। इति । काद्यष्ठान्तैर् युता भाद्यैर् डान्तैश् चार्णैर् विलोमगैः । सूर्यस्य च कलाः कुम्भे द्वादश न्यस्य पूजयेत् अधुना तस्मिन् कुण्डे सूर्य-कलानां न्यासादिकं लिखति-काद्यैर् इति । ककाराद्यैष् ठ-कारान्तैर् अर्णैर् वर्णैर् युता द्वादशापि कलाः । च-कारः समुच्चये । भ-काराद्यैर् ड-कारान्तैर् वर्णैर् अपि युताः । ननु, भ-कारादीनां द्वादश-वर्णानां ड-कारान्तता कथं स्यात् ? क्रमेण क्ष-कारान्तता-प्राप्तेस् तत्राह-विलोमगैः व्युत्क्रम-प्राप्तैः । अयम् अर्थः-अनुलोम-पठित-क-काराद्यैकैकम् अक्षरं प्रतिलोम-पठित-भ-काराद्य्-एकैकाक्षरेण सहितम् आदौ सूर्य-कलासु संयोज्य न्यासादिकं कुर्याद् इति । प्रयोगश् च कं भं तपन्यै नम इत्य् आदि
| iti | kādyaṣṭhāntair yutā bhādyair ḍāntaiś cārṇair vilomagaiḥ | sūryasya ca kalāḥ kumbhe dvādaśa nyasya pūjayet adhunā tasmin kuṇḍe sūrya-kalānāṃ nyāsādikaṃ likhati-kādyair iti | kakārādyaiṣ ṭha-kārāntair arṇair varṇair yutā dvādaśāpi kalāḥ | ca-kāraḥ samuccaye | bha-kārādyair ḍa-kārāntair varṇair api yutāḥ | nanu, bha-kārādīnāṃ dvādaśa-varṇānāṃ ḍa-kārāntatā kathaṃ syāt ? krameṇa kṣa-kārāntatā-prāptes tatrāha-vilomagaiḥ vyutkrama-prāptaiḥ | ayam arthaḥ-anuloma-paṭhita-ka-kārādyaikaikam akṣaraṃ pratiloma-paṭhita-bha-kārādy-ekaikākṣareṇa sahitam ādau sūrya-kalāsu saṃyojya nyāsādikaṃ kuryād iti | prayogaś ca kaṃ bhaṃ tapanyai nama ity ādi
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.