भावात् । नहि वः सामान्यं द्रव्यादर्थान्तरभूतमस्ति । सारूप्यमात्रे सामान्यपरिकल्पनात् । उच्यते न, तत्त्वान्तरानुपपत्तेः । तत्त्वभेदेन परिमिता भेदा इत्येतद्विवक्षितं यथोक्तमस्माभिरुक्तं च यद्यस्ति तत्त्वान्तरमुच्यताम् । यत्पुनरेतदुक्तं सामान्यस्यार्थान्तरभूतस्य भवत्पक्षे ऽनुपपत्तिरिति सत्यमेतत् । तथाविधेनापि तु तेन संव्यवहारो न प्रतिषिध्यते इति वक्ष्यामः । तस्मात्सिद्धं भेदानां परिमाणादस्त्यव्यक्तम् । किं चान्यत् । समन्वयात् इह येन भेदानां समनुपगतिस्तस्य सत्त्वं दृष्टम् । तद्यथा मृदा घटादीनाम् । अस्ति चेयं सुखदुःखमोहैः शब्दादीनां समनुगतिः । तस्मात्ते ऽपि सन्ति ये च सुखादयो ऽस्तमितविशेषास्तदव्यक्तम् । तस्मादस्त्यव्यक्तम् । आह, नासिद्धत्वात् । सुखादिभिः शब्दादयो ऽनुगम्यन्त इत्येतदप्रसिद्धम् केन कारणेन प्रतिपत्तव्यमिति ? उच्यते- तद्बुद्धिनिमित्तत्वात् । इह शब्दस्पर्शरूपरसगन्धानां सन्निधाने स्वसंस्कारविशेषयोगात्सुखदुःखमोहाकाराः प्राणिनां बुद्धय उत्पद्यन्ते । यच्च यादृशीं बुद्धिमुत्पादयति तत्तेनान्वितम् । तद्यथा चन्दनादिभिः शकलादयः । तस्मान्नासिद्धिः समन्वयस्येति । आह, असिद्ध एवायं समन्वयः । कस्मात् ? विलक्षणकार्योत्पत्तिदर्शनात् । न ह्ययं नियमः कारणसदृशमेव कार्यमुत्पद्यते । किं तर्हि विलक्षणं अग्निधूमशब्दादि । कथम् ? न ह्यग्निस्तृणादिस्वभावको ऽग्निस्वभावको वा धूमः । न च भेरीदण्डादिस्वभावः शब्दः । तस्मात्सुखाद्यनुगताः शब्दादय इतीच्छामात्रम् । उच्यते न, विशेषितत्वात् । सुखादिस्वरूपाः शब्दादयः, तत्सन्निधाने सुखाद्याकारप्रत्ययोत्पत्तिरित्येतदादित एवास्माभिर्विशेषितम् । तस्मान्न भिन्नजातीयास्त इति । यत्तु खल्विदमुच्यते ऽग्न्यादीनां विलक्षणानामुत्पत्तिदर्शनात्प्रधानभेदानामतज्जातीयप्रसंग इति तदयुक्तम् । कस्मात् ? अभिप्रायानवबोधात् । नैव ब्रूमो यो यस्य विकारः स तज्जातीयक इति । किं तर्हि यो यज्जातीयकः स तस्य विकार इति । तस्मादयुक्तमेतत् । किंचान्यत् उदाहरणाप्रसिद्धेः । न चैतदुदाहरणं प्रसिद्धं अग्न्यादयः स्वकारणजातिं नानुविदधतीत । कस्मात् ? बलवीर्यानुविधानात् । तद्यथा अग्नेर्धूमस्य च त्वक्चन्दननलिकादिस्निग्धतानुवृत्तेस्तैक्ष्ण्याद्यनुवृत्तेश्च । भेरीविकारः शब्दो न तु यथा भेरीरूपमवस्थितम् । प्रदीपेनेव तु दण्डाभिघातेन व्यज्यत इति साध्यमेतत् । न चैकैको रूपादीनां द्रव्याकारः समुदायधर्मत्वात् । तस्मान्न भेरीविकारः शब्दः । तत्र यदुक्तं विलक्षणकार्योत्पत्तिदर्शनादसिद्धो ऽन्वय इत्येतदयुक्तम् । तस्माद्युक्तमेतत् समन्वयादस्त्यव्यक्तमिति । किं चान्यत् । शक्तितः प्रवृत्तेश्च । इह यावती काचिल्लोके प्रवृत्तिरुपलभ्यते सा सर्वा शक्तितः । तद्यथा कुम्भकारस्य दण्डादिसाधनविन्यासलक्षणायाश्च शक्तेः सन्निधानाद् घटकरणे प्रवृत्तिरस्ति । व्यक्तस्य चेयं कार्यत्वात्तद्भावे प्रवृत्तिरिति । अतस्तस्यापि शक्त्या भवितव्यम् । यासौ शक्तिस्तदव्यक्तम् । तस्मादस्त्यव्यक्तमिति । आह, प्राक्प्रवृत्तेः शक्त्यभावः, प्रवृत्त्यनुपलब्धेः । यदि शक्तिपूर्विका प्रवृत्तिरिति मन्यध्वं तेन यावत्प्रवृत्तिर्नोपलभ्यते तावच्छक्तिर्नास्तीत्येतदापन्नम् । कस्मात् ? सत्यां शक्त्यां कार्याभावे स्वरूपाभावप्रसंगात् । यदि खल्वपि विद्यमाना शक्तिः केनचित्प्रबन्धेन कार्यं नोत्पादयेच्छक्तितरशक्तेत्येतदापन्नम् । तस्मात्सहकारिभावान्तरसन्निधानात्प्रव्रुत्तिसमकलामेवार्थानां शक्तय उत्पद्यन्ते । ताश्च तावदेव प्रध्वंसन्ते । तत्र यदुक्तं प्राक्प्रवृत्तेः शक्तिदर्शनाद्व्यक्तस्यापि निष्पादिका शक्तिरस्तीत्येतदयुक्तम् । किं चान्यत् भेदाभेदकल्पनानुपपत्तेः । इह प्रधानमेव वा शक्तिः स्यात् प्रधानाद्वा भिन्ना ? किं चातः ? तद्यदि तावत्प्रधानमेव शक्तिस्तेन कार्ये भेदाच्छक्तिभेदो ऽवसीयत इति शक्तिभेदात्प्रधाननानात्वप्रसंगः । प्रधानैकत्वाद्वा तदव्यतिरिक्तानां शक्तीनामेकत्वप्रसंगः । ततश्च कार्यनानात्वाभावः । अथ मा भूदयं दोष इति प्रधानादर्थान्तरभावः शक्तीनामभ्युपगम्यते तेन भिन्नानां शक्तीनां प्रवृत्तितः सिद्धौ प्रधानसिद्धिर्नास्तीत्येतदापन्नम् । किं चान्यत् । स्वरूपाभिधानं च । प्रधानस्य शक्तिमात्रादप्यर्थान्तरत्वमभ्युपगम्य रूपमीदृक्प्रधानं स्वावस्थायामिति, तच्चाशक्यमभिधातुम् । तस्माद् भेदाभेदकल्पनानुपपत्तेरकल्पनीया शक्तिरिति । उच्यते- यदुक्तं प्राक्प्रवृत्तेः शक्त्यभावः प्रवृत्त्यनुपलब्धेरिति, अत्र ब्रूमः नाप्रसिद्धत्वात् । कारणं शक्तिः कार्यं प्रवृत्तिः । न च कार्यानुपलब्धौ कार्याभाव इत्येतल्लोके प्रसिद्धम् । यत्पुनरुक्तं कार्यनिष्पत्तौ शक्तेः स्वरूपहानमिति अत्र ब्रूमः न, प्रदीपदृष्टान्तात् । यद्यथा प्रदीपस्य घटादिप्रकाशनशक्तिरस्ति । अथ च कुड्याद्यावरणसामर्थ्यान्न घटादीन्प्रकाशयितुं शक्नोति । न च शक्यते वक्तुं प्रदीपस्य प्रकाशनशक्तिरशक्तेति । एवमन्येषामपि भावानां प्राक्प्ररुत्तेरपि शक्तिः स्यात् । न चाप्रवृत्तिदर्शनादस्याः स्वरूपहानं स्यात् । यत्तूक्तं सहकारिभावान्तरसन्निधानात्प्रवृत्तिसमकालमेवार्थानां शक्तिप्रादुर्भाव इति अत्र ब्रूमः- तदप्रसिद्धिः शक्त्यपेक्षत्वात् । इह सर्वः कर्ता स्वगतां शक्तिमपेक्ष्य तद्योग्यतया सहकारिभावान्तरमुपादत्ते, सा चेत्प्राक्प्रवृत्तेर्न स्यात्साधनानां विषयस्वभावानवधारणादनुपादानप्रसंगः । अनिष्टं चैतत् । तस्मात्प्राक्प्रवृत्तेः शक्तिः । यत्पुनरेतदुक्तं तावदेव प्रध्वंसं इति अत्र ब्रूमः न, कार्यनिष्ठादर्शनात् । यदि प्रवृत्तिसमकालमेव प्रध्वंसः इति अत्र ब्रूमः न, कार्यनिष्ठादर्शनत् । यदि प्रवृत्तिसमकालमेव प्रध्वंसः स्यात्कार्यनिष्ठैव न स्यात् । तन्निमित्तत्वात्कार्यस्य अस्ति त्वसौ । तस्मान्न प्रवृत्तिसमकालमेव शतिप्रध्वंसः । सदृशसन्धानोत्पत्या कार्यनिष्ठेति चेन्न । विनाशसमकालोत्पत्त्यसम्भवात् । अथापि स्यादेकस्यां शक्तौ क्षणसाध्यमंशमवसाय विनष्टायामन्यत्तत्सदृशं शक्त्यन्तरमुत्पद्यते, तस्मिन्विनष्टे ऽन्यदिति । एवं शक्तिसन्तानात्कार्यनिष्ठा भवतीति । एतदप्ययुक्तम् । कस्मात् ? विनाशकालोत्पत्त्यसम्भवात् । को ह्यत्र हेतुर्येन विनाशसमकालमन्यच्छक्तिरूपं कार्यमवसीययति न पुनः प्राक्तनमेवावस्थितमिति ? किं चान्यत् । कौटस्थ्यदोषपरिहारात् । क्षणोत्तरकालावस्थाने च भावानां यो दोष उपात्तः कौटस्थ्यप्रसंग इति तस्य परिहार उक्तः । तस्मान्नास्ति शक्तीनां प्रवृत्तिकाले विनाशः । प्रवृत्त्युत्तरकालमपि नास्ति । कस्मात् ? पुनः प्रवृत्तिदर्शनात् । शक्त्यन्तरोत्पत्तौ प्रवृत्युत्तरकालमपि इति चेत् न, हेत्वभावात् । को ह्यत्र निर्बन्धः तस्यां विनष्टायामन्या प्रवृत्त्यन्तरहेतुर्भवति नैव पुनः सैवेति ? कृतार्थत्वादि चेत् न अनभ्युपगमात् । न ह्येकघटार्था शक्तिरभ्युपगम्यते । तत्र येनैव हेतुना एकं घटमवसाय न विनश्यति तेनैव यावन्ति कर्तव्यानीति । तस्मात्त्रिषु कालेषु शक्तयो ऽवतिष्ठन्ते । यत्पुनरेतदुक्तं भेदाभेदकल्पनानुपपत्तिरिति, अत्र ब्रूमः- अस्तु प्रधानादभिन्ना शक्तिः । न तस्य नानात्वं शक्त्येकत्वं वा प्रसज्यते । कस्मात् ? संख्याव्यवहारस्य बुद्ध्यपेक्षत्वाद्बुद्धिनिमित्तस्य चासत्कारेण प्रधानशक्तिस्वभावात्, इहायं संख्याव्यवहारो बुद्ध्यपेक्षः । कथम् ? यदभिन्नां बुद्धिमुत्पादयति तदेकं, प्रधानावस्थायां च शक्तयो ऽस्तमितविशेषत्वादभिन्नां बुद्धिमुत्पादयन्ति । तस्मादेकं तत्प्रवृत्तिकाले विशेषावग्रहणे भेदं प्रतिपद्यते, देवशक्तिर्मनुष्यशक्तिरित्यादि । तस्मान्नासामेकत्वमतो न भेदाभेदकल्पनानुपपत्तिरिति । व्यक्ते दर्शनाच्छक्तीनामव्यक्ते प्रतिपत्तिरिति चेत् स्यादेतत् । व्यक्ते शक्तिप्रवृत्ती दृष्टे न चाव्यक्ते । क्वचिदन्यतो व्यक्तमेवैतस्माद्धेतोः सिद्ध्यति नाव्यक्तमित्येतच्चायुक्तम् । कस्मात् ? सामान्यतोदृष्टान्तात्सिद्धेः । यथैव हि देवदत्ताधारया क्रियया तस्य देशान्तरप्राप्तिमुपलभ्यात्यन्तादृष्टं ज्योतिषां देशान्तरप्राप्तेर्गमनमनुमीयते एवं प्रवृत्तेः शक्तिनियमितत्वाद्व्यक्तस्य च प्रवृत्तिभूतत्वादवश्यमत्यन्तादृष्टा शक्तिरभ्युपगन्तव्येति सिद्धं शक्तितः प्रवृत्तेरस्त्यव्यक्तम् । किं चान्यत् । कारणकार्यविभागात् कारणं च कार्यं च कारणकार्ये तयोर्विभागः कार्यकारणविभागः । इदं कारणमिदं कार्यमिति बुद्ध्या द्विधावस्थापनं विभागो यः स कारणकार्यविभागः । तदवस्थितभावपूर्वकं दृष्टम् । तद्यथा शयनासनरथचरणादिः । अस्ति चायं व्यक्तस्य कारणकार्यविभागस्तस्मादिदमप्यवस्थितभापूर्वकं, यो ऽसाववस्थितो भावस्तदव्यक्तम् । आह, तदनुपलब्धेरयुक्तम् । न हि शयनादीनां कारणकार्यविभागः कश्चिदुपलभ्यते । तस्मादयुक्तमेतत् । उच्यते न कार्यकारणयोरुपकारकोपकार्यपर्यायत्वात्कारणं कार्यमिति निर्वत्यनिर्वर्तकभावो ऽभिप्रेतः । किं तर्ह्युपकारकोपकार्यभावः । स चास्ति शयनादीनां व्यक्तस्य च । अतो न प्रमादाभिधाननेतत् । आह, कः पुनर्व्यक्तस्य परस्यपरस्य कार्यकारणभाव इति ? उच्यते गुणानां तावत्सत्त्वरजस्तमसां प्रकाशप्रवृत्तिनियमलक्षणैर्धर्मैरितरेतरोपकारेण यथा प्रवृत्तिर्भवति, तथ प्रीत्यप्रीतिविषादात्मका इत्येतस्मिन्सूत्रे (इस्क् १२) व्याख्यातम् । तथा शब्दादीनां पृथिव्यादिषु परस्परार्थमेकाधारत्वम् । श्रोत्रादीनामितरेतरार्जनरक्षणसंस्काराः । करणस्य कार्यात्स्थानसाधनप्रख्यापनादिकार्यस्य करणाद्वृत्तिक्षतभंगसंरोहणसंशोषणपरिपालनानि । पृथिव्यादीनां वृत्तिसंग्रहणपन्थिव्यूहावकाशदानैर्गवादिभावो दैवमानुषतिरश्चां यथर्तुविधानेज्यापोषणाभ्यवहारसंव्यवहारैरितरेतराध्ययनं वर्णानां स्वधर्मप्रवृत्तिविषयभावः । अन्यश्च लोकाद्यथासंभवं द्रष्टव्यः । आह, तदनुपपत्तिः । क्रमयौगपद्यासम्भवात् । यो ऽयं गुणानां प्रकाशप्रवृत्तिनियमैरितरेतरोपकारो ऽभ्युपगम्यते स खलु क्रमेण वा स्यात् युगपद्वा ? किं चातः ? तन्न तावत्क्रमेण संभवति । कस्मात् ? एकस्य निरपेक्षस्य प्रवृत्तावितरयोरपि तत्प्रसंगात् । यदि तावत्सत्त्वं पूर्वं गुणान्तरनिरपेक्षं स्वशक्तित एव प्रकाशते तयोरुपकारकमित्याश्रीयते । तेन यथा सत्त्वमेवमितरावप्युपकारनिरपेक्षौ स्वकार्यं करिष्यत इत्युपकारानर्थक्यम् । अथ मा भूदयं दोष इत्यतो यौगपद्यमाश्रीयते । तदप्यनुपपन्नम् । कस्मात् ? सहभूतानामनुपकारकत्वाद्, गोविषाणवत् । किं चान्यत् । सदसद्विकल्पानुपपत्तेः । इह सत्त्वं प्रकाशमानं रजस्तमसोर्विद्यमानं वा प्रकाशमाविष्कुर्यात् अविद्यमानं वा ? किं चातः ? तद्यदि तावद्विद्यमानमभिव्यनक्ति तेन सर्वेषामेकस्वाभाव्याद्गुणत्वप्रसंगः । किंच सत्त्ववच्चेतरयोः स्वातंत्र्यप्रसंगः । यथा सत्त्वस्य प्रकाशक्तिरस्तीत्यतस्तद् गुणान्तरनिरपेक्षं प्रकाशते तद्वदितरावपीत्यदोषः । अथ वाविद्यमाना प्रकाशशक्तिः सत्त्वस्म्बन्धाद्रजस्तमसोरुपजायते । तेन यदुक्तं प्राक्प्रवृत्तेरेव तिष्ठन्ते शक्तय इति तद् हीनम् । ततश्च सत्कार्यवादव्याघातः । किं चायमनेकान्तात् । न ह्ययमेकान्तः परस्परोपकारिणामवस्थितभावपूर्वकत्वमिति । तथा हि सत्त्वादयः परस्परोपकारिणो न चावस्थितभावपूर्वकाः । तेन यदुक्तं कारणकार्यविभागाद्भेदानामव्यक्तमस्ति एतदयुक्तम् । उच्यते- यदुक्तमुपकाराभावः, क्रमयौगपद्यासम्भवादिति, अस्तु युगपदुपकारः । यत्तूक्तम् सहभूतानामनुपकारकत्वं गोविषाणादिवदिति, अत्र ब्रूमः न, अन्यथानुपपत्तेः । न हि गोविषाणयोः सहभूतत्वादौकारानुपपत्तिः । किं तर्हि एककार्याभावात् । येषां तु कार्यमेकं सहभावे तु तेषामुपकारो न प्रतिषिध्यते । तद्यथा पृथिव्यादीनां धृतिसंग्रहशक्तिव्यूहावकाशदानैः । शरीरस्थितयोरक्रमभाविनोरपि खुरविषाणयोर्नास्ति परस्परोपकारः । तस्मान्न सहभावासहभावावुपकारानुपकारहेतू । किं च दृष्टत्वात् । दृष्टः खलु वेगेनोर्ध्वगमने वायोररघट्टादीनां युगपदुपकारः न कश्चिद्दोषः तथा गुणानामपि स्यात् । संयोगनिमित्त इति चेत् साध्यं किमर्थान्तरभूतमुत प्राप्तिमात्रं संयोग इति । यत्पुनरेतदुक्तं सदसद्विकल्पानुपपत्तेरिति अत्र ब्रूमः अयुक्तमेतत् । कस्मात् ? पङ्ग्वन्धवत्तदुपकारे दोषानुपपत्तेः । तद्यथा पङ्ग्वन्धयोरितरेतरसम्बन्धान्न विद्यमानयोर्दृग्गतिशक्त्योरन्योन्यात्मनि व्यक्तिः न चाविद्यमानयोरथ चैककार्यसिद्धिर्यथा च पृथिव्यादीनां परस्परोपकारित्वं शक्तयोरभिव्यज्यते न परशक्त्या एवं गुणानामपीति । यत्पुनरेतदुक्तमनेकान्तादिति तदयुक्तम् । कस्मात् ? शास्त्रानवबोधात् । इहास्माकं कार्यकारणयोरर्थानभ्युपगमाद्गुणानामवस्थान्तरमेवावस्थान्तरानपेक्षं कार्यकारणशब्दवाच्यतां लभते । तत्र ये तावत्प्रधानावस्थानुभाविनो गुणास्तेषां शक्तिमात्ररूपत्वादनिर्देश्यप्रकाशादिस्वभावानां नास्ति तन्निबन्धन उपकारः । यदा वैषम्यमापद्यन्ते तदानिवारितप्रकाशादिरूपास्तन्निमित्तमुपकारं प्रतिपद्यन्ते । तस्माद्व्यक्तानामुपकाराभ्युपगमादवस्थितभावपूर्वकत्वं न विरुध्यत इति शास्त्रमनवगम्यैवमुच्यते ऽनैकान्तिको ऽयं हेतुः । प्रधानावस्थायामुपकारानभ्युपगमादुत्तरकालमपि तत्प्रसंग इति चेत् स्यान्मतम्, यदि गुणानामाद्ये प्रकोपे स्वसामर्थ्यादेव पूर्वस्मात्प्रच्युतिस्तेनोत्तरकालमपि तद्वदेव भविष्यति । अथ प्रधानावस्थायामपि चोपकारो न तर्हि नानैकान्तिको हेतुरिति । तच्च नैवम् । कस्मात् ? अग्निवत्स्वशक्तिनिमित्तत्वात् । तद्यथा सूक्ष्मो ऽग्निः सूक्ष्मं प्रकाशं स्वयमेव करोति, घटादिप्रकाशने तु तैलवर्त्त्याद्यपेक्षते । तद्वद्गुणानामाद्यः प्रकोपः स्वशक्तितः । महदाद्यपेक्षस्तूपकारतः । तस्माद्युक्तमेतत् कारणकार्यविभागादस्त्यव्यक्तमिति । किं चान्यत् । अविभागाद्वैश्वरूप्यस्य
bhāvāt / nahi vaḥ sāmānyaṃ dravyādarthāntarabhūtamasti / sārūpyamātre sāmānyaparikalpanāt / ucyate na, tattvāntarānupapatteḥ / tattvabhedena parimitā bhedā ityetadvivakṣitaṃ yathoktamasmābhiruktaṃ ca yadyasti tattvāntaramucyatām / yatpunaretaduktaṃ sāmānyasyārthāntarabhūtasya bhavatpakṣe 'nupapattiriti satyametat / tathāvidhenāpi tu tena saṃvyavahāro na pratiṣidhyate iti vakṣyāmaḥ / tasmātsiddhaṃ bhedānāṃ parimāṇādastyavyaktam / kiṃ cānyat / samanvayāt iha yena bhedānāṃ samanupagatistasya sattvaṃ dṛṣṭam / tadyathā mṛdā ghaṭādīnām / asti ceyaṃ sukhaduḥkhamohaiḥ śabdādīnāṃ samanugatiḥ / tasmātte 'pi santi ye ca sukhādayo 'stamitaviśeṣāstadavyaktam / tasmādastyavyaktam / āha, nāsiddhatvāt / sukhādibhiḥ śabdādayo 'nugamyanta ityetadaprasiddham kena kāraṇena pratipattavyamiti ? ucyate- tadbuddhinimittatvāt / iha śabdasparśarūparasagandhānāṃ sannidhāne svasaṃskāraviśeṣayogātsukhaduḥkhamohākārāḥ prāṇināṃ buddhaya utpadyante / yacca yādṛśīṃ buddhimutpādayati tattenānvitam / tadyathā candanādibhiḥ śakalādayaḥ / tasmānnāsiddhiḥ samanvayasyeti / āha, asiddha evāyaṃ samanvayaḥ / kasmāt ? vilakṣaṇakāryotpattidarśanāt / na hyayaṃ niyamaḥ kāraṇasadṛśameva kāryamutpadyate / kiṃ tarhi vilakṣaṇaṃ agnidhūmaśabdādi / katham ? na hyagnistṛṇādisvabhāvako 'gnisvabhāvako vā dhūmaḥ / na ca bherīdaṇḍādisvabhāvaḥ śabdaḥ / tasmātsukhādyanugatāḥ śabdādaya itīcchāmātram / ucyate na, viśeṣitatvāt / sukhādisvarūpāḥ śabdādayaḥ, tatsannidhāne sukhādyākārapratyayotpattirityetadādita evāsmābhirviśeṣitam / tasmānna bhinnajātīyāsta iti / yattu khalvidamucyate 'gnyādīnāṃ vilakṣaṇānāmutpattidarśanātpradhānabhedānāmatajjātīyaprasaṃga iti tadayuktam / kasmāt ? abhiprāyānavabodhāt / naiva brūmo yo yasya vikāraḥ sa tajjātīyaka iti / kiṃ tarhi yo yajjātīyakaḥ sa tasya vikāra iti / tasmādayuktametat / kiṃcānyat udāharaṇāprasiddheḥ / na caitadudāharaṇaṃ prasiddhaṃ agnyādayaḥ svakāraṇajātiṃ nānuvidadhatīta / kasmāt ? balavīryānuvidhānāt / tadyathā agnerdhūmasya ca tvakcandananalikādisnigdhatānuvṛttestaikṣṇyādyanuvṛtteśca / bherīvikāraḥ śabdo na tu yathā bherīrūpamavasthitam / pradīpeneva tu daṇḍābhighātena vyajyata iti sādhyametat / na caikaiko rūpādīnāṃ dravyākāraḥ samudāyadharmatvāt / tasmānna bherīvikāraḥ śabdaḥ / tatra yaduktaṃ vilakṣaṇakāryotpattidarśanādasiddho 'nvaya ityetadayuktam / tasmādyuktametat samanvayādastyavyaktamiti / kiṃ cānyat / śaktitaḥ pravṛtteśca / iha yāvatī kācilloke pravṛttirupalabhyate sā sarvā śaktitaḥ / tadyathā kumbhakārasya daṇḍādisādhanavinyāsalakṣaṇāyāśca śakteḥ sannidhānād ghaṭakaraṇe pravṛttirasti / vyaktasya ceyaṃ kāryatvāttadbhāve pravṛttiriti / atastasyāpi śaktyā bhavitavyam / yāsau śaktistadavyaktam / tasmādastyavyaktamiti / āha, prākpravṛtteḥ śaktyabhāvaḥ, pravṛttyanupalabdheḥ / yadi śaktipūrvikā pravṛttiriti manyadhvaṃ tena yāvatpravṛttirnopalabhyate tāvacchaktirnāstītyetadāpannam / kasmāt ? satyāṃ śaktyāṃ kāryābhāve svarūpābhāvaprasaṃgāt / yadi khalvapi vidyamānā śaktiḥ kenacitprabandhena kāryaṃ notpādayecchaktitaraśaktetyetadāpannam / tasmātsahakāribhāvāntarasannidhānātpravruttisamakalāmevārthānāṃ śaktaya utpadyante / tāśca tāvadeva pradhvaṃsante / tatra yaduktaṃ prākpravṛtteḥ śaktidarśanādvyaktasyāpi niṣpādikā śaktirastītyetadayuktam / kiṃ cānyat bhedābhedakalpanānupapatteḥ / iha pradhānameva vā śaktiḥ syāt pradhānādvā bhinnā ? kiṃ cātaḥ ? tadyadi tāvatpradhānameva śaktistena kārye bhedācchaktibhedo 'vasīyata iti śaktibhedātpradhānanānātvaprasaṃgaḥ / pradhānaikatvādvā tadavyatiriktānāṃ śaktīnāmekatvaprasaṃgaḥ / tataśca kāryanānātvābhāvaḥ / atha mā bhūdayaṃ doṣa iti pradhānādarthāntarabhāvaḥ śaktīnāmabhyupagamyate tena bhinnānāṃ śaktīnāṃ pravṛttitaḥ siddhau pradhānasiddhirnāstītyetadāpannam / kiṃ cānyat / svarūpābhidhānaṃ ca / pradhānasya śaktimātrādapyarthāntaratvamabhyupagamya rūpamīdṛkpradhānaṃ svāvasthāyāmiti, taccāśakyamabhidhātum / tasmād bhedābhedakalpanānupapatterakalpanīyā śaktiriti / ucyate- yaduktaṃ prākpravṛtteḥ śaktyabhāvaḥ pravṛttyanupalabdheriti, atra brūmaḥ nāprasiddhatvāt / kāraṇaṃ śaktiḥ kāryaṃ pravṛttiḥ / na ca kāryānupalabdhau kāryābhāva ityetalloke prasiddham / yatpunaruktaṃ kāryaniṣpattau śakteḥ svarūpahānamiti atra brūmaḥ na, pradīpadṛṣṭāntāt / yadyathā pradīpasya ghaṭādiprakāśanaśaktirasti / atha ca kuḍyādyāvaraṇasāmarthyānna ghaṭādīnprakāśayituṃ śaknoti / na ca śakyate vaktuṃ pradīpasya prakāśanaśaktiraśakteti / evamanyeṣāmapi bhāvānāṃ prākprarutterapi śaktiḥ syāt / na cāpravṛttidarśanādasyāḥ svarūpahānaṃ syāt / yattūktaṃ sahakāribhāvāntarasannidhānātpravṛttisamakālamevārthānāṃ śaktiprādurbhāva iti atra brūmaḥ- tadaprasiddhiḥ śaktyapekṣatvāt / iha sarvaḥ kartā svagatāṃ śaktimapekṣya tadyogyatayā sahakāribhāvāntaramupādatte, sā cetprākpravṛtterna syātsādhanānāṃ viṣayasvabhāvānavadhāraṇādanupādānaprasaṃgaḥ / aniṣṭaṃ caitat / tasmātprākpravṛtteḥ śaktiḥ / yatpunaretaduktaṃ tāvadeva pradhvaṃsaṃ iti atra brūmaḥ na, kāryaniṣṭhādarśanāt / yadi pravṛttisamakālameva pradhvaṃsaḥ iti atra brūmaḥ na, kāryaniṣṭhādarśanat / yadi pravṛttisamakālameva pradhvaṃsaḥ syātkāryaniṣṭhaiva na syāt / tannimittatvātkāryasya asti tvasau / tasmānna pravṛttisamakālameva śatipradhvaṃsaḥ / sadṛśasandhānotpatyā kāryaniṣṭheti cenna / vināśasamakālotpattyasambhavāt / athāpi syādekasyāṃ śaktau kṣaṇasādhyamaṃśamavasāya vinaṣṭāyāmanyattatsadṛśaṃ śaktyantaramutpadyate, tasminvinaṣṭe 'nyaditi / evaṃ śaktisantānātkāryaniṣṭhā bhavatīti / etadapyayuktam / kasmāt ? vināśakālotpattyasambhavāt / ko hyatra heturyena vināśasamakālamanyacchaktirūpaṃ kāryamavasīyayati na punaḥ prāktanamevāvasthitamiti ? kiṃ cānyat / kauṭasthyadoṣaparihārāt / kṣaṇottarakālāvasthāne ca bhāvānāṃ yo doṣa upāttaḥ kauṭasthyaprasaṃga iti tasya parihāra uktaḥ / tasmānnāsti śaktīnāṃ pravṛttikāle vināśaḥ / pravṛttyuttarakālamapi nāsti / kasmāt ? punaḥ pravṛttidarśanāt / śaktyantarotpattau pravṛtyuttarakālamapi iti cet na, hetvabhāvāt / ko hyatra nirbandhaḥ tasyāṃ vinaṣṭāyāmanyā pravṛttyantaraheturbhavati naiva punaḥ saiveti ? kṛtārthatvādi cet na anabhyupagamāt / na hyekaghaṭārthā śaktirabhyupagamyate / tatra yenaiva hetunā ekaṃ ghaṭamavasāya na vinaśyati tenaiva yāvanti kartavyānīti / tasmāttriṣu kāleṣu śaktayo 'vatiṣṭhante / yatpunaretaduktaṃ bhedābhedakalpanānupapattiriti, atra brūmaḥ- astu pradhānādabhinnā śaktiḥ / na tasya nānātvaṃ śaktyekatvaṃ vā prasajyate / kasmāt ? saṃkhyāvyavahārasya buddhyapekṣatvādbuddhinimittasya cāsatkāreṇa pradhānaśaktisvabhāvāt, ihāyaṃ saṃkhyāvyavahāro buddhyapekṣaḥ / katham ? yadabhinnāṃ buddhimutpādayati tadekaṃ, pradhānāvasthāyāṃ ca śaktayo 'stamitaviśeṣatvādabhinnāṃ buddhimutpādayanti / tasmādekaṃ tatpravṛttikāle viśeṣāvagrahaṇe bhedaṃ pratipadyate, devaśaktirmanuṣyaśaktirityādi / tasmānnāsāmekatvamato na bhedābhedakalpanānupapattiriti / vyakte darśanācchaktīnāmavyakte pratipattiriti cet syādetat / vyakte śaktipravṛttī dṛṣṭe na cāvyakte / kvacidanyato vyaktamevaitasmāddhetoḥ siddhyati nāvyaktamityetaccāyuktam / kasmāt ? sāmānyatodṛṣṭāntātsiddheḥ / yathaiva hi devadattādhārayā kriyayā tasya deśāntaraprāptimupalabhyātyantādṛṣṭaṃ jyotiṣāṃ deśāntaraprāptergamanamanumīyate evaṃ pravṛtteḥ śaktiniyamitatvādvyaktasya ca pravṛttibhūtatvādavaśyamatyantādṛṣṭā śaktirabhyupagantavyeti siddhaṃ śaktitaḥ pravṛtterastyavyaktam / kiṃ cānyat / kāraṇakāryavibhāgāt kāraṇaṃ ca kāryaṃ ca kāraṇakārye tayorvibhāgaḥ kāryakāraṇavibhāgaḥ / idaṃ kāraṇamidaṃ kāryamiti buddhyā dvidhāvasthāpanaṃ vibhāgo yaḥ sa kāraṇakāryavibhāgaḥ / tadavasthitabhāvapūrvakaṃ dṛṣṭam / tadyathā śayanāsanarathacaraṇādiḥ / asti cāyaṃ vyaktasya kāraṇakāryavibhāgastasmādidamapyavasthitabhāpūrvakaṃ, yo 'sāvavasthito bhāvastadavyaktam / āha, tadanupalabdherayuktam / na hi śayanādīnāṃ kāraṇakāryavibhāgaḥ kaścidupalabhyate / tasmādayuktametat / ucyate na kāryakāraṇayorupakārakopakāryaparyāyatvātkāraṇaṃ kāryamiti nirvatyanirvartakabhāvo 'bhipretaḥ / kiṃ tarhyupakārakopakāryabhāvaḥ / sa cāsti śayanādīnāṃ vyaktasya ca / ato na pramādābhidhānanetat / āha, kaḥ punarvyaktasya parasyaparasya kāryakāraṇabhāva iti ? ucyate guṇānāṃ tāvatsattvarajastamasāṃ prakāśapravṛttiniyamalakṣaṇairdharmairitaretaropakāreṇa yathā pravṛttirbhavati, tatha prītyaprītiviṣādātmakā ityetasminsūtre (ISk 12) vyākhyātam / tathā śabdādīnāṃ pṛthivyādiṣu parasparārthamekādhāratvam / śrotrādīnāmitaretarārjanarakṣaṇasaṃskārāḥ / karaṇasya kāryātsthānasādhanaprakhyāpanādikāryasya karaṇādvṛttikṣatabhaṃgasaṃrohaṇasaṃśoṣaṇaparipālanāni / pṛthivyādīnāṃ vṛttisaṃgrahaṇapanthivyūhāvakāśadānairgavādibhāvo daivamānuṣatiraścāṃ yathartuvidhānejyāpoṣaṇābhyavahārasaṃvyavahārairitaretarādhyayanaṃ varṇānāṃ svadharmapravṛttiviṣayabhāvaḥ / anyaśca lokādyathāsaṃbhavaṃ draṣṭavyaḥ / āha, tadanupapattiḥ / kramayaugapadyāsambhavāt / yo 'yaṃ guṇānāṃ prakāśapravṛttiniyamairitaretaropakāro 'bhyupagamyate sa khalu krameṇa vā syāt yugapadvā ? kiṃ cātaḥ ? tanna tāvatkrameṇa saṃbhavati / kasmāt ? ekasya nirapekṣasya pravṛttāvitarayorapi tatprasaṃgāt / yadi tāvatsattvaṃ pūrvaṃ guṇāntaranirapekṣaṃ svaśaktita eva prakāśate tayorupakārakamityāśrīyate / tena yathā sattvamevamitarāvapyupakāranirapekṣau svakāryaṃ kariṣyata ityupakārānarthakyam / atha mā bhūdayaṃ doṣa ityato yaugapadyamāśrīyate / tadapyanupapannam / kasmāt ? sahabhūtānāmanupakārakatvād, goviṣāṇavat / kiṃ cānyat / sadasadvikalpānupapatteḥ / iha sattvaṃ prakāśamānaṃ rajastamasorvidyamānaṃ vā prakāśamāviṣkuryāt avidyamānaṃ vā ? kiṃ cātaḥ ? tadyadi tāvadvidyamānamabhivyanakti tena sarveṣāmekasvābhāvyādguṇatvaprasaṃgaḥ / kiṃca sattvavaccetarayoḥ svātaṃtryaprasaṃgaḥ / yathā sattvasya prakāśaktirastītyatastad guṇāntaranirapekṣaṃ prakāśate tadvaditarāvapītyadoṣaḥ / atha vāvidyamānā prakāśaśaktiḥ sattvasmbandhādrajastamasorupajāyate / tena yaduktaṃ prākpravṛttereva tiṣṭhante śaktaya iti tad hīnam / tataśca satkāryavādavyāghātaḥ / kiṃ cāyamanekāntāt / na hyayamekāntaḥ parasparopakāriṇāmavasthitabhāvapūrvakatvamiti / tathā hi sattvādayaḥ parasparopakāriṇo na cāvasthitabhāvapūrvakāḥ / tena yaduktaṃ kāraṇakāryavibhāgādbhedānāmavyaktamasti etadayuktam / ucyate- yaduktamupakārābhāvaḥ, kramayaugapadyāsambhavāditi, astu yugapadupakāraḥ / yattūktam sahabhūtānāmanupakārakatvaṃ goviṣāṇādivaditi, atra brūmaḥ na, anyathānupapatteḥ / na hi goviṣāṇayoḥ sahabhūtatvādaukārānupapattiḥ / kiṃ tarhi ekakāryābhāvāt / yeṣāṃ tu kāryamekaṃ sahabhāve tu teṣāmupakāro na pratiṣidhyate / tadyathā pṛthivyādīnāṃ dhṛtisaṃgrahaśaktivyūhāvakāśadānaiḥ / śarīrasthitayorakramabhāvinorapi khuraviṣāṇayornāsti parasparopakāraḥ / tasmānna sahabhāvāsahabhāvāvupakārānupakārahetū / kiṃ ca dṛṣṭatvāt / dṛṣṭaḥ khalu vegenordhvagamane vāyoraraghaṭṭādīnāṃ yugapadupakāraḥ na kaściddoṣaḥ tathā guṇānāmapi syāt / saṃyoganimitta iti cet sādhyaṃ kimarthāntarabhūtamuta prāptimātraṃ saṃyoga iti / yatpunaretaduktaṃ sadasadvikalpānupapatteriti atra brūmaḥ ayuktametat / kasmāt ? paṅgvandhavattadupakāre doṣānupapatteḥ / tadyathā paṅgvandhayoritaretarasambandhānna vidyamānayordṛggatiśaktyoranyonyātmani vyaktiḥ na cāvidyamānayoratha caikakāryasiddhiryathā ca pṛthivyādīnāṃ parasparopakāritvaṃ śaktayorabhivyajyate na paraśaktyā evaṃ guṇānāmapīti / yatpunaretaduktamanekāntāditi tadayuktam / kasmāt ? śāstrānavabodhāt / ihāsmākaṃ kāryakāraṇayorarthānabhyupagamādguṇānāmavasthāntaramevāvasthāntarānapekṣaṃ kāryakāraṇaśabdavācyatāṃ labhate / tatra ye tāvatpradhānāvasthānubhāvino guṇāsteṣāṃ śaktimātrarūpatvādanirdeśyaprakāśādisvabhāvānāṃ nāsti tannibandhana upakāraḥ / yadā vaiṣamyamāpadyante tadānivāritaprakāśādirūpāstannimittamupakāraṃ pratipadyante / tasmādvyaktānāmupakārābhyupagamādavasthitabhāvapūrvakatvaṃ na virudhyata iti śāstramanavagamyaivamucyate 'naikāntiko 'yaṃ hetuḥ / pradhānāvasthāyāmupakārānabhyupagamāduttarakālamapi tatprasaṃga iti cet syānmatam, yadi guṇānāmādye prakope svasāmarthyādeva pūrvasmātpracyutistenottarakālamapi tadvadeva bhaviṣyati / atha pradhānāvasthāyāmapi copakāro na tarhi nānaikāntiko heturiti / tacca naivam / kasmāt ? agnivatsvaśaktinimittatvāt / tadyathā sūkṣmo 'gniḥ sūkṣmaṃ prakāśaṃ svayameva karoti, ghaṭādiprakāśane tu tailavarttyādyapekṣate / tadvadguṇānāmādyaḥ prakopaḥ svaśaktitaḥ / mahadādyapekṣastūpakārataḥ / tasmādyuktametat kāraṇakāryavibhāgādastyavyaktamiti / kiṃ cānyat / avibhāgādvaiśvarūpyasya
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.