तम् अथर्वाणम् ऋषिम् अभ्यश्राम्यद् अभ्यतपत् समतपत् तस्माच् छ्रान्तात् तप्तात् संतप्तात् दशतयान् अथर्वण ऋषीन् निरमिमतैकर्चान् द्व्यृचांस् तृचांश् चतुरृचान् पञ्चर्चान् षडर्चान् सप्तर्चान् अष्टर्चान् नवर्चान् दशर्चान् इति । तान् अथर्वण ऋषीन् अभ्यश्राम्यद् अभ्यतपत् समतपत् तेभ्यः श्रान्तेभ्यस् तप्तेभ्यः संतप्तेभ्यः दशतयान् आथर्वणान् आर्षेयान् निरमिमतैकादशान् द्वादशांस् त्रयोदशांश् चतुर्दशान् पञ्चदशान् षोडशान् सप्तदशान् अष्टादशान् नवदशान् विंशान् इति । तान् अथर्वण ऋषीन् आथर्वणांश् चार्षेयान् अभ्यश्राम्यद् अभ्यतपत् समतपत् तेभ्यः श्रान्तेभ्यस् तप्तेभ्यः संतप्तेभ्यो यान् मन्त्रान् अपश्यत् स आथर्वणो वेदो ऽभवत् तम् आथर्वणं वेदम् अभ्यश्राम्यद् अभ्यतपत् समतपत् तस्माच् छ्रान्तात् तप्तात् संतप्ताद् ओम् इति मन एवोर्ध्वम् अक्षरम् उदक्रामत् स य इच्छेत् सर्वैर् एतैर् अथर्वभिश् चाथर्वणी कुर्वीयेत्य् एतयैव तं महाव्याहृत्या कुर्वीत । सर्वैर् ह वा अस्यैतैर् अथर्वभिश् चाथर्वणैश् च कृतं भवति य एवं वेद यश् चैवं विद्वान् एवम् एतया महाव्याहृत्या कुरुते
tam atharvāṇam ṛṣim abhyaśrāmyad abhyatapat samatapat tasmāc chrāntāt taptāt saṃtaptāt daśatayān atharvaṇa ṛṣīn niramimataikarcān dvyṛcāṃs tṛcāṃś caturṛcān pañcarcān ṣaḍarcān saptarcān aṣṭarcān navarcān daśarcān iti / tān atharvaṇa ṛṣīn abhyaśrāmyad abhyatapat samatapat tebhyaḥ śrāntebhyas taptebhyaḥ saṃtaptebhyaḥ daśatayān ātharvaṇān ārṣeyān niramimataikādaśān dvādaśāṃs trayodaśāṃś caturdaśān pañcadaśān ṣoḍaśān saptadaśān aṣṭādaśān navadaśān viṃśān iti / tān atharvaṇa ṛṣīn ātharvaṇāṃś cārṣeyān abhyaśrāmyad abhyatapat samatapat tebhyaḥ śrāntebhyas taptebhyaḥ saṃtaptebhyo yān mantrān apaśyat sa ātharvaṇo vedo 'bhavat tam ātharvaṇaṃ vedam abhyaśrāmyad abhyatapat samatapat tasmāc chrāntāt taptāt saṃtaptād om iti mana evordhvam akṣaram udakrāmat sa ya icchet sarvair etair atharvabhiś cātharvaṇī kurvīyety etayaiva taṃ mahāvyāhṛtyā kurvīta / sarvair ha vā asyaitair atharvabhiś cātharvaṇaiś ca kṛtaṃ bhavati ya evaṃ veda yaś caivaṃ vidvān evam etayā mahāvyāhṛtyā kurute
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.