकुशलमूलपरिवर्तेषु नानासत्त्वगतिपरिवर्तेषु नानासत्त्वाशयपरिवर्तेषु नानासत्त्वाधिमुक्तिपरिवर्तेषु नानासत्त्वेन्द्रियपरिवर्तेषु नानाकालपरिवर्तेषु नानासत्त्वकर्मसंभेदेषु नानासत्त्वकर्मविमात्रतासु नानासत्त्वलोकविभावनासु नानागतिचर्याविचरितेषु सत्त्वनयेषु नानाशयप्रयोगेषु सत्त्वसमुद्रेषु नानेन्द्रियविमात्रताविशुद्धेषु नानाक्लेशवासनानुशयितेषु सत्त्वप्रसरेषु विविधबुद्धिविकुर्वितसंदर्शनैर्नानानिरुक्तिभिर्नानास्वराङ्गरुतनिर्हारैर्नानासूत्रान्तनयोदाहारैर्नानाधारणीमुखपरिवर्तैर्नानाप्रतिसंविन्नयप्रभवैर्नानासत्यनामसमुद्रपरिवर्तैः नानाबुद्धर्षभसिंहनादनैः नानासत्त्वकुशलमूलदेशनाप्रातिहार्यसंदर्शनैः नानामुखस्मृतिनिदर्शनविकुर्वितैः नानाबोधिसत्त्वव्याकरणसिंहनादैः नानातथागतधर्मचक्रविजृम्भितैः अनन्तमध्येषु पर्षन्मण्डलेषु अनन्तसंभेदेष्वन्योन्यारम्बणेषु नानाविशुद्धपर्षन्मण्डलेषु विपुलेषु सूक्ष्मपर्षन्मण्डलसमवसरणेषु योजनप्रमाणेषु दशयोजनप्रमाणेषु यावदनभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमलोकधातुप्रमाणेषु पर्षन्मण्डलेषु यत्ते बुद्धा भगवन्तो धर्मं भाषन्ते सर्वस्वराङ्गरुतघोषानुगामिन्या तथागतवाचा, तं सर्वं सुधनः श्रेष्ठिदारकः शृणोति उद्गृह्णाति संधारयति प्रवर्तयति उपनिध्यायति । तच्च विकुर्वितं पश्यति, तां च अचिन्त्यां बोधिसत्त्वसमाधिवृषभिताम् ॥ अथ खलु मुक्तकः श्रेष्ठी स्मृतः संप्रजानंस्तस्मात्समाधेर्व्यूत्थाय सुधनं श्रेष्ठिदारकमेतदवोचत् - अहं कुलपुत्र असङ्गव्यूहं नाम तथागतविमोक्षमायूहामि निर्यूहामि । तस्य मे कुलपुत्र असङ्गव्यूहं तथागतविमोक्षमायूहतो निर्यूहतः पूर्वस्यां दिशि जाम्बूनदप्रभासवत्यां लोकधातौ तारेश्वरराजो नाम तथागतो ऽर्हन् सम्यक्संबुद्धः सार्धं वैरोचनगर्भबोधिसत्त्वप्रमुखेन सर्वबोधिसत्त्वपर्षन्मण्डलेन चक्षुष आभासमागच्छति । दक्षिणायां दिशि सर्वबलवेगवत्यां लोकधातौ समन्तगन्धवितानो नाम तथागतो ऽर्हन् सम्यक्संबुद्धः सार्धं चिन्ताराजबोधिसत्त्वप्रमुखेन सर्वबोधिसत्त्वपर्षन्मण्डलेन चक्षुष (ग्व् ६६) आभासमागच्छति । पश्चिमायां दिशि सर्वगन्धप्रभासवत्यां लोकधातौ मेरुप्रदीपराजो नाम तथागतो ऽर्हन् सम्यक्संबुद्धः सार्धमसङ्गचित्तबोधिसत्त्वप्रमुखेन सर्वबोधिसत्त्वपर्षन्मण्डलेन चक्षुष आभासमागच्छति । उत्तरायां दिशि काषायध्वजायां लोकधातौ वज्रप्रमर्दनो नाम तथागतो ऽर्हन् सम्यक्संबुद्धः सार्धं वज्रपदविक्रामिबोधिसत्त्वप्रमुखेन सर्वबोधिसत्त्वपर्षन्मण्डलेन चक्षुषआभासमागच्छति । उत्तरपूर्वायां दिशि सर्वरत्नरुचिरायां लोकधातौ अनिलम्भचक्षुर्वैरोचनो नाम तथागतो ऽर्हन् सम्यक्संबुद्धः सार्धमनिलम्भसुनिर्मितबोधिसत्त्वपूर्वंगमेन सर्वबोधिसत्त्वपर्षन्मण्डलेन चक्षुष आभासमागच्छति । पूर्वदक्षिणायां दिशि गन्धार्चिःप्रभास्वरायां लोकधातौ गन्धप्रदीपो नाम तथागतो ऽर्हन् सम्यक्संबुद्धः सार्धं सर्वधर्मधातुतलभेदकेतुराजबोधिसत्त्वपूर्वंगमेन बोधिसत्त्वपर्षन्मण्डलेन चक्षुष आभासमागच्छति । दक्षिणपश्चिमायां दिशि सूर्यकेसरनिर्भासायां लोकधातौ समन्तमुखज्ञानविरोचनघोषो नाम तथागतो ऽर्हन् सम्यक्संबुद्धः सार्धं समन्तकुसुमार्चिःप्रलम्बचूडबोधिसत्त्वपूर्वंगमेन सर्वबोधिसत्त्वपर्षन्मण्डलेन चक्षुष आभासमागच्छति । पश्चिमोत्तरायां दिशि गन्धालंकाररुचिरशुभगर्भायां लोकधातावप्रमाणगुणसागरप्रभो नाम तथागतो ऽर्हन् सम्यक्संबुद्धः सार्धमसङ्गकायरश्मितेजोमतिबोधिसत्त्वपूर्वंगमेन सर्वबोधिसत्त्वपर्षन्मण्डलेन चक्षुष आभासमागच्छति । अघोदिशि रत्नसिंहावभासज्वलनायां लोकधातौ धर्मधातुविद्योतितरश्मिर्नाम् तथागतो ऽर्हन् सम्यक्संबुद्धः सार्धं धर्मधात्वर्चिर्वैरोचनसंभवमतिबोधिसत्त्वपूर्वंगमेन सर्वबोधिसत्त्वपर्षन्मण्डलेन चक्षुष आभासमागच्छति । ऊर्ध्वायां दिशि लक्षणरुचिरवैरोचनायां लोकधातावप्रतिहतगुणकीर्तिविमोक्षप्रभराजो नाम तथागतो ऽर्हन् सम्यक्संबुद्धः सार्धमसङ्गबलवीर्यमतिबोधिसत्त्वपूर्वंगमेन सर्वबोधिसत्त्वपर्षन्मण्डलेन चक्षुष आभासमागच्छति ॥ इति हि कुलपुत्र, एतान् दश तथागतान् प्रमुखान् कृत्वा दशसु दिक्षु दशबुद्धक्षेत्रपरमाणुरजःसमांस्तथागतानर्हतः सम्यक्संबुद्धान् पश्यामि । न च ते तथागता इहागच्छन्ति, न चाहं तत्र गच्छामि । यस्यां च वेलायामिच्छामि, तस्यां वेलायां सुखावत्यां लोकधातावमिताभं तथागतं पश्यामि । चन्दनवत्यां लोकधातौ वज्राभं तथागतं पश्यामि । गन्धवत्यां लोकधातौ रत्नाभं तथागतं पश्यामि । पद्मवत्यां लोकधातौ रत्नपद्माभं तथागतं पश्यामि । कनकवत्यां लोकधातौ शान्ताभं तथागतं पश्यामि । अभिरत्यां लोकधातौ अक्षोभ्यं तथागतं पश्यामि । सुप्रतिष्ठायां लोकधातौ सिंहं तथागतं पश्यामि । आदर्शमण्डलनिभासायां लोकधातौ चन्द्रबुद्धिं तथागतं पश्यामि । रत्नश्रीहंसचित्रायां लोकधातौ वैरोचनं तथागतं पश्यामि । इति हि कुलपुत्र यस्यां यस्यां दिशि यस्यां यस्यां लोकधातौ यं यमेव तथागतं द्रष्टुमाकाङ्क्षामि, तं तमेव तथागतं पश्यामि । यस्मिन् यस्मिन्नध्वनि यस्मिन् यस्मिन्नारम्बणे यस्यां यस्यां पूर्वचयायां तथागतं द्रष्टुमाकाङ्क्षामि, यस्मिन् यस्मिन् विकुर्वितकारणे यस्मिन् यस्मिन् सत्त्वविनयकारणे यं यं तथागतं द्रष्टुमाकाङ्क्षामि, तं तमेव तथागतं पश्यामि । न च ते तथागता इहागच्छन्ति, न चाहं तत्र गच्छामि । सो ऽहं कुलपुत्र न कुतश्चिदागमनतां तथागतानां प्रजानन्, न क्वचिद्गमनतां स्वकायस्य प्रजानन्, स्वप्नोपमविज्ञप्तिं च तथागतानां प्रजानन्, स्वप्नसमविचारविज्ञप्तिं स्वचित्तस्य प्रजानन्, प्रतिभाससमविज्ञप्तिं च तथागतानां प्रजानन्, अच्छोदकभाजनविज्ञप्तिं च स्वचित्तस्य प्रजानन्, मायाकृतरूपविज्ञप्तिं च तथागतानां प्रजानन्, मायोपमविज्ञप्तिं च स्वचित्तस्य प्रजानन्, प्रतिश्रुत्कागिरिघोषानुरवणतां च तथागतघोषस्य प्रजानन्, प्रतिश्रुत्कासमविज्ञप्तिं च स्वचित्तस्य प्रजानन्, एवमनुगच्छामि (ग्व् ६७) एवमनुस्मरामि स्वचित्ताधिष्ठानं बोधिसत्त्वानां सर्वबुद्धधर्म इति । स्वचित्ताधिष्ठानं सर्वबुद्धक्षेत्रपरिशुद्धिः, स्वचित्ताधिष्ठानं सर्वबुद्धबोधिसत्त्वचर्या, स्वचित्ताधिष्ठानं सर्वसत्त्वपरिपाकविनयः, स्वचित्ताधिष्ठानं सर्वबोधिसत्त्वप्रणिधानाभिनिर्हारः, स्वचित्ताधिष्ठानं सर्वज्ञतानगरानुप्राप्तिः, स्वचित्ताधिष्ठानमचिन्त्यबोधिसत्त्वविमोक्षविक्रीडनता, स्वचित्ताधिष्ठानं बुद्धबोध्यभिसंबोधः, स्वचित्ताधिष्ठानं समन्तधर्मधातुसमवसरणवृषभिताविकुर्वितम्, स्वचित्ताधिष्ठानं सर्वकल्पसूक्ष्मसमवसरणज्ञानमिति ॥ तस्य मम कुलपुत्र एवं भवति - स्वचित्तमेवोपस्तम्भयितव्यं सर्वकुशलमूलैः । स्वचित्तमेव परिष्यन्दयितव्यं धर्ममेघैः । स्वचित्तमेव परिशोधयितव्यमारम्बणीयधर्मेभ्यः । स्वचितमेव दृढीकर्तव्यं वीर्येण । स्वचित्तमेव शमीकर्तव्यं क्षान्त्या । स्वचितमेव प्रणयितव्यं ज्ञानानुगमेषु । स्वचित्तमेवोत्तापयितव्यं प्रज्ञया । स्वचित्तमेवाभिनिर्हर्तव्यं वशिताशु । स्वचित्तमेवविपुलीकर्तव्यं बुद्धसमतायाम् । स्वचित्तमेवावभासयितव्यां दशतथागतबलैः । एतमहं कुलपुत्र असङ्गव्यूहतथागतविमोक्षं जानामि आयूहामि निर्यूहामि । किं मया शक्यं बोधिसत्त्वानामसङ्गचित्तानामसङ्गविहारगोचराणां प्रत्युत्पन्नसर्वबुद्धधर्मसंमुखावस्थितसमाधिप्रतिलब्धानामपरिओनिर्वाणकोटिगतसंबोधिमुखसमाधिप्रतिलब्धानां त्र्यध्वसमतानुप्राप्तानां समन्ततलसंभेदसमाधिगोचरविधिज्ञानां सर्वबुद्धक्षेत्रसुविभक्तशरीराणामसंभिन्नबुद्धविषयविहारिणां सर्वदिगभिमुखगोचराणामपराङ्भुखज्ञानमण्डलव्यवलोकनानां चर्या ज्ञातुं गुणान् वा वक्तुम्, येषामात्मभावसर्वलोकधातुसंवर्तविवर्ताः प्रज्ञायन्ते । न चैषामात्मनि लोकधातुषु वा द्वयसंज्ञा प्रवर्तते ॥ गच्छ कुलपुत्र, इहैव दक्षिणापथे मिलस्फरणं नाम जम्बूद्वीपशीर्षम् । तत्र सारध्वजो नाम भिक्षुः प्रतिवसति । तमुपसंक्रम्य परिपृच्छ - कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रयोक्तव्यम् ॥ अथ खलु सुधनः श्रेष्ठिदारको मुक्तकस्य श्रेष्ठिनः पादौ शिरसाभिवन्द्य मुक्तकं श्रेष्ठिनमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनः पुनरवलोक्य मुक्तकस्य श्रेष्ठिनो ऽसंख्यान् गुणानुदानयन् उपविचारयन्, अभिलषन्, अविजहन् रुदन् परिदेवन् कल्याणमित्रस्नेहजातः कल्याणमित्रप्रतिशरणः कल्याणमित्रारागणाभिमुखः कल्याणमित्रज्ञानमविकोपयन् कल्याणमित्राधीनां सर्वज्ञतां समनुपश्यन् कल्याणमित्रानुगताशयः कल्याणमित्रोपायसाध्योपचारः कल्याणमित्रचेतनावशर्ती, मातृसंज्ञी कल्याणमित्रेषु सर्वाहितपरिवर्जनतया, पितृसंज्ञी कल्याणमित्रेषु सर्वकुशलधर्मसंजननतया, मुक्तकस्य श्रेष्ठिनो ऽन्तिकात्प्रक्रान्तः

atha khalu sudhanaḥ śreṣṭhidārakastameva bodhisattvasarasvatīdhāraṇyālokavyūhamanuvicintayan, tameva bodhisattvamantranayasāgaramavataran, tameva bodhisattvacittavyavadānaviśuddhimanusmaran, tameva bodhisattvakuśalavāsanopasaṃhārābhinirhāramabhinirharan, tadeva bodhisattvaparipākamukhaṃ viśodhanayan, tadeva bodhisattvānāṃ sattvasaṃgrahajñānamuttāpayan, tāmeva bodhisattvāśayabalaviśuddhiṃ dṛḍhīkurvāṇaḥ tadeva bodhisattvādhyāśayabalamupastambhayan, tameva bodhisattvādhimuktivaṃśaṃ pariśodhayan, tāmeva bodhisattvāśayacittakalyāṇatāṃ saṃbhāvayan, tameva bodhisattvavyavasāyamuttārayan, sudhanaḥ śreiṣṭhidārako dṛḍhapratijñāpraṇidhicittāparikhinnasaṃtānavyūho 'nivartyavikrāntavīryaḥ pratyudāvartyamanovyavasāyaḥ asaṃhāryaśraddhābalopetaḥ vajranārāyaṇābhedyacittaḥ sarvakalyāṇamitrānuśāsanīpradakṣiṇagrāhī anupahataprajñāviṣayaḥ samantamukhaviśuddhayabhimukhaḥ apratihatajñānaviśuddhigocaraḥ samantanetrajñānanayālokaḥ samantabhūmidhāraṇyavabhāsapratilabdhaḥ dharmadhātutalabhedābhimukhacittaḥ samantatalāpratiṣṭhānavyūhaviśuddhisvabhāvavijñaptaḥ aniketāsamādvayagocaraparamaḥ sarvasaṃjñāvikramaṇajñānamukhaviśuddhaḥ sarvadikkulabhedadikpratyūhavyūhaḥ lokataladigbhedānivartyaḥ dharmataladigbhedāpratyudāvartyaḥ buddhadikkulabhedadarśanavijñaptiparamaḥ adhadikkulabhedānugatajñānī ruciradharmacakrasaṃbhṛtabuddhiḥ samantarucirajñānasamādhyākāralokāvabhāsitacittaḥ samantaviṣayabhūmyanugatamanaḥśarīraḥ tathāgatajñānavidyudavabhāsitasaṃtānaḥ sarvajñatormiprasādāvegasaṃjātaḥ buddhadharmaprasādavegāvirahitaḥ tathāgatādhiṣṭhānāvegāviṣṭaḥ sarvabuddhasvacittānugamālokāvabhāsitaḥ sarvalokadhātujālasvaśarīraspharaṇapraṇidhisamanvāgataḥ sarvadharmadhātusvakāyasamavasaraṇābhinirhāraparamo 'nupūrveṇa dvādaśabhirvarṣaistaṃ vanavāsijanapadamanuprāptaḥ / sa taṃ muktakaṃ śreṣṭhinaṃ parimārgamāṇo 'drākṣīt / dṛṣṭvā ca punaḥ sarvaśarīreṇa praṇipatya purataḥ prāñjaliḥ sthitvā evamāha - ārya, labdhā me lābhāḥ, yasya meghakalyāṇamitrasamavadhānam / tatkasya hetoḥ? durlabhadarśanāni hi kalyāṇamitrāṇi durlabhaprādurbhāvāni duḥpratyāgatāni durupasaṃkramaṇāni duḥparyupāsyāni / durāsadāni duḥsaṃvāsāni durabhisādhyāni duranubandhyāni kalyānamitrāṇi / tacca meghakalyāṇamitrasamavadhānaṃ jātam / mayā ārya anuttarāyāṃ samyaksaṃbodhau cittamutpāditam / yaduta sarvabuddhārāgaṇatāyai sarvabuddhābhirādhanatāyai sarvabuddhadarśanatāyai sarvabuddhavijñaptaye sarvabuddhasamatānugamāya sarvabuddhapraṇidhyanugamāya sarvabuddhapraṇidhiparipūraye sarvabuddhasamudāgamajñānālokanatāyai sarvabuddhasvaśarīrābhinirharaṇatāyai sarvabuddhasamudāgamasvacaryābhinirharaṇatāyai sarvabuddhavikurvitapratyakṣābhijñatāyai sarvabuddhabalavaiśāradyapariśuddhaye sarvadharmadeśanāśravaṇāvitṛptatāyai sarvabuddhadharmadeśanāśravaṇodgrahaṇatāyai sarvabuddhadharmadeśanāsaṃdhāraṇatāyai sarvabuddhadharmadeśanāvibhajanatāyai sarvabuddhaśāsanasaṃdhāraṇatāyai sarvabuddhasattvaikatvatāyai sarvabodhisattvasabhāgatāyai sarvabodhisattvacaryāpariśuddhye sarvabodhisattvapāramitāparipūraye (Gv 64) sarvabodhisattvapraṇidhyabhinirhāraviśuddhaye sarvabodhisattvabuddhādhiṣṭhānakośapratilābhitāyai sarvabodhisattvadharmanidhānakośākṣayajñānālokatāyai sarvabodhisattvanidhānakośānugamāya sarvabodhisattvāpramāṇakośābhinirharaṇatāyai sarvabodhisattvamahākaruṇānidhānakośasattvavinayaniṣṭhāparyantagamanatāyai sarvabodhisattvavikurvitanidhānakośavijñaptaye sarvabodhisattvavaśitānidhānakośasvacittavaśavartanatāyai sarvabodhisattvaviśuddhinidhānakośasarvākāravyūhatāyai / evaṃcitto 'hamārya ihopasaṃkrāntaḥ, evamabhiprāyaḥ evaṃmanorathaḥ evamabhinandyaḥ evamāśayaḥ evaṃnidhyaptiparamaḥ evaṃgocarābhimukhaḥ evanayānugamābhimukhaḥ evaṃviśuddhiparamaḥ evaṃvyūhābhiprāyaḥ evaṃpraṇatacittaḥ evaṃkalyāṇaprayogaḥ evamabhimukhendriyaḥ / śrutaṃ ca me āryo bodhisattvānāmavavādānuśāsanīṃ dadātīti, nayamupadiśati, anugamanamavabhāsayati, mārgamupadiśati, tīrthamavatārayati, dharmadvāraṃ vivṛṇoti, saṃśayān chinatti, kāṅkṣāṃ vinodayati, kathaṃkathāśalyamuddharati, vicikitsāmalamapakarṣayati, cittagahanamavabhāsayati, cittamalamapaharati, cittasaṃtatiṃ prasādayati, cittakauṭilyamapanayati, cittatāpaṃ prahlādayati, vyāvartayati, saṃsāracittaṃ vinivartayati, akuśalebhyo vivartayati, narakebhyo vivecayati, niketanebhya uccālayati, anabhiniveśāt parimocayati, sarvasaṅgebhya āvarjayati, sarvajñatāyāmabhimukhīkaroti, dharmanagarānupraveśāya āvartayati, mahākaruṇāyāṃ pratiṣṭhāpayati, mahāmaitryāṃ niyojayati, bodhisattvacaryāyāṃ praveśayati, samādhimukhabhavanatāyāṃ niveśayati, anugamamukheṣu sthāpayati, svabhāvanidhyaptau spharati, balānugamena vibhajati sarvajagatsamatānugamāya cittam / tadvadatu me āryaḥ - kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam? kathamabhiyoktavyam? kathaṃ prayoktavyam? kathaṃ prayuktasya kṣipraṃ viśudhyati bodhisattvacaryāmaṇḍalam? atha khalu muktakaḥ śreṣṭhī tasyāṃ velāyāṃ sarvabuddhakṣetrasamavasaraṇaṃ nāma anantāvartadhāraṇīmukhapūrvaṃgamaṃ bodhisattvasamādhimukhaṃ samāpadyata pūrvakuśalamūlabalādhānena tathāgatādhiṣṭhānena, mañjuśriyaśca kumārabhūtasya samanvāhareṇa jñānālokopasaṃhāreṇa ca / samanantarasamāpannasya ca muktakasya śreṣṭhinastathārūpā kāyapariśuddhiḥ saṃsthitā yayā kāyapariśuddhayā daśasu dikṣu daśabuddhakṣetraparamāṇurajaḥsamā buddhā bhagavantaḥ saha buddhakṣetrapariśuddhayā saparṣanmaṇḍalāḥ saha prabhāviśuddhayā sapūrvacaryāsaṃvāsāḥ sabuddhavikurvitāḥ sapraṇidhānasaṃbhārāḥ sahacaryāniryāṇavyūhaviśuddhayā sābhisaṃbodhisaṃdarśanāḥ sahadharmacakroddayotanāḥ sasattvaparipākāḥ sadharmaniṣṭhāparyantāḥ sarvakāye 'ntargatāḥ anupraviṣṭāḥ saṃdṛśyante sma / anyonyāsaṃbhinnā anyonyānāvaraṇā anyonyasuvibhaktā anyonyasuvyavasthitanānākalpasaṃsthānā yathāvadvijñaptā nānābuddhakṣetravyūhāḥ nānābodhisattvaparṣanmaṇḍalālaṃkārā nānābuddhavikurvitaṃ saṃdarśayantaḥ saṃdṛśyante sma / nānāyānanayavyavasthānā nānāpraṇidhānamukhaparidīpanāḥ kvacillokadhātau tuṣitabhavanopapannāḥ saṃdṛśyante / sarvabuddhakāryaṃ kurvantaḥ kvacittuṣitabhavanāccyavamānāḥ, kvacinmātuḥ kukṣigatāḥ vividhavikurvitāni (Gv 65) saṃdarśayantaḥ, kvacijjāyamānāḥ bālakrīḍāmupadarśayantaḥ, kvacidantaḥpuramadhyagatāḥ, kvacidabhiniṣkrāmantaḥ kvacidbodhimaṇḍavaragatāḥ mahāvyūhavikurvitamārasainyaparājayaṃ kurvantaḥ saṃdṛśyante / kvaciddevanāgayakṣagandharvaparivṛtā brahmendrairdharmacakrapravartanāyādhyeṣyamāṇāḥ, kvaciddharmacakraṃ pravartayantaḥ kvacitsarvasattvabhavanagatāḥ kvacitparinirvāyamāṇāḥ saṃdṛśyante / kvacillokadhātau tathāgatānāṃ parinirvṛtānāṃ dhātuvibhaṅgāḥ saṃdṛśyante / kvacidbuddhakṣetradevamanuṣyāstathāgatacaityānyalaṃkurvantaḥ saṃdṛśyante / yacca te buddhā bhagavanto bhāṣante nānāsattvanikāyeṣu nānāsattvalokeṣu nānāsattvagatiṣu nānāsattvopapattiṣu nānāsattvasaṃnipāteṣu nānāsattvakuśalamūlaparivarteṣu nānāsattvagatiparivarteṣu nānāsattvāśayaparivarteṣu nānāsattvādhimuktiparivarteṣu nānāsattvendriyaparivarteṣu nānākālaparivarteṣu nānāsattvakarmasaṃbhedeṣu nānāsattvakarmavimātratāsu nānāsattvalokavibhāvanāsu nānāgaticaryāvicariteṣu sattvanayeṣu nānāśayaprayogeṣu sattvasamudreṣu nānendriyavimātratāviśuddheṣu nānākleśavāsanānuśayiteṣu sattvaprasareṣu vividhabuddhivikurvitasaṃdarśanairnānāniruktibhirnānāsvarāṅgarutanirhārairnānāsūtrāntanayodāhārairnānādhāraṇīmukhaparivartairnānāpratisaṃvinnayaprabhavairnānāsatyanāmasamudraparivartaiḥ nānābuddharṣabhasiṃhanādanaiḥ nānāsattvakuśalamūladeśanāprātihāryasaṃdarśanaiḥ nānāmukhasmṛtinidarśanavikurvitaiḥ nānābodhisattvavyākaraṇasiṃhanādaiḥ nānātathāgatadharmacakravijṛmbhitaiḥ anantamadhyeṣu parṣanmaṇḍaleṣu anantasaṃbhedeṣvanyonyārambaṇeṣu nānāviśuddhaparṣanmaṇḍaleṣu vipuleṣu sūkṣmaparṣanmaṇḍalasamavasaraṇeṣu yojanapramāṇeṣu daśayojanapramāṇeṣu yāvadanabhilāpyabuddhakṣetraparamāṇurajaḥsamalokadhātupramāṇeṣu parṣanmaṇḍaleṣu yatte buddhā bhagavanto dharmaṃ bhāṣante sarvasvarāṅgarutaghoṣānugāminyā tathāgatavācā, taṃ sarvaṃ sudhanaḥ śreṣṭhidārakaḥ śṛṇoti udgṛhṇāti saṃdhārayati pravartayati upanidhyāyati / tacca vikurvitaṃ paśyati, tāṃ ca acintyāṃ bodhisattvasamādhivṛṣabhitām // atha khalu muktakaḥ śreṣṭhī smṛtaḥ saṃprajānaṃstasmātsamādhervyūtthāya sudhanaṃ śreṣṭhidārakametadavocat - ahaṃ kulaputra asaṅgavyūhaṃ nāma tathāgatavimokṣamāyūhāmi niryūhāmi / tasya me kulaputra asaṅgavyūhaṃ tathāgatavimokṣamāyūhato niryūhataḥ pūrvasyāṃ diśi jāmbūnadaprabhāsavatyāṃ lokadhātau tāreśvararājo nāma tathāgato 'rhan samyaksaṃbuddhaḥ sārdhaṃ vairocanagarbhabodhisattvapramukhena sarvabodhisattvaparṣanmaṇḍalena cakṣuṣa ābhāsamāgacchati / dakṣiṇāyāṃ diśi sarvabalavegavatyāṃ lokadhātau samantagandhavitāno nāma tathāgato 'rhan samyaksaṃbuddhaḥ sārdhaṃ cintārājabodhisattvapramukhena sarvabodhisattvaparṣanmaṇḍalena cakṣuṣa (Gv 66) ābhāsamāgacchati / paścimāyāṃ diśi sarvagandhaprabhāsavatyāṃ lokadhātau merupradīparājo nāma tathāgato 'rhan samyaksaṃbuddhaḥ sārdhamasaṅgacittabodhisattvapramukhena sarvabodhisattvaparṣanmaṇḍalena cakṣuṣa ābhāsamāgacchati / uttarāyāṃ diśi kāṣāyadhvajāyāṃ lokadhātau vajrapramardano nāma tathāgato 'rhan samyaksaṃbuddhaḥ sārdhaṃ vajrapadavikrāmibodhisattvapramukhena sarvabodhisattvaparṣanmaṇḍalena cakṣuṣaābhāsamāgacchati / uttarapūrvāyāṃ diśi sarvaratnarucirāyāṃ lokadhātau anilambhacakṣurvairocano nāma tathāgato 'rhan samyaksaṃbuddhaḥ sārdhamanilambhasunirmitabodhisattvapūrvaṃgamena sarvabodhisattvaparṣanmaṇḍalena cakṣuṣa ābhāsamāgacchati / pūrvadakṣiṇāyāṃ diśi gandhārciḥprabhāsvarāyāṃ lokadhātau gandhapradīpo nāma tathāgato 'rhan samyaksaṃbuddhaḥ sārdhaṃ sarvadharmadhātutalabhedaketurājabodhisattvapūrvaṃgamena bodhisattvaparṣanmaṇḍalena cakṣuṣa ābhāsamāgacchati / dakṣiṇapaścimāyāṃ diśi sūryakesaranirbhāsāyāṃ lokadhātau samantamukhajñānavirocanaghoṣo nāma tathāgato 'rhan samyaksaṃbuddhaḥ sārdhaṃ samantakusumārciḥpralambacūḍabodhisattvapūrvaṃgamena sarvabodhisattvaparṣanmaṇḍalena cakṣuṣa ābhāsamāgacchati / paścimottarāyāṃ diśi gandhālaṃkāraruciraśubhagarbhāyāṃ lokadhātāvapramāṇaguṇasāgaraprabho nāma tathāgato 'rhan samyaksaṃbuddhaḥ sārdhamasaṅgakāyaraśmitejomatibodhisattvapūrvaṃgamena sarvabodhisattvaparṣanmaṇḍalena cakṣuṣa ābhāsamāgacchati / aghodiśi ratnasiṃhāvabhāsajvalanāyāṃ lokadhātau dharmadhātuvidyotitaraśmirnām tathāgato 'rhan samyaksaṃbuddhaḥ sārdhaṃ dharmadhātvarcirvairocanasaṃbhavamatibodhisattvapūrvaṃgamena sarvabodhisattvaparṣanmaṇḍalena cakṣuṣa ābhāsamāgacchati / ūrdhvāyāṃ diśi lakṣaṇaruciravairocanāyāṃ lokadhātāvapratihataguṇakīrtivimokṣaprabharājo nāma tathāgato 'rhan samyaksaṃbuddhaḥ sārdhamasaṅgabalavīryamatibodhisattvapūrvaṃgamena sarvabodhisattvaparṣanmaṇḍalena cakṣuṣa ābhāsamāgacchati // iti hi kulaputra, etān daśa tathāgatān pramukhān kṛtvā daśasu dikṣu daśabuddhakṣetraparamāṇurajaḥsamāṃstathāgatānarhataḥ samyaksaṃbuddhān paśyāmi / na ca te tathāgatā ihāgacchanti, na cāhaṃ tatra gacchāmi / yasyāṃ ca velāyāmicchāmi, tasyāṃ velāyāṃ sukhāvatyāṃ lokadhātāvamitābhaṃ tathāgataṃ paśyāmi / candanavatyāṃ lokadhātau vajrābhaṃ tathāgataṃ paśyāmi / gandhavatyāṃ lokadhātau ratnābhaṃ tathāgataṃ paśyāmi / padmavatyāṃ lokadhātau ratnapadmābhaṃ tathāgataṃ paśyāmi / kanakavatyāṃ lokadhātau śāntābhaṃ tathāgataṃ paśyāmi / abhiratyāṃ lokadhātau akṣobhyaṃ tathāgataṃ paśyāmi / supratiṣṭhāyāṃ lokadhātau siṃhaṃ tathāgataṃ paśyāmi / ādarśamaṇḍalanibhāsāyāṃ lokadhātau candrabuddhiṃ tathāgataṃ paśyāmi / ratnaśrīhaṃsacitrāyāṃ lokadhātau vairocanaṃ tathāgataṃ paśyāmi / iti hi kulaputra yasyāṃ yasyāṃ diśi yasyāṃ yasyāṃ lokadhātau yaṃ yameva tathāgataṃ draṣṭumākāṅkṣāmi, taṃ tameva tathāgataṃ paśyāmi / yasmin yasminnadhvani yasmin yasminnārambaṇe yasyāṃ yasyāṃ pūrvacayāyāṃ tathāgataṃ draṣṭumākāṅkṣāmi, yasmin yasmin vikurvitakāraṇe yasmin yasmin sattvavinayakāraṇe yaṃ yaṃ tathāgataṃ draṣṭumākāṅkṣāmi, taṃ tameva tathāgataṃ paśyāmi / na ca te tathāgatā ihāgacchanti, na cāhaṃ tatra gacchāmi / so 'haṃ kulaputra na kutaścidāgamanatāṃ tathāgatānāṃ prajānan, na kvacidgamanatāṃ svakāyasya prajānan, svapnopamavijñaptiṃ ca tathāgatānāṃ prajānan, svapnasamavicāravijñaptiṃ svacittasya prajānan, pratibhāsasamavijñaptiṃ ca tathāgatānāṃ prajānan, acchodakabhājanavijñaptiṃ ca svacittasya prajānan, māyākṛtarūpavijñaptiṃ ca tathāgatānāṃ prajānan, māyopamavijñaptiṃ ca svacittasya prajānan, pratiśrutkāgirighoṣānuravaṇatāṃ ca tathāgataghoṣasya prajānan, pratiśrutkāsamavijñaptiṃ ca svacittasya prajānan, evamanugacchāmi (Gv 67) evamanusmarāmi svacittādhiṣṭhānaṃ bodhisattvānāṃ sarvabuddhadharma iti / svacittādhiṣṭhānaṃ sarvabuddhakṣetrapariśuddhiḥ, svacittādhiṣṭhānaṃ sarvabuddhabodhisattvacaryā, svacittādhiṣṭhānaṃ sarvasattvaparipākavinayaḥ, svacittādhiṣṭhānaṃ sarvabodhisattvapraṇidhānābhinirhāraḥ, svacittādhiṣṭhānaṃ sarvajñatānagarānuprāptiḥ, svacittādhiṣṭhānamacintyabodhisattvavimokṣavikrīḍanatā, svacittādhiṣṭhānaṃ buddhabodhyabhisaṃbodhaḥ, svacittādhiṣṭhānaṃ samantadharmadhātusamavasaraṇavṛṣabhitāvikurvitam, svacittādhiṣṭhānaṃ sarvakalpasūkṣmasamavasaraṇajñānamiti // tasya mama kulaputra evaṃ bhavati - svacittamevopastambhayitavyaṃ sarvakuśalamūlaiḥ / svacittameva pariṣyandayitavyaṃ dharmameghaiḥ / svacittameva pariśodhayitavyamārambaṇīyadharmebhyaḥ / svacitameva dṛḍhīkartavyaṃ vīryeṇa / svacittameva śamīkartavyaṃ kṣāntyā / svacitameva praṇayitavyaṃ jñānānugameṣu / svacittamevottāpayitavyaṃ prajñayā / svacittamevābhinirhartavyaṃ vaśitāśu / svacittamevavipulīkartavyaṃ buddhasamatāyām / svacittamevāvabhāsayitavyāṃ daśatathāgatabalaiḥ / etamahaṃ kulaputra asaṅgavyūhatathāgatavimokṣaṃ jānāmi āyūhāmi niryūhāmi / kiṃ mayā śakyaṃ bodhisattvānāmasaṅgacittānāmasaṅgavihāragocarāṇāṃ pratyutpannasarvabuddhadharmasaṃmukhāvasthitasamādhipratilabdhānāmaparionirvāṇakoṭigatasaṃbodhimukhasamādhipratilabdhānāṃ tryadhvasamatānuprāptānāṃ samantatalasaṃbhedasamādhigocaravidhijñānāṃ sarvabuddhakṣetrasuvibhaktaśarīrāṇāmasaṃbhinnabuddhaviṣayavihāriṇāṃ sarvadigabhimukhagocarāṇāmaparāṅbhukhajñānamaṇḍalavyavalokanānāṃ caryā jñātuṃ guṇān vā vaktum, yeṣāmātmabhāvasarvalokadhātusaṃvartavivartāḥ prajñāyante / na caiṣāmātmani lokadhātuṣu vā dvayasaṃjñā pravartate // gaccha kulaputra, ihaiva dakṣiṇāpathe milaspharaṇaṃ nāma jambūdvīpaśīrṣam / tatra sāradhvajo nāma bhikṣuḥ prativasati / tamupasaṃkramya paripṛccha - kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ prayoktavyam // atha khalu sudhanaḥ śreṣṭhidārako muktakasya śreṣṭhinaḥ pādau śirasābhivandya muktakaṃ śreṣṭhinamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya muktakasya śreṣṭhino 'saṃkhyān guṇānudānayan upavicārayan, abhilaṣan, avijahan rudan paridevan kalyāṇamitrasnehajātaḥ kalyāṇamitrapratiśaraṇaḥ kalyāṇamitrārāgaṇābhimukhaḥ kalyāṇamitrajñānamavikopayan kalyāṇamitrādhīnāṃ sarvajñatāṃ samanupaśyan kalyāṇamitrānugatāśayaḥ kalyāṇamitropāyasādhyopacāraḥ kalyāṇamitracetanāvaśartī, mātṛsaṃjñī kalyāṇamitreṣu sarvāhitaparivarjanatayā, pitṛsaṃjñī kalyāṇamitreṣu sarvakuśaladharmasaṃjananatayā, muktakasya śreṣṭhino 'ntikātprakrāntaḥ

Sanskrit only: no published translation is held for this verse.

सर्वबोधिसत्त्ववशितासु सत्त्वान् प्रतिष्ठापयमानान्, अपरान्तकोट्याविद्धं महाप्रणिधानरथचक्रं सर्वधर्मानुसरणं सर्वक्लेशविनिवर्तनमज्ञानपर्वतविकिरणं लोके प्रभावयमानान्, नानाप्रणिधानविकुर्वितैः चित्तक्षणे चित्तक्षणे धर्मधातुं स्फरमाणानपश्यत् । असंख्येयबुद्धक्षेत्रपरमाणुरजःसमांश्च बोधिसत्त्वान्निश्चरित्वा बोधिसत्त्वबलमवभासयमानान्, बोधिसत्त्वबलपरिनिष्पत्तिरुतं प्रमुञ्चमानान्, बलपारमितापरिनिष्पत्तिसंभवपूर्वयोगमेघान् सर्वरोमविवरेभ्यो निश्चारयमाणान्, सर्वमारपरप्रवाद्यनवमृद्यबलं संदर्शयमानान्, सर्वचक्रवालवज्रपर्वतशरीरोपनिपातात्मभेद्यबलं प्रभावयमानान्, (ग्व् ७४) सर्वकल्पोद्दाहाग्निसागरसंवासशरीरानुद्दयोतबलं संदर्शयमानान्, गगनतले सर्वलोकधातुप्रसरपाणितलसंधारणबलतां संदर्शयमानान्, चित्तक्षणे चित्तक्षणे ऋद्धिवशितायां सत्त्वान् प्रतिष्ठापयमानान् धर्मधातुस्फरणाप्रतिप्रस्रब्धानपश्यत् । असंख्येयबुद्धक्षेत्रपरमाणुरजःसमांश्च बोधिसत्त्वान् निश्चरित्वा सत्त्वानां ज्ञानमण्डलं द्योतयमानान्, ज्ञानपरिमितापरिशुद्धिसंप्रयुक्तान् पूर्वयोगमेघान् सर्वरोमविवरेभ्यः प्रमुञ्चमानान्, सर्वबुद्धगुणज्ञानाभिज्ञावतीं ज्ञानभूमिं लोके प्रभावयमाणान्, सर्वबुद्धसंज्ञाभिज्ञावतीं ज्ञानभूमिं संदर्शयमानान्, सर्वप्रणिध्यभिनिर्हाराभिज्ञानाभिज्ञावतीं ज्ञानभूमिं परिदीपयमानान्, सर्वसत्त्वसंग्रहप्रणिध्यभिनिर्हारज्ञानाभिज्ञावतीं ज्ञानभूमिं विख्यापयमानान्, सर्वसत्त्वनैरात्म्यास्वभावावताराभिज्ञावतीं ज्ञानभूमिं विख्यापयमानान्, सर्वसत्त्वचित्तसागरव्यवलोकनाभिज्ञावतीं ज्ञानभूमिं प्रकाशयमानान्, सर्वसत्त्वेन्द्रियविचयज्ञानाभिज्ञावतीं ज्ञानभूमिं प्रविभजमानान्, सर्वसत्त्वाशयाधिमुक्तिव्यवलोकनज्ञानाभिज्ञावतीं ज्ञानभूमिं संवर्णयमानान्, सर्वसत्त्वकर्मसागरावताराभिज्ञावतीं ज्ञानभूमिं विवरमाणान्, सर्वसत्त्वप्रणिधानसागरावतारज्ञानाभिज्ञावतीं ज्ञानभूमिं संदर्श्यं ज्ञानपारमितायां सत्त्वान् प्रतिष्ठापयमानान्, चित्तक्षणे चित्तक्षणे धर्मधातुं स्फरमाणान् सुधनः श्रेष्ठिदारको ऽपश्यत् ॥ मूर्धत उष्णीषविवरादसंख्येयबुद्धक्षेत्रपरमाणुरजःसमांस्तथागतविग्रहान् वरलक्षणानुव्यञ्जनविशुद्धयलंकारान् प्रतप्तजाम्बूनदकनकपर्वतनिर्भासान् सर्वदशदिक्प्रतापनाप्रमाणदीप्तप्रभामण्डलधर्मधातुनयस्फरणघोषान् अनन्तमध्यबुद्धविकुर्वितसंदर्शनान् सर्वजगदसंभिन्नधर्ममेघानभिप्रवर्षमाणान्, यदुत बोधिमण्डवरगतानां बोधिसत्त्वानां समन्तधर्मधातुतलभेदाभिमुखज्ञानमेघं नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, अभिषेकप्राप्तानां बोधिसत्त्वानां समन्ततलमेघं नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, महाधर्मयौवराज्याभिषिक्तानां बोधिसत्त्वानां समन्तमुखप्रवेशं नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, कुमारभूतानां बोधिसत्त्वानां समन्तव्यूहं नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, अविवर्त्यानां बोधिसत्त्वानां महाकरूणादृढकूटं नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, शुद्धाध्याशयानां बोधिसत्त्वानां सर्वधर्मस्वभावभेदज्ञानवज्रं नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, पूर्वयोगसंपन्नानां बोधिसत्त्वानां समन्तजगत्संग्रहव्यूहं नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, जन्मजानां बोधिसत्त्वानां त्र्यध्वतथागतपर्षन्मण्डलाभिमुखविज्ञप्तिमेघं नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, योगाचाराणां बोधिसत्त्वानां सर्वधर्मस्वभावतलनिर्घोषं नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, आदिकर्मिकाणां बोधिसत्त्वानां महाकरुणानयोपायगर्भमेघसंभवं नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, प्रथमचित्तोत्पादिकानां बोधिसत्त्वानां प्रग्रह कोशोपचयगर्भं नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, उदाराधिमुक्तिकानां बोधिसत्त्वानामक्षयविमोक्षतथागतप्रणिधिप्रग्रहकोशं नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, रूपावचराणां सत्त्वानां समन्ततलाक्षयकोशं नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, ब्रह्मकायिकानां देवानामप्रमाणनयसागरनिगर्जितघोषं (ग्व् ७५) नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, वशवर्तिनां देवानां बलसंभवधर्मोपकरणाक्षयकोशं नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, मारकायिकानां देवानां चित्रध्वजसर्वज्ञतासंभारसंमार्जनघोषं नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, निर्माणरतीनां देवानां ज्ञानरत्नविचित्रधुरं नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, तुषितानां देवानां बोधिसत्त्वप्रणिधिविचित्रध्वजं नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, यामानां देवानां सर्वतथागतानुस्मृतिकोशं नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, शक्रदेवेन्द्रभवनेषु तथागतदर्शनप्रीतिवेगसंभवं नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, यक्षेन्द्रभवनेषु धर्मधातुगगनतथागतविकुर्वितस्फरणमेघं नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, गन्धर्वेन्द्रभवनेषु सर्वतथागतधर्मसंगीतिनिर्घोषं नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, असुरेन्द्रभवनेषु ज्ञाननयवज्रमण्डलं नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, गरुडेन्द्रभवनेषु सर्वतथागतसंभवोपायमेघं नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, किन्नरेन्द्रभवनेषु सर्वधर्ममेघसंगीतिनिर्घोषं नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, नागेन्द्रभवनेषु बोधिसत्त्वविकुर्वितनिर्घोषभवगत्युद्वेगसंभवं नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, महोरगेन्द्रभवनेषु प्रीतिसागरविवर्धनवेगं नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, मनुष्यलोकेषु सर्वजगद्विशेषज्ञानविषयं नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, नरकलोकेषु सर्वसंसारदुःखप्रशान्तनिर्घोषार्यमार्गवचनाधारालंकारं नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, तिर्यग्योनिषु अनवद्यकर्मपथप्रतिपत्तिनिर्घोषतथागतानुस्मृतिमेघमण्डलशरीरं नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, यामलौकिकेषु सर्वतथागतपारमितानिर्नादसर्वसत्त्वत्यागचित्तसंभवं नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, विनिपतितेषु सत्त्वेषु सर्वदुःखोपशमप्रतिलाभसमाश्वासनस्वरनिर्घोषं नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, सर्वधर्मधातुं स्फरमाणान् सुधनः श्रेष्ठिदारको ऽपश्यत् ॥ सर्वरोममुखेभ्यश्च एकैकस्माद्रोमविवरादसंख्येयबुद्धक्षेत्रपरमाणुरजःसमानि रश्मिजालमण्डलानि निश्चरित्वा असंख्येयबलरूपावर्तव्यूहान् असंख्येयविचित्रकार्यप्रत्युपस्थानानि दश दिशो धर्मधातुं स्फरमाणान्यपश्यत् । यदुत कुतश्चिद्रोममुखरश्मिजालमण्डलाद्विमलदानचर्यासर्वस्वपरित्यागविकुर्वितमपश्यत् । कुतश्चिद्रोममुखरश्मिजालमण्डलात्सर्वत्र्यध्वबोधिसत्त्वशीलव्रतसमादानाकल्पमण्डलविकुर्वितमपश्यत् । कुतश्चिद्रोममुखरश्मिजालमण्डलात्सर्वबोधिसत्त्वक्षान्तिचर्यारूपत्र्यध्वप्राप्तानां बोधिसत्त्वानां हस्तपादोत्तमाङ्गच्छेदाधिवासनविकुर्वितं पाणिदण्डशस्रशरीरोपनिपाताधिवासनविकुर्वितं सर्वशरीरभेदनहृदयनयनोद्धरणाधिवासनविकुर्वितपश्यत् । यैरप्यन्यैस्त्र्यध्वप्राप्तबोधिसत्त्वविकल्पितात्मभावैः सर्वज्ञताधर्मपर्येष्टिनिदानं सर्वकायिकचैतसिकप्रपीडितान्यङ्गप्रत्यङ्गच्छेदनानि महाकरूणाप्रपीडितैरधिवासितानि मर्षितानि अध्युपेक्षितानि, तान्यपि सर्वबोधिसत्त्वक्षान्तिचर्याविकुर्वितप्रतिबिम्बरूपाण्यपश्यत् । कुतश्चिद्रोममुखरश्मिजालमण्डलात्सर्वबोधिसत्त्ववीर्यचर्याधिमात्रताविभक्तरूपाण्यतीतानागतप्रत्युत्पन्नानि बोधिसत्त्वविकुर्वितानि लोकसंकम्पनसागरसंक्षोभनसत्त्वसंवेजनसर्वतीर्थ्यसंत्रासनमारमण्डलविद्रावणधर्मदिग्द्योतनमहाबोधिसत्त्वविक्रमविकुर्वितान्यपश्यत् । (ग्व् ७६) कुतश्चिद्रोममुखरश्मिजालमण्डलाद् यानि सर्वबोधिसत्त्वचर्यानिरूपणानि यान्यात्मभावोपादानानि ये कुलोपपत्तिपरिग्रहाय रूपकाय परिनिष्पत्तये ये कल्याणमित्रानुशासनीपरिग्रहाः, यानि कल्याणमित्रोपदेशप्रतिपत्तिस्थानानि, यानि तथागतध्यानाङ्गपरिनिष्पत्त्यनुरूपविहारभवनविमानजनपदगिरिकन्दराणि, यानि ऋषिशरीराणि, यैस्तानि ध्यानाङ्गानि निष्पादितानि, यानि नृपाधिपत्यानि, यानि नैष्क्रम्यमुखानि, ये व्रतसमादानाकल्पेर्यापथाः, तत्सर्वं सुधनः श्रेष्ठिदारको ऽपश्यत् ॥ कुतश्चिद्रोममुखरश्मिजालमण्डलात् प्रज्ञापारमिताचर्याविहारसर्वधर्मपर्येष्टिसंप्रयुक्तान् कायपरिग्रहानपश्यत् । यैः कायैरेकैकंधर्मपदं सर्वास्तिपरित्यागितया सर्वसत्त्वानामन्तिकात्पर्येषितं सर्वोपस्थानपरिचर्यासर्वकल्याणमित्रसकाशात्पर्येषितं श्रद्धागौरवनिर्जातेन च कायप्रमाणेन तथागतसकाशात्पर्येषितम्, यथा चैकत्वं धर्मपदं तथा सर्वधर्मपदानि प्रज्ञापारमिताप्रतिसंयुक्तानि यानि सर्वजगदुपपत्तिप्रतिभासैः कायैः पर्येषितानि, तत्सर्वं सुधनः श्रेष्ठिदारकः एकैकस्माद्रोममुखरश्मिजालमण्डलादपश्यत् । कुतश्चिद्रोममुखरश्मिजालमण्डलात्सर्वबोधिसत्त्वपरिपाकोपायसत्त्वगतिसमुद्रप्रसरितान् सर्वसत्त्वसंग्रहप्रयोगानपश्यत् । एकैकं च सत्त्वं सर्वसत्त्वकायसदृशैरात्मभावोपचारमुखैः पूर्वात्मभावोपादानैरुपायकौशल्यचर्याप्रयुक्तैः संगृह्यमाणं तत एकैकस्माद्रोममुखरश्मिजालमण्डलादपश्यत् । कुतश्चिद्रोममुखरश्मिजालमण्डलात् या भगवतः पूर्वसर्वकल्पप्रणिध्यभिनिर्हारचर्या सर्वसत्त्वपरिपाकप्रणिध्यभिनिर्हारचर्या सर्वक्षेत्रपरिशुद्धिप्रणिध्यभिनिर्हारचर्या, यानि च सर्वप्रणिध्यभिनिर्हारमण्डलानि तेषु तेषु तथागतपादमूलेषु अभिनिर्हृतानि सर्वसंसारदोषाणां तस्य तस्य संसारदोषस्य प्रतिपक्षेण, तत्सर्वं सुधनः श्रेष्ठिदारकस्तत एकैकस्माद्रोममुखरश्मिजालमण्डलादपश्यत् । कुतश्चिद्रोममुखरश्मिजालमण्डलात्सर्वबलपारमिताचर्यासंप्रयुक्तान् पूर्वयोगसमुद्रानपश्यत् । कुतश्चिद्रोममुखरश्मिजालमण्डलात्सर्वज्ञानचर्याविचारसंप्रयुक्तानज्ञाननिद्राप्रसुप्तसत्त्वप्रबोधनशरीरान् पूर्वयोगसमुद्रानपश्यत् ॥ अथ खलु सुधनः श्रेष्ठिदारकः सारध्वजं भिक्षुं तथा समाहितमुपनिध्यायन्तमुपपरीक्षमाणः, तत्समाधिविमोक्षमण्डलमनुस्मरन्, तामचिन्त्यां बोधिसत्त्वसमाधिवृषभितामनुविचिन्तयन्, तमचिन्त्यं सत्त्वार्थनयसागरमवतरन्, तदचिन्त्यं समन्तस्रोताभिमुखव्यूहाभिसंस्कारमुखमनुसरन्, अधिमुच्यमानः, तद्धर्मधातुव्यूहविशुद्धिज्ञानमुखमवतरन्, तद्बुद्धाधिष्ठानं संप्रतीच्छन्, ज्ञानं निस्तीरयमाणः, तद्बोधिसत्त्ववशिताबलं संजनयन्, तद्बोधिसत्त्वप्रणिधिबलं दृढीकुर्वाणः, तद्बोधिसत्त्वचर्याबलं विस्तारयन्, सारध्वजस्य भिक्षोः पुरतः एकमपि रात्रिंदिवसमतिनामयति, द्वावपि, सप्तापि रात्रिंदिवानि पुरतो ऽतिनामयति, अर्धमासमपि, मासद्वयमपि, यावत् षडपि मासान् षड् वा रात्रिंदिवानि सारध्वजस्य भिक्षोः पुरतो ऽतिनामयति । ततः षण्णां मासानां षण्णां च रात्रिंदिवानामत्ययेन सारध्वजो भिक्षुस्तस्मात्समाधेर्व्युत्थितः । सुधन आह - आश्चर्यं बतेदम्, आर्य, यावद्गम्भीर एष (ग्व् ७७) समाधिः । यावद्विपुलो यावदप्रमाणविषयो यावदचिन्त्यविकुर्वितव्यूहः यावदतुल्यालोकः यावदसंख्येयव्यूहः यावदसंहार्यगोचरः यावदसंभिन्नविषयः यावत्समदिग्विरोचनः यावदप्रमाणसत्त्वार्थप्रयोग एष समाधिः, यत्र हि नाम एवं सर्वसत्त्वानामपरिमाणदुःखस्कन्धव्युपशमाय प्रत्युपस्थितः, यदुत दारिद्र्यदुः खस्कन्धव्युपशमार्थेन प्रत्युपस्थितः । नरकगतिव्युपच्छेदनार्थेन तिर्यग्योनिगतिपरित्राणार्थेन सर्वाक्षणगतिद्वारपिथनार्थेन स्वर्गगत्युपनयनार्थेन देवमनुष्यरतिसुखसंभवार्थेन ध्यानविषयरत्यनुभवार्थेन संस्कृतावचरसुखसंवर्धनार्थेन त्रैधातुकनिःसरणमुखसंदर्शनार्थेन प्रत्युपस्थितः । बोधिचित्तसंभवहेतुपरिदीपनार्थेन प्रत्युपस्थितः । पुण्यज्ञानसंभारसंभवहेतुसंवर्धनार्थेन विपुलमहाकरुणावेगविवर्धनार्थेन महाप्रणिधानबलसंजननार्थेन बोधिसत्त्वमार्गावभासप्रतिलम्भार्थेन महापारमितायानव्यूहार्थेन महायानविशेषावताराभिनिर्हारार्थेन समन्तभद्रचर्याज्ञानावलोकार्थेन बोधिसत्त्वभूमिज्ञानालोकप्रतिलाभार्थेन सर्वबोधिसत्त्वप्रणिधिचर्यानिर्याणव्यूहविशुद्धिसमुदागमार्थेन सर्वज्ञविषयाक्रमणाधिष्ठानार्थेन प्रत्युपस्थितः । को नाम आर्य एष समाधिः? आह - अस्ति कुलपुत्र, समन्तचक्षुरुपेक्षाप्रतिलब्धा नाम प्रज्ञापारमिता । तदालोक एष समाधिः समन्तमुखविशुद्धिव्यूहो नाम । एतस्य कुलपुत्र समन्तचक्षुरुपेक्षाप्रतिलब्धप्रज्ञापारमितालोकनिर्जातस्य समन्तमुखविशुद्धिव्यूहस्य समाधेः सुभावितत्वात्समन्तमुखविशुद्धिव्यूहपूर्वंगमानि परिपूर्णानि दश समाध्यसंख्येयशतसहस्राण्याजायन्ते । आह - एतावत्परमः आर्य अस्य समाधेर्विषयः? आह - एतं कुलपुत्र समाधिं समापन्नस्य अधिष्ठानं लोकधातुविज्ञप्तिषु । अधिष्ठानं लोकधात्ववतारेषु । अधिष्ठानं लोकधातुविक्रमेषु । अधिष्ठानं लोकधातुप्रतिमण्डलेषु । अधिष्ठानं लोकधातुपरिकर्मसु । अधिष्ठानं लोकधातुपरिशोधनेषु । अधिष्ठानं बुद्धदर्शनविज्ञप्तिषु । अधिष्ठानं बुद्धमाहात्म्यप्रत्यवेक्षायाम् । अधिष्ठानं बुद्धविकुर्वितज्ञानतायाम् । अधिष्ठानं बुद्धबलावतारानुगमेषु । अधिष्ठानं बुद्धगुणसमुद्रावतरणतासु । अधिष्ठानं बुद्धधर्ममेघसंप्रतीच्छनतासु । अधिष्ठानं सर्वबुद्धधर्मचक्रप्रवर्तनासंभेदज्ञानानुगमेषु । अधिष्ठानं बुद्धपर्षण्डलसमुद्रावतरणावगाहनतासु । अधिष्ठानं दशदिक्प्रवेशानुसरणतासु । अधिष्ठानं बुद्धधर्मदेशनानुविलोकनेषु । अधिष्ठानं बुद्धदिगनुलोकनतासु । अधिष्ठानं महाकरुणादिगविजहनतासु । अधिष्ठानं मैत्रीदिक्स्फरणतासु । अधिष्ठानं बुद्धदर्शनदिगवतारातृप्तिषु । अधिष्ठानं सर्वसत्त्वसमुद्रावतारानुगमेषु । अधिष्ठानं सर्वसत्त्वेन्द्रियसमुद्रज्ञानानुगमेषु । अधिष्ठानं सर्वसत्त्वेन्द्रियसंभेदज्ञानेषु । एतमहं कुलपुत्र प्रज्ञापारमिताविहारं जानामि । किं मया शक्यं प्रज्ञापारमिताविहारसागरावतीर्णानां धर्मधातुविषयमतिविशुद्धानां सर्वधर्मगत्यनुसृतिज्ञानिनां विपुलबुद्ध्यप्रमाणविषयस्फरणानां महाधारण्यवभासवशवर्तिनां सर्वसमाधिमण्डलालोकसुपरिशुद्धानामभिज्ञाविकुर्वितवृषभितानिर्यातानामक्षयप्रतिसंवित्सागरावतीर्णानां भूमिगर्भमधुरनिर्घोषाणां सर्वजगत्प्रतिशरणभूतानां बोधिसत्त्वानां चर्या ज्ञातुम्, गुणान् वा वक्तुम्, गोचरो वा निदर्शयितुम्, (ग्व् ७८) विषयो वा प्रभावयितुम्, महाप्रणिधानबलं वा संवर्णयितुम्, निर्याणमुखं वा अवभासयितुम्, समुदागमो वा अभिद्योतयितुम्, मार्गं वा परिदीपयितुम्, समाधिस्रोतो व अनुसर्तुम्, चित्तविषयो वा ज्ञातुम्, ज्ञानं वा समता वा अवगन्तुम् ॥ गच्छ कुलपुत्र इहैव दक्षिणापथे समुद्रवेताडी नाम प्रत्युद्देशः । तत्र समन्तव्यूहं नामोद्यानं महाप्रभस्य नगरस्य पूर्वेण । तत्र आशा नामोपासिका प्रतिवसति सुप्रभस्य मनुजेन्द्रस्य भार्या । तामुपसंक्रम्य परिपृच्छ - कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रयोक्तव्यम् ॥ अथ खलु सुधनः श्रेष्ठिदारकस्तुष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातः सारध्वजस्य भिक्षोरन्तिकादात्तसारः उपजीवितधर्मा अवतीर्णसमाधिविषयो लब्धालोकावभासितज्ञानः समाध्यवभासप्रतिलब्धः अधिमुक्तिविशुद्धयनुगतधर्मनयालोकानुगतचेतनः विशुद्धिमुखानुगतालोको दिगालोकप्रसृतज्ञानः सारध्वजस्य भिक्षोः पादौ शिरसाभिवन्द्य अनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य सारध्वजं भिक्षुमवलोक्य प्रणिपत्य पुनः पुनरवलोकयन् अभिविलोकयन् निपतन् प्रणिपतन् नमस्यन् अवनमन् मनसिकुर्वंश्चिन्तयन् भावयन् पारिभावयन् उदानमुदानयन् हाक्कारं कुर्वन् गुणानभिमुखीकुर्वन् अनुगमयन् अनुस्मरन् अनुस्मारयन् दृढीकुर्वन् अविजहन् मनसा आगमयन् उपनिबध्नन् प्रणिधिं समवसरन् दर्शनमभिलषन् स्वरनिमित्तमुद्गृह्णन् धारयन् धारणानुगतचित्तो वर्णसंस्थानमनुस्मरन् ज्ञानविशेषमनुविचिन्तयन् समाधिविषयं समवतरन् प्रणिधिविषयमनुप्रबन्धन् गोचरविषयं विचारयन् ज्ञानावभासं संप्रतीच्छन् सारध्वजस्य भिक्षोरन्तिकात्प्रक्रान्तः

sarvabodhisattvavaśitāsu sattvān pratiṣṭhāpayamānān, aparāntakoṭyāviddhaṃ mahāpraṇidhānarathacakraṃ sarvadharmānusaraṇaṃ sarvakleśavinivartanamajñānaparvatavikiraṇaṃ loke prabhāvayamānān, nānāpraṇidhānavikurvitaiḥ cittakṣaṇe cittakṣaṇe dharmadhātuṃ spharamāṇānapaśyat / asaṃkhyeyabuddhakṣetraparamāṇurajaḥsamāṃśca bodhisattvānniścaritvā bodhisattvabalamavabhāsayamānān, bodhisattvabalapariniṣpattirutaṃ pramuñcamānān, balapāramitāpariniṣpattisaṃbhavapūrvayogameghān sarvaromavivarebhyo niścārayamāṇān, sarvamāraparapravādyanavamṛdyabalaṃ saṃdarśayamānān, sarvacakravālavajraparvataśarīropanipātātmabhedyabalaṃ prabhāvayamānān, (Gv 74) sarvakalpoddāhāgnisāgarasaṃvāsaśarīrānuddayotabalaṃ saṃdarśayamānān, gaganatale sarvalokadhātuprasarapāṇitalasaṃdhāraṇabalatāṃ saṃdarśayamānān, cittakṣaṇe cittakṣaṇe ṛddhivaśitāyāṃ sattvān pratiṣṭhāpayamānān dharmadhātuspharaṇāpratiprasrabdhānapaśyat / asaṃkhyeyabuddhakṣetraparamāṇurajaḥsamāṃśca bodhisattvān niścaritvā sattvānāṃ jñānamaṇḍalaṃ dyotayamānān, jñānaparimitāpariśuddhisaṃprayuktān pūrvayogameghān sarvaromavivarebhyaḥ pramuñcamānān, sarvabuddhaguṇajñānābhijñāvatīṃ jñānabhūmiṃ loke prabhāvayamāṇān, sarvabuddhasaṃjñābhijñāvatīṃ jñānabhūmiṃ saṃdarśayamānān, sarvapraṇidhyabhinirhārābhijñānābhijñāvatīṃ jñānabhūmiṃ paridīpayamānān, sarvasattvasaṃgrahapraṇidhyabhinirhārajñānābhijñāvatīṃ jñānabhūmiṃ vikhyāpayamānān, sarvasattvanairātmyāsvabhāvāvatārābhijñāvatīṃ jñānabhūmiṃ vikhyāpayamānān, sarvasattvacittasāgaravyavalokanābhijñāvatīṃ jñānabhūmiṃ prakāśayamānān, sarvasattvendriyavicayajñānābhijñāvatīṃ jñānabhūmiṃ pravibhajamānān, sarvasattvāśayādhimuktivyavalokanajñānābhijñāvatīṃ jñānabhūmiṃ saṃvarṇayamānān, sarvasattvakarmasāgarāvatārābhijñāvatīṃ jñānabhūmiṃ vivaramāṇān, sarvasattvapraṇidhānasāgarāvatārajñānābhijñāvatīṃ jñānabhūmiṃ saṃdarśyaṃ jñānapāramitāyāṃ sattvān pratiṣṭhāpayamānān, cittakṣaṇe cittakṣaṇe dharmadhātuṃ spharamāṇān sudhanaḥ śreṣṭhidārako 'paśyat // mūrdhata uṣṇīṣavivarādasaṃkhyeyabuddhakṣetraparamāṇurajaḥsamāṃstathāgatavigrahān varalakṣaṇānuvyañjanaviśuddhayalaṃkārān prataptajāmbūnadakanakaparvatanirbhāsān sarvadaśadikpratāpanāpramāṇadīptaprabhāmaṇḍaladharmadhātunayaspharaṇaghoṣān anantamadhyabuddhavikurvitasaṃdarśanān sarvajagadasaṃbhinnadharmameghānabhipravarṣamāṇān, yaduta bodhimaṇḍavaragatānāṃ bodhisattvānāṃ samantadharmadhātutalabhedābhimukhajñānameghaṃ nāma dharmameghavarṣamabhipravarṣamāṇān, abhiṣekaprāptānāṃ bodhisattvānāṃ samantatalameghaṃ nāma dharmameghavarṣamabhipravarṣamāṇān, mahādharmayauvarājyābhiṣiktānāṃ bodhisattvānāṃ samantamukhapraveśaṃ nāma dharmameghavarṣamabhipravarṣamāṇān, kumārabhūtānāṃ bodhisattvānāṃ samantavyūhaṃ nāma dharmameghavarṣamabhipravarṣamāṇān, avivartyānāṃ bodhisattvānāṃ mahākarūṇādṛḍhakūṭaṃ nāma dharmameghavarṣamabhipravarṣamāṇān, śuddhādhyāśayānāṃ bodhisattvānāṃ sarvadharmasvabhāvabhedajñānavajraṃ nāma dharmameghavarṣamabhipravarṣamāṇān, pūrvayogasaṃpannānāṃ bodhisattvānāṃ samantajagatsaṃgrahavyūhaṃ nāma dharmameghavarṣamabhipravarṣamāṇān, janmajānāṃ bodhisattvānāṃ tryadhvatathāgataparṣanmaṇḍalābhimukhavijñaptimeghaṃ nāma dharmameghavarṣamabhipravarṣamāṇān, yogācārāṇāṃ bodhisattvānāṃ sarvadharmasvabhāvatalanirghoṣaṃ nāma dharmameghavarṣamabhipravarṣamāṇān, ādikarmikāṇāṃ bodhisattvānāṃ mahākaruṇānayopāyagarbhameghasaṃbhavaṃ nāma dharmameghavarṣamabhipravarṣamāṇān, prathamacittotpādikānāṃ bodhisattvānāṃ pragraha kośopacayagarbhaṃ nāma dharmameghavarṣamabhipravarṣamāṇān, udārādhimuktikānāṃ bodhisattvānāmakṣayavimokṣatathāgatapraṇidhipragrahakośaṃ nāma dharmameghavarṣamabhipravarṣamāṇān, rūpāvacarāṇāṃ sattvānāṃ samantatalākṣayakośaṃ nāma dharmameghavarṣamabhipravarṣamāṇān, brahmakāyikānāṃ devānāmapramāṇanayasāgaranigarjitaghoṣaṃ (Gv 75) nāma dharmameghavarṣamabhipravarṣamāṇān, vaśavartināṃ devānāṃ balasaṃbhavadharmopakaraṇākṣayakośaṃ nāma dharmameghavarṣamabhipravarṣamāṇān, mārakāyikānāṃ devānāṃ citradhvajasarvajñatāsaṃbhārasaṃmārjanaghoṣaṃ nāma dharmameghavarṣamabhipravarṣamāṇān, nirmāṇaratīnāṃ devānāṃ jñānaratnavicitradhuraṃ nāma dharmameghavarṣamabhipravarṣamāṇān, tuṣitānāṃ devānāṃ bodhisattvapraṇidhivicitradhvajaṃ nāma dharmameghavarṣamabhipravarṣamāṇān, yāmānāṃ devānāṃ sarvatathāgatānusmṛtikośaṃ nāma dharmameghavarṣamabhipravarṣamāṇān, śakradevendrabhavaneṣu tathāgatadarśanaprītivegasaṃbhavaṃ nāma dharmameghavarṣamabhipravarṣamāṇān, yakṣendrabhavaneṣu dharmadhātugaganatathāgatavikurvitaspharaṇameghaṃ nāma dharmameghavarṣamabhipravarṣamāṇān, gandharvendrabhavaneṣu sarvatathāgatadharmasaṃgītinirghoṣaṃ nāma dharmameghavarṣamabhipravarṣamāṇān, asurendrabhavaneṣu jñānanayavajramaṇḍalaṃ nāma dharmameghavarṣamabhipravarṣamāṇān, garuḍendrabhavaneṣu sarvatathāgatasaṃbhavopāyameghaṃ nāma dharmameghavarṣamabhipravarṣamāṇān, kinnarendrabhavaneṣu sarvadharmameghasaṃgītinirghoṣaṃ nāma dharmameghavarṣamabhipravarṣamāṇān, nāgendrabhavaneṣu bodhisattvavikurvitanirghoṣabhavagatyudvegasaṃbhavaṃ nāma dharmameghavarṣamabhipravarṣamāṇān, mahoragendrabhavaneṣu prītisāgaravivardhanavegaṃ nāma dharmameghavarṣamabhipravarṣamāṇān, manuṣyalokeṣu sarvajagadviśeṣajñānaviṣayaṃ nāma dharmameghavarṣamabhipravarṣamāṇān, narakalokeṣu sarvasaṃsāraduḥkhapraśāntanirghoṣāryamārgavacanādhārālaṃkāraṃ nāma dharmameghavarṣamabhipravarṣamāṇān, tiryagyoniṣu anavadyakarmapathapratipattinirghoṣatathāgatānusmṛtimeghamaṇḍalaśarīraṃ nāma dharmameghavarṣamabhipravarṣamāṇān, yāmalaukikeṣu sarvatathāgatapāramitānirnādasarvasattvatyāgacittasaṃbhavaṃ nāma dharmameghavarṣamabhipravarṣamāṇān, vinipatiteṣu sattveṣu sarvaduḥkhopaśamapratilābhasamāśvāsanasvaranirghoṣaṃ nāma dharmameghavarṣamabhipravarṣamāṇān, sarvadharmadhātuṃ spharamāṇān sudhanaḥ śreṣṭhidārako 'paśyat // sarvaromamukhebhyaśca ekaikasmādromavivarādasaṃkhyeyabuddhakṣetraparamāṇurajaḥsamāni raśmijālamaṇḍalāni niścaritvā asaṃkhyeyabalarūpāvartavyūhān asaṃkhyeyavicitrakāryapratyupasthānāni daśa diśo dharmadhātuṃ spharamāṇānyapaśyat / yaduta kutaścidromamukharaśmijālamaṇḍalādvimaladānacaryāsarvasvaparityāgavikurvitamapaśyat / kutaścidromamukharaśmijālamaṇḍalātsarvatryadhvabodhisattvaśīlavratasamādānākalpamaṇḍalavikurvitamapaśyat / kutaścidromamukharaśmijālamaṇḍalātsarvabodhisattvakṣānticaryārūpatryadhvaprāptānāṃ bodhisattvānāṃ hastapādottamāṅgacchedādhivāsanavikurvitaṃ pāṇidaṇḍaśasraśarīropanipātādhivāsanavikurvitaṃ sarvaśarīrabhedanahṛdayanayanoddharaṇādhivāsanavikurvitapaśyat / yairapyanyaistryadhvaprāptabodhisattvavikalpitātmabhāvaiḥ sarvajñatādharmaparyeṣṭinidānaṃ sarvakāyikacaitasikaprapīḍitānyaṅgapratyaṅgacchedanāni mahākarūṇāprapīḍitairadhivāsitāni marṣitāni adhyupekṣitāni, tānyapi sarvabodhisattvakṣānticaryāvikurvitapratibimbarūpāṇyapaśyat / kutaścidromamukharaśmijālamaṇḍalātsarvabodhisattvavīryacaryādhimātratāvibhaktarūpāṇyatītānāgatapratyutpannāni bodhisattvavikurvitāni lokasaṃkampanasāgarasaṃkṣobhanasattvasaṃvejanasarvatīrthyasaṃtrāsanamāramaṇḍalavidrāvaṇadharmadigdyotanamahābodhisattvavikramavikurvitānyapaśyat / (Gv 76) kutaścidromamukharaśmijālamaṇḍalād yāni sarvabodhisattvacaryānirūpaṇāni yānyātmabhāvopādānāni ye kulopapattiparigrahāya rūpakāya pariniṣpattaye ye kalyāṇamitrānuśāsanīparigrahāḥ, yāni kalyāṇamitropadeśapratipattisthānāni, yāni tathāgatadhyānāṅgapariniṣpattyanurūpavihārabhavanavimānajanapadagirikandarāṇi, yāni ṛṣiśarīrāṇi, yaistāni dhyānāṅgāni niṣpāditāni, yāni nṛpādhipatyāni, yāni naiṣkramyamukhāni, ye vratasamādānākalperyāpathāḥ, tatsarvaṃ sudhanaḥ śreṣṭhidārako 'paśyat // kutaścidromamukharaśmijālamaṇḍalāt prajñāpāramitācaryāvihārasarvadharmaparyeṣṭisaṃprayuktān kāyaparigrahānapaśyat / yaiḥ kāyairekaikaṃdharmapadaṃ sarvāstiparityāgitayā sarvasattvānāmantikātparyeṣitaṃ sarvopasthānaparicaryāsarvakalyāṇamitrasakāśātparyeṣitaṃ śraddhāgauravanirjātena ca kāyapramāṇena tathāgatasakāśātparyeṣitam, yathā caikatvaṃ dharmapadaṃ tathā sarvadharmapadāni prajñāpāramitāpratisaṃyuktāni yāni sarvajagadupapattipratibhāsaiḥ kāyaiḥ paryeṣitāni, tatsarvaṃ sudhanaḥ śreṣṭhidārakaḥ ekaikasmādromamukharaśmijālamaṇḍalādapaśyat / kutaścidromamukharaśmijālamaṇḍalātsarvabodhisattvaparipākopāyasattvagatisamudraprasaritān sarvasattvasaṃgrahaprayogānapaśyat / ekaikaṃ ca sattvaṃ sarvasattvakāyasadṛśairātmabhāvopacāramukhaiḥ pūrvātmabhāvopādānairupāyakauśalyacaryāprayuktaiḥ saṃgṛhyamāṇaṃ tata ekaikasmādromamukharaśmijālamaṇḍalādapaśyat / kutaścidromamukharaśmijālamaṇḍalāt yā bhagavataḥ pūrvasarvakalpapraṇidhyabhinirhāracaryā sarvasattvaparipākapraṇidhyabhinirhāracaryā sarvakṣetrapariśuddhipraṇidhyabhinirhāracaryā, yāni ca sarvapraṇidhyabhinirhāramaṇḍalāni teṣu teṣu tathāgatapādamūleṣu abhinirhṛtāni sarvasaṃsāradoṣāṇāṃ tasya tasya saṃsāradoṣasya pratipakṣeṇa, tatsarvaṃ sudhanaḥ śreṣṭhidārakastata ekaikasmādromamukharaśmijālamaṇḍalādapaśyat / kutaścidromamukharaśmijālamaṇḍalātsarvabalapāramitācaryāsaṃprayuktān pūrvayogasamudrānapaśyat / kutaścidromamukharaśmijālamaṇḍalātsarvajñānacaryāvicārasaṃprayuktānajñānanidrāprasuptasattvaprabodhanaśarīrān pūrvayogasamudrānapaśyat // atha khalu sudhanaḥ śreṣṭhidārakaḥ sāradhvajaṃ bhikṣuṃ tathā samāhitamupanidhyāyantamupaparīkṣamāṇaḥ, tatsamādhivimokṣamaṇḍalamanusmaran, tāmacintyāṃ bodhisattvasamādhivṛṣabhitāmanuvicintayan, tamacintyaṃ sattvārthanayasāgaramavataran, tadacintyaṃ samantasrotābhimukhavyūhābhisaṃskāramukhamanusaran, adhimucyamānaḥ, taddharmadhātuvyūhaviśuddhijñānamukhamavataran, tadbuddhādhiṣṭhānaṃ saṃpratīcchan, jñānaṃ nistīrayamāṇaḥ, tadbodhisattvavaśitābalaṃ saṃjanayan, tadbodhisattvapraṇidhibalaṃ dṛḍhīkurvāṇaḥ, tadbodhisattvacaryābalaṃ vistārayan, sāradhvajasya bhikṣoḥ purataḥ ekamapi rātriṃdivasamatināmayati, dvāvapi, saptāpi rātriṃdivāni purato 'tināmayati, ardhamāsamapi, māsadvayamapi, yāvat ṣaḍapi māsān ṣaḍ vā rātriṃdivāni sāradhvajasya bhikṣoḥ purato 'tināmayati / tataḥ ṣaṇṇāṃ māsānāṃ ṣaṇṇāṃ ca rātriṃdivānāmatyayena sāradhvajo bhikṣustasmātsamādhervyutthitaḥ / sudhana āha - āścaryaṃ batedam, ārya, yāvadgambhīra eṣa (Gv 77) samādhiḥ / yāvadvipulo yāvadapramāṇaviṣayo yāvadacintyavikurvitavyūhaḥ yāvadatulyālokaḥ yāvadasaṃkhyeyavyūhaḥ yāvadasaṃhāryagocaraḥ yāvadasaṃbhinnaviṣayaḥ yāvatsamadigvirocanaḥ yāvadapramāṇasattvārthaprayoga eṣa samādhiḥ, yatra hi nāma evaṃ sarvasattvānāmaparimāṇaduḥkhaskandhavyupaśamāya pratyupasthitaḥ, yaduta dāridryaduḥ khaskandhavyupaśamārthena pratyupasthitaḥ / narakagativyupacchedanārthena tiryagyonigatiparitrāṇārthena sarvākṣaṇagatidvārapithanārthena svargagatyupanayanārthena devamanuṣyaratisukhasaṃbhavārthena dhyānaviṣayaratyanubhavārthena saṃskṛtāvacarasukhasaṃvardhanārthena traidhātukaniḥsaraṇamukhasaṃdarśanārthena pratyupasthitaḥ / bodhicittasaṃbhavahetuparidīpanārthena pratyupasthitaḥ / puṇyajñānasaṃbhārasaṃbhavahetusaṃvardhanārthena vipulamahākaruṇāvegavivardhanārthena mahāpraṇidhānabalasaṃjananārthena bodhisattvamārgāvabhāsapratilambhārthena mahāpāramitāyānavyūhārthena mahāyānaviśeṣāvatārābhinirhārārthena samantabhadracaryājñānāvalokārthena bodhisattvabhūmijñānālokapratilābhārthena sarvabodhisattvapraṇidhicaryāniryāṇavyūhaviśuddhisamudāgamārthena sarvajñaviṣayākramaṇādhiṣṭhānārthena pratyupasthitaḥ / ko nāma ārya eṣa samādhiḥ? āha - asti kulaputra, samantacakṣurupekṣāpratilabdhā nāma prajñāpāramitā / tadāloka eṣa samādhiḥ samantamukhaviśuddhivyūho nāma / etasya kulaputra samantacakṣurupekṣāpratilabdhaprajñāpāramitālokanirjātasya samantamukhaviśuddhivyūhasya samādheḥ subhāvitatvātsamantamukhaviśuddhivyūhapūrvaṃgamāni paripūrṇāni daśa samādhyasaṃkhyeyaśatasahasrāṇyājāyante / āha - etāvatparamaḥ ārya asya samādherviṣayaḥ? āha - etaṃ kulaputra samādhiṃ samāpannasya adhiṣṭhānaṃ lokadhātuvijñaptiṣu / adhiṣṭhānaṃ lokadhātvavatāreṣu / adhiṣṭhānaṃ lokadhātuvikrameṣu / adhiṣṭhānaṃ lokadhātupratimaṇḍaleṣu / adhiṣṭhānaṃ lokadhātuparikarmasu / adhiṣṭhānaṃ lokadhātupariśodhaneṣu / adhiṣṭhānaṃ buddhadarśanavijñaptiṣu / adhiṣṭhānaṃ buddhamāhātmyapratyavekṣāyām / adhiṣṭhānaṃ buddhavikurvitajñānatāyām / adhiṣṭhānaṃ buddhabalāvatārānugameṣu / adhiṣṭhānaṃ buddhaguṇasamudrāvataraṇatāsu / adhiṣṭhānaṃ buddhadharmameghasaṃpratīcchanatāsu / adhiṣṭhānaṃ sarvabuddhadharmacakrapravartanāsaṃbhedajñānānugameṣu / adhiṣṭhānaṃ buddhaparṣaṇḍalasamudrāvataraṇāvagāhanatāsu / adhiṣṭhānaṃ daśadikpraveśānusaraṇatāsu / adhiṣṭhānaṃ buddhadharmadeśanānuvilokaneṣu / adhiṣṭhānaṃ buddhadiganulokanatāsu / adhiṣṭhānaṃ mahākaruṇādigavijahanatāsu / adhiṣṭhānaṃ maitrīdikspharaṇatāsu / adhiṣṭhānaṃ buddhadarśanadigavatārātṛptiṣu / adhiṣṭhānaṃ sarvasattvasamudrāvatārānugameṣu / adhiṣṭhānaṃ sarvasattvendriyasamudrajñānānugameṣu / adhiṣṭhānaṃ sarvasattvendriyasaṃbhedajñāneṣu / etamahaṃ kulaputra prajñāpāramitāvihāraṃ jānāmi / kiṃ mayā śakyaṃ prajñāpāramitāvihārasāgarāvatīrṇānāṃ dharmadhātuviṣayamativiśuddhānāṃ sarvadharmagatyanusṛtijñānināṃ vipulabuddhyapramāṇaviṣayaspharaṇānāṃ mahādhāraṇyavabhāsavaśavartināṃ sarvasamādhimaṇḍalālokasupariśuddhānāmabhijñāvikurvitavṛṣabhitāniryātānāmakṣayapratisaṃvitsāgarāvatīrṇānāṃ bhūmigarbhamadhuranirghoṣāṇāṃ sarvajagatpratiśaraṇabhūtānāṃ bodhisattvānāṃ caryā jñātum, guṇān vā vaktum, gocaro vā nidarśayitum, (Gv 78) viṣayo vā prabhāvayitum, mahāpraṇidhānabalaṃ vā saṃvarṇayitum, niryāṇamukhaṃ vā avabhāsayitum, samudāgamo vā abhidyotayitum, mārgaṃ vā paridīpayitum, samādhisroto va anusartum, cittaviṣayo vā jñātum, jñānaṃ vā samatā vā avagantum // gaccha kulaputra ihaiva dakṣiṇāpathe samudravetāḍī nāma pratyuddeśaḥ / tatra samantavyūhaṃ nāmodyānaṃ mahāprabhasya nagarasya pūrveṇa / tatra āśā nāmopāsikā prativasati suprabhasya manujendrasya bhāryā / tāmupasaṃkramya paripṛccha - kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ prayoktavyam // atha khalu sudhanaḥ śreṣṭhidārakastuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajātaḥ sāradhvajasya bhikṣorantikādāttasāraḥ upajīvitadharmā avatīrṇasamādhiviṣayo labdhālokāvabhāsitajñānaḥ samādhyavabhāsapratilabdhaḥ adhimuktiviśuddhayanugatadharmanayālokānugatacetanaḥ viśuddhimukhānugatāloko digālokaprasṛtajñānaḥ sāradhvajasya bhikṣoḥ pādau śirasābhivandya anekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya sāradhvajaṃ bhikṣumavalokya praṇipatya punaḥ punaravalokayan abhivilokayan nipatan praṇipatan namasyan avanaman manasikurvaṃścintayan bhāvayan pāribhāvayan udānamudānayan hākkāraṃ kurvan guṇānabhimukhīkurvan anugamayan anusmaran anusmārayan dṛḍhīkurvan avijahan manasā āgamayan upanibadhnan praṇidhiṃ samavasaran darśanamabhilaṣan svaranimittamudgṛhṇan dhārayan dhāraṇānugatacitto varṇasaṃsthānamanusmaran jñānaviśeṣamanuvicintayan samādhiviṣayaṃ samavataran praṇidhiviṣayamanuprabandhan gocaraviṣayaṃ vicārayan jñānāvabhāsaṃ saṃpratīcchan sāradhvajasya bhikṣorantikātprakrāntaḥ

Sanskrit only: no published translation is held for this verse.

अथ खलु सुधनः श्रेष्ठिदारक आशाया उपासिकायाः पादौ शिरसाभिवन्द्य आशामुपासिकामनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनः पुनरवलोक्य प्रणिपत्य अश्रुमुखो रुदन् बोधिपरमदुर्लभतामनुविचिन्तयन्, कल्याणमित्रदुरारागणतामनुविचिन्तयन्, सत्पुरुषसमवधानसुदुर्लभतामनुविचिन्तयन्, बोधिसत्त्वेन्द्रियप्रतिलाभदुरभिसंभवतामनुविचिन्तयन्, बोधिसत्त्वाशयविशुद्धिदुर्लभतामनुविचिन्तयन्, सभागमित्रसमवधानदुर्लभतामनुविचिन्तयन्, यथावद्बोध्यभिमुखचित्तनिध्यप्तिदुर्लभतामनुविचिन्तयन्, अविषमधर्मनयानुशासनीप्रयोगदुर्लभतामनुविचिन्तयन्, असंहार्यचित्तकल्याणतायोगसंजननदुर्लभतामनुविचिन्तयन्, सर्वज्ञतावेगविवर्धनधर्मालोकसुदुर्लभतामनुविचिन्तयन्, आशाया उपासिकाया अन्तिकात्प्रक्रान्तः

atha khalu sudhanaḥ śreṣṭhidāraka āśāyā upāsikāyāḥ pādau śirasābhivandya āśāmupāsikāmanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya praṇipatya aśrumukho rudan bodhiparamadurlabhatāmanuvicintayan, kalyāṇamitradurārāgaṇatāmanuvicintayan, satpuruṣasamavadhānasudurlabhatāmanuvicintayan, bodhisattvendriyapratilābhadurabhisaṃbhavatāmanuvicintayan, bodhisattvāśayaviśuddhidurlabhatāmanuvicintayan, sabhāgamitrasamavadhānadurlabhatāmanuvicintayan, yathāvadbodhyabhimukhacittanidhyaptidurlabhatāmanuvicintayan, aviṣamadharmanayānuśāsanīprayogadurlabhatāmanuvicintayan, asaṃhāryacittakalyāṇatāyogasaṃjananadurlabhatāmanuvicintayan, sarvajñatāvegavivardhanadharmālokasudurlabhatāmanuvicintayan, āśāyā upāsikāyā antikātprakrāntaḥ

Sanskrit only: no published translation is held for this verse.

अथ खलु सुधनः श्रेष्ठिदारको बोधिसत्त्वानुशासन्यनुगतचित्तो बोधिसत्त्वचर्यापरिशोधनानुगतचित्तो बोधिसत्त्वपुण्यबलविवर्धनचित्तो बुद्धदर्शनवेगावभासितचित्तो धर्मनिधानप्रतिलाभसंजातचित्तवेगो महाप्रणिधानाभिनिर्हारप्रवर्धितचित्तवेगः सर्वधर्मदिगभिमुखचित्तो धर्मस्वभावावभासितचित्तः सर्वावरणविकिरणचित्तो निरन्धकारधर्मधातुव्यवलोकनचित्तो नारायणवज्ररत्नाभेद्यविमलाशयचित्तः सर्वमारबलदुर्योधनदुर्धर्षणचित्तो ऽनुपूर्वेण येन नालयुर्जनपदः तेनोपसंक्रम्य भीष्मोत्तरनिर्घोषमृषिमन्वेषते स्म । तेन च समयेन भीष्मोत्तरनिर्घोषर्षिरन्यतमस्मिन्नाश्रमपदे विहरति स्म असंख्येयविचित्रद्रुमलतावनरमणीये विविधवृक्षपत्रसंछन्ने सदाप्रफुल्लितविचित्रपुष्पवृक्षे सदाफलोपचितफलवृक्षे नानारत्नवृक्षोदारमणिफलकसंस्कृततले सुविभक्तमहाचन्दनद्रुमे मनोज्ञागरुवृक्षसदाप्रमुक्तगन्धोपशोभिते चतुर्दिक्षुविभक्तगन्धोपशोभिते चतुर्दिक्षु विभक्तपाटलीवृक्षसमलंकृते न्यग्रोधवृक्षपादपरुचिरसंस्थाने सदापक्वफलजम्बूवृक्षप्रवर्षणे नवनलिनीपद्मोत्पलकुमुदोपशोभिते । अद्राक्षीत्सुधनः श्रेष्ठिदारको भीष्मोत्तरनिर्घोषमृषिं दशऋषिसहस्रपरिवृतं चन्दनतलावबद्धायां कुट्यां जटामकुटधारिणमजिनदर्भचीवरवल्कलवसनं तृणसंस्तरोपविष्टम् । दृष्ट्वा च पुनर्येन भीष्मोत्तरनिर्घोष ऋषिस्तेनोपजगाम । उपेत्य भूतकल्याणमित्रप्रतिलम्बनाशयकल्याणमित्रायद्वारां सर्वज्ञतां संपश्यन्, भूतमार्गोपनयाय कल्याणमित्रानुशासन्यधीनां सर्वज्ञतां संपश्यन्, सर्वज्ञताभूम्युपनयेन कल्याणमित्रदासाधीनां सर्वज्ञतां संपश्यन्, दशबलज्ञानरत्नद्वीपोपनयेन कल्याणमित्रोल्कावभासितां सर्वज्ञतां संपश्यन्, दशबलज्ञानालोकसंजननतया कल्याणमित्रमार्गां सर्वज्ञतां संपश्यन्, अक्षुण्णसर्वज्ञतापुरप्रापणतया कल्याणमित्रप्रदीपां सर्वज्ञतां संपश्यन्, समविषमसंदर्शनतया कल्याणमित्रं सेतुं सर्वज्ञतायाः संपश्यन्, सर्वप्रपातभयविगमनतया कल्याणमित्रच्छत्रां सर्वज्ञतां संपश्यन्, महामैत्रीबलाह्लादसंजननतया कल्याणमित्रवेगां सर्वज्ञतां संपश्यन्, महाकरुणासंजननतया कल्याणमित्राधीनां सर्वज्ञतादर्शनपरिपुष्टिं संपश्यन्, धर्मस्वभावनयावभासनतया सर्वशरीरेण प्रणिपत्य उत्थाय भीष्मोत्तरनिर्घोषमृषिं अनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य प्राञ्जलिभूतः पुरतः स्थित्वा मनोज्ञोपचारेण मनोज्ञां वाचमुदीरयन् एवमाह - मया आर्य अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम् । न च जानामि कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् । श्रुतं च मे आर्यो बोधिसत्त्वानामववादानुशासनीं ददातीति । तद्वदतु मे आर्यः - कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् ॥ अथ खलु भीष्मोत्तरनिर्घोषऋषिस्तानि दश माणवकसहस्राण्यनुविलोक्य एवमाहअनेन माणवकाः कुलपुत्रेण अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम् । सर्वसत्त्वाश्चाभयेनोपनिमन्त्रिताः । अयं स कुलपुत्राः सर्वसत्त्वहितसुखाय प्रत्युपस्थितो ज्ञानसागराभिमुखः (ग्व् ८८) सर्वतथागतानां धर्ममेघान् धातुकामः सर्वधर्मनयसागरानवगाहयितुकामः महाज्ञानालोके ऽवस्थातुकामो महाकरुणामेघमुपस्थापयितुकामो महाधर्मवर्षमभिप्रवर्षयितुकामो महाज्ञानालोके चन्द्रे उदागत्य सर्वक्लेशप्रतापं प्रशमयितुकामो सर्वसत्त्वकुशलमूलानि वर्धयितुकामः ॥ अथ खलु तानि दश माणवकसहस्राणि नानावर्णैः सुरुचिरैः सुगन्धैः पुष्पैः सुधनं श्रेष्ठिदारकमवकीर्य अभ्यवकीर्य अभिवन्द्य नमस्कृत्वा प्रणिपत्य प्रदक्षिणीकृत्य एवं वाचमुदीरयामासुः - एष त्राता भविष्यति, सर्वसत्त्वानां सर्वनिरयदुःखानि प्रशमयिष्यति । सर्वतिर्यग्योनिगतिं व्यवच्छेत्स्यति । सर्वयमलोकगतिं विनिवर्तयिष्यति । सर्वाक्षणद्वारकपाटानि पिथपयिष्यति । तृष्णासमुद्रमुच्छोषयिष्यति । तृष्णाबन्धनं छेत्स्यति । दुःखस्कन्धं विनिवर्तयिष्यति । अविद्यान्धकारं विधमयिष्यति । पुण्यचक्रवालं लोके परिसंस्थापयिष्यति । ज्ञानरत्नाकरमुपदर्शयिष्यति । ज्ञानसूर्यमुदागमिष्यति । धर्मचक्षुर्विशोधयिष्यति । समविषमं लोके संप्रकाशयिष्यति । अथ खलु भीष्मोत्तरनिर्घोष ऋषिः तान् माणवकानेवमाह - येन माणवका अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितं भवति, स बोधिसत्त्वचर्यां चरन् सर्वसत्त्वानां सुखमुत्पादयति, अनुपूर्वेण च सर्वज्ञतां प्रतिलभते । अनेन माणवकाः कुलपुत्रेण अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम् । स एष सर्वबुद्धगुणभूमिं परिपूरयिष्यति । अथ खलु भीष्मोत्तरनिर्घोष ऋषिः सुधनं श्रेष्ठिदारकमेतदवोचत् - अहं कुलपुत्र अपराजितध्वजस्य बोधिसत्त्वस्य विमोक्षस्य लाभी । सुधन आह - क एतस्य आर्य अपराजितध्वजस्य बोधिसत्त्वविमोक्षस्य विषयः? ततो भीष्मात्तरनिर्घोषऋषिः दक्षिणं पाणिं प्रसार्य सुधनं श्रेष्ठिदारकं शिरसि परिमार्ज्य दक्षिणेन पाणिना पर्यगृह्णात् । समनन्तरपरिगृहीतश्च सुधनः श्रेष्ठिदारको भीष्मोत्तरनिर्घोषेण ऋषिणा दक्षिणेन पाणिना, अथ तावदेव सुधनः श्रेष्ठिदारको ऽपश्यद्दशसु दिक्षु दशबुद्धक्षेत्रशतसहस्रपरमाणुरजःसमानि बुद्धक्षेत्राणि । तेषु च दशबुद्धक्षेत्रशतसहस्रपरमाणुरजःसमानां तथागतानां पादमूलगतमात्मानं संजानाति स्म । तानि च बुद्धक्षेत्राण्यपश्यदसंख्येयाकारविशुद्धव्यूहानि । तेषु च तथागतपर्षन्मण्डलसमुद्रान्नानावर्णविचित्रव्यूहानपश्यत् । तेषु च पर्षन्मण्डलसमुद्रेषु तथागतशरीराणि लक्षणानुव्यञ्जनोज्ज्वलितोपचितान्यपश्यत् । तेभ्यश्च धर्मदेशनां शृणोत्येकपदव्यञ्जनापराङ्भुखाम् । तानि च तथागतधर्मचक्राण्यन्योन्यासंभिन्नानि संधारयति । तांश्च धर्ममेघान्नानासत्त्वाशयेषु प्रवर्षणां संप्रतीच्छति । तेषां च तथागतानां नानाधिमुक्तिबलविशोधितं पूर्वप्रणिधानसमुद्रानवतरति । तांश्च नानाप्रणिधानसागरविशुद्धान् बुद्धसमुदागमसमुद्रानवतरति । तांश्च यथाशयसर्वसत्त्वसहस्रसंतोषणविज्ञापनान् बुद्धवर्णानद्राक्षीत् । तानि च बुद्धरश्मिजालानि नानाविरागविशुद्धव्यूहमण्डलान्यपश्यत् । तानि च बुद्धबलान्यनावरणज्ञानालोकानुगमेनावतरति । स क्वचित्तथागतपादमूले रात्रिंदिवं संजानाति । क्वचित्सप्त रात्रिंदिवानि, क्वचिदर्धमासम्, क्वचिन्मासम्,क्वचित्संवत्सरं क्वचिद्वर्षशतं क्वचिद्वर्षसहस्रं क्वचिद्वर्षशतसहस्रं क्वचिद्वर्षकोटिं (ग्व् ८९) क्वचिद्वर्षकोटीशतं क्वचिद्वर्षकोटिसहस्रं क्वचिद्वर्षकोटीशतसहस्रं क्वचिद्वर्षकोट्ययुतं क्वचिद्वर्षकोटीनियुतं क्वचिदर्धकल्पं संजानाति । क्वचित्कल्पं क्वचित्कल्पशतं क्वचित्कल्पसहस्रं क्वचित्कल्पशतसहस्रं क्वचित्कल्पकोटीं क्वचित्कल्पकोटीशतं क्वचित्कल्पकोटीसहस्रं क्वचित्कल्पकोटीशतसहस्रं क्वचित्कल्पकोटीनियुतशतसहस्रं क्वचित्तथागतपादमूले यावदनभिलाप्यानभिलाप्यान् कल्पान् संजानाति । क्वचित्तथागतपादमूले जम्बूद्वीपपरमाणुरजःसमान् कल्पान् संजानाति । क्वचिद्यावदनभिलाप्यानभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमान् कल्पान् संजानाति अपराजितध्वजबोधिसत्त्वविमोक्षज्ञानावभासितो वैरोचनगर्भसमाध्यवभासप्रतिलब्धः अक्षयज्ञानविमोक्षसमाध्यनुगतः समन्तदिक्पञ्जरधारणीमुखावलोकप्रतिलब्धो वज्रमण्डलधारणीमुखावभासितचित्तः सुविभक्तज्ञानकूटविषयसमाधिविहारप्रतिलब्धः समन्ततलव्यूहमार्गप्रज्ञापारमिताविहारविषयो बुद्धगगनगर्भमण्डलसमाध्यालोकप्रसृतः सर्वबुद्धधर्मचक्रनेमिसमाध्यवभासितचित्तः त्र्यध्वज्ञानरत्नाक्षयमण्डलसमाध्यालोकप्राप्तः ॥ अथ खलु भीष्मोत्तरनिर्घोष ऋषिः सुधनं श्रेष्ठिदारकं व्यमुञ्चत् । स पुनरपि भीष्मोत्तरनिर्घोषस्य ऋषेः पुरतः स्थितमात्मानं संजानाति । तं भीष्मोत्तरनिर्घोष ऋषिराह - स्मरसि कुलपुत्र? आह - स्मरामि आर्य कल्याणमित्राधिष्ठानेन । आह - एतमहं कुलपुत्र अपराजितध्वजं बोधिसत्त्वविमोक्षं जानामि । किं मया शक्यं सर्वजगद्विशेषज्ञानाभिज्ञावतारसमाधिप्रतिलब्धानां बोधिसत्त्वानां सर्वकालचक्रवशवर्तिनां बुद्धलक्षणज्ञानाभिनिर्हारकुशलानां तथागतदिवसावक्रान्तिविज्ञप्तिव्यूहानां त्र्यध्वविषयैकलक्षणज्ञानसमवसरणानां सर्वलोकधातुसुविभक्तकायानां सर्वधर्मधात्ववभासितज्ञानशरीराणां सर्वसत्त्वयथाशयाभिमुखाभ्युत्थितानां यथाशयसत्त्वचर्याविचारानुकूलोपचाराणां समन्ताभिरुचितरोचनानाम् अमलविपुलरुचिरज्ञानमण्डलविशुद्धानां चर्या ज्ञातुं गुणा वा वक्तुं प्रणिधिविशेषो वा सूचयितुं क्षेत्राभिसंस्कारो वा ज्ञातुं ज्ञानविषयो अवगाहितुं समाधिगोचरो वा अनुसर्तुं ऋद्विविकुर्वितं वा अवतरितुं विमोक्षवृषभिताविक्रीडितं वा अनुगन्तुं शरीरविभक्तिनिमित्तं वा उद्ग्रहीतुं स्वरमण्डलविशुद्धिर्वा प्रभावयितुं ज्ञानावभासो वा निदर्शयितुम् ॥ गच्छ कुलपुत्र, अयमिहैव दक्षिणापथे ईषाणो नाम जनपदः । तत्र जयोष्मायतनो नाम ब्राह्मणः प्रतिवसति । तमुपसंक्रम्य परिपृच्छ - कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् ॥ अथ खलु सुधनः श्रेष्ठिदारकस्तुष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातो भीष्मोत्तरनिर्घोषस्य ऋषेः पादौ शिरसाभिवन्द्य भीष्मोत्तरनिर्घोषं ऋषिमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनः पुनरवलोक्य भीष्मोत्तरनिर्घोषस्य ऋषेरन्तिकात्प्रक्रान्तः

atha khalu sudhanaḥ śreṣṭhidārako bodhisattvānuśāsanyanugatacitto bodhisattvacaryāpariśodhanānugatacitto bodhisattvapuṇyabalavivardhanacitto buddhadarśanavegāvabhāsitacitto dharmanidhānapratilābhasaṃjātacittavego mahāpraṇidhānābhinirhārapravardhitacittavegaḥ sarvadharmadigabhimukhacitto dharmasvabhāvāvabhāsitacittaḥ sarvāvaraṇavikiraṇacitto nirandhakāradharmadhātuvyavalokanacitto nārāyaṇavajraratnābhedyavimalāśayacittaḥ sarvamārabaladuryodhanadurdharṣaṇacitto 'nupūrveṇa yena nālayurjanapadaḥ tenopasaṃkramya bhīṣmottaranirghoṣamṛṣimanveṣate sma / tena ca samayena bhīṣmottaranirghoṣarṣiranyatamasminnāśramapade viharati sma asaṃkhyeyavicitradrumalatāvanaramaṇīye vividhavṛkṣapatrasaṃchanne sadāpraphullitavicitrapuṣpavṛkṣe sadāphalopacitaphalavṛkṣe nānāratnavṛkṣodāramaṇiphalakasaṃskṛtatale suvibhaktamahācandanadrume manojñāgaruvṛkṣasadāpramuktagandhopaśobhite caturdikṣuvibhaktagandhopaśobhite caturdikṣu vibhaktapāṭalīvṛkṣasamalaṃkṛte nyagrodhavṛkṣapādaparucirasaṃsthāne sadāpakvaphalajambūvṛkṣapravarṣaṇe navanalinīpadmotpalakumudopaśobhite / adrākṣītsudhanaḥ śreṣṭhidārako bhīṣmottaranirghoṣamṛṣiṃ daśaṛṣisahasraparivṛtaṃ candanatalāvabaddhāyāṃ kuṭyāṃ jaṭāmakuṭadhāriṇamajinadarbhacīvaravalkalavasanaṃ tṛṇasaṃstaropaviṣṭam / dṛṣṭvā ca punaryena bhīṣmottaranirghoṣa ṛṣistenopajagāma / upetya bhūtakalyāṇamitrapratilambanāśayakalyāṇamitrāyadvārāṃ sarvajñatāṃ saṃpaśyan, bhūtamārgopanayāya kalyāṇamitrānuśāsanyadhīnāṃ sarvajñatāṃ saṃpaśyan, sarvajñatābhūmyupanayena kalyāṇamitradāsādhīnāṃ sarvajñatāṃ saṃpaśyan, daśabalajñānaratnadvīpopanayena kalyāṇamitrolkāvabhāsitāṃ sarvajñatāṃ saṃpaśyan, daśabalajñānālokasaṃjananatayā kalyāṇamitramārgāṃ sarvajñatāṃ saṃpaśyan, akṣuṇṇasarvajñatāpuraprāpaṇatayā kalyāṇamitrapradīpāṃ sarvajñatāṃ saṃpaśyan, samaviṣamasaṃdarśanatayā kalyāṇamitraṃ setuṃ sarvajñatāyāḥ saṃpaśyan, sarvaprapātabhayavigamanatayā kalyāṇamitracchatrāṃ sarvajñatāṃ saṃpaśyan, mahāmaitrībalāhlādasaṃjananatayā kalyāṇamitravegāṃ sarvajñatāṃ saṃpaśyan, mahākaruṇāsaṃjananatayā kalyāṇamitrādhīnāṃ sarvajñatādarśanaparipuṣṭiṃ saṃpaśyan, dharmasvabhāvanayāvabhāsanatayā sarvaśarīreṇa praṇipatya utthāya bhīṣmottaranirghoṣamṛṣiṃ anekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya prāñjalibhūtaḥ purataḥ sthitvā manojñopacāreṇa manojñāṃ vācamudīrayan evamāha - mayā ārya anuttarāyāṃ samyaksaṃbodhau cittamutpāditam / na ca jānāmi kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam / śrutaṃ ca me āryo bodhisattvānāmavavādānuśāsanīṃ dadātīti / tadvadatu me āryaḥ - kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam // atha khalu bhīṣmottaranirghoṣaṛṣistāni daśa māṇavakasahasrāṇyanuvilokya evamāhaanena māṇavakāḥ kulaputreṇa anuttarāyāṃ samyaksaṃbodhau cittamutpāditam / sarvasattvāścābhayenopanimantritāḥ / ayaṃ sa kulaputrāḥ sarvasattvahitasukhāya pratyupasthito jñānasāgarābhimukhaḥ (Gv 88) sarvatathāgatānāṃ dharmameghān dhātukāmaḥ sarvadharmanayasāgarānavagāhayitukāmaḥ mahājñānāloke 'vasthātukāmo mahākaruṇāmeghamupasthāpayitukāmo mahādharmavarṣamabhipravarṣayitukāmo mahājñānāloke candre udāgatya sarvakleśapratāpaṃ praśamayitukāmo sarvasattvakuśalamūlāni vardhayitukāmaḥ // atha khalu tāni daśa māṇavakasahasrāṇi nānāvarṇaiḥ suruciraiḥ sugandhaiḥ puṣpaiḥ sudhanaṃ śreṣṭhidārakamavakīrya abhyavakīrya abhivandya namaskṛtvā praṇipatya pradakṣiṇīkṛtya evaṃ vācamudīrayāmāsuḥ - eṣa trātā bhaviṣyati, sarvasattvānāṃ sarvanirayaduḥkhāni praśamayiṣyati / sarvatiryagyonigatiṃ vyavacchetsyati / sarvayamalokagatiṃ vinivartayiṣyati / sarvākṣaṇadvārakapāṭāni pithapayiṣyati / tṛṣṇāsamudramucchoṣayiṣyati / tṛṣṇābandhanaṃ chetsyati / duḥkhaskandhaṃ vinivartayiṣyati / avidyāndhakāraṃ vidhamayiṣyati / puṇyacakravālaṃ loke parisaṃsthāpayiṣyati / jñānaratnākaramupadarśayiṣyati / jñānasūryamudāgamiṣyati / dharmacakṣurviśodhayiṣyati / samaviṣamaṃ loke saṃprakāśayiṣyati / atha khalu bhīṣmottaranirghoṣa ṛṣiḥ tān māṇavakānevamāha - yena māṇavakā anuttarāyāṃ samyaksaṃbodhau cittamutpāditaṃ bhavati, sa bodhisattvacaryāṃ caran sarvasattvānāṃ sukhamutpādayati, anupūrveṇa ca sarvajñatāṃ pratilabhate / anena māṇavakāḥ kulaputreṇa anuttarāyāṃ samyaksaṃbodhau cittamutpāditam / sa eṣa sarvabuddhaguṇabhūmiṃ paripūrayiṣyati / atha khalu bhīṣmottaranirghoṣa ṛṣiḥ sudhanaṃ śreṣṭhidārakametadavocat - ahaṃ kulaputra aparājitadhvajasya bodhisattvasya vimokṣasya lābhī / sudhana āha - ka etasya ārya aparājitadhvajasya bodhisattvavimokṣasya viṣayaḥ? tato bhīṣmāttaranirghoṣaṛṣiḥ dakṣiṇaṃ pāṇiṃ prasārya sudhanaṃ śreṣṭhidārakaṃ śirasi parimārjya dakṣiṇena pāṇinā paryagṛhṇāt / samanantaraparigṛhītaśca sudhanaḥ śreṣṭhidārako bhīṣmottaranirghoṣeṇa ṛṣiṇā dakṣiṇena pāṇinā, atha tāvadeva sudhanaḥ śreṣṭhidārako 'paśyaddaśasu dikṣu daśabuddhakṣetraśatasahasraparamāṇurajaḥsamāni buddhakṣetrāṇi / teṣu ca daśabuddhakṣetraśatasahasraparamāṇurajaḥsamānāṃ tathāgatānāṃ pādamūlagatamātmānaṃ saṃjānāti sma / tāni ca buddhakṣetrāṇyapaśyadasaṃkhyeyākāraviśuddhavyūhāni / teṣu ca tathāgataparṣanmaṇḍalasamudrānnānāvarṇavicitravyūhānapaśyat / teṣu ca parṣanmaṇḍalasamudreṣu tathāgataśarīrāṇi lakṣaṇānuvyañjanojjvalitopacitānyapaśyat / tebhyaśca dharmadeśanāṃ śṛṇotyekapadavyañjanāparāṅbhukhām / tāni ca tathāgatadharmacakrāṇyanyonyāsaṃbhinnāni saṃdhārayati / tāṃśca dharmameghānnānāsattvāśayeṣu pravarṣaṇāṃ saṃpratīcchati / teṣāṃ ca tathāgatānāṃ nānādhimuktibalaviśodhitaṃ pūrvapraṇidhānasamudrānavatarati / tāṃśca nānāpraṇidhānasāgaraviśuddhān buddhasamudāgamasamudrānavatarati / tāṃśca yathāśayasarvasattvasahasrasaṃtoṣaṇavijñāpanān buddhavarṇānadrākṣīt / tāni ca buddharaśmijālāni nānāvirāgaviśuddhavyūhamaṇḍalānyapaśyat / tāni ca buddhabalānyanāvaraṇajñānālokānugamenāvatarati / sa kvacittathāgatapādamūle rātriṃdivaṃ saṃjānāti / kvacitsapta rātriṃdivāni, kvacidardhamāsam, kvacinmāsam,kvacitsaṃvatsaraṃ kvacidvarṣaśataṃ kvacidvarṣasahasraṃ kvacidvarṣaśatasahasraṃ kvacidvarṣakoṭiṃ (Gv 89) kvacidvarṣakoṭīśataṃ kvacidvarṣakoṭisahasraṃ kvacidvarṣakoṭīśatasahasraṃ kvacidvarṣakoṭyayutaṃ kvacidvarṣakoṭīniyutaṃ kvacidardhakalpaṃ saṃjānāti / kvacitkalpaṃ kvacitkalpaśataṃ kvacitkalpasahasraṃ kvacitkalpaśatasahasraṃ kvacitkalpakoṭīṃ kvacitkalpakoṭīśataṃ kvacitkalpakoṭīsahasraṃ kvacitkalpakoṭīśatasahasraṃ kvacitkalpakoṭīniyutaśatasahasraṃ kvacittathāgatapādamūle yāvadanabhilāpyānabhilāpyān kalpān saṃjānāti / kvacittathāgatapādamūle jambūdvīpaparamāṇurajaḥsamān kalpān saṃjānāti / kvacidyāvadanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamān kalpān saṃjānāti aparājitadhvajabodhisattvavimokṣajñānāvabhāsito vairocanagarbhasamādhyavabhāsapratilabdhaḥ akṣayajñānavimokṣasamādhyanugataḥ samantadikpañjaradhāraṇīmukhāvalokapratilabdho vajramaṇḍaladhāraṇīmukhāvabhāsitacittaḥ suvibhaktajñānakūṭaviṣayasamādhivihārapratilabdhaḥ samantatalavyūhamārgaprajñāpāramitāvihāraviṣayo buddhagaganagarbhamaṇḍalasamādhyālokaprasṛtaḥ sarvabuddhadharmacakranemisamādhyavabhāsitacittaḥ tryadhvajñānaratnākṣayamaṇḍalasamādhyālokaprāptaḥ // atha khalu bhīṣmottaranirghoṣa ṛṣiḥ sudhanaṃ śreṣṭhidārakaṃ vyamuñcat / sa punarapi bhīṣmottaranirghoṣasya ṛṣeḥ purataḥ sthitamātmānaṃ saṃjānāti / taṃ bhīṣmottaranirghoṣa ṛṣirāha - smarasi kulaputra? āha - smarāmi ārya kalyāṇamitrādhiṣṭhānena / āha - etamahaṃ kulaputra aparājitadhvajaṃ bodhisattvavimokṣaṃ jānāmi / kiṃ mayā śakyaṃ sarvajagadviśeṣajñānābhijñāvatārasamādhipratilabdhānāṃ bodhisattvānāṃ sarvakālacakravaśavartināṃ buddhalakṣaṇajñānābhinirhārakuśalānāṃ tathāgatadivasāvakrāntivijñaptivyūhānāṃ tryadhvaviṣayaikalakṣaṇajñānasamavasaraṇānāṃ sarvalokadhātusuvibhaktakāyānāṃ sarvadharmadhātvavabhāsitajñānaśarīrāṇāṃ sarvasattvayathāśayābhimukhābhyutthitānāṃ yathāśayasattvacaryāvicārānukūlopacārāṇāṃ samantābhirucitarocanānām amalavipularucirajñānamaṇḍalaviśuddhānāṃ caryā jñātuṃ guṇā vā vaktuṃ praṇidhiviśeṣo vā sūcayituṃ kṣetrābhisaṃskāro vā jñātuṃ jñānaviṣayo avagāhituṃ samādhigocaro vā anusartuṃ ṛdvivikurvitaṃ vā avatarituṃ vimokṣavṛṣabhitāvikrīḍitaṃ vā anugantuṃ śarīravibhaktinimittaṃ vā udgrahītuṃ svaramaṇḍalaviśuddhirvā prabhāvayituṃ jñānāvabhāso vā nidarśayitum // gaccha kulaputra, ayamihaiva dakṣiṇāpathe īṣāṇo nāma janapadaḥ / tatra jayoṣmāyatano nāma brāhmaṇaḥ prativasati / tamupasaṃkramya paripṛccha - kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam // atha khalu sudhanaḥ śreṣṭhidārakastuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajāto bhīṣmottaranirghoṣasya ṛṣeḥ pādau śirasābhivandya bhīṣmottaranirghoṣaṃ ṛṣimanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya bhīṣmottaranirghoṣasya ṛṣerantikātprakrāntaḥ

Sanskrit only: no published translation is held for this verse.