सनातनः: आग्नेये कोणे गणेशम् अर्चयेत् । तथा चोक्तं क्रम-दीपिकायाम् [७।१०३-१०६]- परिवाराराः कृताः सर्वे पुनः श्री-विष्णु-पार्षदाः । द्वाराग्राबलि-पीठेऽर्च्याः पक्षीन्द्रश् च तद्-अग्रतः ॥ चण्ड-प्रचण्डौ प्राग् धातृ-विधातारौ च दक्षिणे । जयः स-विजयः पश्चाद् बलः प्रबल उत्तरे ॥ ऊर्ध्वे द्वार-श्रियं चेष्ट्वा द्वार्य् एतान् युग्मशो ऽर्चयेत् । पूज्यो वास्तु-पुमांस् तत्र तत्र द्वाः-पीथ-मध्यतः ॥ द्वारान्तः-पार्श्वयोर् अर्च्या गङ्गा च यमुना नदी । कोणेषु विघ्नं दुर्गां च वाणीं क्षेत्रे समर्चयेत् ॥ । इति । द्वाः-शाखाम् आश्रयन् वामां सङ्कोच्याङ्गानि देहलीम् । अस्पृष्ट्वा प्रविशेद् वेश्म न्यस्यन् प्राग् दक्षिणं पदम्
sanātanaḥ: āgneye koṇe gaṇeśam arcayet | tathā coktaṃ krama-dīpikāyām [7.103-106]- parivārārāḥ kṛtāḥ sarve punaḥ śrī-viṣṇu-pārṣadāḥ | dvārāgrābali-pīṭhe'rcyāḥ pakṣīndraś ca tad-agrataḥ || caṇḍa-pracaṇḍau prāg dhātṛ-vidhātārau ca dakṣiṇe | jayaḥ sa-vijayaḥ paścād balaḥ prabala uttare || ūrdhve dvāra-śriyaṃ ceṣṭvā dvāry etān yugmaśo 'rcayet | pūjyo vāstu-pumāṃs tatra tatra dvāḥ-pītha-madhyataḥ || dvārāntaḥ-pārśvayor arcyā gaṅgā ca yamunā nadī | koṇeṣu vighnaṃ durgāṃ ca vāṇīṃ kṣetre samarcayet || | iti | dvāḥ-śākhām āśrayan vāmāṃ saṅkocyāṅgāni dehalīm | aspṛṣṭvā praviśed veśma nyasyan prāg dakṣiṇaṃ padam
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.