दृश्यते च लोके भूयसा ग्रहणम् । तद्यथाम्रवनमिति । तस्मात् कृत्स्नविकल्पप्रतिषेधो ऽयम् । यत्पुनरेतदुक्तं दिव्यकामध्यानसुखानपेक्षस्यापि विविदिषासम्भवान्निमित्तमयुक्तमिति तदप्यनुपपन्नम् । कस्मात् ? उत्तरत्र प्रतिषेधात् । इष्टमेवैतत्सङ्गृहीतम् । तथा चोत्तरसूत्रेण प्रतिषेत्स्यत्याचार्यः "दृष्टवदानुश्रविकः स ह्यविशुद्धिक्षयातिशययुक्तः" (इस्क् २) । तस्माद्दिव्यसुखानपेक्षस्यापि युक्ता विविदिषा । ध्यानसुखमपि क्षयातिशयौ नातिवर्तते । तदप्यत्रैव सङ्गृहीतम् । तस्मात्प्रतिषेध्य एवायं पक्ष इति न किञ्चिदभिधीयते । यदप्युक्तमुभयथासम्भवाज्जिज्ञासानुपपत्तिरिति अस्तु गुणानां जिज्ञासा । यत्तूक्तमाचेतन्यादसम्भव इति सत्याचेतन्ये बुद्धेरिच्छादिसद्भावमुत्तरत्र प्रतिपादयिष्यामः । तस्मादुपपन्ना जिज्ञासा । आह- तच्छब्दानर्थक्यं प्रतिपदसम्बन्धात् । यो ऽयमाचार्येण तच्छब्दः सूत्रे पठितो ऽस्य खलु प्रतिपदमसम्बन्धात् स्वल्पामप्यर्थवत्तां नोपलभामहे । तस्मानैनमपुष्कलार्थमध्येष्यामह इति । उच्यते- कथं हि नाम प्रयोक्तृपारतन्त्र्याच्छब्दस्य शब्दान्तरेण सम्बन्धो न स्यादिति ? आह, न ब्रूमो ऽविद्यमानसम्बन्धो ऽसम्बन्धः किन्तर्ह्ययुक्तसम्बन्धो यः स खल्वसम्बन्धः । तद्यथा अनाचारो माणवक इति द्रव्येण क्रियाशक्तित्वान्न शक्यं किञ्चिदनाचारवता क्षणमप्यवस्थातुम् । अयुक्तं त्वाचरन्ननाचार इत्युच्यते । तथा चास्य तच्छब्दस्य प्रतिपदं सम्बन्धो न युक्तस्तस्मादनर्थकस्तच्छब्दः । आनन्तर्याज्जिज्ञासाशब्दस्येति चेत्, स्यान्मतम् । अनन्तरस्य विधिर्वा भवति प्रतिषेधो वेत्यनया युक्त्या जिज्ञासाशब्दस्य तच्छब्देनाभिसम्बन्धः शक्य इति । तच्च नैवम् । कस्मात् ? तदपघाते प्रयोजनासद्भावात् । न हि जिज्ञासापघाते किञ्चित् प्रयोजनमस्तीति सत्यपि सम्बन्धे न तच्छब्देनार्थः । अभिघातस्येति चेत् ? अथापि स्याद्यदि जिज्ञासापघातेन किंचित्प्रयोजनमस्तीति । अतस्तत्सम्बन्धो नेष्यते । तेन तर्ह्यभिघातशब्देनास्याभिसम्बन्धः करिष्यते । तथा चापि तच्छब्दोर्थवान् भविष्यतीति । एतदनुपपन्नम् । कस्मात् ? निमित्तावस्थाने पुनः पुनरुत्पत्तेः । नैमित्तिको ऽयमभिघातस्तस्य निमित्तवत्त्वादात्यन्तिको ऽपघातो न स्यात् । इतरथा ज्वरनिमित्तको दाह इव शीतद्रव्यसंस्पर्शात्प्रशान्तो ऽपि निमित्तावस्थानात्पुनः पुनः प्रवर्तते इत्यफलत्वमस्य व्यायामस्य । त्रयशब्दस्येति चेत् न, पारतन्त्र्यात् । आश्रयपरतन्त्रा हि संख्या, तस्या नान्तरेणाश्रयेणोपघातमपघातः शक्यः कर्तुम् । आनर्थक्यञ्च समानमिति सुतरां तच्छब्देन नार्थः । दुःखशब्दस्येति चेत्सामान्यम् - यद्येतेषाम्पदानामभिसम्बन्धे यथोक्तदोषोपपत्तिः, दुःखशब्दं तर्हि तत्-शब्देनाभिसंभन्त्स्यामः । तस्मिन्नेष निषेधो विशतीति । तच्च नैवम् । कस्मात् ? अनेकपदव्यवधानात् । कथमनन्तरवृत्तिना सर्वनाम्नानेकपदव्यवहितस्य दुःखशब्दस्याभिसम्बन्धः शक्येत् प्रतिपादयितुम् ? तस्मान्न किञ्चिदेतत् । किञ्चान्यत् । उपसर्जनत्वात् । अयं खल्वपि दुःखशब्दः समास उपसर्जनीभूतः । न चैकस्मिन्काले शब्दस्य प्रधानत्वमुपसर्जनत्वं च युक्तितः सम्भवति । प्रधानस्य च पदान्तरेणाभिसम्बन्धः । तस्माद्विवादास्पदमेवैतत्सूत्रम् । किञ्चान्यत् । नित्यानामपघातानुपपत्तेः । इह नित्यानामपघातः कर्तुं न शक्यते । तद्यथा पुरुषाणाम् । अनित्यानाञ्चापघातो दृष्टः । तद्यथा, ज्वरादीनाम् । नित्यञ्च दुःखम् । तस्मात्तदपघाते ऽभ्युत्थानानर्थक्यम् । वृत्त्यपघाते तदपघात इति चेत्, स्यात्पुनरेषा बुद्धिः । सत्यं नित्यानामपघातो न युक्तितः सम्भवति । न तु वयं गुणलक्षणस्य दुःखस्यापघातं ब्रूमः, किन्तर्हि वृत्तिरस्याभिभूयत इति । तच्च नैवम् । कस्मात् ? उक्तोत्तरत्वात् । उक्तमत्रोत्तरं निमित्तावस्थाने पुनः पुनरुत्पत्तेरिति । तस्मादयमप्यमार्गः । किञ्चान्यत् । अविशेषात्कल्पयित्वापि वृत्त्यपघातं वृत्तिवृत्तिमतोरनन्यत्वाद् वृत्त्यपघाते वृत्तिमदपघातः प्राप्त इति नास्ति कश्चिद्विशेषः । तस्मात् कृशो ऽयं परिहार इति नार्थस्तच्छब्देन । उच्यते- यदुक्तं तच्छब्दानर्थक्यम्, प्रतिपदमसम्बन्धादित्यस्तु दुःखशब्देनाभिसम्बन्धः । तत्सम्बन्धे यथोक्तदोषोपपत्तिरिति चेत् स्यान्मतम् । यदि तर्हि तच्छब्दस्य दुःखशब्देनैवाभिसम्बन्धो ऽभ्युपगम्यते तेन ये ऽस्माभिः पूर्वमभिहिता दोषास्ते प्रसज्यन्ते । तस्मात् प्रतिषिद्धस्य पक्षस्य परिग्रहे साहसमात्रमिति । एतच्च नैवं, कस्मात् ? प्रतिविधानात् । सत्यमसति प्रतिविधाने साहसमात्रं स्यात् । प्रतिविधीयते तु, तस्माददोषो ऽयमिति । किन्तदिति चेत् स्यान्मतम् । उच्यतान्तर्हि किन्तत् प्रतिविधानं यस्यावष्टम्भेनानेकदोषव्याहतो ऽप्ययं पक्ष आश्रीयते । न ह्यनुक्तमस्माभिराकारमात्रेण शक्यं प्रतिपत्तुमिति । उच्यते- बाढम् । यत्तावदुक्तमनेकपदव्यवधानान्न दुःखशब्दस्य तच्छब्देनाभिसम्बन्ध इत्यत्र ब्रूमः न, अनभ्युपगमात् । यो ह्यनन्तरकृतं शब्दस्य शब्दान्तरेण सह सम्बन्धमाचष्टे तम्प्रत्ययमुपालम्भः स्यात् । वयन्त्वर्थकृतं सम्बन्धमाचक्ष्महे । तथा चोक्तम्- यस्य येनाभिसम्बन्धो दूरस्थस्यापि तस्य सः । अर्थतस्त्वसमानामानन्तर्ये ऽप्यसम्भवः ॥ किञ्चान्यत्- शास्त्रे दर्शनात् । शास्त्रे च व्यवहितानामपि सर्वनाम्नामभिसम्बन्धो दृश्यते "यस्य गुणस्य हि भावाद्द्रव्ये शब्दनिवेशस्तदभिधाने त्वतला"वित्यत्रार्थकृतश्च सम्बन्धः शब्दानामभ्युपगतः । ङ्याप्प्रातिपदिकात्, बहुषु बहुवचनम्, सुपो धातुप्रातिपदिकयोः, अलुगुत्तरपदे इत्येवमादीनां सम्बन्धाभ्युपगमः । तथा "अनड्वाहमुदहारिणि भगिनि वहसि या त्वं शिरसि कुम्भमवाचीनमभिधावन्तमद्राक्षीरिति" वार्तिके दृष्टान्तः । न ह्यत्र सत्यानन्तर्ये शिरसानडुहो वहनं कुम्भस्य वा सरणमुपपद्यते । यथा चात्र व्यवहितानामभिसम्बन्धस्तथेहापि द्रष्टव्यः । यत्पुनरेतदुक्तमुपसर्जनत्वात्पदान्तरेणानभिसम्बन्ध इति एतदनुपपन्नम् । कस्मात् ? समासादपोद्धारे बुद्धया व्यवस्थितस्य स्वातन्त्र्योपपत्तेः । सत्यमुपसर्जनस्य पदान्तरेणाभिसम्बन्धो नोपपद्यते । न तु वयं समासवृत्तेरेव तच्छब्देनाभिसम्बन्ध इति प्रतिपद्यामहे, किन्तर्हि समासादपोद्धृतस्य बुद्धिव्यवस्थितस्योपजनितस्वातन्त्र्यस्य शब्दान्तरेण सम्बन्धमिच्छाम इति । अथैतदनिष्टम् "योगप्रमाणे च तदभावे दर्शनं स्यात्" "अथ शब्दानुशासनं, केषां शब्दानाम्" इति चैवमादीनाम्प्रयोगाणां विरोधः प्राप्नोति । अनिष्टञ्चैतत् । यत्पुनरेतदुक्तम्- नित्यानामपघातानुपपत्तेर्वृत्त्यपघाते च तदपघातप्रसङ्गादिति, एतदप्यनुपपन्नम् । कस्मात् ? गुणशक्तेः प्रयोजनोपरमे सत्यात्मकल्पेन व्यवस्थानाभ्युपगमात् । नैतदभ्युपगम्यते गुणस्योच्छित्तिर्भवति, वृत्तिर्वास्याभिभूयते । किन्तर्हि पुरुषार्थनिबन्धना चरितार्थ शक्तिरस्य पुरुषार्थप्रवृत्तौ प्रयोजनासद्भावादात्मकल्पेन व्यवतिष्ठत इत्येतद्विवक्षितम् । तस्माद्युक्तमेतत्तदपघातके हेतौ जिज्ञासा प्रवर्तत इति । दृष्टे सापार्था चेत् स्यादेतत् प्रत्यक्षो दुःकप्रतीकारहेतुरस्ति । तस्य समतिक्रमे किं प्रयोजनम् ? तद्यथा शारीरस्य तावदयमपगमहेतुरनेकद्रव्यरसायनोपभोगः । मानसस्यापि मनोज्ञस्त्रीपानविलेपनभोजनवस्त्रालङ्कारादिविषयसम्प्राप्तिः । आधिभौतिकस्य नीतिशास्त्राभ्यासः, शस्त्रास्त्रकुशलता, विषमस्थानानध्यासनं च । आधिदैविकस्यापि यथाकालं विविधनिवसनास्तरणगर्भगृहप्रासादजालान्तरचन्दनव्यजनमणिहारादिसेवा विविधौषधमंगलस्तुतिमन्त्रप्रयोगानुष्ठानमिति दृष्टे हेतौ सा जिज्ञासापार्थेति चेत् - नैकान्तात्यततो ऽभावात्
dṛśyate ca loke bhūyasā grahaṇam / tadyathāmravanamiti / tasmāt kṛtsnavikalpapratiṣedho 'yam / yatpunaretaduktaṃ divyakāmadhyānasukhānapekṣasyāpi vividiṣāsambhavānnimittamayuktamiti tadapyanupapannam / kasmāt ? uttaratra pratiṣedhāt / iṣṭamevaitatsaṅgṛhītam / tathā cottarasūtreṇa pratiṣetsyatyācāryaḥ "dṛṣṭavadānuśravikaḥ sa hyaviśuddhikṣayātiśayayuktaḥ" (ISk 2) / tasmāddivyasukhānapekṣasyāpi yuktā vividiṣā / dhyānasukhamapi kṣayātiśayau nātivartate / tadapyatraiva saṅgṛhītam / tasmātpratiṣedhya evāyaṃ pakṣa iti na kiñcidabhidhīyate / yadapyuktamubhayathāsambhavājjijñāsānupapattiriti astu guṇānāṃ jijñāsā / yattūktamācetanyādasambhava iti satyācetanye buddhericchādisadbhāvamuttaratra pratipādayiṣyāmaḥ / tasmādupapannā jijñāsā / āha- tacchabdānarthakyaṃ pratipadasambandhāt / yo 'yamācāryeṇa tacchabdaḥ sūtre paṭhito 'sya khalu pratipadamasambandhāt svalpāmapyarthavattāṃ nopalabhāmahe / tasmānainamapuṣkalārthamadhyeṣyāmaha iti / ucyate- kathaṃ hi nāma prayoktṛpāratantryācchabdasya śabdāntareṇa sambandho na syāditi ? āha, na brūmo 'vidyamānasambandho 'sambandhaḥ kintarhyayuktasambandho yaḥ sa khalvasambandhaḥ / tadyathā anācāro māṇavaka iti dravyeṇa kriyāśaktitvānna śakyaṃ kiñcidanācāravatā kṣaṇamapyavasthātum / ayuktaṃ tvācarannanācāra ityucyate / tathā cāsya tacchabdasya pratipadaṃ sambandho na yuktastasmādanarthakastacchabdaḥ / ānantaryājjijñāsāśabdasyeti cet, syānmatam / anantarasya vidhirvā bhavati pratiṣedho vetyanayā yuktyā jijñāsāśabdasya tacchabdenābhisambandhaḥ śakya iti / tacca naivam / kasmāt ? tadapaghāte prayojanāsadbhāvāt / na hi jijñāsāpaghāte kiñcit prayojanamastīti satyapi sambandhe na tacchabdenārthaḥ / abhighātasyeti cet ? athāpi syādyadi jijñāsāpaghātena kiṃcitprayojanamastīti / atastatsambandho neṣyate / tena tarhyabhighātaśabdenāsyābhisambandhaḥ kariṣyate / tathā cāpi tacchabdorthavān bhaviṣyatīti / etadanupapannam / kasmāt ? nimittāvasthāne punaḥ punarutpatteḥ / naimittiko 'yamabhighātastasya nimittavattvādātyantiko 'paghāto na syāt / itarathā jvaranimittako dāha iva śītadravyasaṃsparśātpraśānto 'pi nimittāvasthānātpunaḥ punaḥ pravartate ityaphalatvamasya vyāyāmasya / trayaśabdasyeti cet na, pāratantryāt / āśrayaparatantrā hi saṃkhyā, tasyā nāntareṇāśrayeṇopaghātamapaghātaḥ śakyaḥ kartum / ānarthakyañca samānamiti sutarāṃ tacchabdena nārthaḥ / duḥkhaśabdasyeti cetsāmānyam - yadyeteṣāmpadānāmabhisambandhe yathoktadoṣopapattiḥ, duḥkhaśabdaṃ tarhi tat-śabdenābhisaṃbhantsyāmaḥ / tasminneṣa niṣedho viśatīti / tacca naivam / kasmāt ? anekapadavyavadhānāt / kathamanantaravṛttinā sarvanāmnānekapadavyavahitasya duḥkhaśabdasyābhisambandhaḥ śakyet pratipādayitum ? tasmānna kiñcidetat / kiñcānyat / upasarjanatvāt / ayaṃ khalvapi duḥkhaśabdaḥ samāsa upasarjanībhūtaḥ / na caikasminkāle śabdasya pradhānatvamupasarjanatvaṃ ca yuktitaḥ sambhavati / pradhānasya ca padāntareṇābhisambandhaḥ / tasmādvivādāspadamevaitatsūtram / kiñcānyat / nityānāmapaghātānupapatteḥ / iha nityānāmapaghātaḥ kartuṃ na śakyate / tadyathā puruṣāṇām / anityānāñcāpaghāto dṛṣṭaḥ / tadyathā, jvarādīnām / nityañca duḥkham / tasmāttadapaghāte 'bhyutthānānarthakyam / vṛttyapaghāte tadapaghāta iti cet, syātpunareṣā buddhiḥ / satyaṃ nityānāmapaghāto na yuktitaḥ sambhavati / na tu vayaṃ guṇalakṣaṇasya duḥkhasyāpaghātaṃ brūmaḥ, kintarhi vṛttirasyābhibhūyata iti / tacca naivam / kasmāt ? uktottaratvāt / uktamatrottaraṃ nimittāvasthāne punaḥ punarutpatteriti / tasmādayamapyamārgaḥ / kiñcānyat / aviśeṣātkalpayitvāpi vṛttyapaghātaṃ vṛttivṛttimatorananyatvād vṛttyapaghāte vṛttimadapaghātaḥ prāpta iti nāsti kaścidviśeṣaḥ / tasmāt kṛśo 'yaṃ parihāra iti nārthastacchabdena / ucyate- yaduktaṃ tacchabdānarthakyam, pratipadamasambandhādityastu duḥkhaśabdenābhisambandhaḥ / tatsambandhe yathoktadoṣopapattiriti cet syānmatam / yadi tarhi tacchabdasya duḥkhaśabdenaivābhisambandho 'bhyupagamyate tena ye 'smābhiḥ pūrvamabhihitā doṣāste prasajyante / tasmāt pratiṣiddhasya pakṣasya parigrahe sāhasamātramiti / etacca naivaṃ, kasmāt ? pratividhānāt / satyamasati pratividhāne sāhasamātraṃ syāt / pratividhīyate tu, tasmādadoṣo 'yamiti / kintaditi cet syānmatam / ucyatāntarhi kintat pratividhānaṃ yasyāvaṣṭambhenānekadoṣavyāhato 'pyayaṃ pakṣa āśrīyate / na hyanuktamasmābhirākāramātreṇa śakyaṃ pratipattumiti / ucyate- bāḍham / yattāvaduktamanekapadavyavadhānānna duḥkhaśabdasya tacchabdenābhisambandha ityatra brūmaḥ na, anabhyupagamāt / yo hyanantarakṛtaṃ śabdasya śabdāntareṇa saha sambandhamācaṣṭe tampratyayamupālambhaḥ syāt / vayantvarthakṛtaṃ sambandhamācakṣmahe / tathā coktam- yasya yenābhisambandho dūrasthasyāpi tasya saḥ / arthatastvasamānāmānantarye 'pyasambhavaḥ // kiñcānyat- śāstre darśanāt / śāstre ca vyavahitānāmapi sarvanāmnāmabhisambandho dṛśyate "yasya guṇasya hi bhāvāddravye śabdaniveśastadabhidhāne tvatalā"vityatrārthakṛtaśca sambandhaḥ śabdānāmabhyupagataḥ / ṅyāpprātipadikāt, bahuṣu bahuvacanam, supo dhātuprātipadikayoḥ, aluguttarapade ityevamādīnāṃ sambandhābhyupagamaḥ / tathā "anaḍvāhamudahāriṇi bhagini vahasi yā tvaṃ śirasi kumbhamavācīnamabhidhāvantamadrākṣīriti" vārtike dṛṣṭāntaḥ / na hyatra satyānantarye śirasānaḍuho vahanaṃ kumbhasya vā saraṇamupapadyate / yathā cātra vyavahitānāmabhisambandhastathehāpi draṣṭavyaḥ / yatpunaretaduktamupasarjanatvātpadāntareṇānabhisambandha iti etadanupapannam / kasmāt ? samāsādapoddhāre buddhayā vyavasthitasya svātantryopapatteḥ / satyamupasarjanasya padāntareṇābhisambandho nopapadyate / na tu vayaṃ samāsavṛttereva tacchabdenābhisambandha iti pratipadyāmahe, kintarhi samāsādapoddhṛtasya buddhivyavasthitasyopajanitasvātantryasya śabdāntareṇa sambandhamicchāma iti / athaitadaniṣṭam "yogapramāṇe ca tadabhāve darśanaṃ syāt" "atha śabdānuśāsanaṃ, keṣāṃ śabdānām" iti caivamādīnāmprayogāṇāṃ virodhaḥ prāpnoti / aniṣṭañcaitat / yatpunaretaduktam- nityānāmapaghātānupapattervṛttyapaghāte ca tadapaghātaprasaṅgāditi, etadapyanupapannam / kasmāt ? guṇaśakteḥ prayojanoparame satyātmakalpena vyavasthānābhyupagamāt / naitadabhyupagamyate guṇasyocchittirbhavati, vṛttirvāsyābhibhūyate / kintarhi puruṣārthanibandhanā caritārtha śaktirasya puruṣārthapravṛttau prayojanāsadbhāvādātmakalpena vyavatiṣṭhata ityetadvivakṣitam / tasmādyuktametattadapaghātake hetau jijñāsā pravartata iti / dṛṣṭe sāpārthā cet syādetat pratyakṣo duḥkapratīkāraheturasti / tasya samatikrame kiṃ prayojanam ? tadyathā śārīrasya tāvadayamapagamaheturanekadravyarasāyanopabhogaḥ / mānasasyāpi manojñastrīpānavilepanabhojanavastrālaṅkārādiviṣayasamprāptiḥ / ādhibhautikasya nītiśāstrābhyāsaḥ, śastrāstrakuśalatā, viṣamasthānānadhyāsanaṃ ca / ādhidaivikasyāpi yathākālaṃ vividhanivasanāstaraṇagarbhagṛhaprāsādajālāntaracandanavyajanamaṇihārādisevā vividhauṣadhamaṃgalastutimantraprayogānuṣṭhānamiti dṛṣṭe hetau sā jijñāsāpārtheti cet - naikāntātyatato 'bhāvāt
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.