Library·Yuktidipika·2

Yuktidipika 2

ISk 2

। किं चान्यत् । जराग्रहणसामर्थ्यात् । त्वदीय एव ज्ञापके जराग्रहणमस्ति । अतो ऽनुमीयते शक्त्यपेक्षमनित्यं च कर्म । किं चान्यत् शास्त्रहानेः । उभयं हि शास्त्रे निर्दिष्टम् । कर्माणि सन्न्यासश्च । यदि पुनः कर्माणि नित्यकर्तव्यतयेष्यन्ते तेन सन्न्यासशास्त्रं हीयते । तस्माद्विषयरागाविष्करणमेतद्वः । आह, न, श्रुतिबलीयस्त्वात् । तुल्यबलयोर्हि शास्त्रयोरेकविषयसन्निपाते द्वयोर्युगपदनुग्रहासम्भवे विकल्पपर्यायौ भवतः । श्रुतिस्मृतिसन्निपाते च श्रुतिर्बलीयसी, स्मृतिविहितश्च सन्न्यासः । तस्मान्नानयोर्विकल्पः । न खल्वपि पर्यायो न्याय्यः । उच्यते- तदितरत्र तुल्यम् । यथैव कर्मणां समनुष्ठानं शास्ति शास्त्रं तथा सन्न्यासमपि । कथम् ? एवं ह्याह- न कर्मणा न प्रजया धनेन त्यागेनैकेनामृतत्वमानशुः । परेण नाकं निहितं गुहायां विभ्राजते यद्यतयो विशन्ति ॥ तथा- न कर्मणा मृत्युमृषयो निषेद्धुः प्रजावन्तो द्रविणमिच्छमाणाः । अथापरे ऋषयो मनीषिणः परं कर्मभ्यो ऽमृतत्वमानशुः ॥ ब्राह्मणं चात्र भवति- "तद्य इदं विदुः, ये चेमे ऽरण्याः श्रद्धातप इत्युपासते ते ऽर्चिषमभिसम्भवन्ति । अर्चिषो हरह्न आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान्षडुदङ्डेति मासांस्तान्मासेभ्यः संवत्सरं संवत्सरादादित्यमादित्याच्चन्द्रमसं चन्द्रमसो विद्युतं तत्पुरुषो ऽमाणवः स एतान् ब्रह्म गमयति ।" पुनरप्याह- "एतमेव विदित्वा मुनिर्भवति, एतमेव प्रव्राजिनो लोकमिच्छन्तः प्रव्रजन्ति । एतद्ध स्म वै पूर्वे विद्वांसः प्रजां नाकामयन्त, प्रजया किं करिष्यामो येषां नायमात्मा नायं लोक इति ते ह स्म पुत्रैषणायाश्च वित्तैषणायाश्च लोकैषणायाश्च व्युत्थायाथ भिक्षाचर्यं चरन्तीति ।" तस्मादेते त्यागसन्न्यासयोरुभयोर्लिङ्गम् । आह - यद्यप्येवं शास्त्रं तथापि समनुष्ठाने विधिरस्ति । विहितं चावश्यं कर्तव्यम् । सन्न्यासे त्वर्थवादमात्रमित्यनयोरयं विशेषः । तस्मिन् सति समनुष्ठानं ज्यायो न त्यागः । उच्यते- को ऽयं विधिः, को ऽयमर्थवादः ? आह- विधिस्तदर्थत्वेनापूर्वोपदेशः । यो हि विध्यर्थेन लिङा लोटा कृत्यैर्वापूर्वोपदेशः क्रियते स विधिः । यथा- अग्निहोत्रं जुहुयात् स्वर्गकामः । वायव्यं श्वेतमजमालभेत भूतिकाम इति । स्तुतिरर्थवादः । तस्य तु विहितस्य प्ररोचनार्थं या स्तुतिः सो ऽर्थवादः । तद्यथा- "वायुर्वै क्षेपिष्ठा देवता वायुमेव तेन भागधेयेनोपधावति, स एवैनं भूतिं गमयति" इति । एवंविधां हि स्तुतिमुपश्रुत्य फलार्थिने हि यजमानाय विधिः प्ररोचते । एतस्मिन् हितकामः प्रवर्तते इति । उच्यते- न, अत एव सन्न्याससिद्धिः । एवं चेन्मन्यसे यमाम्नायः श्रेयांसमर्थं मन्यते, तं प्ररोचनाय स्तौति तथा सन्न्याससिद्धिः । कस्मात् ? स्तुतत्वात् । बहुलार्थिनां सन्न्यासमाम्नायः स्तौति । स कस्मान्न प्ररोचते ? इतरथा ह्यानर्थक्यम् । यदि खल्वप्यर्थवादः स्तुवन्नपि न प्ररोचयेत् यदुक्तं प्ररोचनार्थो ऽर्थवाद इति तद्भवद्भिर्हापितव्यं स्यात् । अनर्थको ह्येवं सत्यर्थवादो न प्ररोचनार्थः । अर्थान्तरवचनं वा । यदि प्ररोचनार्थत्वमस्य नेष्यते तेन तर्ह्यर्थान्तरं वक्तव्यम् । मा भूदनर्थकत्वं वेदैकदेशस्येति । तस्मान्नानया विभीषिकया वयं शक्याः सन्मार्गादपनेतुम् । किंचान्यत् । उभयथा विकल्पे ऽनिष्टप्रसङ्गात् । इहायमाम्नायो विधेयत्वेन वा सन्न्यासं स्तूयात् अविधेयत्वेन वा । किंचातः ? तद्यदि तावद्विधेयत्वेन स्तौति किमन्यद्विचार्यते ? सिद्धः सन्न्यासः । अथ विधेयत्वेन, स्तुतावस्य प्रयोजनं कर्तव्यम् । यद्धि कर्तव्यतया नेष्टं तदपुरुषबुद्धिपूर्वकः स्वतन्त्रः पुरुषनिश्श्रेयसार्थं प्रवर्तमान आम्नायः किमिति प्ररोचयेत ? तस्मादेतामपि कल्पनां कृत्वा कृशमेवैतत् । अथवोभथा विकल्प इत्यस्यायमन्यो ऽर्थः । इहायमाम्नायो भूतार्थेन वा सन्न्यासं प्ररोचयेत् । अभूतार्थेन वा ? किं चातः ? तद्यदि तावद्भूतार्थेन प्ररोचयति तथा सत्यमृतत्वप्रापकस्य सन्न्यासस्यापरिग्रहे विषयारागादन्यो हेतुर्वक्तव्यः । अथाभूतार्थेन, पुरुषो निःश्रेयसाद्धीयते । कस्मात् ? न ह्येतद्युक्तं यदश्रेयसि मार्गे प्रमाणभूत आम्नायो मातृमोदकन्यायेनेहितार्थिनः प्राणिनः प्रतारयेत् । तस्मादयुक्तमेतत् । किञ्चान्यत् अनेकान्तात् । नचायमेकान्तो यद्विहितमेव कर्तव्यम् । तथा च शाबराः पठन्ति ग्रामगमनं भवतः शोभनमित्यत्रान्तरेण विधिं स्तुतिरेव देवदत्तं ग्रामगमनाय प्ररोचयतीति । किञ्चान्यत्, आशङ्काप्रसङ्गात् । यदि खल्वपि किञ्चित् सत्यं किञ्चिदनृतं ब्रूयाद्वेदः तथा सति पौरुषेयवाक्यवद्वेदवाक्ये ऽपि आशंका प्रसज्येत । तथा च सति यदुक्तमेव प्रसंगः । अनिष्टं चैतत् । किं च विध्यनुमानं वा तत्, एवमेकदेशभूतत्वात् । अथवा विध्येकदेशो ऽर्थवाद इत्यतिसृष्टं भवता । तत्र सन्न्यासे ऽर्थवादमुपलभ्य विधिरप्यस्तीति अनुमातव्यम् । अनुपलम्भाददोष इति चेत् स्याच्चैवं यद्यसौ विधिरुपलभ्यते । तस्मादनुपलम्भादयं दोषान्निवर्तिष्यत इति । एतच्चानुपपन्नम् । कस्मात् ? अनेकभेदत्वात् । उपलब्धौ यत्नः क्रियताम् । अनेकभेदो हि प्रतिवेदमाम्नायः । तत्र यदुक्तं विधिसद्भावात् क्रियाप्राधान्यमित्येतदप्ययुक्तम् । इतिकर्तव्यतानुपदेशात् सन्न्यासानुपपत्तिरिति चेत्- अथापि स्याद्यदि सन्न्यासमप्याम्नायो विधेयं मन्येत । तेन यथा गार्हस्थ्यस्येतिकर्तव्यतां भार्योद्वहनादिकां मन्त्रवदुपदिशति तथा सन्न्यासमप्युपदिशेत् । न तूपदिष्टवान् । तस्मान्नास्ति सन्न्यास इति । एतदप्ययुक्तम् । कस्मात् ? अभावात् । इतिकर्तव्यतानां हि सर्वासामभावः सन्न्यासः । तत्र किं शास्त्रमुपदेक्ष्यति ? यावती खल्वितिकर्तव्यता सन्न्यासाङ्गं तामुपदिशति शास्त्रम् । कथम् ? एवं ह्याह- "तपःश्रद्धे ये ह्युपवसन्ति अरण्ये शान्ता विद्वांसो भैक्षचर्या चरन्तः सूर्यद्वारेण ते विरजसः प्रयान्ति यत्रामृतः स पुरुषो ऽव्ययात्मा ।" तत्र तपःश्रद्धे ये ह्यपवसन्तीत्येनं श्रद्धयोपेतं यमनियमलक्षणं धर्ममाह । अरण्य इति गृहेभ्यो विनिस्सृतिम् । शान्ता इतीन्द्रियाणामन्तःकरणस्य च विषयाभिलाषाद्विनिवर्तनम् । विद्वांस इति पूर्वरात्रापररात्रादिषु कालेष्वनिर्विण्णस्य योगिनो ज्ञानाभ्यासम् । भैक्षचर्यां चरन्त इति शरीरस्थितिनिमित्तं परिमितमभ्यवहारनियोगम् । उत्तरार्धेन च फलमाचष्टे । तन्निबन्धनश्च विस्तरः सन्यासेतिकर्तव्यतायां मन्वादिभिरभिहितः । श्रुतिनिर्वचनाश्च स्मृतयो भवतां प्रमाणमिति पक्षः । तत्र यदुक्तमितिकर्तव्यतानुपदेशान्नास्ति सन्न्यास इत्येदयुक्तम् । एवं च नित्यानि कर्माणि । यत्त्वनेनैतदुक्तमानुश्रविको हेतुरनैकान्तिक इति सत्यमेतत् । अवश्यं हि कर्मणः फलमभ्युपगन्तव्यम् । इतरथा हि तन्निमित्तस्य संसारस्याभावादनिष्टप्रसङ्गः । तस्मादनिष्टामेवैतदाचार्यस्य । आह, कथमेतदनुमातव्यमिति ? उच्यते, क्षयग्रहणसामर्थ्यात् । यदि पूर्वसूत्रोक्तमिहानुवर्तते क्षयग्रहणमनर्थकं स्यात् । कस्मात् ? अत्यन्ताभावपर्यायो हि क्षय इति कृत्वा । एवं सिद्धो ऽविशुद्धियोगः । आह, क्षययोग इदानीं कथमनुमातव्य इति ? उच्यते - क्षययोगो ऽङ्गपरिमाणात् । क्षययोगः पुनरस्य हेतोरङ्गपरिमाणाद्वेदितव्यः । यानि हि यजेरङ्गानि पशुपुरोडाशादीनि तानि परिमितानि । परिमितानां साधनानां तन्त्वादीनां परिमितं कार्यं पटादि दृष्टम् । परिमितं क्षयधर्मि दृष्टम् । तद्वदेव । किञ्चान्यत् । संसारोपलम्भात् । दृश्यते चायं वाग्बुद्धिस्वभावाहारविहारभेदभिन्नकर्मविहारवैचित्र्यनिमित्तः संसारः । यदि पुनः साक्षात् कृतं कर्माक्षयफलं स्यात् स पुनरावृत्त्यभावात् प्राणिनां नोपलभ्येत । शब्दसामर्थ्यान्नित्यत्वमिति चेत् स्यादेतत् । "शब्दप्रमाणका वयं,यच्छब्द आह तदस्माकं प्रमाणम् ।" स चास्य हेतोरमृतत्वमाह "तरति मृत्युं, तरति पाप्मानमित्यादि" । तस्मादनिच्छताप्येतदवश्यमभ्युपगन्तव्यम् । अनभ्युपगमे वा प्रतिज्ञाहानिर्वेदः प्रमाणमिति । एतच्च नैवम् । कस्मात् ? शब्दान्तरेण विरोधात् । अनित्यत्वमस्य हेतोः शब्दो ऽनुमन्यते । तस्यैवं सति विरोधः प्राप्नोति । कथम् ? एवं ह्याह- "अथ ये इमे ग्रामे इष्टापूर्ते दत्तमित्युपासते, अथैतमेवाध्वानं पुनर्निवर्तन्ते । यथैतमाकाशं आकाशाद्वायुम् । ते धूममभिसम्भवन्ति । धूमो भूत्वाभ्रं भवति । मेघो भूत्वा प्रवर्षति । त इह व्रीहियवा ओषधिवनस्पतयस्तिला माषा इति जायन्ते । ततो वै यो ऽन्नमति यो रेतः सिञ्चति स भूय एव भवतीति ।" तत्र यदुक्तं शब्दसामर्थ्यान्नित्यत्वमित्येदयुक्तम् । उभयथाभिधानाच्छास्त्रविरोधप्रसङ्ग इति चेत् स्यान्मतम् । तदेव शास्त्रं नित्यत्वमाह तदेवानित्यत्वम् । एवं सति परस्परविरोधिनोरर्थयोश्चोदितत्वात् उभयानुग्रहासम्भवे सति शास्त्रविरोधप्रसङ्ग इति । तच्च नैवम् । कस्मात् ? असम्भवे सत्यर्थान्तरक्लृप्तेः । यत्र हि प्रमाणभूता श्रुतिरसम्भविनमर्थं चोदयति, तत्रार्थान्तरं कल्पयति । तद्यथा- "स आत्मनो वपामुदखिदत्" "स्तेनं मनः" "अनृतवादिनो वाग्" इत्येवमादिषु । एवमिहापि नास्ति सम्भवः यदेको ऽर्थो नित्यश्च स्यादनित्यश्चेति । तस्मान्नित्यत्ववाचकस्य शास्त्रान्तरस्य भक्त्यार्थान्तरं परिकल्पयिष्यामः । तद्वदितरत्रापीति चेत् स्यान्मतम्- यथैव भवता नित्यानित्ययोरेकत्रासम्भवान्नित्यत्वस्य भक्त्या कल्पना कृता तथैवानित्यत्वस्यापि करिष्यत इति । एतच्चायुक्तम् । कस्मात् ? सर्वप्रमाणविरोधप्रसङ्गात् । विनाशे हि भक्त्या कल्प्यमाने सर्वप्रमाणविरोधः प्रसज्येत । कथम् ? प्रत्यक्षविरोधस्तावत् संसारोपलम्भात् । अनुमानविरोधः अङ्गपरिमाणे सत्यङ्गिनो नित्यत्वानुपपत्तेः । शब्दविरोधः ते धूममभिसम्भवन्तीति वचनात् । न तु नित्यत्वे भक्त्या कल्प्यमाने दोषो ऽयमुपद्यते । तस्माद्विषमेतत् । आह, कथमिदानीं भक्त्या कल्पयितव्यं शास्त्रमिति ? उच्यते, प्रकृष्टार्थतया । यथा खल्वप्यमृतं वा मृतमतिजीवो मा ते हासिषुरसवः शरीरमित्यभिधीयते । न च प्राणिनामत्यन्तायासवो जहति, किन्तर्हि प्रकृष्टं कालम् । एवमिहाप्युच्यते तरति मृत्युमिति । नात्यन्ताय मृत्युं तरति, किन्तर्हि प्रकृष्टं कालम् । उपचर्यते हि लोके प्रकृष्टे नित्यशब्दः । तद्यथा नित्यप्रहसितो नित्यप्रजल्पित इति । एवं सिद्धः क्षययोगः । आह, अतिशययोग इदानीमस्य हेतोः कथमनुमातव्य इति । उच्यते- अतिशययोगः क्रियाभ्यासात् । यत्र हि क्रिया सकृत् प्रवर्तते यत्र चासकृदावर्तते तत्रातिशयो दृष्टः । तद्यथा कृष्यादिषु । यज्ञे च द्रव्योपादानशक्त्यपेक्षा । क्वचित् सकृदेव प्रवृत्तिः, क्वचित् पुनःपुनरावृत्तिः । तस्मादतिशयेन भवितव्यम् । किं चान्यत् अङ्गातिशयात् । इहाङ्गानामतिशयादङ्गिनो ऽपि घटादेरतिशयो दृष्टः । अस्ति चायं प्रतियज्ञमङ्गानां दक्षिणादीनामतिशयः । तस्मादत्राप्यतिशयेन भवितव्यम् । देवताङ्गभावगमनात् क्षयातिशयानुपपत्तिरिति चेत्- अथापि स्यात् यो हि यज्ञे द्रव्यमात्रस्य साधनभावमनुमन्यते तं प्रति क्षयातिशयदोषावपरिहार्यौ स्याताम् । वयन्तु द्रव्यसमवायिनीं देवतां क्रतावङ्गभावमुपगच्छन्तीं विद्मः । तस्माददोषो ऽयमिति । तच्चानुपपन्नम् । कस्मात् ? साध्यत्वात् । देवतानामपरिमितत्वं साध्यम् । तदङ्गभावगमनाच्च दोषाभावः । न चात्मक्रियाङ्गत्वमुदासीनत्वात् इति नः सिद्धान्तः । तस्मादयुक्तमेतत् । उपेत्य वा । क्रतुसमनुष्ठानानर्थक्यप्रसङ्गात् । यदि द्रव्यसमवायिनीं देवतामुपलभ्य तदङ्गभावगमनादक्षयो निरतिशयश्च हेतुरवाप्यते इतीष्टं वः, तेन तर्हि यद्वा तद्वा वेदोक्तं कर्म कृत्वा शक्यो ऽवाप्तुमर्थः । किं प्राणिविनाशहेतुभिः क्रतुभिः ? कथम् ? न हि किंचित्कर्म विद्यते यत्र शरीरस्याङ्गभावो न स्यात् । सर्वदेवतामयं च शरीरं यस्मादाह तस्माद्वै विद्वान्पुरुषमिदं ब्रह्मेति मन्यते । सर्वा ह्यस्मिन् देवताः शरीरे ऽधि समाहिताः । तत्र यदुक्तं देवताङ्गभावगमनात् क्षयातिशयानुपपत्तिरित्येतदयुक्तम् । एवमयं हेतुस्त्रिदोषः । तेन यः फलविशेषो ऽभिनिर्वर्त्यते सो ऽपि तथाजातीयक इति शक्यमनुमातुम् । तस्मान्नास्य जिज्ञासोरत्र समाधिः । आह, यदि नायं श्रेयानिति कृत्वास्य जिज्ञासोर्नात्र समाधिः तेन तर्हि यः श्रेयान् फलविशेषः स उपदेष्टवय इति । उच्यते- तद्विपरीतः श्रेयान् तदित्यनेन कर्मविधिनिष्पादितस्य स्वर्गप्राप्तिलक्षणस्य फलस्याभिसम्बन्धः । तस्माद्विपरीतः शुद्धो ऽक्षयो निरतिशय इत्यर्थः । को ऽसावित्युच्यते मोक्षः श्रेयान् । एतदुक्तं भवति । उभावप्येतौ प्रशस्यौ स्वर्गापवर्गौ, आम्नायविहितत्वात् । मोक्षस्तु प्रशस्यतरः । कस्मात् ? यथोक्तदोषानुपपत्तेः । स ह्यवश्यंभावित्वादैकान्तिकः । अतीन्द्रियत्वादसंवेद्यः । स्वात्मन्यवस्थित्वाल्लघुः सर्वत्र सन्निहितश्च । आम्नायस्तुतत्वात्प्रशस्तः । सद्भिरासेवितत्वादनिन्दितः । यमनियमवैराग्यज्ञानाभ्युपायशुद्धेर्विशुद्धः । अद्रव्यत्वादक्षयो निरतिशयश्च । आह, कथं पुनरयमपवर्गः प्राप्यत इति ? उच्यते, संयोगाभावात् । दुःखं च प्रधानम् । तथा च तन्त्रान्तरेष्वप्युक्तम्- दुःखहेतुः कार्यकरणशक्तिरिति । तेन यदा पुरुषस्य संयोगस्तदाविशुद्धित्वमस्य । स्वशक्तिविशेषयोगात्तेषु तेषु जात्यन्तरपरिवर्तेषु धर्मादिनिमित्तसामर्थ्यादायासमनुभवति । यदा तु प्रधानसंयोगो विनिवर्तते तदा निमित्ताभावे नैमित्तिकस्याप्यभाव इति कृत्वा न पुनर्द्वन्द्वान्यनुभवति । आह, किमर्थः पुनरयं प्रधानस्य पुरुषेण सह संयोगः ? उच्यते, नैतदिहाभिधानीयम् । वक्ष्यत्ययमुपरिष्टादाचार्यः "पुरुषस्य दर्शनार्थः, कैवल्यार्थस्तथा प्रधानस्य । पङ्ग्वन्धवदुभयोरपि संयोग इति" (इस्क् २१) । आह, वियोगस्तर्हि कस्मान्निमित्ताद् भवतीति ? उच्यते - व्यक्ताव्यक्तज्ञविज्ञानात्

/ kiṃ cānyat / jarāgrahaṇasāmarthyāt / tvadīya eva jñāpake jarāgrahaṇamasti / ato 'numīyate śaktyapekṣamanityaṃ ca karma / kiṃ cānyat śāstrahāneḥ / ubhayaṃ hi śāstre nirdiṣṭam / karmāṇi sannyāsaśca / yadi punaḥ karmāṇi nityakartavyatayeṣyante tena sannyāsaśāstraṃ hīyate / tasmādviṣayarāgāviṣkaraṇametadvaḥ / āha, na, śrutibalīyastvāt / tulyabalayorhi śāstrayorekaviṣayasannipāte dvayoryugapadanugrahāsambhave vikalpaparyāyau bhavataḥ / śrutismṛtisannipāte ca śrutirbalīyasī, smṛtivihitaśca sannyāsaḥ / tasmānnānayorvikalpaḥ / na khalvapi paryāyo nyāyyaḥ / ucyate- taditaratra tulyam / yathaiva karmaṇāṃ samanuṣṭhānaṃ śāsti śāstraṃ tathā sannyāsamapi / katham ? evaṃ hyāha- na karmaṇā na prajayā dhanena tyāgenaikenāmṛtatvamānaśuḥ / pareṇa nākaṃ nihitaṃ guhāyāṃ vibhrājate yadyatayo viśanti // tathā- na karmaṇā mṛtyumṛṣayo niṣeddhuḥ prajāvanto draviṇamicchamāṇāḥ / athāpare ṛṣayo manīṣiṇaḥ paraṃ karmabhyo 'mṛtatvamānaśuḥ // brāhmaṇaṃ cātra bhavati- "tadya idaṃ viduḥ, ye ceme 'raṇyāḥ śraddhātapa ityupāsate te 'rciṣamabhisambhavanti / arciṣo harahna āpūryamāṇapakṣamāpūryamāṇapakṣādyānṣaḍudaṅḍeti māsāṃstānmāsebhyaḥ saṃvatsaraṃ saṃvatsarādādityamādityāccandramasaṃ candramaso vidyutaṃ tatpuruṣo 'māṇavaḥ sa etān brahma gamayati /" punarapyāha- "etameva viditvā munirbhavati, etameva pravrājino lokamicchantaḥ pravrajanti / etaddha sma vai pūrve vidvāṃsaḥ prajāṃ nākāmayanta, prajayā kiṃ kariṣyāmo yeṣāṃ nāyamātmā nāyaṃ loka iti te ha sma putraiṣaṇāyāśca vittaiṣaṇāyāśca lokaiṣaṇāyāśca vyutthāyātha bhikṣācaryaṃ carantīti /" tasmādete tyāgasannyāsayorubhayorliṅgam / āha - yadyapyevaṃ śāstraṃ tathāpi samanuṣṭhāne vidhirasti / vihitaṃ cāvaśyaṃ kartavyam / sannyāse tvarthavādamātramityanayorayaṃ viśeṣaḥ / tasmin sati samanuṣṭhānaṃ jyāyo na tyāgaḥ / ucyate- ko 'yaṃ vidhiḥ, ko 'yamarthavādaḥ ? āha- vidhistadarthatvenāpūrvopadeśaḥ / yo hi vidhyarthena liṅā loṭā kṛtyairvāpūrvopadeśaḥ kriyate sa vidhiḥ / yathā- agnihotraṃ juhuyāt svargakāmaḥ / vāyavyaṃ śvetamajamālabheta bhūtikāma iti / stutirarthavādaḥ / tasya tu vihitasya prarocanārthaṃ yā stutiḥ so 'rthavādaḥ / tadyathā- "vāyurvai kṣepiṣṭhā devatā vāyumeva tena bhāgadheyenopadhāvati, sa evainaṃ bhūtiṃ gamayati" iti / evaṃvidhāṃ hi stutimupaśrutya phalārthine hi yajamānāya vidhiḥ prarocate / etasmin hitakāmaḥ pravartate iti / ucyate- na, ata eva sannyāsasiddhiḥ / evaṃ cenmanyase yamāmnāyaḥ śreyāṃsamarthaṃ manyate, taṃ prarocanāya stauti tathā sannyāsasiddhiḥ / kasmāt ? stutatvāt / bahulārthināṃ sannyāsamāmnāyaḥ stauti / sa kasmānna prarocate ? itarathā hyānarthakyam / yadi khalvapyarthavādaḥ stuvannapi na prarocayet yaduktaṃ prarocanārtho 'rthavāda iti tadbhavadbhirhāpitavyaṃ syāt / anarthako hyevaṃ satyarthavādo na prarocanārthaḥ / arthāntaravacanaṃ vā / yadi prarocanārthatvamasya neṣyate tena tarhyarthāntaraṃ vaktavyam / mā bhūdanarthakatvaṃ vedaikadeśasyeti / tasmānnānayā vibhīṣikayā vayaṃ śakyāḥ sanmārgādapanetum / kiṃcānyat / ubhayathā vikalpe 'niṣṭaprasaṅgāt / ihāyamāmnāyo vidheyatvena vā sannyāsaṃ stūyāt avidheyatvena vā / kiṃcātaḥ ? tadyadi tāvadvidheyatvena stauti kimanyadvicāryate ? siddhaḥ sannyāsaḥ / atha vidheyatvena, stutāvasya prayojanaṃ kartavyam / yaddhi kartavyatayā neṣṭaṃ tadapuruṣabuddhipūrvakaḥ svatantraḥ puruṣaniśśreyasārthaṃ pravartamāna āmnāyaḥ kimiti prarocayeta ? tasmādetāmapi kalpanāṃ kṛtvā kṛśamevaitat / athavobhathā vikalpa ityasyāyamanyo 'rthaḥ / ihāyamāmnāyo bhūtārthena vā sannyāsaṃ prarocayet / abhūtārthena vā ? kiṃ cātaḥ ? tadyadi tāvadbhūtārthena prarocayati tathā satyamṛtatvaprāpakasya sannyāsasyāparigrahe viṣayārāgādanyo heturvaktavyaḥ / athābhūtārthena, puruṣo niḥśreyasāddhīyate / kasmāt ? na hyetadyuktaṃ yadaśreyasi mārge pramāṇabhūta āmnāyo mātṛmodakanyāyenehitārthinaḥ prāṇinaḥ pratārayet / tasmādayuktametat / kiñcānyat anekāntāt / nacāyamekānto yadvihitameva kartavyam / tathā ca śābarāḥ paṭhanti grāmagamanaṃ bhavataḥ śobhanamityatrāntareṇa vidhiṃ stutireva devadattaṃ grāmagamanāya prarocayatīti / kiñcānyat, āśaṅkāprasaṅgāt / yadi khalvapi kiñcit satyaṃ kiñcidanṛtaṃ brūyādvedaḥ tathā sati pauruṣeyavākyavadvedavākye 'pi āśaṃkā prasajyeta / tathā ca sati yaduktameva prasaṃgaḥ / aniṣṭaṃ caitat / kiṃ ca vidhyanumānaṃ vā tat, evamekadeśabhūtatvāt / athavā vidhyekadeśo 'rthavāda ityatisṛṣṭaṃ bhavatā / tatra sannyāse 'rthavādamupalabhya vidhirapyastīti anumātavyam / anupalambhādadoṣa iti cet syāccaivaṃ yadyasau vidhirupalabhyate / tasmādanupalambhādayaṃ doṣānnivartiṣyata iti / etaccānupapannam / kasmāt ? anekabhedatvāt / upalabdhau yatnaḥ kriyatām / anekabhedo hi prativedamāmnāyaḥ / tatra yaduktaṃ vidhisadbhāvāt kriyāprādhānyamityetadapyayuktam / itikartavyatānupadeśāt sannyāsānupapattiriti cet- athāpi syādyadi sannyāsamapyāmnāyo vidheyaṃ manyeta / tena yathā gārhasthyasyetikartavyatāṃ bhāryodvahanādikāṃ mantravadupadiśati tathā sannyāsamapyupadiśet / na tūpadiṣṭavān / tasmānnāsti sannyāsa iti / etadapyayuktam / kasmāt ? abhāvāt / itikartavyatānāṃ hi sarvāsāmabhāvaḥ sannyāsaḥ / tatra kiṃ śāstramupadekṣyati ? yāvatī khalvitikartavyatā sannyāsāṅgaṃ tāmupadiśati śāstram / katham ? evaṃ hyāha- "tapaḥśraddhe ye hyupavasanti araṇye śāntā vidvāṃso bhaikṣacaryā carantaḥ sūryadvāreṇa te virajasaḥ prayānti yatrāmṛtaḥ sa puruṣo 'vyayātmā /" tatra tapaḥśraddhe ye hyapavasantītyenaṃ śraddhayopetaṃ yamaniyamalakṣaṇaṃ dharmamāha / araṇya iti gṛhebhyo vinissṛtim / śāntā itīndriyāṇāmantaḥkaraṇasya ca viṣayābhilāṣādvinivartanam / vidvāṃsa iti pūrvarātrāpararātrādiṣu kāleṣvanirviṇṇasya yogino jñānābhyāsam / bhaikṣacaryāṃ caranta iti śarīrasthitinimittaṃ parimitamabhyavahāraniyogam / uttarārdhena ca phalamācaṣṭe / tannibandhanaśca vistaraḥ sanyāsetikartavyatāyāṃ manvādibhirabhihitaḥ / śrutinirvacanāśca smṛtayo bhavatāṃ pramāṇamiti pakṣaḥ / tatra yaduktamitikartavyatānupadeśānnāsti sannyāsa ityedayuktam / evaṃ ca nityāni karmāṇi / yattvanenaitaduktamānuśraviko heturanaikāntika iti satyametat / avaśyaṃ hi karmaṇaḥ phalamabhyupagantavyam / itarathā hi tannimittasya saṃsārasyābhāvādaniṣṭaprasaṅgaḥ / tasmādaniṣṭāmevaitadācāryasya / āha, kathametadanumātavyamiti ? ucyate, kṣayagrahaṇasāmarthyāt / yadi pūrvasūtroktamihānuvartate kṣayagrahaṇamanarthakaṃ syāt / kasmāt ? atyantābhāvaparyāyo hi kṣaya iti kṛtvā / evaṃ siddho 'viśuddhiyogaḥ / āha, kṣayayoga idānīṃ kathamanumātavya iti ? ucyate - kṣayayogo 'ṅgaparimāṇāt / kṣayayogaḥ punarasya hetoraṅgaparimāṇādveditavyaḥ / yāni hi yajeraṅgāni paśupuroḍāśādīni tāni parimitāni / parimitānāṃ sādhanānāṃ tantvādīnāṃ parimitaṃ kāryaṃ paṭādi dṛṣṭam / parimitaṃ kṣayadharmi dṛṣṭam / tadvadeva / kiñcānyat / saṃsāropalambhāt / dṛśyate cāyaṃ vāgbuddhisvabhāvāhāravihārabhedabhinnakarmavihāravaicitryanimittaḥ saṃsāraḥ / yadi punaḥ sākṣāt kṛtaṃ karmākṣayaphalaṃ syāt sa punarāvṛttyabhāvāt prāṇināṃ nopalabhyeta / śabdasāmarthyānnityatvamiti cet syādetat / "śabdapramāṇakā vayaṃ,yacchabda āha tadasmākaṃ pramāṇam /" sa cāsya hetoramṛtatvamāha "tarati mṛtyuṃ, tarati pāpmānamityādi" / tasmādanicchatāpyetadavaśyamabhyupagantavyam / anabhyupagame vā pratijñāhānirvedaḥ pramāṇamiti / etacca naivam / kasmāt ? śabdāntareṇa virodhāt / anityatvamasya hetoḥ śabdo 'numanyate / tasyaivaṃ sati virodhaḥ prāpnoti / katham ? evaṃ hyāha- "atha ye ime grāme iṣṭāpūrte dattamityupāsate, athaitamevādhvānaṃ punarnivartante / yathaitamākāśaṃ ākāśādvāyum / te dhūmamabhisambhavanti / dhūmo bhūtvābhraṃ bhavati / megho bhūtvā pravarṣati / ta iha vrīhiyavā oṣadhivanaspatayastilā māṣā iti jāyante / tato vai yo 'nnamati yo retaḥ siñcati sa bhūya eva bhavatīti /" tatra yaduktaṃ śabdasāmarthyānnityatvamityedayuktam / ubhayathābhidhānācchāstravirodhaprasaṅga iti cet syānmatam / tadeva śāstraṃ nityatvamāha tadevānityatvam / evaṃ sati parasparavirodhinorarthayoścoditatvāt ubhayānugrahāsambhave sati śāstravirodhaprasaṅga iti / tacca naivam / kasmāt ? asambhave satyarthāntaraklṛpteḥ / yatra hi pramāṇabhūtā śrutirasambhavinamarthaṃ codayati, tatrārthāntaraṃ kalpayati / tadyathā- "sa ātmano vapāmudakhidat" "stenaṃ manaḥ" "anṛtavādino vāg" ityevamādiṣu / evamihāpi nāsti sambhavaḥ yadeko 'rtho nityaśca syādanityaśceti / tasmānnityatvavācakasya śāstrāntarasya bhaktyārthāntaraṃ parikalpayiṣyāmaḥ / tadvaditaratrāpīti cet syānmatam- yathaiva bhavatā nityānityayorekatrāsambhavānnityatvasya bhaktyā kalpanā kṛtā tathaivānityatvasyāpi kariṣyata iti / etaccāyuktam / kasmāt ? sarvapramāṇavirodhaprasaṅgāt / vināśe hi bhaktyā kalpyamāne sarvapramāṇavirodhaḥ prasajyeta / katham ? pratyakṣavirodhastāvat saṃsāropalambhāt / anumānavirodhaḥ aṅgaparimāṇe satyaṅgino nityatvānupapatteḥ / śabdavirodhaḥ te dhūmamabhisambhavantīti vacanāt / na tu nityatve bhaktyā kalpyamāne doṣo 'yamupadyate / tasmādviṣametat / āha, kathamidānīṃ bhaktyā kalpayitavyaṃ śāstramiti ? ucyate, prakṛṣṭārthatayā / yathā khalvapyamṛtaṃ vā mṛtamatijīvo mā te hāsiṣurasavaḥ śarīramityabhidhīyate / na ca prāṇināmatyantāyāsavo jahati, kintarhi prakṛṣṭaṃ kālam / evamihāpyucyate tarati mṛtyumiti / nātyantāya mṛtyuṃ tarati, kintarhi prakṛṣṭaṃ kālam / upacaryate hi loke prakṛṣṭe nityaśabdaḥ / tadyathā nityaprahasito nityaprajalpita iti / evaṃ siddhaḥ kṣayayogaḥ / āha, atiśayayoga idānīmasya hetoḥ kathamanumātavya iti / ucyate- atiśayayogaḥ kriyābhyāsāt / yatra hi kriyā sakṛt pravartate yatra cāsakṛdāvartate tatrātiśayo dṛṣṭaḥ / tadyathā kṛṣyādiṣu / yajñe ca dravyopādānaśaktyapekṣā / kvacit sakṛdeva pravṛttiḥ, kvacit punaḥpunarāvṛttiḥ / tasmādatiśayena bhavitavyam / kiṃ cānyat aṅgātiśayāt / ihāṅgānāmatiśayādaṅgino 'pi ghaṭāderatiśayo dṛṣṭaḥ / asti cāyaṃ pratiyajñamaṅgānāṃ dakṣiṇādīnāmatiśayaḥ / tasmādatrāpyatiśayena bhavitavyam / devatāṅgabhāvagamanāt kṣayātiśayānupapattiriti cet- athāpi syāt yo hi yajñe dravyamātrasya sādhanabhāvamanumanyate taṃ prati kṣayātiśayadoṣāvaparihāryau syātām / vayantu dravyasamavāyinīṃ devatāṃ kratāvaṅgabhāvamupagacchantīṃ vidmaḥ / tasmādadoṣo 'yamiti / taccānupapannam / kasmāt ? sādhyatvāt / devatānāmaparimitatvaṃ sādhyam / tadaṅgabhāvagamanācca doṣābhāvaḥ / na cātmakriyāṅgatvamudāsīnatvāt iti naḥ siddhāntaḥ / tasmādayuktametat / upetya vā / kratusamanuṣṭhānānarthakyaprasaṅgāt / yadi dravyasamavāyinīṃ devatāmupalabhya tadaṅgabhāvagamanādakṣayo niratiśayaśca heturavāpyate itīṣṭaṃ vaḥ, tena tarhi yadvā tadvā vedoktaṃ karma kṛtvā śakyo 'vāptumarthaḥ / kiṃ prāṇivināśahetubhiḥ kratubhiḥ ? katham ? na hi kiṃcitkarma vidyate yatra śarīrasyāṅgabhāvo na syāt / sarvadevatāmayaṃ ca śarīraṃ yasmādāha tasmādvai vidvānpuruṣamidaṃ brahmeti manyate / sarvā hyasmin devatāḥ śarīre 'dhi samāhitāḥ / tatra yaduktaṃ devatāṅgabhāvagamanāt kṣayātiśayānupapattirityetadayuktam / evamayaṃ hetustridoṣaḥ / tena yaḥ phalaviśeṣo 'bhinirvartyate so 'pi tathājātīyaka iti śakyamanumātum / tasmānnāsya jijñāsoratra samādhiḥ / āha, yadi nāyaṃ śreyāniti kṛtvāsya jijñāsornātra samādhiḥ tena tarhi yaḥ śreyān phalaviśeṣaḥ sa upadeṣṭavaya iti / ucyate- tadviparītaḥ śreyān tadityanena karmavidhiniṣpāditasya svargaprāptilakṣaṇasya phalasyābhisambandhaḥ / tasmādviparītaḥ śuddho 'kṣayo niratiśaya ityarthaḥ / ko 'sāvityucyate mokṣaḥ śreyān / etaduktaṃ bhavati / ubhāvapyetau praśasyau svargāpavargau, āmnāyavihitatvāt / mokṣastu praśasyataraḥ / kasmāt ? yathoktadoṣānupapatteḥ / sa hyavaśyaṃbhāvitvādaikāntikaḥ / atīndriyatvādasaṃvedyaḥ / svātmanyavasthitvāllaghuḥ sarvatra sannihitaśca / āmnāyastutatvātpraśastaḥ / sadbhirāsevitatvādaninditaḥ / yamaniyamavairāgyajñānābhyupāyaśuddherviśuddhaḥ / adravyatvādakṣayo niratiśayaśca / āha, kathaṃ punarayamapavargaḥ prāpyata iti ? ucyate, saṃyogābhāvāt / duḥkhaṃ ca pradhānam / tathā ca tantrāntareṣvapyuktam- duḥkhahetuḥ kāryakaraṇaśaktiriti / tena yadā puruṣasya saṃyogastadāviśuddhitvamasya / svaśaktiviśeṣayogātteṣu teṣu jātyantaraparivarteṣu dharmādinimittasāmarthyādāyāsamanubhavati / yadā tu pradhānasaṃyogo vinivartate tadā nimittābhāve naimittikasyāpyabhāva iti kṛtvā na punardvandvānyanubhavati / āha, kimarthaḥ punarayaṃ pradhānasya puruṣeṇa saha saṃyogaḥ ? ucyate, naitadihābhidhānīyam / vakṣyatyayamupariṣṭādācāryaḥ "puruṣasya darśanārthaḥ, kaivalyārthastathā pradhānasya / paṅgvandhavadubhayorapi saṃyoga iti" (ISk 21) / āha, viyogastarhi kasmānnimittād bhavatīti ? ucyate - vyaktāvyaktajñavijñānāt

Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.

Sanskrit only: no published translation is held for this verse.

Permanent address: hreem.cc/library/ISk/2

Cite as: Yuktidipika 2, in HREEM (hreem.cc/library/ISk/2), after GRETIL, Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā Based on the ed.

Edition, numbering and licence

GRETIL 6_sastra/3_phil/samkhya/yuktdipu.htm — Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā Based on the ed. by Shiv Kumar and D.N. Bhargava (2 vols., Delhi 1990-1992) Input by Dhaval Patel BOLD for Īśvarakṛṣṇa's kārikās: " .......... // ISk_nn // " ITALICS for commentator's references to Īśvar

GRETIL (SUB Göttingen), CC BY-NC-SA 4.0 — non-commercial use with attribution; the Companion is kept free while this corpus is held. Devanagari generated mechanically from GRETIL's IAST.

More about this text