राजाह-कथम् इह समयेऽतिव्ययो युज्यते ? उक्तं च-आपद्-अर्थे धनं रक्षेद् इति । मन्त्री ब्रूते-श्रीमतां कथम् आपदः ? राजाह-कदाचिच् चलिता लक्ष्मीः । मन्त्री ब्रूते-सञ्चितापि विनश्यति । तद् देव ! कार्पण्यं विमुच्य स्व-भटा दान-मानाभ्यां पुरस्क्रियन्ताम् । तथा चोक्तम्- परस्परज्ञाः संहृष्टास् त्यक्तुं प्राणान् सुनिश्चिताः । कुलीनाः पूजिताः सम्यग् विजयन्ते द्विषद्-बलम्
rājāha-katham iha samaye'tivyayo yujyate ? uktaṃ ca-āpad-arthe dhanaṃ rakṣed iti | mantrī brūte-śrīmatāṃ katham āpadaḥ ? rājāha-kadācic calitā lakṣmīḥ | mantrī brūte-sañcitāpi vinaśyati | tad deva ! kārpaṇyaṃ vimucya sva-bhaṭā dāna-mānābhyāṃ puraskriyantām | tathā coktam- parasparajñāḥ saṃhṛṣṭās tyaktuṃ prāṇān suniścitāḥ | kulīnāḥ pūjitāḥ samyag vijayante dviṣad-balam
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.