ततो राजा काकश् च स्वां प्रकृतिम् आपन्नौ । शुको ऽप्य् उत्थाय चलितः । पश्चाच् चक्रवाकेणानीय प्रबोध्य कनकालङ्कारादिकं दत्वा सम्प्रेषितः स्वदेशं ययौ । शुको ऽपि विन्ध्याचलं गत्वा, स्वस्य राजानं चित्रवर्णं प्रणतवान् । तं विलोक्य राजोवाच-शुक ! का वार्ता ? कीदृशो ऽसौ देशः ? शुको ब्रूते-देव ! संक्षेपाद् इयं वार्ता । सम्प्रति युद्धोद्योगः क्रियताम् । देशश् चासौ कर्पूर-द्वीपः स्वर्गैक-देशो, राजा च द्वितीयः स्वर्ग-पतिः कथं वर्णयितुं शक्यते । ततः सर्वान् शिष्टान् आहूय राजा मन्त्रयितुम् उपविष्टः । आह च तान्-सम्प्रति कर्तव्ये विग्रहे यथा-कर्तव्यम् उपदेशं ब्रूत । विग्रहः पुनर् अवश्यं कर्तव्यः । तथा चोक्तम्- असन्तुष्टा द्विजा नष्टाः सन्तुष्टाश् च महीभृतः । सलज्जा गणिका नष्टा निर्लज्जाश् च कुलाङ्गना
tato rājā kākaś ca svāṃ prakṛtim āpannau | śuko 'py utthāya calitaḥ | paścāc cakravākeṇānīya prabodhya kanakālaṅkārādikaṃ datvā sampreṣitaḥ svadeśaṃ yayau | śuko 'pi vindhyācalaṃ gatvā, svasya rājānaṃ citravarṇaṃ praṇatavān | taṃ vilokya rājovāca-śuka ! kā vārtā ? kīdṛśo 'sau deśaḥ ? śuko brūte-deva ! saṃkṣepād iyaṃ vārtā | samprati yuddhodyogaḥ kriyatām | deśaś cāsau karpūra-dvīpaḥ svargaika-deśo, rājā ca dvitīyaḥ svarga-patiḥ kathaṃ varṇayituṃ śakyate | tataḥ sarvān śiṣṭān āhūya rājā mantrayitum upaviṣṭaḥ | āha ca tān-samprati kartavye vigrahe yathā-kartavyam upadeśaṃ brūta | vigrahaḥ punar avaśyaṃ kartavyaḥ | tathā coktam- asantuṣṭā dvijā naṣṭāḥ santuṣṭāś ca mahībhṛtaḥ | salajjā gaṇikā naṣṭā nirlajjāś ca kulāṅganā
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.