Library·Yuktidipika·16

Yuktidipika 16

ISk 16

ह्यादीनां करणं स्यात् । कस्मात् ? अविशेषात् । अथैतदनिष्टं, न तर्ह्युभयोश्चैतन्यम् । कार्यकारणवत्तानभ्युपगमाददोष इति चेत् व्यापी निरवयवो ऽनन्तशक्तिः सूक्ष्मेभ्यः सूक्ष्मतमो महद्भ्यो महत्तमो ऽधिकरणधर्मानादिरित्येवमनन्तलक्षणमीश्वरपदार्थ तद्विदो व्याचक्षते । तस्य कुतः कार्यकारणमवलम्ब्येदमाध्यारोपितमिति ? एतदप्यनुपपन्नम् । कस्मात् ? अनुमानविरोधात् । इत्थं चेदीश्वरो यदिदमनुमानं कार्यविशेषस्यातिशयबुद्धिपूर्वकत्वाच्च चेतनाचेतनयोरभिसम्बन्धस्य चेतनकृतत्वादिति तद्व्याहन्यते । कस्मात् ? न ह्येतावदीदृशार्थेन सहैतद्दृष्टमिति । उपेत्य वा, मूर्तिपरिग्रहव्याघातात् । यद्येकान्तेनैवंरूप ईश्वरः, क्षित्यादिमूर्तिपरिग्रहो व्याहन्येत । किं चान्यत्- श्रुतेः । श्रुतिरपि चास्य मूर्तिमाचष्टे कृत्तिवासाः पिनाकहस्तो विततधन्वा नीलशिखण्डीत्यादि । तदभ्युपगमात्स्वपक्षहानिरिति चेत्, स्यान्मतं यदि तर्हि श्रुतिवचनान्मूर्तिमानीश्वरः परिगृह्यते । तेन सिद्धमस्यास्तित्वम् । कस्मात् ? न ह्यसतो मूर्तिमत्त्वमुपपद्यत इति कृत्वा । एतदप्ययुक्तम् । अभिप्रायानवबोधात् । न ह्येकान्तेन वयं भगवतः शक्तिविशेषं प्रत्याचक्ष्महे, माहात्म्यशरीरादिपरिग्रहात् । यथा तु भवतोच्यते प्रधानपुरुषव्यतिरिक्तः तयोः प्रयोक्ता नास्तीत्ययमस्मदभिप्रायः, तस्मादेतस्य बाधकम् । अतो न प्रधानपुरुषयोरभिसम्बन्धो ऽन्यकृतः । किं चान्यत् अशक्यत्वात् । कुर्वाणः खल्वप्ययमभिसम्बन्धं शरीरमात्रेण वा शरीरिणः कुर्यात्, शरीरकारणेन वा ? किं चातः ? तन्न तावच्छरीरमात्रेण करोति । कस्मात् ? अनपेक्षस्य शरीरोत्पत्तौ निमित्ताभावात् । न शरीरकारणेन, विभुत्वात् । परिच्छिन्नयोर्गोशकटयोरभिसम्बन्धो ऽन्यकृतः, विभू च प्रधानपुरुषौ । किं च पारार्थ्यात् । गोशकटयोरभिसम्बन्धः परार्थो दृष्टः । न तु प्रधानपुरुषयोरभिसम्बन्धः परार्थ इति । ईश्वरार्थ इति चेन्न, उक्तत्वात् । दृष्टादृष्टार्थ ईश्वरस्यानुपपन्न इत्यादावेवोक्तमेतत् । एवं तावत्पाशुपतानामीश्वरपरिग्रहे दोषः । वैशेषिकाणां चायं दोषः । किं च द्रव्यादिपदार्थान्तरभावाभावपरिकल्पनानुपपत्तिश्च । तैरीश्वरो द्रव्यगुणकर्मसामान्यविशेषसमवायभूतो वा परिकल्प्यमानः परिकल्प्यते, पदार्थान्तरभूतो वा ? किं चातः ? तन्न तावद् द्रव्यादिभूतः । कस्मात् ? द्विविधं हि द्रव्यं अनेकद्रव्यमद्रव्यं च । तत्र नानेकद्रव्यमीश्वरः, कृतकत्वादिदोषप्रसंगात् । नाद्रव्यं, परिसंख्यानात् । पृथिव्यादीनि मनःपर्यन्तानि नवैव द्रव्याणि वः सिद्धान्तः । इतिकरणस्य परिसमाप्त्यर्थत्वात् । किं च गुणकर्मनिर्देशात् । सति चास्य द्रव्यत्वे वैशेषिकगुणनिर्देश आचार्येण कृतः स्यात् । कारणान्तरप्रयोगसमर्थस्य च कर्म निर्दिष्टं स्यात् । न तु तथा । तस्मान्न द्रव्यगुणादयः । आश्रयपरतन्त्रा हि गुणादयः परार्थाः । एवं न द्रव्यादिभूतो नापि पदार्थान्तरभूतः । पदार्थत्वे हि सति द्रव्यादिवल्लक्षणमुक्तमभविष्यत् । आचार्येण तु नोक्तम् । तस्मासूत्रकारमते नास्तीश्वरः । लिङ्गादिति चेत्, स्यान्मतम्- संज्ञाकर्मत्वमस्मद्विशिष्टानां लिङ्गम् । प्रत्यक्षपूर्वकत्वाद्वा संज्ञाकर्मण इत्येतस्माल्लिङ्गादीश्वरपरिग्रह आचार्यस्य सिद्ध इति । तदप्ययुक्तम् । कस्मात् ? अभिप्रेतासिद्धेः । सत्यमनेन लिङ्गेनास्मदादिभ्यो विशिष्टशक्तेः कस्यचिदेव माहात्म्यशरीरस्यान्यस्य वा प्रतिपत्तिः स्यात् । संज्ञामात्रं तु यथा भवद्भिः सर्वकारणानां सृष्ट्युपसंहारप्रवृत्तिहेतुरेकः स्वतन्त्र इष्यते । तथा चास्माल्लिङ्गात्प्रतिपत्तिः । किं चान्यत् । प्रागनुपदेशे ऽकौशलप्रसंगात् । ईश्वरपरतन्त्रे चेदणूनां प्रवृत्तिनिवृत्ती स्यातां तमेव प्रागुपदिशेत् । धर्मवत्प्रधानपदार्थस्य वा प्रागनुपदेशादकुशलः सूत्रकार इत्येतदापद्यते । न चैतदिष्टमुभयम् । किं चान्यत् असंकीर्तनात् । शास्त्रप्रदेशे चायमीश्वरो न कस्मिंश्चिदप्याचार्येण संकीर्तितः । न चास्य वध्वा इव श्वशुरनामसंकीर्तने दोषोपपत्तिः स्यात् । दोषसंविभागार्थमिदमाचार्यस्यानिष्टमध्यारोप्यते, न तु मतमस्यैतत् । एवं काणादानामीश्वरो ऽस्तीति पाशुपतोपज्ञमेतत् । तस्मादीश्वरो ऽप्यकारणम् । कर्माणुभिर्व्याख्यातम् । कथम् ? यथा कृतकत्वान्न जगत्कारणमणवः, एवं कर्मापि न शरीरनिमित्तं, तस्मात्तदप्यकारणम् । इतरेतरनिमित्तत्वाददोष इति चेत् स्यान्मतम्, यथान्तरेण शरीरं कर्म नोत्पद्यमानं दृष्टमेवमन्तरेण कर्म शरीरस्यापि कारणान्तरमशक्यं कल्पयितुमिति परस्परनिमित्तत्वान्नास्य परिवर्तस्य पूर्वकोटिः प्रज्ञायते । तस्मान्नास्त्यनयोः कारणान्तरमिति । एतच्चायुक्तम् । कस्मात् ? अनवस्थानामवस्थानपूर्वकत्वदर्शनात् । तद्यथा शुक्रशोणिताच्छरीरं शरीराच्छुक्रशोणितमित्यस्य परिवर्तस्य पूर्वकोटिरदृष्टा, प्रतिज्ञायते चायोनिजत्वमीश्वरशरीराणामादिसर्गे च । तथा च बीजाङ्कुरादयो ऽङ्कुरादिभ्यो बीजमित्यनवस्था । भाति चात्रादिसर्गे परमाणुमात्रादपि बीजप्रादुर्भावस्तथा शरीरकर्मणोरनवस्था । इदानीमपि चादिसर्गे चाधिकारमात्रवशाच्छरीरोत्पत्तिः स्यात् । साधारणविग्रहत्वप्रसंग इति चेत् स्यादेतत्, यद्यधिकारनिमित्ता शरीरोत्पत्तिरादिसर्गे ऽभ्युपगम्यते प्राप्तमेकेन शरीरेण सर्वपुरुषाणामभिसम्बन्धो नियमहेत्वभावात् । ततश्च शरीरान्तरानर्थक्यम् । तेनैव सर्वेषामुपभोगसामर्थ्यादिति । एतदनुपपन्नम् । कस्मात् ? प्रत्यक्षविरोधात् । सत्यमेतदनुमानतः । प्रत्यक्षतस्तु शरीराणि प्रतिपुरुषम्, तस्मान्नायं प्रसंगः । अपवर्गनियमप्रसंग इति चेत् स्यान्मतं यद्यधिकारमात्रवशाच्छरीरोत्पत्तिः परमर्षेरेवापवर्गसाधनं शरीरादुत्पद्येतेति । उच्यते- न तस्यैव, किं तर्हि सर्वेषां गुणानां प्राधान्यात्तन्निमित्तानि शरीराण्यादिसर्गे सांसिद्धिकान्युत्पद्यन्ते । तत्र यस्य सत्त्वप्रधानं कार्यकरणं स परमर्षिः । यस्य सत्त्वं रजोबहुलं स माहात्म्यशरीरः । एवं गुणसम्पर्काद् गुणप्रधानाप्रधानभावेन यावत्स्थावरशरीरप्रादुर्भाव इत्यतो नास्ति गुणानां शरीरविनियोगपक्षपातः । तस्माद्युक्तमेतत्कृतकत्वान्न कर्म जगत्कारणमिति । एतेन चैवं व्याख्याम् । तदपि हि कर्मणामेव प्राप्तपरिपाकाणामभिधानमर्थान्तरमेवेति चेत्साध्यम् । तस्मादप्यकल्पनीयमिति । यदप्युक्तं कालाज्जगदुत्पत्तिर्भविष्यतीति तदनुपपन्नम् । कस्मात् ? कारणपरिस्पन्दस्यैव तदभिधानसन्निवेशात् । न हि नः कालो नाम कश्चिदस्ति, किं तर्हि क्रियमाणक्रियाणामेवादित्यगतिगोदोहघटास्तनितादीनां विशिष्टावधिसरूपप्रत्ययनिमित्तत्वत् । परापरादिलिङ्गसद्भावात्प्रतिपत्तिरिति चेन्न, अकृतकेषु तदनुपपत्तेः । यदेव कृतकं तत्रैव परमपरमित्यादिः प्रत्ययो दृष्टः । स यदि क्रियाव्यतिरिक्तनिमित्तः स्यादविशेषान्नित्यानित्येषु स्यात् । क्वचित्सामर्थादपाकजवददोष इति चेत् स्यान्मतम्- यथाग्निसंयोगः पाकजहेतुः तथा चाविशेषे ऽपि पृथिव्यामेव पाकजोत्पत्तिनिमित्तं भवति नाकाशादिषु । एवं कालो ऽपि परापरादिहेतुरथ चानित्येष्वेव स्यान्न नित्येष्विति । तच्चायुक्तम् । कस्मात् ? विशेषोपपत्तेः । रूपादिविक्रियाहेतुरग्निस्तद्युक्तं यदसौ तद्वति द्रव्ये पाकजानादद्यात्, (ना) तद्वत्याकाशादौ । कालस्तु सम्बन्धमात्रोपकारी न विक्रियाहेतुः । तस्मादसदेतत् । एवं यदि क्रियाभ्यो ऽन्यः काल इष्यते कारणपरिस्पन्दस्य जगत्कारणत्वमथान्यत्साध्यम् । यदृच्छापि न कारणं कर्मवत् कार्यकारणभावात् । कार्यकारणभूतं हीदं व्यक्तमिति प्राग्व्याख्यातम् । स च कार्यकारणभावः प्रेक्षापूर्वकृतानां शयनादीनामुपलब्धौ यादृच्छिकेषु चानुपलब्धौ न तस्या लिङ्गमिति शक्यं वक्तुम् । अभावो ऽप्यकारणम्, परिमाणादिदर्शनात् । न हि तत उत्पन्नानां परिमाणमुपपद्यत इत्यतो नाप्यन्वयः । सात्मकनिरात्मकयोरत्यन्तजातिभेदात् । नापि शक्तिस्तदभावात् । नोपकारो ऽनवस्थानात् । न विभागो निरात्मकत्वात् । तस्मान्न परमाणुपुरुषेश्वरकर्मदैवकालस्वभावयदृच्छाभावेभ्यो व्यक्तमुत्पद्यते । न चेदेभ्यः, परिशेषतः प्रधानस्यैवास्तित्वलिङ्गमिदम् । तस्माद्युक्तमेतत् भेदानां परिमाणादिभ्यः कारणमस्त्यव्यक्तमिति ॥ १५ ॥ ----------------------------------------------------------------------- कारिका १६ ----------------------------------------------------------------------- आह एवमप्यस्य व्यक्तहेतुत्वमनुपपन्नम्, एकत्वात् । बहूनां कार्यारम्भो दृष्टस्तन्त्वादीनाम् । एकं प्रधानं, तस्मान्न तदारम्भशक्तियुक्तमिति । उच्यते- यद्यपि गुणानां प्रधानलक्षणमवस्थान्तरमभिन्नबुद्धिनिमित्तत्वादेकमपि कार्यकाले किंचिद्वैषम्योपजनितव्यपदेश्यरूपाभिरितरेतरोपकारिणीभिः शक्तिभिः स्मुदायत्वमापद्यते । तस्मादिदानीं प्रवर्तते त्रिगुणतः समुदयाच्च प्रवर्तते इत्यनेनोत्पत्तिमाचष्टे । त्रिगुणत इत्यव्यपदेश्यरूपाणां प्रधानाप्रधानभावेन गुणशक्तीनां वैषम्याद्व्यपदेश्यरूपान्तरमाह । यत्रैतच्छक्यते वक्तुं त्रयः सत्त्वादय इति तदवस्थानं कार्यारम्भकमिति । समुदयादित्यनेन परस्परापेक्षाणामारम्भशक्तिमवद्योतयति । एतदुक्तं भवति- कार्यकाले गुणाः परित्यक्तपूर्वावस्था भेदं प्रतिलभ्य परस्परोपकारेण संहन्यते । संहताश्च व्यक्तमुत्पादयन्ति । तस्मान्नावस्थान्तरस्याभिन्नबुद्धिनिमित्तत्वात्प्रधानैकत्वदोषः गुणभेदान्नैकस्य कार्यारम्भ इति । आह, निष्क्रियत्वात्तर्हि प्रकृतेः कार्यारम्भो ऽनुपपन्नः । क्रियात्वानभ्युपगमे वा व्यक्तवैधर्म्यविरोध इति । उच्यते- न, क्रियावैधर्म्यभेदात् । द्विविधा हि क्रिया प्रस्पन्दलक्षणा परिणामलक्षणा च । तत्र प्रस्पन्दः प्रधानस्य सौक्ष्म्यात्प्रतिषिध्यते । परिणामतः तु तत्कार्यमारभते इति । आह- ननु च परिणामो ऽपि सौक्ष्म्यात्प्रधानस्य नोपपद्यते । कस्मात् ? न हि सौक्ष्म्यात्सूक्ष्मस्याकाशादेर्विपरिणामो दृष्ट इति । उच्यते- संस्कारस्य सौक्ष्म्ये ऽपि परिणामो ऽभ्युपगन्तव्यः । तस्माद् युक्तः सूक्ष्मपरिणामीति ॥ आह, कः पुनरयं परिणामो नाम ? उच्यते- जहद्धर्मान्तरं पूर्वमादत्ते यदा परम् । तत्त्वादप्रच्युतो धर्मी परिणामः स उच्यते ॥ इति । यदा शक्त्यन्तरानुग्रहात्पूर्वधर्मान् तिरोभाव्य स्वरूपादप्रच्युतो धर्मी धर्मान्तरेणाविर्भवति तदवस्थानमस्माकं परिणाम इत्युच्यते । आह, नैतदभिधानमात्रं दृष्टान्तमन्तरेण प्रतिपद्यामहे । तस्माद्यथा किमिति वक्तव्यम् । उच्यते- यथा पालाशं पलाशादप्रच्युतनिमित्तान्तरस्यातपादेरनुग्रहाच्छ्यामतां तिरोभाव्य पीततां व्रजति तथेदं द्रष्टव्यम् । आह न, अन्यथोत्पत्तेरप्रतिषेधात् । कथं पुनरेतवगम्यते पालाशं स्वरूपादप्रच्युतं धर्मान्तरस्य परित्यागमुपादानं च करोति, न पुनरन्यथा चान्यथा चोपपद्यत इति ? उच्यते- क्षणभङ्गप्रतिषेधात् प्रागेव क्षणभङ्गनिर्दिष्टं विनष्टानां भावानां पुनरुत्पत्तौ नास्ति कारणम् । तदभावे चोत्पत्तिरयुक्तेति । आह, धर्मधर्मिणोरनन्यत्वाभ्युपगमाद्धर्मोत्पत्तिविनाशे धर्म्युत्पत्तिविनाशप्रसंगः । न हि वो धर्मेभ्यो ऽन्यो धर्मी । तत्र यदि धर्मस्य निवृत्तिरभ्युपगम्यते धर्मिणो ऽपि निवृत्तिरनन्यत्वात्प्राप्ता । धर्मोत्पत्तौ तदुत्पत्तिः । तत्र यदुक्तं धर्मोत्पत्तिविरोधे धर्मीस्वरूपावस्थानमिति एतदयुक्तम् । उच्यते न, सेनादिवद्व्यवस्थानोपपत्तेः । तद्यथा सेनाङ्गेभ्यो ऽनन्यत्वं सेनायाः । न च सेनाङ्गानां विनाशे सेनाविनाशः । तद्यथा नान्यः पटः । बौद्धानां संयोगावयविप्रतिषेधात् । न च पटविनाशे तन्तुविनाशः । तत्र यदुक्तं धर्मिविनाशे धर्मविनाश इति एतदयुक्तम् । आह, एवमप्ययुक्तम् । तत्कस्मात् ? सामान्यविशेषयोर्धर्मिस्वरूपपरिकल्पनानुपपत्तेः । इह रूपादिसामान्यं वा धर्मिरूपत्वेन परिकल्प्यमानं परिकल्प्येत रूपादिविशेषो वा ? किं चातः । तत्र तावद्रूपादिसामान्यं धर्मिस्वरूपमिति शक्यं कल्पयितुम् । कस्मात् ? असम्भवात् । यदि तावत्पृथिवी सामान्यं घटादिर्विशेषस्तेन पृथिव्यपि तन्मात्रापेक्षया विशेषः । यावत्प्रधानमिति नास्ति सामान्यम् । तदभावाद् धर्मिस्वरूपाभावः । अथ विशेषा घटादयस्तेषां विशेषान्तरेण सहावस्थानाद्धर्मिस्वरूपानवस्थानात् । ततश्च यदुक्तं स्वरूपादप्रच्युतो धर्मी धर्मान्तरं विजहाति, धर्मान्तरमुपादत्ते इति तद्व्याहन्यत इति । उच्यते- यदुक्तं रूपादिसामान्यविशेषयोर्धर्मिस्वरूपपरिकल्पनानुपपत्तिरिति, अस्तु सामान्यम् । यत्तूक्तं सामान्यं सामान्यान्तरापेक्षं विशेषत्वमिति न प्रत्ययनिवृत्तौ सामान्याभावावस्थितेस्ततश्च धर्मिस्वरूपसिद्धेः, यावत्पृथिवीत्ययं प्रत्ययो न निवर्तते सामान्यं घटादिर्विशेषः, द्रव्यत्वं चासौ, धर्मान्तरपरिवर्तेषु तदाकारप्रत्ययोत्पत्तितः स्वरूपावस्थानसिद्धेर्धर्मा घटादयः । यदा तु पृथिवीप्रत्ययनिवृत्तिस्तदा तन्मात्राणां सामान्यभावो द्रव्यत्वं च विशेषो धर्म इति यावत्प्रधानं तस्य तु सामान्यान्तरानुपपत्तेः कौटस्थ्यमेव । यत्र सर्वविशेषाभावस्तत्प्रधानम् । यदि तु पृथिव्यादीनां नित्यमव्यावृतं सति कौटस्थ्यमेषां प्राप्तम् । तस्मान्न धर्मिस्वरूपाभावः । शक्तेर्वा सामान्यभावाभ्युपगमात् । अथवा सुखदुःखमोहशक्तय एवेह महदादिना विशेषान्तेन लिङ्गेन परिणामं प्रतिपद्यन्ते । तासां च सततं सामान्यप्रत्ययनिमित्तत्वात्स्वरूपादप्रच्युते तद्द्रव्यत्वं लिङ्गस्य धर्मत्वम् । अप्रसिद्धेरयुक्तमिति चेन्नोक्तत्वात् । प्रागुक्तमेतत्सुखादिपूर्वकं विश्वमिति । आह- एवमपि वैश्वरूप्यानुपपत्तिः । कारणविशेषात् । यदि सुखादिशक्तय एव परिणामिन्यो यदिदं ब्रह्मादि स्थावरान्तं वैश्वरूप्यं तन्नोपपद्यते । कस्मात् ? न ह्यभिन्नं कार्यमुत्पद्यत इति । उच्यते- शक्तितश्च परिणामिनि, भवति तेन वैश्वरूप्यम् । कथम् ? सलिलवत्प्रति प्रतिगुणाश्रयविशेषात्

hyādīnāṃ karaṇaṃ syāt / kasmāt ? aviśeṣāt / athaitadaniṣṭaṃ, na tarhyubhayoścaitanyam / kāryakāraṇavattānabhyupagamādadoṣa iti cet vyāpī niravayavo 'nantaśaktiḥ sūkṣmebhyaḥ sūkṣmatamo mahadbhyo mahattamo 'dhikaraṇadharmānādirityevamanantalakṣaṇamīśvarapadārtha tadvido vyācakṣate / tasya kutaḥ kāryakāraṇamavalambyedamādhyāropitamiti ? etadapyanupapannam / kasmāt ? anumānavirodhāt / itthaṃ cedīśvaro yadidamanumānaṃ kāryaviśeṣasyātiśayabuddhipūrvakatvācca cetanācetanayorabhisambandhasya cetanakṛtatvāditi tadvyāhanyate / kasmāt ? na hyetāvadīdṛśārthena sahaitaddṛṣṭamiti / upetya vā, mūrtiparigrahavyāghātāt / yadyekāntenaivaṃrūpa īśvaraḥ, kṣityādimūrtiparigraho vyāhanyeta / kiṃ cānyat- śruteḥ / śrutirapi cāsya mūrtimācaṣṭe kṛttivāsāḥ pinākahasto vitatadhanvā nīlaśikhaṇḍītyādi / tadabhyupagamātsvapakṣahāniriti cet, syānmataṃ yadi tarhi śrutivacanānmūrtimānīśvaraḥ parigṛhyate / tena siddhamasyāstitvam / kasmāt ? na hyasato mūrtimattvamupapadyata iti kṛtvā / etadapyayuktam / abhiprāyānavabodhāt / na hyekāntena vayaṃ bhagavataḥ śaktiviśeṣaṃ pratyācakṣmahe, māhātmyaśarīrādiparigrahāt / yathā tu bhavatocyate pradhānapuruṣavyatiriktaḥ tayoḥ prayoktā nāstītyayamasmadabhiprāyaḥ, tasmādetasya bādhakam / ato na pradhānapuruṣayorabhisambandho 'nyakṛtaḥ / kiṃ cānyat aśakyatvāt / kurvāṇaḥ khalvapyayamabhisambandhaṃ śarīramātreṇa vā śarīriṇaḥ kuryāt, śarīrakāraṇena vā ? kiṃ cātaḥ ? tanna tāvaccharīramātreṇa karoti / kasmāt ? anapekṣasya śarīrotpattau nimittābhāvāt / na śarīrakāraṇena, vibhutvāt / paricchinnayorgośakaṭayorabhisambandho 'nyakṛtaḥ, vibhū ca pradhānapuruṣau / kiṃ ca pārārthyāt / gośakaṭayorabhisambandhaḥ parārtho dṛṣṭaḥ / na tu pradhānapuruṣayorabhisambandhaḥ parārtha iti / īśvarārtha iti cenna, uktatvāt / dṛṣṭādṛṣṭārtha īśvarasyānupapanna ityādāvevoktametat / evaṃ tāvatpāśupatānāmīśvaraparigrahe doṣaḥ / vaiśeṣikāṇāṃ cāyaṃ doṣaḥ / kiṃ ca dravyādipadārthāntarabhāvābhāvaparikalpanānupapattiśca / tairīśvaro dravyaguṇakarmasāmānyaviśeṣasamavāyabhūto vā parikalpyamānaḥ parikalpyate, padārthāntarabhūto vā ? kiṃ cātaḥ ? tanna tāvad dravyādibhūtaḥ / kasmāt ? dvividhaṃ hi dravyaṃ anekadravyamadravyaṃ ca / tatra nānekadravyamīśvaraḥ, kṛtakatvādidoṣaprasaṃgāt / nādravyaṃ, parisaṃkhyānāt / pṛthivyādīni manaḥparyantāni navaiva dravyāṇi vaḥ siddhāntaḥ / itikaraṇasya parisamāptyarthatvāt / kiṃ ca guṇakarmanirdeśāt / sati cāsya dravyatve vaiśeṣikaguṇanirdeśa ācāryeṇa kṛtaḥ syāt / kāraṇāntaraprayogasamarthasya ca karma nirdiṣṭaṃ syāt / na tu tathā / tasmānna dravyaguṇādayaḥ / āśrayaparatantrā hi guṇādayaḥ parārthāḥ / evaṃ na dravyādibhūto nāpi padārthāntarabhūtaḥ / padārthatve hi sati dravyādivallakṣaṇamuktamabhaviṣyat / ācāryeṇa tu noktam / tasmāsūtrakāramate nāstīśvaraḥ / liṅgāditi cet, syānmatam- saṃjñākarmatvamasmadviśiṣṭānāṃ liṅgam / pratyakṣapūrvakatvādvā saṃjñākarmaṇa ityetasmālliṅgādīśvaraparigraha ācāryasya siddha iti / tadapyayuktam / kasmāt ? abhipretāsiddheḥ / satyamanena liṅgenāsmadādibhyo viśiṣṭaśakteḥ kasyacideva māhātmyaśarīrasyānyasya vā pratipattiḥ syāt / saṃjñāmātraṃ tu yathā bhavadbhiḥ sarvakāraṇānāṃ sṛṣṭyupasaṃhārapravṛttiheturekaḥ svatantra iṣyate / tathā cāsmālliṅgātpratipattiḥ / kiṃ cānyat / prāganupadeśe 'kauśalaprasaṃgāt / īśvaraparatantre cedaṇūnāṃ pravṛttinivṛttī syātāṃ tameva prāgupadiśet / dharmavatpradhānapadārthasya vā prāganupadeśādakuśalaḥ sūtrakāra ityetadāpadyate / na caitadiṣṭamubhayam / kiṃ cānyat asaṃkīrtanāt / śāstrapradeśe cāyamīśvaro na kasmiṃścidapyācāryeṇa saṃkīrtitaḥ / na cāsya vadhvā iva śvaśuranāmasaṃkīrtane doṣopapattiḥ syāt / doṣasaṃvibhāgārthamidamācāryasyāniṣṭamadhyāropyate, na tu matamasyaitat / evaṃ kāṇādānāmīśvaro 'stīti pāśupatopajñametat / tasmādīśvaro 'pyakāraṇam / karmāṇubhirvyākhyātam / katham ? yathā kṛtakatvānna jagatkāraṇamaṇavaḥ, evaṃ karmāpi na śarīranimittaṃ, tasmāttadapyakāraṇam / itaretaranimittatvādadoṣa iti cet syānmatam, yathāntareṇa śarīraṃ karma notpadyamānaṃ dṛṣṭamevamantareṇa karma śarīrasyāpi kāraṇāntaramaśakyaṃ kalpayitumiti parasparanimittatvānnāsya parivartasya pūrvakoṭiḥ prajñāyate / tasmānnāstyanayoḥ kāraṇāntaramiti / etaccāyuktam / kasmāt ? anavasthānāmavasthānapūrvakatvadarśanāt / tadyathā śukraśoṇitāccharīraṃ śarīrācchukraśoṇitamityasya parivartasya pūrvakoṭiradṛṣṭā, pratijñāyate cāyonijatvamīśvaraśarīrāṇāmādisarge ca / tathā ca bījāṅkurādayo 'ṅkurādibhyo bījamityanavasthā / bhāti cātrādisarge paramāṇumātrādapi bījaprādurbhāvastathā śarīrakarmaṇoranavasthā / idānīmapi cādisarge cādhikāramātravaśāccharīrotpattiḥ syāt / sādhāraṇavigrahatvaprasaṃga iti cet syādetat, yadyadhikāranimittā śarīrotpattirādisarge 'bhyupagamyate prāptamekena śarīreṇa sarvapuruṣāṇāmabhisambandho niyamahetvabhāvāt / tataśca śarīrāntarānarthakyam / tenaiva sarveṣāmupabhogasāmarthyāditi / etadanupapannam / kasmāt ? pratyakṣavirodhāt / satyametadanumānataḥ / pratyakṣatastu śarīrāṇi pratipuruṣam, tasmānnāyaṃ prasaṃgaḥ / apavarganiyamaprasaṃga iti cet syānmataṃ yadyadhikāramātravaśāccharīrotpattiḥ paramarṣerevāpavargasādhanaṃ śarīrādutpadyeteti / ucyate- na tasyaiva, kiṃ tarhi sarveṣāṃ guṇānāṃ prādhānyāttannimittāni śarīrāṇyādisarge sāṃsiddhikānyutpadyante / tatra yasya sattvapradhānaṃ kāryakaraṇaṃ sa paramarṣiḥ / yasya sattvaṃ rajobahulaṃ sa māhātmyaśarīraḥ / evaṃ guṇasamparkād guṇapradhānāpradhānabhāvena yāvatsthāvaraśarīraprādurbhāva ityato nāsti guṇānāṃ śarīraviniyogapakṣapātaḥ / tasmādyuktametatkṛtakatvānna karma jagatkāraṇamiti / etena caivaṃ vyākhyām / tadapi hi karmaṇāmeva prāptaparipākāṇāmabhidhānamarthāntarameveti cetsādhyam / tasmādapyakalpanīyamiti / yadapyuktaṃ kālājjagadutpattirbhaviṣyatīti tadanupapannam / kasmāt ? kāraṇaparispandasyaiva tadabhidhānasanniveśāt / na hi naḥ kālo nāma kaścidasti, kiṃ tarhi kriyamāṇakriyāṇāmevādityagatigodohaghaṭāstanitādīnāṃ viśiṣṭāvadhisarūpapratyayanimittatvat / parāparādiliṅgasadbhāvātpratipattiriti cenna, akṛtakeṣu tadanupapatteḥ / yadeva kṛtakaṃ tatraiva paramaparamityādiḥ pratyayo dṛṣṭaḥ / sa yadi kriyāvyatiriktanimittaḥ syādaviśeṣānnityānityeṣu syāt / kvacitsāmarthādapākajavadadoṣa iti cet syānmatam- yathāgnisaṃyogaḥ pākajahetuḥ tathā cāviśeṣe 'pi pṛthivyāmeva pākajotpattinimittaṃ bhavati nākāśādiṣu / evaṃ kālo 'pi parāparādiheturatha cānityeṣveva syānna nityeṣviti / taccāyuktam / kasmāt ? viśeṣopapatteḥ / rūpādivikriyāheturagnistadyuktaṃ yadasau tadvati dravye pākajānādadyāt, (nā) tadvatyākāśādau / kālastu sambandhamātropakārī na vikriyāhetuḥ / tasmādasadetat / evaṃ yadi kriyābhyo 'nyaḥ kāla iṣyate kāraṇaparispandasya jagatkāraṇatvamathānyatsādhyam / yadṛcchāpi na kāraṇaṃ karmavat kāryakāraṇabhāvāt / kāryakāraṇabhūtaṃ hīdaṃ vyaktamiti prāgvyākhyātam / sa ca kāryakāraṇabhāvaḥ prekṣāpūrvakṛtānāṃ śayanādīnāmupalabdhau yādṛcchikeṣu cānupalabdhau na tasyā liṅgamiti śakyaṃ vaktum / abhāvo 'pyakāraṇam, parimāṇādidarśanāt / na hi tata utpannānāṃ parimāṇamupapadyata ityato nāpyanvayaḥ / sātmakanirātmakayoratyantajātibhedāt / nāpi śaktistadabhāvāt / nopakāro 'navasthānāt / na vibhāgo nirātmakatvāt / tasmānna paramāṇupuruṣeśvarakarmadaivakālasvabhāvayadṛcchābhāvebhyo vyaktamutpadyate / na cedebhyaḥ, pariśeṣataḥ pradhānasyaivāstitvaliṅgamidam / tasmādyuktametat bhedānāṃ parimāṇādibhyaḥ kāraṇamastyavyaktamiti // 15 // ----------------------------------------------------------------------- kārikā 16 ----------------------------------------------------------------------- āha evamapyasya vyaktahetutvamanupapannam, ekatvāt / bahūnāṃ kāryārambho dṛṣṭastantvādīnām / ekaṃ pradhānaṃ, tasmānna tadārambhaśaktiyuktamiti / ucyate- yadyapi guṇānāṃ pradhānalakṣaṇamavasthāntaramabhinnabuddhinimittatvādekamapi kāryakāle kiṃcidvaiṣamyopajanitavyapadeśyarūpābhiritaretaropakāriṇībhiḥ śaktibhiḥ smudāyatvamāpadyate / tasmādidānīṃ pravartate triguṇataḥ samudayācca pravartate ityanenotpattimācaṣṭe / triguṇata ityavyapadeśyarūpāṇāṃ pradhānāpradhānabhāvena guṇaśaktīnāṃ vaiṣamyādvyapadeśyarūpāntaramāha / yatraitacchakyate vaktuṃ trayaḥ sattvādaya iti tadavasthānaṃ kāryārambhakamiti / samudayādityanena parasparāpekṣāṇāmārambhaśaktimavadyotayati / etaduktaṃ bhavati- kāryakāle guṇāḥ parityaktapūrvāvasthā bhedaṃ pratilabhya parasparopakāreṇa saṃhanyate / saṃhatāśca vyaktamutpādayanti / tasmānnāvasthāntarasyābhinnabuddhinimittatvātpradhānaikatvadoṣaḥ guṇabhedānnaikasya kāryārambha iti / āha, niṣkriyatvāttarhi prakṛteḥ kāryārambho 'nupapannaḥ / kriyātvānabhyupagame vā vyaktavaidharmyavirodha iti / ucyate- na, kriyāvaidharmyabhedāt / dvividhā hi kriyā praspandalakṣaṇā pariṇāmalakṣaṇā ca / tatra praspandaḥ pradhānasya saukṣmyātpratiṣidhyate / pariṇāmataḥ tu tatkāryamārabhate iti / āha- nanu ca pariṇāmo 'pi saukṣmyātpradhānasya nopapadyate / kasmāt ? na hi saukṣmyātsūkṣmasyākāśādervipariṇāmo dṛṣṭa iti / ucyate- saṃskārasya saukṣmye 'pi pariṇāmo 'bhyupagantavyaḥ / tasmād yuktaḥ sūkṣmapariṇāmīti // āha, kaḥ punarayaṃ pariṇāmo nāma ? ucyate- jahaddharmāntaraṃ pūrvamādatte yadā param / tattvādapracyuto dharmī pariṇāmaḥ sa ucyate // iti / yadā śaktyantarānugrahātpūrvadharmān tirobhāvya svarūpādapracyuto dharmī dharmāntareṇāvirbhavati tadavasthānamasmākaṃ pariṇāma ityucyate / āha, naitadabhidhānamātraṃ dṛṣṭāntamantareṇa pratipadyāmahe / tasmādyathā kimiti vaktavyam / ucyate- yathā pālāśaṃ palāśādapracyutanimittāntarasyātapāderanugrahācchyāmatāṃ tirobhāvya pītatāṃ vrajati tathedaṃ draṣṭavyam / āha na, anyathotpatterapratiṣedhāt / kathaṃ punaretavagamyate pālāśaṃ svarūpādapracyutaṃ dharmāntarasya parityāgamupādānaṃ ca karoti, na punaranyathā cānyathā copapadyata iti ? ucyate- kṣaṇabhaṅgapratiṣedhāt prāgeva kṣaṇabhaṅganirdiṣṭaṃ vinaṣṭānāṃ bhāvānāṃ punarutpattau nāsti kāraṇam / tadabhāve cotpattirayukteti / āha, dharmadharmiṇorananyatvābhyupagamāddharmotpattivināśe dharmyutpattivināśaprasaṃgaḥ / na hi vo dharmebhyo 'nyo dharmī / tatra yadi dharmasya nivṛttirabhyupagamyate dharmiṇo 'pi nivṛttirananyatvātprāptā / dharmotpattau tadutpattiḥ / tatra yaduktaṃ dharmotpattivirodhe dharmīsvarūpāvasthānamiti etadayuktam / ucyate na, senādivadvyavasthānopapatteḥ / tadyathā senāṅgebhyo 'nanyatvaṃ senāyāḥ / na ca senāṅgānāṃ vināśe senāvināśaḥ / tadyathā nānyaḥ paṭaḥ / bauddhānāṃ saṃyogāvayavipratiṣedhāt / na ca paṭavināśe tantuvināśaḥ / tatra yaduktaṃ dharmivināśe dharmavināśa iti etadayuktam / āha, evamapyayuktam / tatkasmāt ? sāmānyaviśeṣayordharmisvarūpaparikalpanānupapatteḥ / iha rūpādisāmānyaṃ vā dharmirūpatvena parikalpyamānaṃ parikalpyeta rūpādiviśeṣo vā ? kiṃ cātaḥ / tatra tāvadrūpādisāmānyaṃ dharmisvarūpamiti śakyaṃ kalpayitum / kasmāt ? asambhavāt / yadi tāvatpṛthivī sāmānyaṃ ghaṭādirviśeṣastena pṛthivyapi tanmātrāpekṣayā viśeṣaḥ / yāvatpradhānamiti nāsti sāmānyam / tadabhāvād dharmisvarūpābhāvaḥ / atha viśeṣā ghaṭādayasteṣāṃ viśeṣāntareṇa sahāvasthānāddharmisvarūpānavasthānāt / tataśca yaduktaṃ svarūpādapracyuto dharmī dharmāntaraṃ vijahāti, dharmāntaramupādatte iti tadvyāhanyata iti / ucyate- yaduktaṃ rūpādisāmānyaviśeṣayordharmisvarūpaparikalpanānupapattiriti, astu sāmānyam / yattūktaṃ sāmānyaṃ sāmānyāntarāpekṣaṃ viśeṣatvamiti na pratyayanivṛttau sāmānyābhāvāvasthitestataśca dharmisvarūpasiddheḥ, yāvatpṛthivītyayaṃ pratyayo na nivartate sāmānyaṃ ghaṭādirviśeṣaḥ, dravyatvaṃ cāsau, dharmāntaraparivarteṣu tadākārapratyayotpattitaḥ svarūpāvasthānasiddherdharmā ghaṭādayaḥ / yadā tu pṛthivīpratyayanivṛttistadā tanmātrāṇāṃ sāmānyabhāvo dravyatvaṃ ca viśeṣo dharma iti yāvatpradhānaṃ tasya tu sāmānyāntarānupapatteḥ kauṭasthyameva / yatra sarvaviśeṣābhāvastatpradhānam / yadi tu pṛthivyādīnāṃ nityamavyāvṛtaṃ sati kauṭasthyameṣāṃ prāptam / tasmānna dharmisvarūpābhāvaḥ / śaktervā sāmānyabhāvābhyupagamāt / athavā sukhaduḥkhamohaśaktaya eveha mahadādinā viśeṣāntena liṅgena pariṇāmaṃ pratipadyante / tāsāṃ ca satataṃ sāmānyapratyayanimittatvātsvarūpādapracyute taddravyatvaṃ liṅgasya dharmatvam / aprasiddherayuktamiti cennoktatvāt / prāguktametatsukhādipūrvakaṃ viśvamiti / āha- evamapi vaiśvarūpyānupapattiḥ / kāraṇaviśeṣāt / yadi sukhādiśaktaya eva pariṇāminyo yadidaṃ brahmādi sthāvarāntaṃ vaiśvarūpyaṃ tannopapadyate / kasmāt ? na hyabhinnaṃ kāryamutpadyata iti / ucyate- śaktitaśca pariṇāmini, bhavati tena vaiśvarūpyam / katham ? salilavatprati pratiguṇāśrayaviśeṣāt

Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.

Sanskrit only: no published translation is held for this verse.

Permanent address: hreem.cc/library/ISk/16

Cite as: Yuktidipika 16, in HREEM (hreem.cc/library/ISk/16), after GRETIL, Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā Based on the ed.

Edition, numbering and licence

GRETIL 6_sastra/3_phil/samkhya/yuktdipu.htm — Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā Based on the ed. by Shiv Kumar and D.N. Bhargava (2 vols., Delhi 1990-1992) Input by Dhaval Patel BOLD for Īśvarakṛṣṇa's kārikās: " .......... // ISk_nn // " ITALICS for commentator's references to Īśvar

GRETIL (SUB Göttingen), CC BY-NC-SA 4.0 — non-commercial use with attribution; the Companion is kept free while this corpus is held. Devanagari generated mechanically from GRETIL's IAST.

More about this text