तस्मादित्यनेन हेतुसामान्यमाचष्टे । चशब्दो ऽवधारणे । विपर्यासादिति सामान्येन हेतुमुपात्तं विशेषे ऽवस्थापयति । सिद्धं साक्षित्वमस्य पुरुषस्येत्येवमादिना साध्यधर्मनिर्देशं करोति । तत्र साक्षित्वमित्यनेन गुणानां प्रवृत्तावस्त्वातन्त्र्यं ख्यापयति, प्रधानस्य तदर्थनिबन्धनत्वात्प्रवृत्तेः । अधिष्ठातृत्वं कथमिति ? उच्यते- यथा हि क्रियासाक्षिणि कस्मिंश्चिदवस्थिते कर्ता तदिच्छानुविधायी कार्यं निर्वर्तयति, न स्वतन्त्रः, एवं प्रधानमपि । प्रवृत्तिनिवृत्त्योर्यथा पुरुषस्यार्थः सिध्यति तथा महदहङ्कारतन्मात्रेन्द्रियभूतदेवमनुष्यतिर्यक्स्थावरभावेन व्यूहते, न यदृच्छातः । तस्मात्पुरुषस्तदर्थपरतन्त्रत्वात्प्रधानप्रवृत्तिनिवृत्त्योः साक्षी । कैवल्यमित्यनेन संसर्गधर्मत्वमात्मनो निवर्तयति, न यथा सत्त्वादीनां परस्परेण प्रकाशादिधर्मापेक्षाणां संसर्गः, एवं पुरुषस्य तैर्भवति । माध्यस्थ्यमित्यनेनातिशयनिह्रासानुपपत्तेः पुरुषस्य गुणैः सह बाधानुग्रहानुपपत्तिं स्वकार्यप्रवृत्तौ चापक्षपातं दर्शयति । द्रष्टृत्वमित्यनेनोदासीनस्य कार्यकारणपिण्डव्यूहसमकालं चैतन्यशक्तिसद्भावात्सुखदुःखमोहस्वभावानां गुणचेष्टानामनिवृत्तार्थानां सन्निधानमात्रादुपलब्धिमात्रं प्रतिजानाति । अकर्तृभावश्चेत्यनेन सप्तविधमकर्तृत्वमाश्रयति । न ह्ययं विषयेषु बाह्यान्तःकरणसान्निध्ये ऽध्यवसायं कुरुते । न च सत्त्वादीनां प्रकाशप्रवृत्तिनियमलक्षणैर्धर्मैरितरेतरोपकारेण प्रवर्तमानानां स्वेन चैतन्यलक्षणेन धर्मेणाङ्गभावं प्रतिपद्यते, नाप्यङ्गिभावम् । एवं सह गुणैः कार्यं न कुरुते स्त्रीकुमारवत् । स्थितप्रयोगं न कुरुते रथशकटयन्त्रप्रेरकवत् । न स्वात्मनो मृत्पिण्डवत् । न परतः कुम्भकारवत् । नाप्यदेशान्मायाकारवत् । नोभयतो मातृपितृवत् । तदेवमनेन सूत्रेणाचार्यः पुरुषस्याधिष्ठातृत्वं नैर्गुण्यमौदासीन्यं भोक्तृत्वमकर्तृत्वं च साध्यतामापाद्य त्रिगुणयादिविपर्ययं साधनत्वेनोपन्यति । तैः पञ्चभिस्त्रिगुणादिविपरीतैः कर्मभिः पञ्चानामेषां यथासंभवं प्रवृत्तिरवगन्तव्या । यस्मादयं सुखादिभ्यो ऽर्थान्तरभूतः तस्मादयं तत्क्रियासाक्षी । तत्र नैर्गुण्यात्साक्षित्वम् । आह, तदसिद्धेः । नैर्गुण्यासिद्धेः । यद्यस्य सुखादिधर्मत्वमात्मनः प्रसिद्धं स्यादत एतद्युज्जते वक्तुम् । तत्त्वसिद्धम् । तस्मादयुक्तमेतत् । विशेषानभिधानादितरात्सिद्धिरपीति चेत् स्यान्मतम्, आत्मगुणाः सुखादयो न शब्दगुणा इत्यत्रापि भवता विशेषो नाभिधीयते । तस्मादेतदप्यसिद्धम् । एतदप्ययुक्तम् । कस्मात् ? अहंकारेणैकवाक्यत्वे भिन्नाधिकरणत्वं स्यात् । दृष्टं तु सुखितो ऽहं दुःखितो ऽहमिति । तस्मात्सुखदुःखयोः शब्दाद्यात्मभावो न युक्तः । उच्यते- न, गौरादिष्वनेकान्तात् । तद्यथा गौरः कृष्णो ऽहमिति शरीरधर्मेरात्मनो भिन्नाधिकरणत्वमहङ्कारेण एवं सुखदुःखयोरपि स्यात् । न चात्मगुणत्वं स्यादिति । आह, पृथगुपलब्धेरयुक्तम् । यद्यपि गौरादीनामविभक्तमहंकारेण ग्रहणं तथापि पृथगयं प्रागेतानात्मनो गृहीत्वा पश्चादविभक्तान्गृह्णन्शक्त्नोति व्यवस्थापयितुमुष्यैते न पुनरमुष्येति । न त्वेवं सुखदुःखयोः पृथगुपलब्धिः । तस्मादसदेतदिति । उच्यते- नैवमुत्पद्यते । कस्मात् ? मार्गान्तरगमनात् । अहंकारेणाविभक्तग्रहणादात्मगुणत्वमिति प्रागपदिष्टम् । इदानीं तु सत्यपि तस्मिन्पृथग्ग्रहणादभावं ब्रुवतो मार्गान्तरगमनमनैकान्तिकस्य चापरिहारः । किं चान्यत्, संशयाव्यतिरेकात् । यत एव गौरादयः पृथगुपलभ्यन्ते न सुखादयो एव संशयः । न च यत एव संशयस्तत एव निर्णयो युक्तः । तस्माद्युक्तमेतद् गौरादिवदहङ्कारेणाप्यभिन्नग्रहणाच्छब्दाद्यात्मभूताः सुखादयः । किं चान्यत् । स्वभावानवधारणादनुपादानप्रसंगात् । सुखाद्यात्मकाः शब्दादय इति चेत् स्यान्मतं, यथाग्निः पाकजनिमित्तमुपादीयते ऽथ चैषां पार्थिवत्वमेवं शब्दादयो ऽपि सुखादिनिमित्तत्वेनोपादीयेरन् अथ चैषामात्मगुणत्वमेव स्यादिति । तदप्यनुपपन्नम् । कस्मात् ? सामानाधिकरण्यदर्शनात् । यथा निमित्तस्याग्नेर्न पाकजैः सामानाधिकरण्यं पक्वो ऽग्निः पच्यते ऽग्निरिति एवं शब्दादीनां निमित्तत्वान्न सामानाधिकरण्यं स्यात् । सुखशब्दो दुःख इति दृष्टं तु । तस्मान्न तेषां निमित्तार्थेनोपादानमिति । आह, एवमपि सुखादीनां शब्दाद्यात्मभावो न युक्तः । कस्मात् ? विप्रतिपत्तेः । यथा हि शब्दाः शब्दात्मका एति सर्वैः शब्दरूपेण गृह्यन्ते, एवं सुखात्मको ऽयमिति सर्वैस्तद्रूपेण गृह्यते । दृष्टा तु विप्रतिपत्तिः । तस्मादात्मगुणा इति । उच्यते- न, संस्कारविशेषनिमित्तत्वात् । तद्यथा पित्तादिसामर्थान्माधुर्यादिषु विप्रतिपत्तिः । न चैषामशब्दादिगुणत्वसंस्कारविशेषयोगात्सुखादिषु विप्रतिपत्तिः । न चैषामशब्दादिगुणत्वमिति । किं चान्यत् । निमित्तत्वे ऽपि तत्प्रसंगात् । निमित्तवादिनो ऽप्येतत्समानम् । न हि निमित्तनैमित्तिकयोर्विप्रतिपत्तिरस्ति । तद्यथा प्रदीपप्रकाशयोः । ततश्च विप्रतिपत्तेर्निमित्तत्वमपि शब्दादीनामकल्पनीयं स्यात् । यश्च द्वयोर्दोषो न तमेकश्चोद्यत इति । आत्मगुणाकांक्षित्वाददोष इति चेत् स्यान्मतम् निमित्तप्रधानत्वादन्यपरिपाकवशेन सुखदुःखेनोत्पादयत्यात्मनः । तन्मयत्वे तु निराकांक्षत्वात्प्रधानस्य व्यवस्थाभेदो न युक्त इति । तच्च नैवम् । कस्मात् ? उक्तत्वात् । तन्मयत्वे ऽपि गुणभावान्माधुर्यादिषु विप्रतिपत्तिरित्यादावेवोक्तमेतत् । तस्मात्तन्मयत्वे प्राधान्यमिति चानिश्चिताभिधानमेतत् । आह, एवमप्ययुक्तमेतत् । कस्मात् ? अतीतानागतेष्वपि तु दृष्टेः । तस्मात्सुखादीनां शब्दाद्यात्मभावो न युक्त इति । उच्यते- न, स्मृतिनिमित्तत्वाद् बुद्धेः । अयमतीतानागतेष्वपि शब्दादिषु स्मार्तसुखदुःखयोगो भवति । तत्संपर्कात्तु पुरुषेण तथानुभूयते । पुरुषगुणत्वे तु पाकजवन्निमित्तादुत्पन्नानां सुखादीनां विशेषभावात्तीव्रमन्दतानुपपत्तिः स्यात् । तस्मात्सुखदुःखयोः शब्दाद्यात्मभावो न युक्तः । किंचान्यत् । अनिर्मोक्षप्रसंगात् । द्रव्यस्य गुणैरविप्रयोगात्सुखदुःखयोरात्मगुणत्वे सत्यात्मनस्ताभ्यामनिर्मोक्षप्रसंगः । तस्मात्तयोरात्मगुणत्वमयुक्तमिति । श्यामादिवत्तद्विनिवृत्तिरिति चेत् स्यान्मतम्, यथा श्यामगुणत्वे सत्यणोरग्निसम्बन्धात्तद्विनिवृत्तिः, शब्दादिगुणत्वे चाकाशस्याशब्दकस्यावस्थानमेवमात्मनो ऽपि । एतदयुक्तम् । कस्मात् ? विशेषोपादानप्रसंगात् । साध्यत्वाच्च, यथा ह्यणुः श्यामतां परित्यज्य रूपविशेषमेव रक्तलक्षणमुपादत्ते, न रूपवत्तां त्यजति, एवमात्मापि बाह्यनिमित्तसामर्थ्यात्सुखान्तरं दुःखाद् दुःखान्तरमुपाददीत । न ते अत्यन्तं जह्यात् । तथा आकाशं शब्दलक्षणं कस्यांचिदवस्थायामशब्दकं भवतीत्यस्मान्प्रति साध्यो ऽयमर्थः । भेर्यादिशब्दास्तु तद्गुण एवेति प्रतिपादयिष्यामः तस्मात्सुखदुःखयोः शब्दाद्यात्मभावो ऽयुक्तः । एवमनामिश्ररूप आत्मा । ततश्चेच्छाद्वेषप्रयत्नधर्मज्ञानसंस्काराणामनेकस्वभावानां परस्परविरोधिनां च तद्गुणत्वमनुपपन्नम् । तस्माद्युक्तमेतन्निर्गुण आत्मा नैर्गुण्याच्च साक्षिमात्र इति केवलो विविक्तत्वात् । तस्मादयं गुणेभ्यः पृथग्भूतः तस्मात्केवलः न तैः सह संसर्गेण वर्तते । आह, कः पुनरस्यात्मनो गुणेभ्यः पृथग्भावो ऽभिप्रेत इति ? उच्यते- तदुपकारनिरपेक्षाणां सत्त्वादीनां स्वकार्यसामर्थ्यपृथग्भावः । न हि सत्त्वादयः प्रकाशादिभिर्धर्मैरितरेतरोपकारेण वर्तमानाः पुरुषकृतमुपकारमपेक्षन्ते । प्रकाशादिधर्मसन्निधानमात्रादेव तु प्रवर्तन्ते । तथा च वार्षगणाः पठन्ति "प्रधानप्रवृत्तिरप्रत्यया पुरुषेणापरिगृह्यमाणादिसर्गे वर्तन्ते" इति । यस्माद्गुणास्तदुपकारनिरपेक्षाः प्रवर्तन्ते तस्मादसावपि तत्संसर्ग नानुभवति । दृष्टा तु लोके ऽप्येककार्यत्वापृथक्पृथग्भावपरिकल्पना । तद्यथा इमे भ्रातरः पृथक्, एषां नैकं कार्यम् । न पृथगिमे येषामेकमिति । मध्यस्थो विषयित्वात् । यस्मादयं पुरुषो विषयी तस्मान्मध्यस्थः । किं कारणम् ? विषयाणां ह्यतुल्यबलत्वात्, न्यूनातिशयोपपत्तेश्च परस्परेण बाधानुग्रहावुत्पन्नौ । विषयी चायम् । तस्मान्नास्ति न्यूनताद्युपपत्तिः । ततश्चेतनाभावः । न चामिश्ररूपत्वात्सङ्गद्वेषौ गुणविषयौ, अतो मध्यस्थः ? द्रष्टृत्वं चैतन्यात् । प्रकृतिविकारभूतत्वात् सत्त्वादिभ्यश्चैतन्यमपोद्धृत्य पुरुषे व्यवस्थापनीयम् । न चाचेतनानां द्रष्टृत्वमुपपद्यते इत्यतः पुरुष एव चैतन्याद् दृष्टा नान्यत्तत्त्वान्तरम् । अकर्तृभावः, अप्रसवधर्मित्वात् । प्रसवार्थो धर्मः प्रसवधर्मः सो ऽस्यास्तीति प्रसवधर्मी । कः पुनरसौ प्रसवार्थो धर्म इति ? उच्यते- प्रस्पन्दनपरिणामौ । निष्क्रियत्वादकर्तेति यावत् । तदिदमप्रसवधर्मित्वादकर्तेति । कथमस्य निष्क्रियत्वमिति चेत् ? चैतन्यात् । अचेतनानां हि क्षीरादीनां क्रियावत्त्वमुपलब्धं, चेतनस्य न कस्यचिदित्यतो निष्क्रियः पुरुषः । किंच अनामिश्ररूपत्वात् । अनामिश्ररूपं हि क्रियादिमत्क्षीरादि । अनामिश्ररूपश्चायम् । तस्मान्निष्क्रियः । विभुत्वादिति चेत् स्यादेतत्, यथा विभुत्वे सति प्रधानस्य सक्रियत्वमेवं पुरुषस्य इति विभुत्वे सक्रियत्वेन भवितव्यमिति । तच्च नैवम् । कस्मात् ? धर्मद्वयसहितस्य साहचर्योपलब्धेः । तद्विभुत्वमाचेतन्यानेकरूपत्वसहितं क्रियावति दृष्टं, न केवलम् । न तु तथा पुरुषे । तस्माद्विषममेतत् । एवं निष्क्रियः पुरुषः निष्क्रियत्वाच्च प्रधानात्कार्यकारणं न कुरुते । कस्मात् ? क्रियावतः कुम्भकारस्य मृत्पिण्डात्कार्यनिष्पत्तिसामर्थ्यदर्शनात् । स्यादेतत् । उत्पादितस्यान्येन स्थितिं कुरुते, धात्रीकुमारवत् । स्थितस्य वा प्रयोगं रथशकटयन्त्रप्रेरकवदिति । एतदप्यनुपपन्नं, पूर्वस्मादेव हेतोः अथापि स्यात्स्वतः पुरुषः कार्यकरणं कुरुत इति तदप्ययुक्तम् । चेतनाचेतनयोरत्यन्तभेदात्प्रकृतिविकारभावानुपपत्तेः । अथ मतमुभयत इति, तदपि नैव संभवति, उभयदोषप्रसंगात् । स्यात्पुनरेतत् अव्यपदिश्य योनिं पुरुषो ऽभिध्यानमात्रेण कार्यकरणं कुरुते इत्यसदेतत् । कस्मात् ? अनुत्पत्तावभिध्यानानुपपत्तेः । ईश्वरकारणप्रतिषेधे ऽभिहितं प्राक् प्रधानविपरिणामाद्बुद्धिमतो बुद्धिर्नास्ति । न च बुद्धिमन्तरेणाभिध्यानमुपपद्यते, तद्वृत्तिभूतत्वात् तथा बुद्धिमत्पूर्वकसृष्टिप्रतिषेधः कृतः । स इहापि योज्यः, अध्यवसायकर्तृत्वं च प्राक्प्रतिषिद्धम् । एवं सप्तविधेनाकर्तृत्वेनाकर्ता पुरुषः । उक्तं च नाध्यवसायं कुरुते पुरुषो नैवं स्थितिं प्रयोगं वा । न स्वात्मनो न परतो न व्यपदेशान्न चोभयतः ॥ तद्युक्तमेतत् तस्माच्च विपर्यासात्सिद्धं साक्षित्वमस्य पुरुषस्य । कैवल्यं माध्यस्थ्यं द्रष्टृत्वमकर्तृभावश्च ॥ इति ॥ ॥ १९ ॥ ----------------------------------------------------------------------- कारिका २० ----------------------------------------------------------------------- यतश्चेतनाशक्तिसम्बन्धात्पुरुष एव द्रष्टा नान्यत्तत्त्वान्तरं, गुणाश्च कर्तारो, न पुरुषः तस्मात्तत्संयोगादचेतनं चेतनावदिव लिङ्गम् । गुणकर्तृत्वे च तथा कर्तेव भवत्युदासीनः
tasmādityanena hetusāmānyamācaṣṭe / caśabdo 'vadhāraṇe / viparyāsāditi sāmānyena hetumupāttaṃ viśeṣe 'vasthāpayati / siddhaṃ sākṣitvamasya puruṣasyetyevamādinā sādhyadharmanirdeśaṃ karoti / tatra sākṣitvamityanena guṇānāṃ pravṛttāvastvātantryaṃ khyāpayati, pradhānasya tadarthanibandhanatvātpravṛtteḥ / adhiṣṭhātṛtvaṃ kathamiti ? ucyate- yathā hi kriyāsākṣiṇi kasmiṃścidavasthite kartā tadicchānuvidhāyī kāryaṃ nirvartayati, na svatantraḥ, evaṃ pradhānamapi / pravṛttinivṛttyoryathā puruṣasyārthaḥ sidhyati tathā mahadahaṅkāratanmātrendriyabhūtadevamanuṣyatiryaksthāvarabhāvena vyūhate, na yadṛcchātaḥ / tasmātpuruṣastadarthaparatantratvātpradhānapravṛttinivṛttyoḥ sākṣī / kaivalyamityanena saṃsargadharmatvamātmano nivartayati, na yathā sattvādīnāṃ paraspareṇa prakāśādidharmāpekṣāṇāṃ saṃsargaḥ, evaṃ puruṣasya tairbhavati / mādhyasthyamityanenātiśayanihrāsānupapatteḥ puruṣasya guṇaiḥ saha bādhānugrahānupapattiṃ svakāryapravṛttau cāpakṣapātaṃ darśayati / draṣṭṛtvamityanenodāsīnasya kāryakāraṇapiṇḍavyūhasamakālaṃ caitanyaśaktisadbhāvātsukhaduḥkhamohasvabhāvānāṃ guṇaceṣṭānāmanivṛttārthānāṃ sannidhānamātrādupalabdhimātraṃ pratijānāti / akartṛbhāvaścetyanena saptavidhamakartṛtvamāśrayati / na hyayaṃ viṣayeṣu bāhyāntaḥkaraṇasānnidhye 'dhyavasāyaṃ kurute / na ca sattvādīnāṃ prakāśapravṛttiniyamalakṣaṇairdharmairitaretaropakāreṇa pravartamānānāṃ svena caitanyalakṣaṇena dharmeṇāṅgabhāvaṃ pratipadyate, nāpyaṅgibhāvam / evaṃ saha guṇaiḥ kāryaṃ na kurute strīkumāravat / sthitaprayogaṃ na kurute rathaśakaṭayantraprerakavat / na svātmano mṛtpiṇḍavat / na parataḥ kumbhakāravat / nāpyadeśānmāyākāravat / nobhayato mātṛpitṛvat / tadevamanena sūtreṇācāryaḥ puruṣasyādhiṣṭhātṛtvaṃ nairguṇyamaudāsīnyaṃ bhoktṛtvamakartṛtvaṃ ca sādhyatāmāpādya triguṇayādiviparyayaṃ sādhanatvenopanyati / taiḥ pañcabhistriguṇādiviparītaiḥ karmabhiḥ pañcānāmeṣāṃ yathāsaṃbhavaṃ pravṛttiravagantavyā / yasmādayaṃ sukhādibhyo 'rthāntarabhūtaḥ tasmādayaṃ tatkriyāsākṣī / tatra nairguṇyātsākṣitvam / āha, tadasiddheḥ / nairguṇyāsiddheḥ / yadyasya sukhādidharmatvamātmanaḥ prasiddhaṃ syādata etadyujjate vaktum / tattvasiddham / tasmādayuktametat / viśeṣānabhidhānāditarātsiddhirapīti cet syānmatam, ātmaguṇāḥ sukhādayo na śabdaguṇā ityatrāpi bhavatā viśeṣo nābhidhīyate / tasmādetadapyasiddham / etadapyayuktam / kasmāt ? ahaṃkāreṇaikavākyatve bhinnādhikaraṇatvaṃ syāt / dṛṣṭaṃ tu sukhito 'haṃ duḥkhito 'hamiti / tasmātsukhaduḥkhayoḥ śabdādyātmabhāvo na yuktaḥ / ucyate- na, gaurādiṣvanekāntāt / tadyathā gauraḥ kṛṣṇo 'hamiti śarīradharmerātmano bhinnādhikaraṇatvamahaṅkāreṇa evaṃ sukhaduḥkhayorapi syāt / na cātmaguṇatvaṃ syāditi / āha, pṛthagupalabdherayuktam / yadyapi gaurādīnāmavibhaktamahaṃkāreṇa grahaṇaṃ tathāpi pṛthagayaṃ prāgetānātmano gṛhītvā paścādavibhaktāngṛhṇanśaktnoti vyavasthāpayitumuṣyaite na punaramuṣyeti / na tvevaṃ sukhaduḥkhayoḥ pṛthagupalabdhiḥ / tasmādasadetaditi / ucyate- naivamutpadyate / kasmāt ? mārgāntaragamanāt / ahaṃkāreṇāvibhaktagrahaṇādātmaguṇatvamiti prāgapadiṣṭam / idānīṃ tu satyapi tasminpṛthaggrahaṇādabhāvaṃ bruvato mārgāntaragamanamanaikāntikasya cāparihāraḥ / kiṃ cānyat, saṃśayāvyatirekāt / yata eva gaurādayaḥ pṛthagupalabhyante na sukhādayo eva saṃśayaḥ / na ca yata eva saṃśayastata eva nirṇayo yuktaḥ / tasmādyuktametad gaurādivadahaṅkāreṇāpyabhinnagrahaṇācchabdādyātmabhūtāḥ sukhādayaḥ / kiṃ cānyat / svabhāvānavadhāraṇādanupādānaprasaṃgāt / sukhādyātmakāḥ śabdādaya iti cet syānmataṃ, yathāgniḥ pākajanimittamupādīyate 'tha caiṣāṃ pārthivatvamevaṃ śabdādayo 'pi sukhādinimittatvenopādīyeran atha caiṣāmātmaguṇatvameva syāditi / tadapyanupapannam / kasmāt ? sāmānādhikaraṇyadarśanāt / yathā nimittasyāgnerna pākajaiḥ sāmānādhikaraṇyaṃ pakvo 'gniḥ pacyate 'gniriti evaṃ śabdādīnāṃ nimittatvānna sāmānādhikaraṇyaṃ syāt / sukhaśabdo duḥkha iti dṛṣṭaṃ tu / tasmānna teṣāṃ nimittārthenopādānamiti / āha, evamapi sukhādīnāṃ śabdādyātmabhāvo na yuktaḥ / kasmāt ? vipratipatteḥ / yathā hi śabdāḥ śabdātmakā eti sarvaiḥ śabdarūpeṇa gṛhyante, evaṃ sukhātmako 'yamiti sarvaistadrūpeṇa gṛhyate / dṛṣṭā tu vipratipattiḥ / tasmādātmaguṇā iti / ucyate- na, saṃskāraviśeṣanimittatvāt / tadyathā pittādisāmarthānmādhuryādiṣu vipratipattiḥ / na caiṣāmaśabdādiguṇatvasaṃskāraviśeṣayogātsukhādiṣu vipratipattiḥ / na caiṣāmaśabdādiguṇatvamiti / kiṃ cānyat / nimittatve 'pi tatprasaṃgāt / nimittavādino 'pyetatsamānam / na hi nimittanaimittikayorvipratipattirasti / tadyathā pradīpaprakāśayoḥ / tataśca vipratipatternimittatvamapi śabdādīnāmakalpanīyaṃ syāt / yaśca dvayordoṣo na tamekaścodyata iti / ātmaguṇākāṃkṣitvādadoṣa iti cet syānmatam nimittapradhānatvādanyaparipākavaśena sukhaduḥkhenotpādayatyātmanaḥ / tanmayatve tu nirākāṃkṣatvātpradhānasya vyavasthābhedo na yukta iti / tacca naivam / kasmāt ? uktatvāt / tanmayatve 'pi guṇabhāvānmādhuryādiṣu vipratipattirityādāvevoktametat / tasmāttanmayatve prādhānyamiti cāniścitābhidhānametat / āha, evamapyayuktametat / kasmāt ? atītānāgateṣvapi tu dṛṣṭeḥ / tasmātsukhādīnāṃ śabdādyātmabhāvo na yukta iti / ucyate- na, smṛtinimittatvād buddheḥ / ayamatītānāgateṣvapi śabdādiṣu smārtasukhaduḥkhayogo bhavati / tatsaṃparkāttu puruṣeṇa tathānubhūyate / puruṣaguṇatve tu pākajavannimittādutpannānāṃ sukhādīnāṃ viśeṣabhāvāttīvramandatānupapattiḥ syāt / tasmātsukhaduḥkhayoḥ śabdādyātmabhāvo na yuktaḥ / kiṃcānyat / anirmokṣaprasaṃgāt / dravyasya guṇairaviprayogātsukhaduḥkhayorātmaguṇatve satyātmanastābhyāmanirmokṣaprasaṃgaḥ / tasmāttayorātmaguṇatvamayuktamiti / śyāmādivattadvinivṛttiriti cet syānmatam, yathā śyāmaguṇatve satyaṇoragnisambandhāttadvinivṛttiḥ, śabdādiguṇatve cākāśasyāśabdakasyāvasthānamevamātmano 'pi / etadayuktam / kasmāt ? viśeṣopādānaprasaṃgāt / sādhyatvācca, yathā hyaṇuḥ śyāmatāṃ parityajya rūpaviśeṣameva raktalakṣaṇamupādatte, na rūpavattāṃ tyajati, evamātmāpi bāhyanimittasāmarthyātsukhāntaraṃ duḥkhād duḥkhāntaramupādadīta / na te atyantaṃ jahyāt / tathā ākāśaṃ śabdalakṣaṇaṃ kasyāṃcidavasthāyāmaśabdakaṃ bhavatītyasmānprati sādhyo 'yamarthaḥ / bheryādiśabdāstu tadguṇa eveti pratipādayiṣyāmaḥ tasmātsukhaduḥkhayoḥ śabdādyātmabhāvo 'yuktaḥ / evamanāmiśrarūpa ātmā / tataścecchādveṣaprayatnadharmajñānasaṃskārāṇāmanekasvabhāvānāṃ parasparavirodhināṃ ca tadguṇatvamanupapannam / tasmādyuktametannirguṇa ātmā nairguṇyācca sākṣimātra iti kevalo viviktatvāt / tasmādayaṃ guṇebhyaḥ pṛthagbhūtaḥ tasmātkevalaḥ na taiḥ saha saṃsargeṇa vartate / āha, kaḥ punarasyātmano guṇebhyaḥ pṛthagbhāvo 'bhipreta iti ? ucyate- tadupakāranirapekṣāṇāṃ sattvādīnāṃ svakāryasāmarthyapṛthagbhāvaḥ / na hi sattvādayaḥ prakāśādibhirdharmairitaretaropakāreṇa vartamānāḥ puruṣakṛtamupakāramapekṣante / prakāśādidharmasannidhānamātrādeva tu pravartante / tathā ca vārṣagaṇāḥ paṭhanti "pradhānapravṛttirapratyayā puruṣeṇāparigṛhyamāṇādisarge vartante" iti / yasmādguṇāstadupakāranirapekṣāḥ pravartante tasmādasāvapi tatsaṃsarga nānubhavati / dṛṣṭā tu loke 'pyekakāryatvāpṛthakpṛthagbhāvaparikalpanā / tadyathā ime bhrātaraḥ pṛthak, eṣāṃ naikaṃ kāryam / na pṛthagime yeṣāmekamiti / madhyastho viṣayitvāt / yasmādayaṃ puruṣo viṣayī tasmānmadhyasthaḥ / kiṃ kāraṇam ? viṣayāṇāṃ hyatulyabalatvāt, nyūnātiśayopapatteśca paraspareṇa bādhānugrahāvutpannau / viṣayī cāyam / tasmānnāsti nyūnatādyupapattiḥ / tataścetanābhāvaḥ / na cāmiśrarūpatvātsaṅgadveṣau guṇaviṣayau, ato madhyasthaḥ ? draṣṭṛtvaṃ caitanyāt / prakṛtivikārabhūtatvāt sattvādibhyaścaitanyamapoddhṛtya puruṣe vyavasthāpanīyam / na cācetanānāṃ draṣṭṛtvamupapadyate ityataḥ puruṣa eva caitanyād dṛṣṭā nānyattattvāntaram / akartṛbhāvaḥ, aprasavadharmitvāt / prasavārtho dharmaḥ prasavadharmaḥ so 'syāstīti prasavadharmī / kaḥ punarasau prasavārtho dharma iti ? ucyate- praspandanapariṇāmau / niṣkriyatvādakarteti yāvat / tadidamaprasavadharmitvādakarteti / kathamasya niṣkriyatvamiti cet ? caitanyāt / acetanānāṃ hi kṣīrādīnāṃ kriyāvattvamupalabdhaṃ, cetanasya na kasyacidityato niṣkriyaḥ puruṣaḥ / kiṃca anāmiśrarūpatvāt / anāmiśrarūpaṃ hi kriyādimatkṣīrādi / anāmiśrarūpaścāyam / tasmānniṣkriyaḥ / vibhutvāditi cet syādetat, yathā vibhutve sati pradhānasya sakriyatvamevaṃ puruṣasya iti vibhutve sakriyatvena bhavitavyamiti / tacca naivam / kasmāt ? dharmadvayasahitasya sāhacaryopalabdheḥ / tadvibhutvamācetanyānekarūpatvasahitaṃ kriyāvati dṛṣṭaṃ, na kevalam / na tu tathā puruṣe / tasmādviṣamametat / evaṃ niṣkriyaḥ puruṣaḥ niṣkriyatvācca pradhānātkāryakāraṇaṃ na kurute / kasmāt ? kriyāvataḥ kumbhakārasya mṛtpiṇḍātkāryaniṣpattisāmarthyadarśanāt / syādetat / utpāditasyānyena sthitiṃ kurute, dhātrīkumāravat / sthitasya vā prayogaṃ rathaśakaṭayantraprerakavaditi / etadapyanupapannaṃ, pūrvasmādeva hetoḥ athāpi syātsvataḥ puruṣaḥ kāryakaraṇaṃ kuruta iti tadapyayuktam / cetanācetanayoratyantabhedātprakṛtivikārabhāvānupapatteḥ / atha matamubhayata iti, tadapi naiva saṃbhavati, ubhayadoṣaprasaṃgāt / syātpunaretat avyapadiśya yoniṃ puruṣo 'bhidhyānamātreṇa kāryakaraṇaṃ kurute ityasadetat / kasmāt ? anutpattāvabhidhyānānupapatteḥ / īśvarakāraṇapratiṣedhe 'bhihitaṃ prāk pradhānavipariṇāmādbuddhimato buddhirnāsti / na ca buddhimantareṇābhidhyānamupapadyate, tadvṛttibhūtatvāt tathā buddhimatpūrvakasṛṣṭipratiṣedhaḥ kṛtaḥ / sa ihāpi yojyaḥ, adhyavasāyakartṛtvaṃ ca prākpratiṣiddham / evaṃ saptavidhenākartṛtvenākartā puruṣaḥ / uktaṃ ca nādhyavasāyaṃ kurute puruṣo naivaṃ sthitiṃ prayogaṃ vā / na svātmano na parato na vyapadeśānna cobhayataḥ // tadyuktametat tasmācca viparyāsātsiddhaṃ sākṣitvamasya puruṣasya / kaivalyaṃ mādhyasthyaṃ draṣṭṛtvamakartṛbhāvaśca // iti // // 19 // ----------------------------------------------------------------------- kārikā 20 ----------------------------------------------------------------------- yataścetanāśaktisambandhātpuruṣa eva draṣṭā nānyattattvāntaraṃ, guṇāśca kartāro, na puruṣaḥ tasmāttatsaṃyogādacetanaṃ cetanāvadiva liṅgam / guṇakartṛtve ca tathā karteva bhavatyudāsīnaḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.