एतच् छ्रुत्वा हिरण्यकश् चित्रग्रीवस्य बन्धनं छेत्तुं सत्वरम् उपसर्पति । तत्र चित्रग्रीव उवाच-मित्र ! मा मैवं कुरु । प्रथमम् अस्मद्-आश्रितानाम् एतेषां तावत् पाशांश् छिन्धि । मम पाशं पश्चाच् छेत्स्यसि । हिरण्यको ऽप्य् आह-अहम् अल्प-शक्तिः । दन्ताश् च मे कोमलाः । तद् एतेषां पाशांश् छेत्तुं कथं समर्थो भवामि ? तत् यावन् मे दन्ता न त्रुट्यन्ति, तावत् तव पाशं छिनद्मि । तद्-अनन्तरम् अप्य् एतेषां बन्धनं यावत् शक्यं छेत्स्यामि । चित्रग्रीव उवाच-अस्त्व् एवम् । तथापि यथा-शक्ति बन्धनम् एतेषां खण्डय । हिरण्यकेनोक्तम्-आत्म-परित्यागेन यदाश्रितानां परिरक्षणं तन् न नीति-वेदिनां सम्मतम् । यतः- आपद्-अर्थे धनं रक्षेद् दारान् रक्षेद् धनैर् अपि । आत्मानं सततं रक्षेद् दारैर् अपि धनैर् अपि
etac chrutvā hiraṇyakaś citragrīvasya bandhanaṃ chettuṃ satvaram upasarpati | tatra citragrīva uvāca-mitra ! mā maivaṃ kuru | prathamam asmad-āśritānām eteṣāṃ tāvat pāśāṃś chindhi | mama pāśaṃ paścāc chetsyasi | hiraṇyako 'py āha-aham alpa-śaktiḥ | dantāś ca me komalāḥ | tad eteṣāṃ pāśāṃś chettuṃ kathaṃ samartho bhavāmi ? tat yāvan me dantā na truṭyanti, tāvat tava pāśaṃ chinadmi | tad-anantaram apy eteṣāṃ bandhanaṃ yāvat śakyaṃ chetsyāmi | citragrīva uvāca-astv evam | tathāpi yathā-śakti bandhanam eteṣāṃ khaṇḍaya | hiraṇyakenoktam-ātma-parityāgena yadāśritānāṃ parirakṣaṇaṃ tan na nīti-vedināṃ sammatam | yataḥ- āpad-arthe dhanaṃ rakṣed dārān rakṣed dhanair api | ātmānaṃ satataṃ rakṣed dārair api dhanair api
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.