इति श्री-नारायण-पण्डित-कृते हितोपदेशे नीति-शास्त्रे विग्रहो नाम तृतीयः कथा-सङ्ग्रहः । --ओ)०(ओ-- इव्। सन्धिः पुनः कथारम्भ-काले राज-पुत्रैर् उक्तम्-आर्य ! विग्रहः श्रुतो ऽस्माभिः । सन्धिर् अधुनाभिधीयताम् । विष्णुशर्मेणोक्तम्-श्रूयताम् । सन्धिम् अपि कथयामि । यस्यायम् आद्यः श्लोकः- वृत्ते महति सङ्ग्रामे राज्ञोर् निहत-सेनयोः । स्थेयाभ्यां गृध्र-चक्राभ्यां वाचा सन्धिः कृतं क्षणत्
iti śrī-nārāyaṇa-paṇḍita-kṛte hitopadeśe nīti-śāstre vigraho nāma tṛtīyaḥ kathā-saṅgrahaḥ | --o)0(o-- iv. sandhiḥ punaḥ kathārambha-kāle rāja-putrair uktam-ārya ! vigrahaḥ śruto 'smābhiḥ | sandhir adhunābhidhīyatām | viṣṇuśarmeṇoktam-śrūyatām | sandhim api kathayāmi | yasyāyam ādyaḥ ślokaḥ- vṛtte mahati saṅgrāme rājñor nihata-senayoḥ | stheyābhyāṃ gṛdhra-cakrābhyāṃ vācā sandhiḥ kṛtaṃ kṣaṇat
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.