। इति । कुब्म्हान्तर् निक्षिपेन् मूल-मन्त्रेण कुसुमं सितम् । साक्षतं ससितं स्वर्णं स-रत्नं च कुशांस् तथा ततश् चोक्त-प्रकारेणाधार-रूपम् अग्निं कुम्भ-रूपं सूर्यं च विचिन्त्य कुम्भस्य तस्य अन्तर् मध्ये शुक्ल-कुसुमादिकं क्षिपेत् । स-सितं स-शर्करम् । तद् उक्तम्- प्रोत्तोलयित्वा तन्-मध्ये शुक्ल-पुष्पं सिता-युतम् । स्वर्णं रत्नं च कूर्चं च मूलेनैव विनिक्षिपेत् ॥ । इति । यच् च मूल-ग्रन्थार्थाद् अधिकं किंचिल् लिखते, तत् पूर्व-गतस्य यथोदितम् इत्य् अस्यानुवर्तनाद् इति ज्ञेयम्
| iti | kubmhāntar nikṣipen mūla-mantreṇa kusumaṃ sitam | sākṣataṃ sasitaṃ svarṇaṃ sa-ratnaṃ ca kuśāṃs tathā tataś cokta-prakāreṇādhāra-rūpam agniṃ kumbha-rūpaṃ sūryaṃ ca vicintya kumbhasya tasya antar madhye śukla-kusumādikaṃ kṣipet | sa-sitaṃ sa-śarkaram | tad uktam- prottolayitvā tan-madhye śukla-puṣpaṃ sitā-yutam | svarṇaṃ ratnaṃ ca kūrcaṃ ca mūlenaiva vinikṣipet // | iti | yac ca mūla-granthārthād adhikaṃ kiṃcil likhate, tat pūrva-gatasya yathoditam ity asyānuvartanād iti jñeyam
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.