सिंहेनोक्तं-भद्र ! वरं प्राण-परित्यागो, न पुनर् ईदृशे कर्मणि प्रवृत्तिः । जम्बुकेनापि तथोक्तम् । ततः सिंहेनोक्तं-मैवम् । अथ व्याघ्रेणोक्तं-मद्-देहेन जीवतु स्वामी । सिंहेनोक्तं-न कदाचिद् एवम् उचितम् । अथ चित्रकर्णो ऽपि जात-विश्वासस् तथैवात्म-देह-दानम् आह-ततस् तद्-वचनात् तेन व्याघ्रेणासौ कुक्षिं विदार्य व्यापादितः । सर्वैर् भक्षितश् च । अतो ऽहं ब्रवीमि-मतिर् दोलायते सत्यम् इत्य् आदि । ततस् तृतीय-धूर्त-वचनं श्रुत्वा, स्व-मति-भ्रमं निश्चित्य छागं त्यक्त्वा, ब्राह्मणः स्नात्वा गृहं ययौ । छागश् च तैर् धूर्तैर् नीत्वा भक्षितः । अतो ऽहं ब्रवीमि-आत्मौपम्येन यो वेत्तीत्य् आदि । राजाह-मेघवर्ण ! कथं शत्रु-मध्ये त्वया सुचिरम् उषितम् ? कथं वा तेषाम् अनुनयः कृतः ? मेघवर्ण उवाच-देव ! स्वामि-कार्यार्थितया स्व-प्रयोजन-वशाद् वा किं किं न क्रियते ? पश्य- लोको वहति किं राजन् न मूर्ध्ना दग्धुम् इन्धनम् । क्षालयन्त्य् अपि वृक्षाङ्घ्रिं नदी-वेला निकृन्तति
siṃhenoktaṃ-bhadra ! varaṃ prāṇa-parityāgo, na punar īdṛśe karmaṇi pravṛttiḥ | jambukenāpi tathoktam | tataḥ siṃhenoktaṃ-maivam | atha vyāghreṇoktaṃ-mad-dehena jīvatu svāmī | siṃhenoktaṃ-na kadācid evam ucitam | atha citrakarṇo 'pi jāta-viśvāsas tathaivātma-deha-dānam āha-tatas tad-vacanāt tena vyāghreṇāsau kukṣiṃ vidārya vyāpāditaḥ | sarvair bhakṣitaś ca | ato 'haṃ bravīmi-matir dolāyate satyam ity ādi | tatas tṛtīya-dhūrta-vacanaṃ śrutvā, sva-mati-bhramaṃ niścitya chāgaṃ tyaktvā, brāhmaṇaḥ snātvā gṛhaṃ yayau | chāgaś ca tair dhūrtair nītvā bhakṣitaḥ | ato 'haṃ bravīmi-ātmaupamyena yo vettīty ādi | rājāha-meghavarṇa ! kathaṃ śatru-madhye tvayā suciram uṣitam ? kathaṃ vā teṣām anunayaḥ kṛtaḥ ? meghavarṇa uvāca-deva ! svāmi-kāryārthitayā sva-prayojana-vaśād vā kiṃ kiṃ na kriyate ? paśya- loko vahati kiṃ rājan na mūrdhnā dagdhum indhanam | kṣālayanty api vṛkṣāṅghriṃ nadī-velā nikṛntati
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.