किन्तु बालाकस्यात्र रक्षको नास्ति । तत् किं करोमि ? यातु, चिर-काल-पालितम् इमं नकुलं पुत्र-निर्विशेषं बालक-रक्षायां व्यवस्थाप्य गच्छामि । तथा कृत्वा गतः । ततस् तेन नकुलेन बालक-समीपम् आगच्छन् कृष्ण-सर्पो दृष्टो व्यापाद्य कोपात् खण्डं खण्डं कृत्वा भक्षितश् च । ततो ऽसौ नकुलो ब्राह्मणम् आयान्तम् अवलोक्य रक्त-विलिप्त-मुख-पदः सत्वरम् उपगम्य तच्-चरणयोर् लुलोठ । ततः स विप्रस् तथा-विधं दृष्ट्वा मम बालको ऽनेन खादित इत्य् अवधार्य नकुलः व्यापादितवान् । अनन्तरं यावद् उपसृत्यापत्यं पश्यति ब्राह्मणस् तावद् बालकः सुस्थः स्वपिति सर्पश् च व्यापादितस् तिष्ठति । ततस् तम् उपकारकं नकुलं निरीक्ष्य, भावित-चेताः स ब्राह्मणः परं विषादम् अगमत् । अतो ऽहं ब्रवीमि-यो ऽर्थ-तत्त्वम् अविज्ञाय इत्य् आदि । अपरं च- कामः क्रोधस् तथा लोभो हर्षो मानो मदस् तथा । षड्-वर्गम् उत्सृजेद् एनं तस्मिंस् त्यक्ते सुखी नृपः
kintu bālākasyātra rakṣako nāsti | tat kiṃ karomi ? yātu, cira-kāla-pālitam imaṃ nakulaṃ putra-nirviśeṣaṃ bālaka-rakṣāyāṃ vyavasthāpya gacchāmi | tathā kṛtvā gataḥ | tatas tena nakulena bālaka-samīpam āgacchan kṛṣṇa-sarpo dṛṣṭo vyāpādya kopāt khaṇḍaṃ khaṇḍaṃ kṛtvā bhakṣitaś ca | tato 'sau nakulo brāhmaṇam āyāntam avalokya rakta-vilipta-mukha-padaḥ satvaram upagamya tac-caraṇayor luloṭha | tataḥ sa vipras tathā-vidhaṃ dṛṣṭvā mama bālako 'nena khādita ity avadhārya nakulaḥ vyāpāditavān | anantaraṃ yāvad upasṛtyāpatyaṃ paśyati brāhmaṇas tāvad bālakaḥ susthaḥ svapiti sarpaś ca vyāpāditas tiṣṭhati | tatas tam upakārakaṃ nakulaṃ nirīkṣya, bhāvita-cetāḥ sa brāhmaṇaḥ paraṃ viṣādam agamat | ato 'haṃ bravīmi-yo 'rtha-tattvam avijñāya ity ādi | aparaṃ ca- kāmaḥ krodhas tathā lobho harṣo māno madas tathā | ṣaḍ-vargam utsṛjed enaṃ tasmiṃs tyakte sukhī nṛpaḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.