Library·Yuktidipika·7

Yuktidipika 7

ISk 7

ष्यत् । तच्चावृत्तिभूतमित्यवश्यं शेषवत्सामान्यतोदृष्टयोरर्थान्तरभावो ऽभ्युपगन्तव्यः । तस्मात् सिद्धं सामान्यतोदृष्टादतीन्द्रियाणामर्थानां समधिगमः । तस्य प्रयोगमात्रभेदाद्द्वैविध्यम् । वीतः अवीत इति । तयोर्लक्षणमामनन्ति- यदा हेतुः स्वरूपेण साध्यसिद्धौ प्रयुज्यते । स वीतो ऽर्थानराक्षेपादितरः परिशेषितः ॥ स्वरूपं हि साधनस्य द्विविधम्- साधारणमसाधारणं च । तत्र साधारणं साध्यसहभावी तत्प्रतिपत्तिहेतुत्वेन यथावदाश्रीयमाणो ऽर्थात्मा । असाधारणं पुनः परिमाणमन्वयः संघातपरार्थत्वमित्यादि । तत्र यदा हेतुः परपक्षमपेक्ष्य यथार्थेन स्वरूपेण साध्यसिद्धावुपदिश्यते तदा वीताख्यो भवति । यदा तु स्वसाध्यादर्थान्तरभूतानां प्रसंगिनां क्षेपमपोहं कृत्वा परिशेषतः साध्यसिद्धावपदिश्यते तदावीताख्यो भवति । तद्यथा न चेत् परमाणुपुरुषेश्वरकर्मदैवकालस्वभावयदृच्छाभ्यो जगदुत्पत्तिः सम्भवति परिशेषतः प्रधानादिति तदा पुनरवीताख्यो भवति । तत्र यदा वीतो हेतुः स्वबुद्धाववहितविज्ञानसरूपं विज्ञानान्तरमादधानेन वक्त्रा प्रतिपाद्यादौ वाक्यभावमुपनीयते ।वाक्यमन्तरेणार्थस्य बुद्ध्यन्तरे संक्रामयितुमशक्यत्वात्, तदावयविवाक्यं परिकल्प्यते । तस्य पुनरवयवाः जिज्ञासासंशयप्रयोजनशक्यप्राप्तिसंशयव्युदासलक्षणाश्च व्याख्याङ्गम् । प्रतिज्ञाहेतुदृष्टान्तोपसंहारनिगमनानि परप्रतिपादनाङ्गमिति । तत्र ज्ञातुमिच्छा जिज्ञासा । कश्चित् कंचिदुपसद्याह- पुरुषं ज्ञातुमिच्छामि । किमस्ति नास्तीति ? कुतः संशय इति पर्यनुयुक्तः प्रत्याह- अनुपलभ्यमानस्योभयथा दृष्टत्वात् । इहानुपलभ्यमानमुभयथा दृष्टम्- सद्भूतमसद्भूतं चेति । सद्भूतं चार्केन्दुमण्डलापरभागादि, असद्भूतं च शशविषाणादि । अयमपि चात्मा नोपलभ्यते । अतः संशयः किमस्ति नास्तीति ? किमस्याश्चिन्तायाः प्रयोजनमिति पृष्टो व्याचष्टे - शास्त्रतत्त्वाधिगमः, ततश्च मोक्षावाप्तिः । कथमिति ? यदि तावदयमात्मास्ति ततो ऽस्य अप्रकृतित्वौदासीन्यविभुत्वादिसत्त्वविज्ञानान्नैरात्म्यभ्रान्तिविपक्षभूतादपवर्गप्राप्तिरवश्यंभाविनीति यदुक्तम् व्यक्ताव्यक्तज्ञविज्ञानान्मोक्षो ऽवाप्यत इति तच्छास्त्रमर्थवद् भवतीति । अथ नास्तीति निश्चीयते तेन सामान्यतोदृष्टादनुमानात्तद्वदन्ये ऽपि पदार्था न सन्तीति विप्रलम्भभूयिष्ठमार्षं दर्शनमपहायात्मग्रहदृष्टिविगमाल्लोकोत्तर्मवलम्बनं शून्यं ध्यानविषयमुपसम्प्राप्तस्त्रैधातुकक्लेशनिरोधलक्षणमात्यन्तिकं निर्वाणमवाप्स्यतीति । शक्यश्चायमर्थो निश्चेतुम्, प्रमाणत्रयपरिग्रहादिति व्यवस्थिते, व्युदास्य संशयं साध्यावधारणं प्रतिज्ञा । साध्यस्य यदवधारणमस्ति पुरुष इति सा प्रतिज्ञा । साधनसमासवचनं हेतुः । साध्यते ऽनेनेति साधनं लिङ्गम् । समासः संक्षेपः । साधनस्य समासवचनं साधनसमासवचनम् । साधनग्रहणं तदाभासप्रतिषेधार्थम् । न हि तानि साधनं, संशयविपर्ययहेतुत्वात् । समासग्रहणमवयवान्तरावकाशप्रदानार्थम् । लिङ्गनिर्देशमात्रं हेतुः । यस्तु तस्य साध्यसहभावित्वलक्षणः प्रपञ्चः सो ऽवयवान्तराणीत्युक्तं भवति । उदाहरणन्त्वत्र निदर्शनं दृष्टान्तः । तस्य साधनस्य साध्येन सहभावित्वनिदर्शनं यदसौ दृष्टान्तः । तद्यथा संहत्यकारिणां परार्थत्वं दृष्टं, यथा शयनासनरथशरणानाम् । व्यतिरेकस्त्ववीतस्य प्रसङ्गिधर्मान्तरनिवृत्तिरूपत्वात्तदन्तर्भूत इति तदर्थं वैधर्म्यदृष्टान्त उच्यते । साध्यददृष्टान्तयोरेकक्रियोपसंहारः उपनयः । साध्यस्य चक्षुरादिपारार्थ्यलक्षणस्य, दृष्टान्तस्य च शयनादेरेकक्रियोपसंहारः । तत्रार्थान्तरभूतत्वात् साध्यदृष्टान्तयोरञ्जसा नैकक्रियोपपद्यते । तेनैव तस्यानिदर्शनादित्यतो धर्मसामान्याद्यथेदं तथेदमित्येकक्रियोपचर्यते । यथा शयनादयः संहतत्वात्परार्था एवं चक्षुरादिभिरपि परार्थैर्भवितव्यम् । यो ऽसौ परः स पुरुषः । तद्वशात्प्रतिज्ञाभ्यासो निगमनम् । हेतुदृष्टान्तोपसंहारापेक्षया यः पुनरभ्यासः तन्निगमनम् । तद्यथा- तस्मादस्ति पुरुष इत्येषामवयवानां परस्परसम्बन्धाद्विशिष्टार्थः समुदायो वाक्यमित्युपदिश्यते । वाक्यमप्यनेकं यदा गुणीभूतस्वार्थमर्थान्तरोपकारित्वादितरेण संसृज्यते तदा शास्त्रमप्येकं वाक्यमित्यवसीयते । आह- जिज्ञासाद्यनभिधानम् । तद्व्यतिरेकेणापि स्वयमर्थगतेः । स्वनिश्चयवच्च परप्रतिपादनात् । यथा हि स्वयमुत्पद्यते निश्चेतुः प्रत्ययस्तथैवान्यः प्रत्याय्य इत्येतन्न्याय्यम् । न च स्वयमेवार्थं प्रतिपद्यमानस्य जिज्ञासादीनां तत्र व्यापारः । तस्मात् परार्थमप्येषामुपादानं न कल्प्यते । संशयवचनानर्थक्यम् च, प्रतीतार्थत्वात् । निश्चितौ हि वादिप्रतिवादिनौ स्वपक्षयोः, तयोरितरेतरसंशयपर्यनुयोगे नास्ति प्रयोजनम् । किंचान्यत्- प्रयोजनशक्यप्राप्त्यवचनं च । साधनाभ्युपगमादेव तत्प्रतीतेः । न हि महतां निष्प्रयोजना प्रवृत्तिरुपपद्यते । न चाशक्ये ऽर्थे हिमवत्समीकरणादिषु प्रवृत्तेः । तस्मादनर्थकं तदभिधानम् । तद्भावे भावादिति चेत् स्यादेतत् सत्सु जिज्ञासादिषु तत्त्वाधिगमं प्रति प्रवृत्तिर्भवति, असत्सु न भवति । तस्मादेतान्यपि साधनं भविष्यन्तीति । एतच्चानुपपन्नम् । कस्मात् ? अतिप्रसंगात् । सत्स्वात्मान्तःकरणेन्द्रियालोकविषयेषु प्रवृत्तिदर्शनात्तेषामपि साधनत्वं स्यात् । अनिष्टं चैतत् । तस्माज्जिज्ञासादयो ऽनर्थकाः । प्रतिज्ञादयो दुर्विहिताः । कथम् ? साध्यावधारणस्यावयवान्तरेष्वप्युपपत्तेः । यदि साध्यावधारणं प्रतिज्ञेत्युच्यते तेन साध्यस्य हेतोर्दृष्टान्तस्य वा यदवधारणं तदपि प्रतिज्ञा प्राप्नोति, निमित्ताविशेषात् । साध्यशब्दो ह्ययं सामान्यवृत्तिः । न यत्नमन्तरेण विशेषे ऽवस्थापयितुं शक्यत इति । किं च हेतुलक्षणानुपपत्तिश्च, साधनानुपदेशात् । यो हि साधनसमासवचनं हेतुरित्येतल्लक्षणमाचष्टे तेन प्राक्साधनमभिधेयं स्यात् । ततो वक्तव्यममुष्य समासवचनं हेतुरिति न चैवमुक्तम् । तस्मादलक्षणमेतत् । किंचान्यत्, समासवचनं च विस्तरनिषेधप्रसङ्गात् । यदि हि समासग्रहणं क्रियते किं प्राप्तं यो ऽयमाध्यात्मिकानां भेदानां कार्यकारणात्मकानां चैकजातिसमन्वयो दृष्ट इत्येवमादिः साधनप्रपञ्चः सो ऽहेतुरित्युक्तं भवति । तस्मात् समासग्रहणमनिष्टम् । लिङ्गाभिधानाददोष इति चेत् स्यान्मतम्, लिङ्गं हि नः साधनम् । तस्यात्र निर्देशः कृतः । तस्मात्स्वमतिजाड्यादिदमनिष्टमध्यारोप्यते, न त्वस्मत्प्रमादादिति । एतदप्ययुक्तम् । कस्मात् ? तस्य द्विधा भिन्नस्य पञ्चधा साधनभावात् । तद्धि लिङ्गं वीतावीतत्वेनेष्टम् । तेन द्विधा भिन्नम् । तत्रापि वीतः पञ्चप्रभेदः इत्यतः समुदायान्निष्कृष्टस्यैकस्य लिङ्गत्वमशक्यं वक्तुमिति । किञ्चान्यत्, दृष्टान्तलक्षणायोगश्च, शब्दार्थलक्षणे ऽनिष्टप्रसङ्गात् । तन्निदर्शनं दृष्टान्त इति । अत्र शब्दो वा येन साध्यसाधने निदर्श्येते स दृष्टान्तः स्यात् ? अर्थो वा यत्र निदर्श्यते ? किञ्चातः ? न तद्यदि तावच्छब्दः परिगृह्यते तत उपनयलक्षणं बाध्यते । कस्मात् ? न हि यथाभिधानं तथा साध्यमित्येकक्रिया युज्यते इति । अथार्थः परिगृह्यते तेनाभिधेयस्य वाक्यानवयवत्वात्पञ्चावयवत्वविरोधः । किञ्चान्यत्- दृष्टान्तोपनयनिगमनाभेदश्च हेतुप्रतिज्ञार्थाभिधानात् । साधनत्वमेव साध्याविनाभावित्वलक्षणं दृष्टान्तोपनययोः प्रत्यायय(य्य)ते । प्रतिज्ञार्थं च निगमनस्य नावयवान्तरत्वं युज्यते । उच्यते- यदुच्यते स्वनिश्चयेनाङ्गभावगमनात्परप्रत्यायनार्थं जिज्ञासाद्यनभिधानमिति अत्र ब्रूमः- न, उक्तत्वात् । उक्तमेतत् पुरस्ताद्व्याख्याङ्गं जिज्ञासादयः । सर्वस्य चानुग्रहः कर्तव्य इत्येवमर्थं शास्त्रव्याख्यानं विपश्चिद्भिः प्रतायते, न स्वार्थं स्वसदृषबुद्ध्यर्थं वा । तत्रैवं कल्प्यमाने ये व्युत्पाद्यास्तान्प्रति नैवैषामानर्थक्यम् । अथैतदनिष्टम्- यदुक्तं सन्दिग्धविपर्यस्ताव्युत्पन्नबुद्ध्यनुग्रहार्थो हि सतां विनिश्चयः शास्त्रकथेत्यस्य व्याघातः । किं च नियमानभ्युपगमात् । न हि वयमेषामावश्यकमभिधानमाचक्ष्महे, किन्तर्हि यदा प्रतिवादी पर्यनुयुङ्क्ते- किं जिज्ञासस इति अवश्यमभिधानीयं शब्दमिति । केन धर्मेण, किं नित्यो ऽनित्य इति ? कुतः संशयः ? मूर्तत्वात् । यस्तु न पर्यनुयुङ्क्ते न तं प्रत्येते वाच्याः । क्वचिदानर्थक्यात् सर्वत्र प्रसङ्ग इति चेन्न इतरेषामपि तत्प्रसङ्गात् । प्रतिज्ञादीनामपि तर्हि क्वचिदनभिधानमतस्तेषामपि सर्वत्रावचनं प्रसज्यते । तथा च भवतोक्तं कस्यचित्तु किञ्चित् प्रसिद्धमेव भवतीत्यन्यतरोक्तिरपि साधनं भवति, शब्द इवार्थद्वयप्रतीतत्वादुभयानभिधानमिति । यदप्युक्तं निश्चितत्वात् संशयावचनमिति असदेतत् । कस्मात् ? उक्तत्वात् । उक्तमेतत् सति पर्यनुयोगे तद्वचनमिति । एतेन प्रयोजनशक्यप्राप्ती प्रत्युक्ते । यो हि पर्यनुयुञ्जीत किं प्रयोजनो ऽयं शक्यो वायमर्थ इति तं प्रति वाच्यमेतत् । यदप्युक्तं तद्भावे भावादिति- न, अनभ्युपगमात् । न ब्रूमो यस्मात् सत्सु जिज्ञासादिषु तत्त्वाधिगमसद्भावस्तस्मादेतेषामवयवत्वमिति । किन्तर्हि यं प्रत्येषां प्रतिपत्तावङ्गभावगमनं तं प्रत्येतानि साधनमिति । यदप्युक्तं साध्याभिधायिनः प्रतिज्ञाभ्युपगमाद्धेतुदृष्टान्तयोरपि तत्प्रसङ्ग इति अयुक्तमेतत् । कस्मात् ? जिज्ञासादेः सद्भावे सति तत्प्रतीतेः । यद्यपि साध्यशब्दो ऽयमविशेषेण सिद्धत्वादर्थान्तरमाचष्टे तथापि यं प्रति जिज्ञासासंशयप्रयोजनशक्यप्राप्तयस्तस्य व्युदस्य संशयं साध्यस्यावधारणं प्रतिज्ञा, न हेतुदृष्टान्तयोस्तदस्तीत्यसदेतत् । किंचान्यत् तद्भावे ऽविरोधात् । यदा तु जिज्ञासादयो हेतौ दृष्टान्ते वा भवन्ति तदा किं कृतकः शब्दो ऽथ न कृतको ऽथ बुद्धिर्नित्या क्षणिका वेति भवत्येव तदवधारणं प्रतिज्ञा । यदप्युक्तम् साधनानुपदेशाद्धेतुलक्षणायोग इति असदेतत् । कस्मात् ? लोकप्रसिद्धत्वात् । यथा साध्यवत्वेनेप्सितः पक्ष इति प्रतिज्ञालक्षणमाचक्षाणो भवान्न साध्यलक्षणमाचष्टे, कस्मात् ? साधनीयं साध्यमिति लोके सिद्धत्वात्, एवं साधनसमासवचनं हेतुलक्षणमाचक्षाणा वयं न साधनमाचक्ष्महे । कस्मात् ? साध्यते ऽनेनेति कृत्वा साधनमिति लोके सिद्धत्वात् । उपेत्य वानुमाननिर्देशात् । लिङ्गं हि नः साधनं, तच्च निर्दिष्टैमिति । यत्तूक्तं वीतावीतभेदे सति पञ्चधा साधनभावादिति, अत्र ब्रूमः, अयुक्तमेतत् । कस्मात् ? समासग्रहणसामर्थ्यात् । अतएव समासग्रहणं क्रियते, साधनस्वरूपाभिधानमात्रं हेतुरिति यथा विज्ञायते । प्रपञ्चस्त्ववयवान्तराणीति । एतेन विस्तरप्रतिषेधप्रसङ्गः प्रयुक्तः । कथम् ? न हि समासशब्दस्यायमर्थ इति कृत्वा । यत्पुनरेतदुक्तं शब्दार्थकल्पने ऽनिष्टप्रसङ्गाद् दृष्टान्तलक्षणायोग इति, अस्तु तावच्छब्दो दृष्टान्तः । यत्तूक्तं उपनयलक्षणं बाध्यत इति अनुपपन्नमेतत् । कस्मात् ? असम्भवे सति सम्बन्ध्यन्तरे कार्यविज्ञानात् । शब्दे ऽसम्भवादर्थे कार्यं विज्ञास्यामः । अथवा पुनरस्त्वर्थो दृष्टान्तः । यत्तूक्तमभिधेयस्य वाक्यानवयवत्वात्पञ्चावयवत्वविरोध इति अर्थे ऽसम्भवाच्छब्दे कार्यं विज्ञास्यामः । यदप्युक्तम् प्रतिज्ञाहेत्वर्थाभिधानाद् दृष्टान्तोपनयनिगमनानां नावयवान्तरत्वमिति अयमदोषः । कस्मात् ? अप्रतिज्ञानात् । न ह्येतदस्माभिः प्रतिज्ञायते । किं तर्हि प्रमेयवचनं प्रतिज्ञा । प्रमाणरूपमात्रवचनं हेतुः । तस्य प्रमेयसहभावित्वनिदर्शनं दृष्टान्तः । साध्यदृष्टान्तयोर्धर्मसामान्यादेकक्रियोपसंहार उपनयः । समुदायस्य साध्यसिद्धये व्यापारनिर्देशो निगमनम् । तस्मादयुक्तमेतत् । किंचान्यत् । एकस्य साधनभावपरिकल्पनावत्तत्परिकल्पने दोषाभावात् । यथा वाक्यम् एवं च तदर्थश्च मुख्यौ शब्दार्थौ, तयोरभिन्नार्थत्वादित्यभ्युपगमादेकमेवार्थमभागमक्रमं च बुद्धाववस्थाप्य श्रोत्रग्राह्यत्वानित्यत्वकृतकत्वप्रमेयत्वादिलक्षणानां शक्तीनामपोद्धारात्साध्यसाधनसंशयरूपापन्नं वक्तारो भिन्नमाचक्षते, न चैकार्थधर्मत्वात्साध्यसाधनसंशयाभिधानानामेकत्वमनुषज्यते । तथैकस्य साधनस्य साध्यधर्मतत्सहभावित्वलक्षणानां शक्तीनामभिधानं हेतुदृष्टान्तादिनावयवान्तरं नः स्यात् । तत्र यदुक्तं प्रतिज्ञाहेत्वर्थाभिधानाद् दृष्टान्तोपनयनिगमनानां नावयवान्तरत्वमिति एतदयुक्तम् । तस्मात्सूक्तं दशावयवो वीतः । तस्य पुरस्तात्प्रयोगं न्याय्यमाचार्या मन्यन्ते । किं कारणम् ? अवीतलक्षणाविरोधात् । अवीतस्य हि लक्षणं परिशेषतः साध्यानुग्रहः । तत्रान्वयदिना स्वरूपेणाधिगते प्रधानलक्षणे धर्मिणि परपक्षप्रतिषेधमात्रेणोपसंहारे क्रियमाणे परिशेषलक्षणं बाध्यते । कस्मात् ? इह प्रतिषेधमात्रमादावुच्यते । तेन यथा हेतुविरोधात्परमाण्वदिभ्यो न व्यक्तमुत्पद्यते तथा हेत्वभावात् प्रधानादपि नोत्पद्यते इति शक्यं कल्पयितुम् । अतस्तद्व्यवच्छेदो ऽपि चावीताद्गम्यते । तथा सति कः परिशेषः स्यात् ? स्वरूपेण तु परिच्छिन्ने धर्मिणि उपसंहारो यथावदवकल्प्यते । न चेत्परमाण्वादिभ्यो व्यक्तमुत्पद्यते परिशेषतः प्रधानादेव व्यक्तमुत्पद्यते इति यथोक्तेभ्यो ऽन्वयादिभ्य इत्युक्तं भवति । तस्मात्प्राग्वीतप्रयोग इति सिद्धं सामान्यतोदृष्टादनुमानादतीन्द्रियाणामर्थानां समधिगम इति । आह- न, कारणान्तरतो ऽनुपलभ्यमानानामग्रहणात् । यदि सामान्यतोदृष्टादनुमानात्सर्वं परोक्षमधिगम्यते इत्यभ्युपगम्यते प्राप्तमिदं येषामप्यर्थानां कारणान्तरतो ऽनुपलब्धिस्तेषामपि तस्मादेव ग्रहणम् । तद्यथा- अतिदूरात्सामीप्यादिन्द्रियघातान्मनो ऽनवस्थानात् । सौक्ष्म्याद्व्यवधानादभिभवात्समानाभिहाराच्च

ṣyat / taccāvṛttibhūtamityavaśyaṃ śeṣavatsāmānyatodṛṣṭayorarthāntarabhāvo 'bhyupagantavyaḥ / tasmāt siddhaṃ sāmānyatodṛṣṭādatīndriyāṇāmarthānāṃ samadhigamaḥ / tasya prayogamātrabhedāddvaividhyam / vītaḥ avīta iti / tayorlakṣaṇamāmananti- yadā hetuḥ svarūpeṇa sādhyasiddhau prayujyate / sa vīto 'rthānarākṣepāditaraḥ pariśeṣitaḥ // svarūpaṃ hi sādhanasya dvividham- sādhāraṇamasādhāraṇaṃ ca / tatra sādhāraṇaṃ sādhyasahabhāvī tatpratipattihetutvena yathāvadāśrīyamāṇo 'rthātmā / asādhāraṇaṃ punaḥ parimāṇamanvayaḥ saṃghātaparārthatvamityādi / tatra yadā hetuḥ parapakṣamapekṣya yathārthena svarūpeṇa sādhyasiddhāvupadiśyate tadā vītākhyo bhavati / yadā tu svasādhyādarthāntarabhūtānāṃ prasaṃgināṃ kṣepamapohaṃ kṛtvā pariśeṣataḥ sādhyasiddhāvapadiśyate tadāvītākhyo bhavati / tadyathā na cet paramāṇupuruṣeśvarakarmadaivakālasvabhāvayadṛcchābhyo jagadutpattiḥ sambhavati pariśeṣataḥ pradhānāditi tadā punaravītākhyo bhavati / tatra yadā vīto hetuḥ svabuddhāvavahitavijñānasarūpaṃ vijñānāntaramādadhānena vaktrā pratipādyādau vākyabhāvamupanīyate /vākyamantareṇārthasya buddhyantare saṃkrāmayitumaśakyatvāt, tadāvayavivākyaṃ parikalpyate / tasya punaravayavāḥ jijñāsāsaṃśayaprayojanaśakyaprāptisaṃśayavyudāsalakṣaṇāśca vyākhyāṅgam / pratijñāhetudṛṣṭāntopasaṃhāranigamanāni parapratipādanāṅgamiti / tatra jñātumicchā jijñāsā / kaścit kaṃcidupasadyāha- puruṣaṃ jñātumicchāmi / kimasti nāstīti ? kutaḥ saṃśaya iti paryanuyuktaḥ pratyāha- anupalabhyamānasyobhayathā dṛṣṭatvāt / ihānupalabhyamānamubhayathā dṛṣṭam- sadbhūtamasadbhūtaṃ ceti / sadbhūtaṃ cārkendumaṇḍalāparabhāgādi, asadbhūtaṃ ca śaśaviṣāṇādi / ayamapi cātmā nopalabhyate / ataḥ saṃśayaḥ kimasti nāstīti ? kimasyāścintāyāḥ prayojanamiti pṛṣṭo vyācaṣṭe - śāstratattvādhigamaḥ, tataśca mokṣāvāptiḥ / kathamiti ? yadi tāvadayamātmāsti tato 'sya aprakṛtitvaudāsīnyavibhutvādisattvavijñānānnairātmyabhrāntivipakṣabhūtādapavargaprāptiravaśyaṃbhāvinīti yaduktam vyaktāvyaktajñavijñānānmokṣo 'vāpyata iti tacchāstramarthavad bhavatīti / atha nāstīti niścīyate tena sāmānyatodṛṣṭādanumānāttadvadanye 'pi padārthā na santīti vipralambhabhūyiṣṭhamārṣaṃ darśanamapahāyātmagrahadṛṣṭivigamāllokottarmavalambanaṃ śūnyaṃ dhyānaviṣayamupasamprāptastraidhātukakleśanirodhalakṣaṇamātyantikaṃ nirvāṇamavāpsyatīti / śakyaścāyamartho niścetum, pramāṇatrayaparigrahāditi vyavasthite, vyudāsya saṃśayaṃ sādhyāvadhāraṇaṃ pratijñā / sādhyasya yadavadhāraṇamasti puruṣa iti sā pratijñā / sādhanasamāsavacanaṃ hetuḥ / sādhyate 'neneti sādhanaṃ liṅgam / samāsaḥ saṃkṣepaḥ / sādhanasya samāsavacanaṃ sādhanasamāsavacanam / sādhanagrahaṇaṃ tadābhāsapratiṣedhārtham / na hi tāni sādhanaṃ, saṃśayaviparyayahetutvāt / samāsagrahaṇamavayavāntarāvakāśapradānārtham / liṅganirdeśamātraṃ hetuḥ / yastu tasya sādhyasahabhāvitvalakṣaṇaḥ prapañcaḥ so 'vayavāntarāṇītyuktaṃ bhavati / udāharaṇantvatra nidarśanaṃ dṛṣṭāntaḥ / tasya sādhanasya sādhyena sahabhāvitvanidarśanaṃ yadasau dṛṣṭāntaḥ / tadyathā saṃhatyakāriṇāṃ parārthatvaṃ dṛṣṭaṃ, yathā śayanāsanarathaśaraṇānām / vyatirekastvavītasya prasaṅgidharmāntaranivṛttirūpatvāttadantarbhūta iti tadarthaṃ vaidharmyadṛṣṭānta ucyate / sādhyadadṛṣṭāntayorekakriyopasaṃhāraḥ upanayaḥ / sādhyasya cakṣurādipārārthyalakṣaṇasya, dṛṣṭāntasya ca śayanāderekakriyopasaṃhāraḥ / tatrārthāntarabhūtatvāt sādhyadṛṣṭāntayorañjasā naikakriyopapadyate / tenaiva tasyānidarśanādityato dharmasāmānyādyathedaṃ tathedamityekakriyopacaryate / yathā śayanādayaḥ saṃhatatvātparārthā evaṃ cakṣurādibhirapi parārthairbhavitavyam / yo 'sau paraḥ sa puruṣaḥ / tadvaśātpratijñābhyāso nigamanam / hetudṛṣṭāntopasaṃhārāpekṣayā yaḥ punarabhyāsaḥ tannigamanam / tadyathā- tasmādasti puruṣa ityeṣāmavayavānāṃ parasparasambandhādviśiṣṭārthaḥ samudāyo vākyamityupadiśyate / vākyamapyanekaṃ yadā guṇībhūtasvārthamarthāntaropakāritvāditareṇa saṃsṛjyate tadā śāstramapyekaṃ vākyamityavasīyate / āha- jijñāsādyanabhidhānam / tadvyatirekeṇāpi svayamarthagateḥ / svaniścayavacca parapratipādanāt / yathā hi svayamutpadyate niścetuḥ pratyayastathaivānyaḥ pratyāyya ityetannyāyyam / na ca svayamevārthaṃ pratipadyamānasya jijñāsādīnāṃ tatra vyāpāraḥ / tasmāt parārthamapyeṣāmupādānaṃ na kalpyate / saṃśayavacanānarthakyam ca, pratītārthatvāt / niścitau hi vādiprativādinau svapakṣayoḥ, tayoritaretarasaṃśayaparyanuyoge nāsti prayojanam / kiṃcānyat- prayojanaśakyaprāptyavacanaṃ ca / sādhanābhyupagamādeva tatpratīteḥ / na hi mahatāṃ niṣprayojanā pravṛttirupapadyate / na cāśakye 'rthe himavatsamīkaraṇādiṣu pravṛtteḥ / tasmādanarthakaṃ tadabhidhānam / tadbhāve bhāvāditi cet syādetat satsu jijñāsādiṣu tattvādhigamaṃ prati pravṛttirbhavati, asatsu na bhavati / tasmādetānyapi sādhanaṃ bhaviṣyantīti / etaccānupapannam / kasmāt ? atiprasaṃgāt / satsvātmāntaḥkaraṇendriyālokaviṣayeṣu pravṛttidarśanātteṣāmapi sādhanatvaṃ syāt / aniṣṭaṃ caitat / tasmājjijñāsādayo 'narthakāḥ / pratijñādayo durvihitāḥ / katham ? sādhyāvadhāraṇasyāvayavāntareṣvapyupapatteḥ / yadi sādhyāvadhāraṇaṃ pratijñetyucyate tena sādhyasya hetordṛṣṭāntasya vā yadavadhāraṇaṃ tadapi pratijñā prāpnoti, nimittāviśeṣāt / sādhyaśabdo hyayaṃ sāmānyavṛttiḥ / na yatnamantareṇa viśeṣe 'vasthāpayituṃ śakyata iti / kiṃ ca hetulakṣaṇānupapattiśca, sādhanānupadeśāt / yo hi sādhanasamāsavacanaṃ heturityetallakṣaṇamācaṣṭe tena prāksādhanamabhidheyaṃ syāt / tato vaktavyamamuṣya samāsavacanaṃ heturiti na caivamuktam / tasmādalakṣaṇametat / kiṃcānyat, samāsavacanaṃ ca vistaraniṣedhaprasaṅgāt / yadi hi samāsagrahaṇaṃ kriyate kiṃ prāptaṃ yo 'yamādhyātmikānāṃ bhedānāṃ kāryakāraṇātmakānāṃ caikajātisamanvayo dṛṣṭa ityevamādiḥ sādhanaprapañcaḥ so 'heturityuktaṃ bhavati / tasmāt samāsagrahaṇamaniṣṭam / liṅgābhidhānādadoṣa iti cet syānmatam, liṅgaṃ hi naḥ sādhanam / tasyātra nirdeśaḥ kṛtaḥ / tasmātsvamatijāḍyādidamaniṣṭamadhyāropyate, na tvasmatpramādāditi / etadapyayuktam / kasmāt ? tasya dvidhā bhinnasya pañcadhā sādhanabhāvāt / taddhi liṅgaṃ vītāvītatveneṣṭam / tena dvidhā bhinnam / tatrāpi vītaḥ pañcaprabhedaḥ ityataḥ samudāyānniṣkṛṣṭasyaikasya liṅgatvamaśakyaṃ vaktumiti / kiñcānyat, dṛṣṭāntalakṣaṇāyogaśca, śabdārthalakṣaṇe 'niṣṭaprasaṅgāt / tannidarśanaṃ dṛṣṭānta iti / atra śabdo vā yena sādhyasādhane nidarśyete sa dṛṣṭāntaḥ syāt ? artho vā yatra nidarśyate ? kiñcātaḥ ? na tadyadi tāvacchabdaḥ parigṛhyate tata upanayalakṣaṇaṃ bādhyate / kasmāt ? na hi yathābhidhānaṃ tathā sādhyamityekakriyā yujyate iti / athārthaḥ parigṛhyate tenābhidheyasya vākyānavayavatvātpañcāvayavatvavirodhaḥ / kiñcānyat- dṛṣṭāntopanayanigamanābhedaśca hetupratijñārthābhidhānāt / sādhanatvameva sādhyāvinābhāvitvalakṣaṇaṃ dṛṣṭāntopanayayoḥ pratyāyaya(yya)te / pratijñārthaṃ ca nigamanasya nāvayavāntaratvaṃ yujyate / ucyate- yaducyate svaniścayenāṅgabhāvagamanātparapratyāyanārthaṃ jijñāsādyanabhidhānamiti atra brūmaḥ- na, uktatvāt / uktametat purastādvyākhyāṅgaṃ jijñāsādayaḥ / sarvasya cānugrahaḥ kartavya ityevamarthaṃ śāstravyākhyānaṃ vipaścidbhiḥ pratāyate, na svārthaṃ svasadṛṣabuddhyarthaṃ vā / tatraivaṃ kalpyamāne ye vyutpādyāstānprati naivaiṣāmānarthakyam / athaitadaniṣṭam- yaduktaṃ sandigdhaviparyastāvyutpannabuddhyanugrahārtho hi satāṃ viniścayaḥ śāstrakathetyasya vyāghātaḥ / kiṃ ca niyamānabhyupagamāt / na hi vayameṣāmāvaśyakamabhidhānamācakṣmahe, kintarhi yadā prativādī paryanuyuṅkte- kiṃ jijñāsasa iti avaśyamabhidhānīyaṃ śabdamiti / kena dharmeṇa, kiṃ nityo 'nitya iti ? kutaḥ saṃśayaḥ ? mūrtatvāt / yastu na paryanuyuṅkte na taṃ pratyete vācyāḥ / kvacidānarthakyāt sarvatra prasaṅga iti cenna itareṣāmapi tatprasaṅgāt / pratijñādīnāmapi tarhi kvacidanabhidhānamatasteṣāmapi sarvatrāvacanaṃ prasajyate / tathā ca bhavatoktaṃ kasyacittu kiñcit prasiddhameva bhavatītyanyataroktirapi sādhanaṃ bhavati, śabda ivārthadvayapratītatvādubhayānabhidhānamiti / yadapyuktaṃ niścitatvāt saṃśayāvacanamiti asadetat / kasmāt ? uktatvāt / uktametat sati paryanuyoge tadvacanamiti / etena prayojanaśakyaprāptī pratyukte / yo hi paryanuyuñjīta kiṃ prayojano 'yaṃ śakyo vāyamartha iti taṃ prati vācyametat / yadapyuktaṃ tadbhāve bhāvāditi- na, anabhyupagamāt / na brūmo yasmāt satsu jijñāsādiṣu tattvādhigamasadbhāvastasmādeteṣāmavayavatvamiti / kintarhi yaṃ pratyeṣāṃ pratipattāvaṅgabhāvagamanaṃ taṃ pratyetāni sādhanamiti / yadapyuktaṃ sādhyābhidhāyinaḥ pratijñābhyupagamāddhetudṛṣṭāntayorapi tatprasaṅga iti ayuktametat / kasmāt ? jijñāsādeḥ sadbhāve sati tatpratīteḥ / yadyapi sādhyaśabdo 'yamaviśeṣeṇa siddhatvādarthāntaramācaṣṭe tathāpi yaṃ prati jijñāsāsaṃśayaprayojanaśakyaprāptayastasya vyudasya saṃśayaṃ sādhyasyāvadhāraṇaṃ pratijñā, na hetudṛṣṭāntayostadastītyasadetat / kiṃcānyat tadbhāve 'virodhāt / yadā tu jijñāsādayo hetau dṛṣṭānte vā bhavanti tadā kiṃ kṛtakaḥ śabdo 'tha na kṛtako 'tha buddhirnityā kṣaṇikā veti bhavatyeva tadavadhāraṇaṃ pratijñā / yadapyuktam sādhanānupadeśāddhetulakṣaṇāyoga iti asadetat / kasmāt ? lokaprasiddhatvāt / yathā sādhyavatvenepsitaḥ pakṣa iti pratijñālakṣaṇamācakṣāṇo bhavānna sādhyalakṣaṇamācaṣṭe, kasmāt ? sādhanīyaṃ sādhyamiti loke siddhatvāt, evaṃ sādhanasamāsavacanaṃ hetulakṣaṇamācakṣāṇā vayaṃ na sādhanamācakṣmahe / kasmāt ? sādhyate 'neneti kṛtvā sādhanamiti loke siddhatvāt / upetya vānumānanirdeśāt / liṅgaṃ hi naḥ sādhanaṃ, tacca nirdiṣṭaimiti / yattūktaṃ vītāvītabhede sati pañcadhā sādhanabhāvāditi, atra brūmaḥ, ayuktametat / kasmāt ? samāsagrahaṇasāmarthyāt / ataeva samāsagrahaṇaṃ kriyate, sādhanasvarūpābhidhānamātraṃ heturiti yathā vijñāyate / prapañcastvavayavāntarāṇīti / etena vistarapratiṣedhaprasaṅgaḥ prayuktaḥ / katham ? na hi samāsaśabdasyāyamartha iti kṛtvā / yatpunaretaduktaṃ śabdārthakalpane 'niṣṭaprasaṅgād dṛṣṭāntalakṣaṇāyoga iti, astu tāvacchabdo dṛṣṭāntaḥ / yattūktaṃ upanayalakṣaṇaṃ bādhyata iti anupapannametat / kasmāt ? asambhave sati sambandhyantare kāryavijñānāt / śabde 'sambhavādarthe kāryaṃ vijñāsyāmaḥ / athavā punarastvartho dṛṣṭāntaḥ / yattūktamabhidheyasya vākyānavayavatvātpañcāvayavatvavirodha iti arthe 'sambhavācchabde kāryaṃ vijñāsyāmaḥ / yadapyuktam pratijñāhetvarthābhidhānād dṛṣṭāntopanayanigamanānāṃ nāvayavāntaratvamiti ayamadoṣaḥ / kasmāt ? apratijñānāt / na hyetadasmābhiḥ pratijñāyate / kiṃ tarhi prameyavacanaṃ pratijñā / pramāṇarūpamātravacanaṃ hetuḥ / tasya prameyasahabhāvitvanidarśanaṃ dṛṣṭāntaḥ / sādhyadṛṣṭāntayordharmasāmānyādekakriyopasaṃhāra upanayaḥ / samudāyasya sādhyasiddhaye vyāpāranirdeśo nigamanam / tasmādayuktametat / kiṃcānyat / ekasya sādhanabhāvaparikalpanāvattatparikalpane doṣābhāvāt / yathā vākyam evaṃ ca tadarthaśca mukhyau śabdārthau, tayorabhinnārthatvādityabhyupagamādekamevārthamabhāgamakramaṃ ca buddhāvavasthāpya śrotragrāhyatvānityatvakṛtakatvaprameyatvādilakṣaṇānāṃ śaktīnāmapoddhārātsādhyasādhanasaṃśayarūpāpannaṃ vaktāro bhinnamācakṣate, na caikārthadharmatvātsādhyasādhanasaṃśayābhidhānānāmekatvamanuṣajyate / tathaikasya sādhanasya sādhyadharmatatsahabhāvitvalakṣaṇānāṃ śaktīnāmabhidhānaṃ hetudṛṣṭāntādināvayavāntaraṃ naḥ syāt / tatra yaduktaṃ pratijñāhetvarthābhidhānād dṛṣṭāntopanayanigamanānāṃ nāvayavāntaratvamiti etadayuktam / tasmātsūktaṃ daśāvayavo vītaḥ / tasya purastātprayogaṃ nyāyyamācāryā manyante / kiṃ kāraṇam ? avītalakṣaṇāvirodhāt / avītasya hi lakṣaṇaṃ pariśeṣataḥ sādhyānugrahaḥ / tatrānvayadinā svarūpeṇādhigate pradhānalakṣaṇe dharmiṇi parapakṣapratiṣedhamātreṇopasaṃhāre kriyamāṇe pariśeṣalakṣaṇaṃ bādhyate / kasmāt ? iha pratiṣedhamātramādāvucyate / tena yathā hetuvirodhātparamāṇvadibhyo na vyaktamutpadyate tathā hetvabhāvāt pradhānādapi notpadyate iti śakyaṃ kalpayitum / atastadvyavacchedo 'pi cāvītādgamyate / tathā sati kaḥ pariśeṣaḥ syāt ? svarūpeṇa tu paricchinne dharmiṇi upasaṃhāro yathāvadavakalpyate / na cetparamāṇvādibhyo vyaktamutpadyate pariśeṣataḥ pradhānādeva vyaktamutpadyate iti yathoktebhyo 'nvayādibhya ityuktaṃ bhavati / tasmātprāgvītaprayoga iti siddhaṃ sāmānyatodṛṣṭādanumānādatīndriyāṇāmarthānāṃ samadhigama iti / āha- na, kāraṇāntarato 'nupalabhyamānānāmagrahaṇāt / yadi sāmānyatodṛṣṭādanumānātsarvaṃ parokṣamadhigamyate ityabhyupagamyate prāptamidaṃ yeṣāmapyarthānāṃ kāraṇāntarato 'nupalabdhisteṣāmapi tasmādeva grahaṇam / tadyathā- atidūrātsāmīpyādindriyaghātānmano 'navasthānāt / saukṣmyādvyavadhānādabhibhavātsamānābhihārācca

Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.

Sanskrit only: no published translation is held for this verse.

Permanent address: hreem.cc/library/ISk/7

Cite as: Yuktidipika 7, in HREEM (hreem.cc/library/ISk/7), after GRETIL, Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā Based on the ed.

Edition, numbering and licence

GRETIL 6_sastra/3_phil/samkhya/yuktdipu.htm — Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā Based on the ed. by Shiv Kumar and D.N. Bhargava (2 vols., Delhi 1990-1992) Input by Dhaval Patel BOLD for Īśvarakṛṣṇa's kārikās: " .......... // ISk_nn // " ITALICS for commentator's references to Īśvar

GRETIL (SUB Göttingen), CC BY-NC-SA 4.0 — non-commercial use with attribution; the Companion is kept free while this corpus is held. Devanagari generated mechanically from GRETIL's IAST.

More about this text