Library·Yuktidipika·3

Yuktidipika 3

ISk 3

----------------------------------------------------------------------- आह- सम्यगुपदिष्टं भवता व्यक्ताव्यक्तज्ञविज्ञानान्मोक्षो ऽवाप्यते । इदानीमुपदेष्टव्यम् कथमेतत्त्रयं प्रतिपत्तव्यमिति । उच्यते - त्रयस्यास्य प्रतिपत्तिं द्वेधा समामनन्ति । समासतो विस्तरतश्च । तदेव त्रयं पंचभिरधिकरणैर्भिद्यते । कानि पुनरधिकरणानीति ? उच्यते- प्रकृतिविकारवृत्तं, कार्यकारणवृत्तं, अतिशयानतिशयवृत्तं, निमित्तनैमित्तिकवृत्तं, विषयविषयिवृत्तमिति । तत्र प्रकृतिविकारवृत्तपूर्वकत्वादितरेषामधिकरणानां तद्भेदान्वक्ष्यामः । तत्पुनश्चतुर्धा भिद्यते । किंचित्कारणमेव न कार्यम् । किंचित्कारणं च कार्यं च । किंचित्कार्यमेव न कारणम् । किंचिन्नैव कारणं न चापि कार्यमिति । आह- अतिसामान्योपदिष्टमेतन्नास्माकं बुद्धाववतिष्ठते । तस्माद्विभज्योपदिश्यतां कस्य पदार्थस्य किं वृत्तमिति ? उच्यते- बाढम् । उपदिश्यते- मूलप्रकृतिरविकृतिः मूलमाधारः प्रतिष्ठेत्यनर्थान्तरम् । प्रकरोतीति । प्रकृतिः । मूलं चासौ प्रकृतिर्मूलप्रकृतिः । मूलप्रकृतिः कस्य मूलम् ? महदादीनाम् । संज्ञा खल्वियं प्रधानस्य मूलप्रकृतिरिति । सा चाविकृतिरविकारानुत्पाद्येत्यर्थः । आह- समासानुपपत्तिः विशेषणान्तरोपादानात् । मूलमित्ययं शब्दः प्रकृतिविशेषणार्थमुपात्तो महदादिविशेषणान्तरमुपादत्ते । तत्र सविशेषणानां वृत्तिर्नेति समासप्रतिषेधः प्राप्नोति । समासान्तरविधानाददोष इति चेत्स्यान्मतम्- यद्येतस्मिन् समासे दोषो ऽयमुपपद्यते समासान्तरमत्र विधास्यते मूलं प्रकृतीनां मूलप्रकृतिरिति । एतच्चानुपपन्नम् । कस्मात् ? दोषान्तरोपपत्तेः । एवमप्युपसर्जनं पूर्वं निपततीति षष्ठ्योक्तस्योपसर्जनत्वात्पूर्वनिपातः । तत्रैवं भवितव्यं मूलं प्रकृतीनां प्रकृतिमूलमिति । तस्मादिदमप्यसारमिति । उच्यते- पूर्व एव समासो ऽस्तु, सम्बन्धिशब्दः सापेक्षो नित्यं वृत्तौ समस्यते । यत्तूक्तं विशेषणान्तरोपादानात्समासानुपपत्तिरिति- तत्र ब्रूमः सम्बन्धिशब्दानां सम्बन्ध्यन्तरमनपेक्ष्य स्वरूपप्रतिलम्भ एव नास्तीत्याकांक्षावतामेव वृत्त्या भवितव्यम् । तद्यथा देवदत्तस्य गुरुकुलमिति सम्बन्धिशब्दत्वाद्देवदत्तशब्दमपेक्षमाणो ऽपि गुरुशब्दः कुलशब्देन सह वृत्तिं प्रतिपद्यते । एवमिहापि मूलमित्ययं शब्दः सम्बन्धिशब्दत्वान्महदाद्यपेक्षो ऽपि प्रकृतिशब्देन सह वृत्तिं प्रतिपद्यत इति । किञ्चान्यत् । वाक्यप्रतिपाद्यस्यार्थस्य वृत्तावुपलब्धेः । यत्र हि वाक्यप्रतिपाद्यो ऽर्थो वृत्त्या न लभ्यते यथा ऋद्धस्य राज्ञस्य पुरुषः इति तत्र सविशेषणानां वृत्तिर्नेति व्यवस्थितं शास्त्रे । गम्यते चेह वाक्यप्रतिपाद्यो ऽर्थो वृत्तावपि सत्याम् । तस्माददोषो ऽयमिति । किं च ज्ञापकात् । ज्ञापकं खल्वपि "कर्मवत्कर्मणा तुल्यक्रियः" । तथा "अकारस्य विवृत्तोपदेश" इत्यादि । तस्मान्नात्रासूया कर्तव्येति । आह- अवयवस्य प्रत्यवमर्शानुपपत्तिः संज्ञाशब्दत्वात् । संज्ञाशब्देषु हि नावयवस्य परामर्शो भवति । तद्यथा गजकर्णो ऽश्वकर्णः । कस्य गजस्य कस्याश्वस्येति । उच्यते न, अर्थोपपत्तेः । यत्र ह्यर्थ उपपद्यते भवत्येव तत्र संज्ञाशब्देष्वयवपरामर्शः । तद्यथा सप्तपर्णान्यस्य पर्वणि पर्वणि, अष्टौ पदान्यस्य पङ्क्तौ पङ्क्तौ सप्तपर्णो ऽष्टापदमिति । उपपद्यते चेहायमर्थः, तस्माददोषो ऽयम् । आह- मूलप्रकृतिरविकृतिः, प्रकृतिरिति वक्तव्यम् । यदाह महदाद्याः प्रकृतिविकृतयः सप्तेति । उच्यते- प्रकृतित्वावचनम् । प्रकृतित्वं च मूलप्रकृतेर्न वक्तव्यम् । किं कारणम् ? अर्थादापत्तेः । मूलप्रकृतिरविकृतिरित्येव सिद्धम् । उच्यमानं हि तदनर्थकं स्यात् । आह- प्रकृतित्वानुपपत्तिः । सत्कार्यवादाभ्युपगमात् । प्रकरोतीति प्रकृतिः, तद्भावः प्रकृतित्वम् । तच्च सति कार्ये न घटते । कस्मात् ? न हि सतामात्मादीनां कारणमुपपद्यत इति । उच्यते- तदितरत्रापि तुल्यम् । यथैव हि सतामात्मादीनां कारणं नोपपन्नमेवमसतां शशविषाणादीनामपीति नास्ति कश्चिद्विशेषः । तृतीया तु विषादावल्यैव कोटिः । एवमुभयपक्षव्युदासात्स्वपक्षसिद्धिरिति चेत् अथापि स्यात्- सदसतोः क्रियासम्बन्धं प्रत्यविशेष उपदर्श्यते भवता । तेनोभयोरपि पक्षयोर्व्युदासः कृतो भवति । न चोभयपक्षव्युदासात्स्वपक्षसिद्धिरिति । एतच्चायुक्तम् । कस्मात् ? उत्तरत्र प्रतिषेधात् । स खल्वेष वादी सत्कार्यवादं प्रत्याचष्टे तस्मात्स्वक एवैनमधिकारे निवर्तयिष्यामः । आह- अविकृत्यभिधानानर्थक्यम् । मूलप्रकृतित्वात्तत्सिद्धेः । यदि मूलं सर्वासां प्रकृतीनाम् अविकृत्यैव तया भवितव्यम् । इतरथा हि मूलप्रकृतित्वानुपपत्तिः । यदि खल्वपि प्रधानस्यापि प्रकृत्यन्तरं स्यान्मूलप्रकृतित्वं नोपपन्नं भवेत् । तस्मान्मूलप्रकृतित्ववचनादेव तत्सिद्धेरविकृतिग्रहणमनर्थकमिति । उच्यते- न । अनवस्थाप्रसंगनिवृत्त्यर्थत्वात् । यथा हि मूलादीनां बीजं प्रकृतिस्तस्याप्यन्यत्तस्याप्यन्यदित्यनवस्था एवं महदादीनां प्रधानं मूलप्रकृतिः तस्याप्यन्यदित्यनवस्था प्रसज्येत । सा मा भूदित्यतस्तन्निवृत्त्यर्थं तदभिधानम् । आह, न । हेत्वनुपदेशात् । असंशयमेतदेवं स्यात्, न तु हेतुरत्रोपदिष्टो भवद्भिः । न चानुपदिष्टहेतुकं विपश्चिद्भिः प्रतिपत्तुं न्याय्यम् । तस्मादयुक्तमेतत् । उच्यते, कारणान्तरप्रतिषेधात् । पुरुषाकर्तृत्वात्प्रधानाख्यानां गुणानां चावस्थान्तरानुपपत्तेरविकृतित्वसिद्धिः । इहारभ्यमाणा प्रकृतिः कारणान्तरैरीश्वरादिभिरारभ्यते, पुरुषेण वा, गुणैर्वा । किञ्चातः ? तन्न तावत्कारणान्तरैरीश्वरादिभिरारभ्यते । कस्मात् ? प्रतिषेधात् । यथा कारणान्तराणि न सन्ति तथोत्तरत्र प्रतिषेधः करिष्यते । इदानीं सत्त्वं रजस्तमः पुरुष इति पदार्थचतुष्टयं प्रतिज्ञायते । तत्रापि पुरुषकर्तृत्वं प्रत्याख्यायते । तस्मिन्प्रत्याख्याते गुणानामेवावस्थान्तरापेक्षः कार्यकारणभावः । सूक्ष्माणां मूर्तिलाभः कार्यम् । निवृतविशेषाणामविभागात्मनावस्थानं कारणमित्ययं सिद्धान्तः । तत्रास्तङ्गतविशेषाणां निवृत्तपरिणामव्यापाराणामङ्गाङ्गिभावमनुपगच्छतामुपसंहृतशक्तीनां सर्वविकारसाम्यं सर्वशक्तिप्रलयं निस्सत्तासत्तं निस्सदसदव्यक्तलक्षणमवस्थान्तरमुपसंप्राप्तानां नास्त्यन्यत्सूक्ष्मतरमवस्थान्तरम्, यस्येदं प्रधानलक्षणमवस्थान्तरं कार्यं स्यात् । तस्मात्सुष्ठूच्यते मूलप्रकृतिरविकृतिरिति । महदाद्याः प्रकृतिविकृतयः सप्त । महानाद्यो यासां ता महदाद्याः । अवयवेन विग्रहः, समुदायः समासार्थः । अन्यथा महानेवात्रापरिगृहीतः स्यात् । प्रकृतयश्च विकृतयश्च प्रकृतिविकृतयः । कारणानि कार्याणि चेत्यर्थः । तत्र महानहंकारस्य प्रकृतिः प्रधानस्य विकृतिः । अहंकारो ऽपि तन्मात्रेन्द्रियपर्वणोः प्रकृतिर्विकृतिर्महतः । तन्मात्राणि च भूतपर्वणः प्रकृतिरहंकारस्य विकृतिः । आह- सप्तग्रहणं किमर्थम् ? उच्यते- सप्तग्रहणमवधिपरिच्छेदार्थम् । अक्रियमाणे हि सप्तग्रहणे न ज्ञायते क्रियान्प्रकृतिगणः प्रकृतिविकृतिसंज्ञो भवति । तत्र महाभूतेन्द्रियपर्वणोरपि प्रकृतित्वं प्रसज्येत । आह- नैतदस्ति प्रयोजनम् । परिशेषसिद्धेः । इह भवतां पञ्चशिखानां पञ्चविंशतिस्तत्त्वानि । तत्र मूलप्रकृतिरविकृतिरित्युक्तम्, षोडशकस्तु विकारो न प्रकृतिर्न विकृतिः पुरुष इति वक्ष्यति । परिशेषतः सप्तैवावशिष्यन्ते । तस्मान्नार्थस्तदर्थेन सप्तग्रहणेन । उच्यते- अहंकारपरिग्रहार्थम् । एवं तर्हि नैवाहंकारो विद्यत इति पतञ्जलिः । महतो ऽस्मिप्रत्ययरूपत्वाभ्युपगमात् । तत्परिहारार्थमेतद् भविष्यति । आह, न । उत्तरत्र परिग्रहात् । एतदस्ति नास्ति प्रयोजनम् । वक्ष्यति हि महता कण्ठेनोपरिष्टादाचार्यः "प्रकृतेर्महांस्ततो ऽहङ्कार" (इस्क् २२) इति तेनैवेदं सिद्धम् । नार्थस्तदर्थेनापि सप्तग्रहणेन । उच्यते- रूपभेदे ऽपि तत्त्वाभेदज्ञापनार्थम् । एवं तर्हि धर्मादीन्यष्टौ रूपाणि बुद्धेर्वक्ष्यमाणानि, अहंकारश्च वैकारिकतैजसभूतादिरूपत्वात् त्रिलक्षणो वक्ष्यमाणः । तत्र रूपभेदात्तत्त्वभेदो मा भूदित्येवमर्थं सप्तग्रहणं क्रियते । आह, हेतुमन्तरेणाप्रतिपत्तेः । कण्ठोक्तमपि युक्तिमन्तरेण न तर्कशीलाः प्रतिपद्यन्ते किम्पुनः क्लेशोपपादितम् । तस्मादत्र समाधिर्वाच्यः कथमनेकरूपा बुद्धिरेकैवेति ? उच्यते न, उत्तरत्र विचारणात् । उत्तरत्रैतद्विचारयिष्यामः किमनेकरूपाविर्भावे ऽपि तदेव तद्वस्तु भवति आहोस्विद्रूपभेदात्तत्त्वभेदः ? तस्मादिह तावद्दृश्यतामिति सिद्धं महदाद्याः प्रकृतिविकृतयः सप्तेति । षोडशकस्तु विकारः षोडशपरिमाणस्य सो ऽयं षोडशकः संघः । तस्य परिमाणं संख्यायाः संज्ञासंघसूत्राध्ययनेष्विति कन्प्रत्ययः । आह- कः पुनरयं षोडशक इति ? उच्यते - पञ्च महाभूतानि, एकादशेन्द्रियाणि । तुशब्दो ऽवधारणार्थः । आह- शक्यः पुनरयमर्थो ऽन्तरेणापि तुशब्दमवाप्तुम् । कथम् ? महदाद्याः प्रकृतिविकृतयः सप्तेति ह्युपदिष्टं पुरस्तात् । ततो ऽहङ्कारतमात्रपूर्वकत्वे सिद्धे सति इन्द्रियमहाभूतपर्वणोः पुनः श्रुतेर्नियमो भविष्यति । तद्यथा पञ्च पञ्चनखा भक्ष्या इत्यत्र क्षुत्प्रतीकारसमर्थानां द्रव्याणामर्थादेव सर्वेषां भक्षणे सम्प्राप्ते पुनः श्रुतेर्नियमो भवति, तद्वदिदं द्रष्टव्यम् । इष्टतो ऽवधारणार्थं इति चेत् स्यान्मतम् । इष्टतो ऽवधारणार्थस्तर्हि तुशब्दो भविष्यति । कथं नाम षोडशको विकार एवेति यथा विज्ञायते, षोडशकस्तु विकार इत्येवं मा ज्ञायीति । यद्येवमस्थाने तर्हि तुशब्दः पठितः । षोडशको विकारस्त्विति वक्तव्यम् । अथ मतं वृत्तपरिपूरनार्थमयमस्मिन्प्रदेशे पठितस्तुशब्दो यत्र निर्दोषस्तत्रैवायं द्रष्टव्य इति । एतदनुपपन्नम् । कस्मात् ? असन्देहात् । महदाद्याः प्रकृतिविकृतयः सप्तेत्यपदिष्टे किमिति सांशयिका भविष्यामः । तस्मात्पेलवमस्य पाठे प्रयोजनं पश्यामः । अथायमभिप्रायः स्यात् यद्यप्येतदर्थतः सिद्धं तथाप्ययमाचार्यः स्फुटप्रतिपत्त्यर्थमवधारणं प्रत्याद्रियते । किं कारणम् ? यस्मात् विचित्राः सूत्रकाराणामभिप्रायगतयः । तद्यथा भगवान् पाणिनिः न क्ये, रात्सस्येत्येवमादिष्वन्तरेण प्रयत्नमिष्टतो ऽवधारणे सिद्धे अन्यत्र अजादी गुणवचनादेव स्तौतिण्योरेव षण्यभासादित्येवमादिषु यत्नं करोति । तद्वदिहापि द्रष्टव्यमिति । एतदनुपपन्नम् । कस्मात् ? अशक्यत्वात् । सति वा पुनरवधारणार्थत्वे तुशब्दस्य कथमिवात्र शक्यमवधारणं प्रतिपत्तुम् ? यावता महाभूतानामपि शरीरादिलक्षणं कार्यमुपलभ्यत इति । तत्र केचित् समाधिमाहुः । शरीरादीनामनर्थान्तरभावात्पृथिव्यादीनामप्रकृतित्वम् । यस्मात् किल पृथिव्यादीनां सन्निवेशविशेषमात्रं कार्यं मुष्टिग्रन्थिकुण्डलादिवन्नार्थान्तरभूतम् । अत एषामप्रकृतित्वमिति । एतच्चानुपपन्नम् । कस्मात् ? अविशेषात् । सर्वमेव हि सांख्यानां कार्यमनर्थान्तरभूतम् । तत्रैतस्यां कल्पनायां सर्वतत्त्वानामप्रकृतित्वं प्रसज्येत । अथैतदनिष्टं, सत्कार्यव्याघातः । अन्ये पुनराहुः- अपरिणामित्वान्महाभूतानां विअकरित्वानवधारणमिति । तदप्यनुपपन्नम् । कस्मात् ? प्रत्यक्षोपलब्धेः । प्रत्यक्षत एवोपलभ्यते महाभूतानां कलिलाङ्कुरक्षीरादिपरिणामः । अनुमानग्राह्यस्तु तत्त्वान्तराणाम् । तदेतदधरोत्तरं भवति । तस्मादयुक्तमेतत् । आह - न तर्हि इदं प्रतिपत्तव्यं षोडशको विकार एवेति ? उच्यते- प्रतिपत्तव्यम् । किं कारणम् । तत्त्वान्तरानुपपत्तेः । इह पुरुषार्थेन हेतुना साम्यात्प्रच्युतानां गुणानां यो ऽयं महदादिर्विशेषान्तो विपरिणामः स तत्त्वान्तरोत्पत्तिनियमेन व्यवतिष्ठते । न तु पृथिव्यादिभ्यस्तत्त्वान्तरोत्पत्तिरस्ति । तस्मादेतेषां विकारत्वमेवेति । किं चान्यत् । ग्राहकान्तराभावात् । यथा तन्मात्रैरारब्धेषु पृथिव्यादिषु अहंकारात्तद्योग्यं ग्राहकान्तरमिन्द्रियलक्षणमुत्पद्यते, नैवं पृथिव्यादिविकाराणां घटादीनां ग्राहकान्तरमस्ति । तस्मान्न तत्त्वान्तरम् । अतश्च पृथिव्यादयो विकारा एवेति । किं चान्यत् । प्रधाने प्रकृतिभावप्रत्यस्तमयवत्तेषु विकारभावप्रत्यस्तमयात् । यथा प्रधानात्सूक्ष्मतरमवस्थान्तरं नास्तीति तत्र प्रकृतिभावस्य प्रत्यस्तमयस्तथा तेषु विकारभावप्रत्यस्तमयः । तस्माद्युक्तमुच्यते षोडशको ऽयं विकार एवेति । आह- पुरुषे तर्हि का प्रतिपत्तिरिति ? उच्यते- न प्रकृतिर्न विकृतिः पुरुषः

----------------------------------------------------------------------- āha- samyagupadiṣṭaṃ bhavatā vyaktāvyaktajñavijñānānmokṣo 'vāpyate / idānīmupadeṣṭavyam kathametattrayaṃ pratipattavyamiti / ucyate - trayasyāsya pratipattiṃ dvedhā samāmananti / samāsato vistarataśca / tadeva trayaṃ paṃcabhiradhikaraṇairbhidyate / kāni punaradhikaraṇānīti ? ucyate- prakṛtivikāravṛttaṃ, kāryakāraṇavṛttaṃ, atiśayānatiśayavṛttaṃ, nimittanaimittikavṛttaṃ, viṣayaviṣayivṛttamiti / tatra prakṛtivikāravṛttapūrvakatvāditareṣāmadhikaraṇānāṃ tadbhedānvakṣyāmaḥ / tatpunaścaturdhā bhidyate / kiṃcitkāraṇameva na kāryam / kiṃcitkāraṇaṃ ca kāryaṃ ca / kiṃcitkāryameva na kāraṇam / kiṃcinnaiva kāraṇaṃ na cāpi kāryamiti / āha- atisāmānyopadiṣṭametannāsmākaṃ buddhāvavatiṣṭhate / tasmādvibhajyopadiśyatāṃ kasya padārthasya kiṃ vṛttamiti ? ucyate- bāḍham / upadiśyate- mūlaprakṛtiravikṛtiḥ mūlamādhāraḥ pratiṣṭhetyanarthāntaram / prakarotīti / prakṛtiḥ / mūlaṃ cāsau prakṛtirmūlaprakṛtiḥ / mūlaprakṛtiḥ kasya mūlam ? mahadādīnām / saṃjñā khalviyaṃ pradhānasya mūlaprakṛtiriti / sā cāvikṛtiravikārānutpādyetyarthaḥ / āha- samāsānupapattiḥ viśeṣaṇāntaropādānāt / mūlamityayaṃ śabdaḥ prakṛtiviśeṣaṇārthamupātto mahadādiviśeṣaṇāntaramupādatte / tatra saviśeṣaṇānāṃ vṛttirneti samāsapratiṣedhaḥ prāpnoti / samāsāntaravidhānādadoṣa iti cetsyānmatam- yadyetasmin samāse doṣo 'yamupapadyate samāsāntaramatra vidhāsyate mūlaṃ prakṛtīnāṃ mūlaprakṛtiriti / etaccānupapannam / kasmāt ? doṣāntaropapatteḥ / evamapyupasarjanaṃ pūrvaṃ nipatatīti ṣaṣṭhyoktasyopasarjanatvātpūrvanipātaḥ / tatraivaṃ bhavitavyaṃ mūlaṃ prakṛtīnāṃ prakṛtimūlamiti / tasmādidamapyasāramiti / ucyate- pūrva eva samāso 'stu, sambandhiśabdaḥ sāpekṣo nityaṃ vṛttau samasyate / yattūktaṃ viśeṣaṇāntaropādānātsamāsānupapattiriti- tatra brūmaḥ sambandhiśabdānāṃ sambandhyantaramanapekṣya svarūpapratilambha eva nāstītyākāṃkṣāvatāmeva vṛttyā bhavitavyam / tadyathā devadattasya gurukulamiti sambandhiśabdatvāddevadattaśabdamapekṣamāṇo 'pi guruśabdaḥ kulaśabdena saha vṛttiṃ pratipadyate / evamihāpi mūlamityayaṃ śabdaḥ sambandhiśabdatvānmahadādyapekṣo 'pi prakṛtiśabdena saha vṛttiṃ pratipadyata iti / kiñcānyat / vākyapratipādyasyārthasya vṛttāvupalabdheḥ / yatra hi vākyapratipādyo 'rtho vṛttyā na labhyate yathā ṛddhasya rājñasya puruṣaḥ iti tatra saviśeṣaṇānāṃ vṛttirneti vyavasthitaṃ śāstre / gamyate ceha vākyapratipādyo 'rtho vṛttāvapi satyām / tasmādadoṣo 'yamiti / kiṃ ca jñāpakāt / jñāpakaṃ khalvapi "karmavatkarmaṇā tulyakriyaḥ" / tathā "akārasya vivṛttopadeśa" ityādi / tasmānnātrāsūyā kartavyeti / āha- avayavasya pratyavamarśānupapattiḥ saṃjñāśabdatvāt / saṃjñāśabdeṣu hi nāvayavasya parāmarśo bhavati / tadyathā gajakarṇo 'śvakarṇaḥ / kasya gajasya kasyāśvasyeti / ucyate na, arthopapatteḥ / yatra hyartha upapadyate bhavatyeva tatra saṃjñāśabdeṣvayavaparāmarśaḥ / tadyathā saptaparṇānyasya parvaṇi parvaṇi, aṣṭau padānyasya paṅktau paṅktau saptaparṇo 'ṣṭāpadamiti / upapadyate cehāyamarthaḥ, tasmādadoṣo 'yam / āha- mūlaprakṛtiravikṛtiḥ, prakṛtiriti vaktavyam / yadāha mahadādyāḥ prakṛtivikṛtayaḥ sapteti / ucyate- prakṛtitvāvacanam / prakṛtitvaṃ ca mūlaprakṛterna vaktavyam / kiṃ kāraṇam ? arthādāpatteḥ / mūlaprakṛtiravikṛtirityeva siddham / ucyamānaṃ hi tadanarthakaṃ syāt / āha- prakṛtitvānupapattiḥ / satkāryavādābhyupagamāt / prakarotīti prakṛtiḥ, tadbhāvaḥ prakṛtitvam / tacca sati kārye na ghaṭate / kasmāt ? na hi satāmātmādīnāṃ kāraṇamupapadyata iti / ucyate- taditaratrāpi tulyam / yathaiva hi satāmātmādīnāṃ kāraṇaṃ nopapannamevamasatāṃ śaśaviṣāṇādīnāmapīti nāsti kaścidviśeṣaḥ / tṛtīyā tu viṣādāvalyaiva koṭiḥ / evamubhayapakṣavyudāsātsvapakṣasiddhiriti cet athāpi syāt- sadasatoḥ kriyāsambandhaṃ pratyaviśeṣa upadarśyate bhavatā / tenobhayorapi pakṣayorvyudāsaḥ kṛto bhavati / na cobhayapakṣavyudāsātsvapakṣasiddhiriti / etaccāyuktam / kasmāt ? uttaratra pratiṣedhāt / sa khalveṣa vādī satkāryavādaṃ pratyācaṣṭe tasmātsvaka evainamadhikāre nivartayiṣyāmaḥ / āha- avikṛtyabhidhānānarthakyam / mūlaprakṛtitvāttatsiddheḥ / yadi mūlaṃ sarvāsāṃ prakṛtīnām avikṛtyaiva tayā bhavitavyam / itarathā hi mūlaprakṛtitvānupapattiḥ / yadi khalvapi pradhānasyāpi prakṛtyantaraṃ syānmūlaprakṛtitvaṃ nopapannaṃ bhavet / tasmānmūlaprakṛtitvavacanādeva tatsiddheravikṛtigrahaṇamanarthakamiti / ucyate- na / anavasthāprasaṃganivṛttyarthatvāt / yathā hi mūlādīnāṃ bījaṃ prakṛtistasyāpyanyattasyāpyanyadityanavasthā evaṃ mahadādīnāṃ pradhānaṃ mūlaprakṛtiḥ tasyāpyanyadityanavasthā prasajyeta / sā mā bhūdityatastannivṛttyarthaṃ tadabhidhānam / āha, na / hetvanupadeśāt / asaṃśayametadevaṃ syāt, na tu heturatropadiṣṭo bhavadbhiḥ / na cānupadiṣṭahetukaṃ vipaścidbhiḥ pratipattuṃ nyāyyam / tasmādayuktametat / ucyate, kāraṇāntarapratiṣedhāt / puruṣākartṛtvātpradhānākhyānāṃ guṇānāṃ cāvasthāntarānupapatteravikṛtitvasiddhiḥ / ihārabhyamāṇā prakṛtiḥ kāraṇāntarairīśvarādibhirārabhyate, puruṣeṇa vā, guṇairvā / kiñcātaḥ ? tanna tāvatkāraṇāntarairīśvarādibhirārabhyate / kasmāt ? pratiṣedhāt / yathā kāraṇāntarāṇi na santi tathottaratra pratiṣedhaḥ kariṣyate / idānīṃ sattvaṃ rajastamaḥ puruṣa iti padārthacatuṣṭayaṃ pratijñāyate / tatrāpi puruṣakartṛtvaṃ pratyākhyāyate / tasminpratyākhyāte guṇānāmevāvasthāntarāpekṣaḥ kāryakāraṇabhāvaḥ / sūkṣmāṇāṃ mūrtilābhaḥ kāryam / nivṛtaviśeṣāṇāmavibhāgātmanāvasthānaṃ kāraṇamityayaṃ siddhāntaḥ / tatrāstaṅgataviśeṣāṇāṃ nivṛttapariṇāmavyāpārāṇāmaṅgāṅgibhāvamanupagacchatāmupasaṃhṛtaśaktīnāṃ sarvavikārasāmyaṃ sarvaśaktipralayaṃ nissattāsattaṃ nissadasadavyaktalakṣaṇamavasthāntaramupasaṃprāptānāṃ nāstyanyatsūkṣmataramavasthāntaram, yasyedaṃ pradhānalakṣaṇamavasthāntaraṃ kāryaṃ syāt / tasmātsuṣṭhūcyate mūlaprakṛtiravikṛtiriti / mahadādyāḥ prakṛtivikṛtayaḥ sapta / mahānādyo yāsāṃ tā mahadādyāḥ / avayavena vigrahaḥ, samudāyaḥ samāsārthaḥ / anyathā mahānevātrāparigṛhītaḥ syāt / prakṛtayaśca vikṛtayaśca prakṛtivikṛtayaḥ / kāraṇāni kāryāṇi cetyarthaḥ / tatra mahānahaṃkārasya prakṛtiḥ pradhānasya vikṛtiḥ / ahaṃkāro 'pi tanmātrendriyaparvaṇoḥ prakṛtirvikṛtirmahataḥ / tanmātrāṇi ca bhūtaparvaṇaḥ prakṛtirahaṃkārasya vikṛtiḥ / āha- saptagrahaṇaṃ kimartham ? ucyate- saptagrahaṇamavadhiparicchedārtham / akriyamāṇe hi saptagrahaṇe na jñāyate kriyānprakṛtigaṇaḥ prakṛtivikṛtisaṃjño bhavati / tatra mahābhūtendriyaparvaṇorapi prakṛtitvaṃ prasajyeta / āha- naitadasti prayojanam / pariśeṣasiddheḥ / iha bhavatāṃ pañcaśikhānāṃ pañcaviṃśatistattvāni / tatra mūlaprakṛtiravikṛtirityuktam, ṣoḍaśakastu vikāro na prakṛtirna vikṛtiḥ puruṣa iti vakṣyati / pariśeṣataḥ saptaivāvaśiṣyante / tasmānnārthastadarthena saptagrahaṇena / ucyate- ahaṃkāraparigrahārtham / evaṃ tarhi naivāhaṃkāro vidyata iti patañjaliḥ / mahato 'smipratyayarūpatvābhyupagamāt / tatparihārārthametad bhaviṣyati / āha, na / uttaratra parigrahāt / etadasti nāsti prayojanam / vakṣyati hi mahatā kaṇṭhenopariṣṭādācāryaḥ "prakṛtermahāṃstato 'haṅkāra" (ISk 22) iti tenaivedaṃ siddham / nārthastadarthenāpi saptagrahaṇena / ucyate- rūpabhede 'pi tattvābhedajñāpanārtham / evaṃ tarhi dharmādīnyaṣṭau rūpāṇi buddhervakṣyamāṇāni, ahaṃkāraśca vaikārikataijasabhūtādirūpatvāt trilakṣaṇo vakṣyamāṇaḥ / tatra rūpabhedāttattvabhedo mā bhūdityevamarthaṃ saptagrahaṇaṃ kriyate / āha, hetumantareṇāpratipatteḥ / kaṇṭhoktamapi yuktimantareṇa na tarkaśīlāḥ pratipadyante kimpunaḥ kleśopapāditam / tasmādatra samādhirvācyaḥ kathamanekarūpā buddhirekaiveti ? ucyate na, uttaratra vicāraṇāt / uttaratraitadvicārayiṣyāmaḥ kimanekarūpāvirbhāve 'pi tadeva tadvastu bhavati āhosvidrūpabhedāttattvabhedaḥ ? tasmādiha tāvaddṛśyatāmiti siddhaṃ mahadādyāḥ prakṛtivikṛtayaḥ sapteti / ṣoḍaśakastu vikāraḥ ṣoḍaśaparimāṇasya so 'yaṃ ṣoḍaśakaḥ saṃghaḥ / tasya parimāṇaṃ saṃkhyāyāḥ saṃjñāsaṃghasūtrādhyayaneṣviti kanpratyayaḥ / āha- kaḥ punarayaṃ ṣoḍaśaka iti ? ucyate - pañca mahābhūtāni, ekādaśendriyāṇi / tuśabdo 'vadhāraṇārthaḥ / āha- śakyaḥ punarayamartho 'ntareṇāpi tuśabdamavāptum / katham ? mahadādyāḥ prakṛtivikṛtayaḥ sapteti hyupadiṣṭaṃ purastāt / tato 'haṅkāratamātrapūrvakatve siddhe sati indriyamahābhūtaparvaṇoḥ punaḥ śruterniyamo bhaviṣyati / tadyathā pañca pañcanakhā bhakṣyā ityatra kṣutpratīkārasamarthānāṃ dravyāṇāmarthādeva sarveṣāṃ bhakṣaṇe samprāpte punaḥ śruterniyamo bhavati, tadvadidaṃ draṣṭavyam / iṣṭato 'vadhāraṇārthaṃ iti cet syānmatam / iṣṭato 'vadhāraṇārthastarhi tuśabdo bhaviṣyati / kathaṃ nāma ṣoḍaśako vikāra eveti yathā vijñāyate, ṣoḍaśakastu vikāra ityevaṃ mā jñāyīti / yadyevamasthāne tarhi tuśabdaḥ paṭhitaḥ / ṣoḍaśako vikārastviti vaktavyam / atha mataṃ vṛttaparipūranārthamayamasminpradeśe paṭhitastuśabdo yatra nirdoṣastatraivāyaṃ draṣṭavya iti / etadanupapannam / kasmāt ? asandehāt / mahadādyāḥ prakṛtivikṛtayaḥ saptetyapadiṣṭe kimiti sāṃśayikā bhaviṣyāmaḥ / tasmātpelavamasya pāṭhe prayojanaṃ paśyāmaḥ / athāyamabhiprāyaḥ syāt yadyapyetadarthataḥ siddhaṃ tathāpyayamācāryaḥ sphuṭapratipattyarthamavadhāraṇaṃ pratyādriyate / kiṃ kāraṇam ? yasmāt vicitrāḥ sūtrakārāṇāmabhiprāyagatayaḥ / tadyathā bhagavān pāṇiniḥ na kye, rātsasyetyevamādiṣvantareṇa prayatnamiṣṭato 'vadhāraṇe siddhe anyatra ajādī guṇavacanādeva stautiṇyoreva ṣaṇyabhāsādityevamādiṣu yatnaṃ karoti / tadvadihāpi draṣṭavyamiti / etadanupapannam / kasmāt ? aśakyatvāt / sati vā punaravadhāraṇārthatve tuśabdasya kathamivātra śakyamavadhāraṇaṃ pratipattum ? yāvatā mahābhūtānāmapi śarīrādilakṣaṇaṃ kāryamupalabhyata iti / tatra kecit samādhimāhuḥ / śarīrādīnāmanarthāntarabhāvātpṛthivyādīnāmaprakṛtitvam / yasmāt kila pṛthivyādīnāṃ sanniveśaviśeṣamātraṃ kāryaṃ muṣṭigranthikuṇḍalādivannārthāntarabhūtam / ata eṣāmaprakṛtitvamiti / etaccānupapannam / kasmāt ? aviśeṣāt / sarvameva hi sāṃkhyānāṃ kāryamanarthāntarabhūtam / tatraitasyāṃ kalpanāyāṃ sarvatattvānāmaprakṛtitvaṃ prasajyeta / athaitadaniṣṭaṃ, satkāryavyāghātaḥ / anye punarāhuḥ- apariṇāmitvānmahābhūtānāṃ viakaritvānavadhāraṇamiti / tadapyanupapannam / kasmāt ? pratyakṣopalabdheḥ / pratyakṣata evopalabhyate mahābhūtānāṃ kalilāṅkurakṣīrādipariṇāmaḥ / anumānagrāhyastu tattvāntarāṇām / tadetadadharottaraṃ bhavati / tasmādayuktametat / āha - na tarhi idaṃ pratipattavyaṃ ṣoḍaśako vikāra eveti ? ucyate- pratipattavyam / kiṃ kāraṇam / tattvāntarānupapatteḥ / iha puruṣārthena hetunā sāmyātpracyutānāṃ guṇānāṃ yo 'yaṃ mahadādirviśeṣānto vipariṇāmaḥ sa tattvāntarotpattiniyamena vyavatiṣṭhate / na tu pṛthivyādibhyastattvāntarotpattirasti / tasmādeteṣāṃ vikāratvameveti / kiṃ cānyat / grāhakāntarābhāvāt / yathā tanmātrairārabdheṣu pṛthivyādiṣu ahaṃkārāttadyogyaṃ grāhakāntaramindriyalakṣaṇamutpadyate, naivaṃ pṛthivyādivikārāṇāṃ ghaṭādīnāṃ grāhakāntaramasti / tasmānna tattvāntaram / ataśca pṛthivyādayo vikārā eveti / kiṃ cānyat / pradhāne prakṛtibhāvapratyastamayavatteṣu vikārabhāvapratyastamayāt / yathā pradhānātsūkṣmataramavasthāntaraṃ nāstīti tatra prakṛtibhāvasya pratyastamayastathā teṣu vikārabhāvapratyastamayaḥ / tasmādyuktamucyate ṣoḍaśako 'yaṃ vikāra eveti / āha- puruṣe tarhi kā pratipattiriti ? ucyate- na prakṛtirna vikṛtiḥ puruṣaḥ

Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.

Sanskrit only: no published translation is held for this verse.

Permanent address: hreem.cc/library/ISk/3

Cite as: Yuktidipika 3, in HREEM (hreem.cc/library/ISk/3), after GRETIL, Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā Based on the ed.

Edition, numbering and licence

GRETIL 6_sastra/3_phil/samkhya/yuktdipu.htm — Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā Based on the ed. by Shiv Kumar and D.N. Bhargava (2 vols., Delhi 1990-1992) Input by Dhaval Patel BOLD for Īśvarakṛṣṇa's kārikās: " .......... // ISk_nn // " ITALICS for commentator's references to Īśvar

GRETIL (SUB Göttingen), CC BY-NC-SA 4.0 — non-commercial use with attribution; the Companion is kept free while this corpus is held. Devanagari generated mechanically from GRETIL's IAST.

More about this text