पुरुषसम्पर्काद् हि ग्रहणधारणविज्ञानवचनोहापोहक्रिया यथान्यायाभिनिवेशानां करणधर्माणां प्रत्ययरूपाणामिवोपलब्धेश्चेतनाशक्तेश्चाध्यवसायवृत्तिमनुरुध्यमानायास्तद्भावसन्निवेशिनां सत्त्वादीनां व्यापारवतामभिसम्बन्धाद् व्यापाराविष्टाया इवोपलब्धिः । यतस्तत्रायमनेककालप्रवृत्तमिथ्याप्रत्ययाभ्यासवासनापेक्षो भवबीजहेतुर्ज्ञानविशेषः प्राणभृतामवभासते । श्रोत्रमुपलभ्यते त्वक्चक्षुर्जिह्वा घ्राणमित्यादि । तथा पुरुषः कर्मणां कर्ता, पुरुषः सुखदुःखयोरिति । तस्मात्करणस्य ग्रहणरूपता पुरुषस्य च कर्तृरूपता, सम्बन्ध्यन्तरसम्पर्कादन्यगतान्यत्रोपलभ्यमाना भक्त्याध्यवसातव्या, न परमार्थतः । उक्तं च चेतनाधिष्ठाता बुद्धिश्चेतनेव विभाव्यते । कर्तृष्ववस्थितश्चात्मा भोक्ता कर्तेव लक्ष्यते ॥ आह, संयोगात्पररूपतापत्तावतिप्रसंगः, अविशेषात् । यदि चेतनसंयोगाद् बुद्ध्यादीनां प्रत्ययवदुपचारः व्यापित्वादस्य घटादिभिरपि संयोगो न प्रतिषिध्यत इत्यतः प्राप्तस्तेषामपि प्रत्ययवदुपचारः । अथ संयोगाविशेषात्करणानामेव प्रत्ययवदुपचारो न घटादीनां, विशेषस्तर्हि वक्तव्य इति । उच्यते- तदप्रसंगः । शक्त्यपेक्षत्वात् स्फटिकादिवत् । यथोपधानसंयोगविशेषे सत्याकाशस्फटिकयोः स्फाटिकमेवोपधनसरूपं प्रत्यवभासते शक्तितो नाकाशम्, एवं पुरुषसंयोगाविशेषे बुद्धिघटयोः शक्तितो बुद्धिरेव चेतनारूपापन्नेवोपलभ्यते, न घटः । आह, पुरुषस्य विकार्यत्वप्रसंगः, रूपान्तरोपादनात् । यदि तर्हि करणसम्बन्धात्पुरुषः कर्तृत्वोपचारं विषयसरूपतां च प्रतिपद्यते, प्राप्तमस्यापि स्फटिकवद्रूपान्तरोपादानाद्विकार्यत्वम् । अथ नास्य विषयरूपापत्तिः, न तर्हि करणस्वरूपः पुरुष इति । उच्यते- न, भक्तितो ऽभ्युपगमात् । बुद्धिरुपात्तविषयेन्द्रियवृत्त्युपनिपातात्ताद्रूप्यं प्रतिपद्यते । बुद्धिरूपं तु सन्निधानमात्राच्छक्तिविशेषयोगात्फलभोक्तृत्वाच्च राजनि भृत्यजयपराजयोपचारवत्पुरुष उपचर्यते । न त्वसौ बुद्धिसंपर्कात्तद्रूपो भवति । अत एवास्य सत्यां चेतनाशक्तौ व्यवसायकर्तृत्वं प्रतिषिध्यते, मा भूत् विषयरूपापत्तौ सत्यामनेकस्वभावत्वादिकार्यत्वप्रसंगः । तस्माद्विषयसम्पर्कादप्यविकार्यः पुरुषः, न ह्यस्य नित्यत्वात्किंचिदनुग्रहाय नापघाताय । आह च मुष्टिर्यथा विकीर्णः सूच्यग्रे सर्षपादीनाम् । तिष्ठन्ति न सूक्ष्मभावात्तद्वद् द्वन्द्वानि सर्वज्ञे ॥ इति । चेतनाशक्तियोगात्तु द्रष्टृत्वमस्य स्वाभाविकम् । एवं चेद्ययुक्तं वर्षातपाभ्यां किं व्योम्नश्चर्मण्यस्ति तयोः फलम् । चर्मोपमश्चेत्सो ऽनित्यः खतुल्यश्चेदसत्समः ॥ इति तदयुक्तम् । किं कारणम् ? यस्मादविकार्यरूपस्याकाशस्य सन्निधानमात्रान्मेघपयोरजोधूमप्रभृतिभिरभिन्नदेशत्वादत्यन्तशुद्धस्यापि मलिनमिव रूपमुपलक्ष्यते, न च विकार्यत्वम्, एवमनात्मनो ऽपि स्यात् । तद्युक्तमेतत्पुरुषसंयोगात्करणस्य प्रत्ययोपचारः, पुरुषस्य च गुणसंयोगात्कर्तृत्वोपचार इति । आह, अयुक्तमेतत् । कस्मात् ? संयोगानुपपत्तेः । पुरुषस्य हि गुणानां च संयोगः परिकल्प्यमानो ऽन्यतरकर्मजो वा परिकल्प्यते यथा स्थाणुश्येनयोः, उभयकर्मजो यथा मेषयोः, संयोगजो वा द्व्यङ्गुलाकाशयोः, स्वाभाविको वा यथाग्न्युष्णयोः, शक्तिनिमित्तो वा यथा चक्षुरूपयोः, योग्यतालक्षणो वा यथा मत्स्योदकयोरिति ? तन्न तावदन्यतरकर्मज उभ्यकर्मजश्च संयोग एषामुपपद्यते । कस्मात् ? विभुत्वात् । न स्वाभाविकः अनिर्मोक्षप्रसंगात् । यथाग्नेः स्वाभाविकादौष्ण्यान्मोक्षो न भवति एवमात्मनः स्वाभाविकत्वाद्गुणसंयोगादनिर्मोक्षप्रसंगः स्यात् । शक्तिनिमित्तश्च । किम् ? अनिर्मोक्षप्रसंगादेव, स न भवतीत्यनुवर्तते । स्वस्वामिशक्तिनिमित्ते हि संयोगे परिकल्प्यमाने शक्त्योः सततावस्थानादनिर्मोक्ष एव प्रसज्येत । योग्यतालक्षणः शक्तिमात्ररूपत्वादसंवेद्यो ऽतस्तदसिद्धिः । किंच प्रयोजनान्तरानुपपत्तेः । प्रवृत्त्यनुगुणं हि योग्यमित्युच्यते । तस्या एव तु प्रवृत्ते पुरुषार्थमपोह्य निमित्तान्तरं शक्यं कल्पयितुम् । आकस्मिकत्वे च नियमद्वैतानुपपत्तिः । तस्मादयुक्तं पुरुषस्य गुणानां च योग्यतालक्षणः सम्बन्धः । न यादृच्छिकः । मोक्षकारणनियमानुपपत्तेः । संयोगकारणप्रतिद्वन्द्वं कैवल्यकारणम् । यदि च यादृच्छिको गुणपुरुषसंयोगः स्यात्तस्याज्ञानान्निवृत्तिर्नास्तीति तदर्थस्याभ्युत्थानस्यानर्थक्यं प्राप्तं विशेषानुपपत्तेश्च कारणान्तरं कल्पयितुम् । अत एतदप्ययुक्तमिति । न वैषयिकः, अनिर्मोक्षप्रसंगात् । सततमेव हि पुरुषस्य विषयित्वमव्यावृत्तं गुणानां च विषयत्वमित्यनिर्मोक्षप्रसंग एव स्यात् । एतावांश्च संयोगः परिकल्प्यमानः परिकल्प्येत । सर्वथा च नोपपद्यते । तस्मात्तत्संयोगादित्ययुक्तमभिधातुमिति । उच्यते- संयोगानित्यत्वादिह चौपकारिकपरिकल्पनाददोषः । इहानेकविधः संयोगः । तद्यथा प्राप्तिपूर्विका प्राप्तिः । यथोदाहृतं अन्यतरज उभयकर्मजः संयोग इत्यादि । यत्रासौ न संभवति तत्र सन्निधिमात्रसामान्याद् भक्त्या कल्प्यते । तद्यथाकाशस्य गवादिभिः । प्रदेशैरिति चेन्न अभावात् । ते ऽपि हि निरवयवत्वादाकाशस्य भक्त्या कल्प्यन्ते, मा भूत्कृतकत्वानित्यत्वदोषप्रसंगः । तस्मात्प्रदेशोपचारात्कार्यमप्युपचरितम् । अन्यस्तु शास्त्रीयः संयोगो ऽर्थनिमित्तः । तत्रानेकसंयोगोपपत्तेरिह पुरुषान्तःकरणयोरभिन्नदेशत्वात्सन्निधिमात्रसामान्याद्भाक्तं संयोगं परिकल्प्यैवमुच्यत इत्यदोषः ॥ २० ॥ ----------------------------------------------------------------------- कारिका २१ ----------------------------------------------------------------------- आह, विज्ञातं संयोगद्वयम् । अयं त्वन्यो ऽर्थनिमित्तः शास्त्रीयः संयोगो भवता परिभाष्यते । तत्र वक्तव्यं किमर्थो ऽसाविति ? उच्यते पुरुषस्य दर्शनार्थः दृष्टिर्दर्शनम् । अर्थशब्दो निमित्तवचनः । दर्शनमर्थो ऽस्यासौ दर्शनार्थः । दर्शननिमित्तो दर्शनहेतुः दर्शनकारण इत्यर्थः । एतदुक्तं भवति- सन्निधानाविशेषे सति आत्मन आकाशादेश्च यस्माद्दृक्छक्तियुक्तः पुरुषः तस्मात्कार्यकारणतामापन्नेन प्रधानेन सह भोक्तृत्वेन संबध्यते, नाचैतन्यादाकाशादय इति । अथवा अर्थशब्दः फलवचनः । यथा तृप्त्यर्था भुजिक्रिया तृप्त्यौ सत्यां निवर्तते प्राप्त्यर्था गमिक्रिया प्राप्तौ सत्याम्, एवं पुरुषस्य प्रधानेन दर्शनार्थः संयोगः दर्शने सति निवर्तते । तथा च वक्ष्यति दृष्टा मयेतियुपेक्षक एको दृष्टाहमित्युपरतैकेति (इस्क् ६६) । आह, एवमपि शब्दाद्युपलब्धिसमकालमेव निवृत्तिप्रसंगः । किं कारणम् ? तस्यामप्यवस्थायां शक्यं वक्तुं दृष्टा प्रकृतिरिति । उच्यते यद्यप्येतदेवं तथापि यथा पुरुषस्य दर्शनार्थः संयोगः कैवल्यार्थस्तथा प्रधानस्य कैवल्यमिति विवेकपरिच्छिन्नं सत्त्वादिभिरसंसर्गधर्मित्वमात्मनः, सो ऽर्थो ऽस्य सो ऽयं कैवल्यार्थः । सत्यपि हि दर्शनाविशेषे प्रधानं पुरुषस्य कैवल्यार्थं प्रवर्तते । यदास्य बुद्धिस्तमसो ऽङ्गित्वाद्ये गुणाः कार्यरूपापन्नाः शिरःपाण्यादय आध्यात्मिका, बाह्याश्च गवादयः, कारणरूपापन्नाश्चालोचनक्रियासंकल्पाभिमानाध्यवसायलक्षणाः, सो ऽहमित्यविशिष्टप्रत्ययोपसंहारं करोति तदा प्रवर्तत एव । यदा त्वन्ये गुणाः प्रकृतिभूता विकारभूताः कार्यभूताः कारणभूता अचेतनाः परार्था अन्यो ऽहं न प्रकृतिर्न विकृतिर्न कार्यं न कारणं नाचेतनः स्वार्थ इति भिन्नप्रत्ययोपसंहारं करोति तदा निवर्तते । सो ऽयं पुरुषस्य दृक्छक्तिनिमित्तः प्रधानस्य च कैवल्यावधिपरिच्छिन्नः पुरुषार्थः । सत्यपि पारिभाषिकत्वे पङ्ग्वन्धवदुभयोरपि संयोगः एतदुक्तं भवति । प्रागपि कार्यकारणसम्बन्धात्पुरुषे चैत्वन्यमवस्थितम् । तद्यथा अग्नेर्दहनं परशोश्छेदनमसति दाह्ये छेद्ये न व्यज्यते । तत्सन्निधानसमकालमेव तु व्यज्यते । इत्यतः प्रधानमपेक्षते । तथा प्रधानमप्यन्तरेण पुरुषोपकारं स्वकादसर्मर्थमनिष्पन्नकार्यसमं चेतितमनर्थकम स्यादित्यतः पुरुषमपेक्षते । तत्र उभयोरितरेतरापेक्षा तं संयोगमधिकारबन्धमाहुराचार्याः । पङ्ग्वन्धदृष्टान्तस्तु नान्तरीयकमात्रप्रदर्शनार्थम् । यथा पङ्गुर्नान्तरेणान्धं दृक्छक्त्या विशिष्टेनार्थेनार्थवान्भवति अन्धश्च नान्तरेण पङ्गुं विशिष्टेनार्थेन, एवं प्रधानं नान्तरेण पुरुषं कृतमपि कार्यं द्रष्टुं शक्तमनवधिकं च प्रवर्तमानं विशेषाभावान्नैव निवर्तते । तथा पुरुषः सत्यपि चेतनत्वे नान्तरेण प्रधानमुपलभ्याभावादुपलब्धा भवेदिति प्रधानमपेक्षते । तस्मादितरेतरापेक्षया संयोगत्वे कल्प्यमाने यदुक्तं विना सर्गेण बन्धो हि पुरुषस्य न युज्यते । सर्गस्तस्यैव मोक्षार्थमहो सांख्यस्य सूक्तता ॥ इति तदयुक्तम् । कस्मात् ? न ह्यसौ विना सर्गेण न युज्यत इति । आह च दृश्यदर्शनभावेन प्रकृतेः पुरुषस्य च । अपेक्षा शास्त्रतत्त्वज्ञैर्बन्ध इत्यभिधीयते ॥ एवं विनापि सर्गेण यस्माद्बद्धः पुमान्गुणैः । तस्माद्विफलतां यातु मनोरथमनोरथः ॥ इति सिद्धः संयोगः । तत्कृतः सर्गः
puruṣasamparkād hi grahaṇadhāraṇavijñānavacanohāpohakriyā yathānyāyābhiniveśānāṃ karaṇadharmāṇāṃ pratyayarūpāṇāmivopalabdheścetanāśakteścādhyavasāyavṛttimanurudhyamānāyāstadbhāvasanniveśināṃ sattvādīnāṃ vyāpāravatāmabhisambandhād vyāpārāviṣṭāyā ivopalabdhiḥ / yatastatrāyamanekakālapravṛttamithyāpratyayābhyāsavāsanāpekṣo bhavabījaheturjñānaviśeṣaḥ prāṇabhṛtāmavabhāsate / śrotramupalabhyate tvakcakṣurjihvā ghrāṇamityādi / tathā puruṣaḥ karmaṇāṃ kartā, puruṣaḥ sukhaduḥkhayoriti / tasmātkaraṇasya grahaṇarūpatā puruṣasya ca kartṛrūpatā, sambandhyantarasamparkādanyagatānyatropalabhyamānā bhaktyādhyavasātavyā, na paramārthataḥ / uktaṃ ca cetanādhiṣṭhātā buddhiścetaneva vibhāvyate / kartṛṣvavasthitaścātmā bhoktā karteva lakṣyate // āha, saṃyogātpararūpatāpattāvatiprasaṃgaḥ, aviśeṣāt / yadi cetanasaṃyogād buddhyādīnāṃ pratyayavadupacāraḥ vyāpitvādasya ghaṭādibhirapi saṃyogo na pratiṣidhyata ityataḥ prāptasteṣāmapi pratyayavadupacāraḥ / atha saṃyogāviśeṣātkaraṇānāmeva pratyayavadupacāro na ghaṭādīnāṃ, viśeṣastarhi vaktavya iti / ucyate- tadaprasaṃgaḥ / śaktyapekṣatvāt sphaṭikādivat / yathopadhānasaṃyogaviśeṣe satyākāśasphaṭikayoḥ sphāṭikamevopadhanasarūpaṃ pratyavabhāsate śaktito nākāśam, evaṃ puruṣasaṃyogāviśeṣe buddhighaṭayoḥ śaktito buddhireva cetanārūpāpannevopalabhyate, na ghaṭaḥ / āha, puruṣasya vikāryatvaprasaṃgaḥ, rūpāntaropādanāt / yadi tarhi karaṇasambandhātpuruṣaḥ kartṛtvopacāraṃ viṣayasarūpatāṃ ca pratipadyate, prāptamasyāpi sphaṭikavadrūpāntaropādānādvikāryatvam / atha nāsya viṣayarūpāpattiḥ, na tarhi karaṇasvarūpaḥ puruṣa iti / ucyate- na, bhaktito 'bhyupagamāt / buddhirupāttaviṣayendriyavṛttyupanipātāttādrūpyaṃ pratipadyate / buddhirūpaṃ tu sannidhānamātrācchaktiviśeṣayogātphalabhoktṛtvācca rājani bhṛtyajayaparājayopacāravatpuruṣa upacaryate / na tvasau buddhisaṃparkāttadrūpo bhavati / ata evāsya satyāṃ cetanāśaktau vyavasāyakartṛtvaṃ pratiṣidhyate, mā bhūt viṣayarūpāpattau satyāmanekasvabhāvatvādikāryatvaprasaṃgaḥ / tasmādviṣayasamparkādapyavikāryaḥ puruṣaḥ, na hyasya nityatvātkiṃcidanugrahāya nāpaghātāya / āha ca muṣṭiryathā vikīrṇaḥ sūcyagre sarṣapādīnām / tiṣṭhanti na sūkṣmabhāvāttadvad dvandvāni sarvajñe // iti / cetanāśaktiyogāttu draṣṭṛtvamasya svābhāvikam / evaṃ cedyayuktaṃ varṣātapābhyāṃ kiṃ vyomnaścarmaṇyasti tayoḥ phalam / carmopamaścetso 'nityaḥ khatulyaścedasatsamaḥ // iti tadayuktam / kiṃ kāraṇam ? yasmādavikāryarūpasyākāśasya sannidhānamātrānmeghapayorajodhūmaprabhṛtibhirabhinnadeśatvādatyantaśuddhasyāpi malinamiva rūpamupalakṣyate, na ca vikāryatvam, evamanātmano 'pi syāt / tadyuktametatpuruṣasaṃyogātkaraṇasya pratyayopacāraḥ, puruṣasya ca guṇasaṃyogātkartṛtvopacāra iti / āha, ayuktametat / kasmāt ? saṃyogānupapatteḥ / puruṣasya hi guṇānāṃ ca saṃyogaḥ parikalpyamāno 'nyatarakarmajo vā parikalpyate yathā sthāṇuśyenayoḥ, ubhayakarmajo yathā meṣayoḥ, saṃyogajo vā dvyaṅgulākāśayoḥ, svābhāviko vā yathāgnyuṣṇayoḥ, śaktinimitto vā yathā cakṣurūpayoḥ, yogyatālakṣaṇo vā yathā matsyodakayoriti ? tanna tāvadanyatarakarmaja ubhyakarmajaśca saṃyoga eṣāmupapadyate / kasmāt ? vibhutvāt / na svābhāvikaḥ anirmokṣaprasaṃgāt / yathāgneḥ svābhāvikādauṣṇyānmokṣo na bhavati evamātmanaḥ svābhāvikatvādguṇasaṃyogādanirmokṣaprasaṃgaḥ syāt / śaktinimittaśca / kim ? anirmokṣaprasaṃgādeva, sa na bhavatītyanuvartate / svasvāmiśaktinimitte hi saṃyoge parikalpyamāne śaktyoḥ satatāvasthānādanirmokṣa eva prasajyeta / yogyatālakṣaṇaḥ śaktimātrarūpatvādasaṃvedyo 'tastadasiddhiḥ / kiṃca prayojanāntarānupapatteḥ / pravṛttyanuguṇaṃ hi yogyamityucyate / tasyā eva tu pravṛtte puruṣārthamapohya nimittāntaraṃ śakyaṃ kalpayitum / ākasmikatve ca niyamadvaitānupapattiḥ / tasmādayuktaṃ puruṣasya guṇānāṃ ca yogyatālakṣaṇaḥ sambandhaḥ / na yādṛcchikaḥ / mokṣakāraṇaniyamānupapatteḥ / saṃyogakāraṇapratidvandvaṃ kaivalyakāraṇam / yadi ca yādṛcchiko guṇapuruṣasaṃyogaḥ syāttasyājñānānnivṛttirnāstīti tadarthasyābhyutthānasyānarthakyaṃ prāptaṃ viśeṣānupapatteśca kāraṇāntaraṃ kalpayitum / ata etadapyayuktamiti / na vaiṣayikaḥ, anirmokṣaprasaṃgāt / satatameva hi puruṣasya viṣayitvamavyāvṛttaṃ guṇānāṃ ca viṣayatvamityanirmokṣaprasaṃga eva syāt / etāvāṃśca saṃyogaḥ parikalpyamānaḥ parikalpyeta / sarvathā ca nopapadyate / tasmāttatsaṃyogādityayuktamabhidhātumiti / ucyate- saṃyogānityatvādiha caupakārikaparikalpanādadoṣaḥ / ihānekavidhaḥ saṃyogaḥ / tadyathā prāptipūrvikā prāptiḥ / yathodāhṛtaṃ anyataraja ubhayakarmajaḥ saṃyoga ityādi / yatrāsau na saṃbhavati tatra sannidhimātrasāmānyād bhaktyā kalpyate / tadyathākāśasya gavādibhiḥ / pradeśairiti cenna abhāvāt / te 'pi hi niravayavatvādākāśasya bhaktyā kalpyante, mā bhūtkṛtakatvānityatvadoṣaprasaṃgaḥ / tasmātpradeśopacārātkāryamapyupacaritam / anyastu śāstrīyaḥ saṃyogo 'rthanimittaḥ / tatrānekasaṃyogopapatteriha puruṣāntaḥkaraṇayorabhinnadeśatvātsannidhimātrasāmānyādbhāktaṃ saṃyogaṃ parikalpyaivamucyata ityadoṣaḥ // 20 // ----------------------------------------------------------------------- kārikā 21 ----------------------------------------------------------------------- āha, vijñātaṃ saṃyogadvayam / ayaṃ tvanyo 'rthanimittaḥ śāstrīyaḥ saṃyogo bhavatā paribhāṣyate / tatra vaktavyaṃ kimartho 'sāviti ? ucyate puruṣasya darśanārthaḥ dṛṣṭirdarśanam / arthaśabdo nimittavacanaḥ / darśanamartho 'syāsau darśanārthaḥ / darśananimitto darśanahetuḥ darśanakāraṇa ityarthaḥ / etaduktaṃ bhavati- sannidhānāviśeṣe sati ātmana ākāśādeśca yasmāddṛkchaktiyuktaḥ puruṣaḥ tasmātkāryakāraṇatāmāpannena pradhānena saha bhoktṛtvena saṃbadhyate, nācaitanyādākāśādaya iti / athavā arthaśabdaḥ phalavacanaḥ / yathā tṛptyarthā bhujikriyā tṛptyau satyāṃ nivartate prāptyarthā gamikriyā prāptau satyām, evaṃ puruṣasya pradhānena darśanārthaḥ saṃyogaḥ darśane sati nivartate / tathā ca vakṣyati dṛṣṭā mayetiyupekṣaka eko dṛṣṭāhamityuparataiketi (ISk 66) / āha, evamapi śabdādyupalabdhisamakālameva nivṛttiprasaṃgaḥ / kiṃ kāraṇam ? tasyāmapyavasthāyāṃ śakyaṃ vaktuṃ dṛṣṭā prakṛtiriti / ucyate yadyapyetadevaṃ tathāpi yathā puruṣasya darśanārthaḥ saṃyogaḥ kaivalyārthastathā pradhānasya kaivalyamiti vivekaparicchinnaṃ sattvādibhirasaṃsargadharmitvamātmanaḥ, so 'rtho 'sya so 'yaṃ kaivalyārthaḥ / satyapi hi darśanāviśeṣe pradhānaṃ puruṣasya kaivalyārthaṃ pravartate / yadāsya buddhistamaso 'ṅgitvādye guṇāḥ kāryarūpāpannāḥ śiraḥpāṇyādaya ādhyātmikā, bāhyāśca gavādayaḥ, kāraṇarūpāpannāścālocanakriyāsaṃkalpābhimānādhyavasāyalakṣaṇāḥ, so 'hamityaviśiṣṭapratyayopasaṃhāraṃ karoti tadā pravartata eva / yadā tvanye guṇāḥ prakṛtibhūtā vikārabhūtāḥ kāryabhūtāḥ kāraṇabhūtā acetanāḥ parārthā anyo 'haṃ na prakṛtirna vikṛtirna kāryaṃ na kāraṇaṃ nācetanaḥ svārtha iti bhinnapratyayopasaṃhāraṃ karoti tadā nivartate / so 'yaṃ puruṣasya dṛkchaktinimittaḥ pradhānasya ca kaivalyāvadhiparicchinnaḥ puruṣārthaḥ / satyapi pāribhāṣikatve paṅgvandhavadubhayorapi saṃyogaḥ etaduktaṃ bhavati / prāgapi kāryakāraṇasambandhātpuruṣe caitvanyamavasthitam / tadyathā agnerdahanaṃ paraśośchedanamasati dāhye chedye na vyajyate / tatsannidhānasamakālameva tu vyajyate / ityataḥ pradhānamapekṣate / tathā pradhānamapyantareṇa puruṣopakāraṃ svakādasarmarthamaniṣpannakāryasamaṃ cetitamanarthakama syādityataḥ puruṣamapekṣate / tatra ubhayoritaretarāpekṣā taṃ saṃyogamadhikārabandhamāhurācāryāḥ / paṅgvandhadṛṣṭāntastu nāntarīyakamātrapradarśanārtham / yathā paṅgurnāntareṇāndhaṃ dṛkchaktyā viśiṣṭenārthenārthavānbhavati andhaśca nāntareṇa paṅguṃ viśiṣṭenārthena, evaṃ pradhānaṃ nāntareṇa puruṣaṃ kṛtamapi kāryaṃ draṣṭuṃ śaktamanavadhikaṃ ca pravartamānaṃ viśeṣābhāvānnaiva nivartate / tathā puruṣaḥ satyapi cetanatve nāntareṇa pradhānamupalabhyābhāvādupalabdhā bhavediti pradhānamapekṣate / tasmāditaretarāpekṣayā saṃyogatve kalpyamāne yaduktaṃ vinā sargeṇa bandho hi puruṣasya na yujyate / sargastasyaiva mokṣārthamaho sāṃkhyasya sūktatā // iti tadayuktam / kasmāt ? na hyasau vinā sargeṇa na yujyata iti / āha ca dṛśyadarśanabhāvena prakṛteḥ puruṣasya ca / apekṣā śāstratattvajñairbandha ityabhidhīyate // evaṃ vināpi sargeṇa yasmādbaddhaḥ pumānguṇaiḥ / tasmādviphalatāṃ yātu manorathamanorathaḥ // iti siddhaḥ saṃyogaḥ / tatkṛtaḥ sargaḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.