चकारः आचमनानुकर्षणार्थः । विस्रंसनं निरसनं, तत् मूत्रपूरीषस्रेहूणां प्रत्येकं सम्बध्यते । अभ्यवहारसंयोगो ऽभ्यवहार्यद्रव्योपयोगः । तस्यानमेध्यत्वात् लेपगन्धापकर्षणार्थमभिधानं, आचमनस्य ऽसुप्त्वा भुक्त्वाऽ; इत्यनेन सिद्धत्वात् लेपगन्धापकर्षणं च मृत्सलिलप्रक्षालनेन कुर्यात् । एवं च ऽतदद्भिः पूर्वम्ऽ; इत्यत्र यदुक्तं चूर्णादिना अन्नलेपापकर्षणं तेनाशक्यमिदं द्रष्टव्यम् । अथवा-अभ्यवहारसंयोगस्यापि आचमनार्थ एवोपन्यासः । ऽसुप्त्वा भुक्त्वाऽ; इत्यनेनैव सिद्धमनूद्यते क्रमार्थम्, कथं-तद्ग्रहणेनान्नलेपापकर्षणमुक्तं तदपकर्षणं पूर्वं कृत्वा ततआचामेदित्येवमर्थं अन्यथा सन्देहः स्यादिति । तथा चापस्तम्बः ऽमूत्रं कृत्वा पूरीषं वा मूत्रपुरीषलेपानन्नलेपानुच्छिष्टलेपान् रेतसश्च ये लेपास्तान् प्रक्षाल्य पादौ चाचम्य प्रयतो भवतिऽ; इति । मूत्रपुरीषौ प्रसिद्धौ । स्रेहू रेतः । मूत्रादीनामाचमनार्थमुपन्यासः लेपगन्धापकर्षस्य ऽलेपगन्धापकर्षणे शौचम्ऽ; इत्यनेनैव सिद्धत्वात् ॥ यत्र चाम्नायो विदध्यात्
cakāraḥ ācamanānukarṣaṇārthaḥ / visraṃsanaṃ nirasanaṃ, tat mūtrapūrīṣasrehūṇāṃ pratyekaṃ sambadhyate / abhyavahārasaṃyogo 'bhyavahāryadravyopayogaḥ / tasyānamedhyatvāt lepagandhāpakarṣaṇārthamabhidhānaṃ, ācamanasya 'suptvā bhuktvā'; ityanena siddhatvāt lepagandhāpakarṣaṇaṃ ca mṛtsalilaprakṣālanena kuryāt / evaṃ ca 'tadadbhiḥ pūrvam'; ityatra yaduktaṃ cūrṇādinā annalepāpakarṣaṇaṃ tenāśakyamidaṃ draṣṭavyam / athavā-abhyavahārasaṃyogasyāpi ācamanārtha evopanyāsaḥ / 'suptvā bhuktvā'; ityanenaiva siddhamanūdyate kramārtham, kathaṃ-tadgrahaṇenānnalepāpakarṣaṇamuktaṃ tadapakarṣaṇaṃ pūrvaṃ kṛtvā tataācāmedityevamarthaṃ anyathā sandehaḥ syāditi / tathā cāpastambaḥ 'mūtraṃ kṛtvā pūrīṣaṃ vā mūtrapurīṣalepānannalepānucchiṣṭalepān retasaśca ye lepāstān prakṣālya pādau cācamya prayato bhavati'; iti / mūtrapurīṣau prasiddhau / srehū retaḥ / mūtrādīnāmācamanārthamupanyāsaḥ lepagandhāpakarṣasya 'lepagandhāpakarṣaṇe śaucam'; ityanenaiva siddhatvāt // yatra cāmnāyo vidadhyāt
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.