तस्मादपि चासिद्धमित्यनेनागमविषये सामान्यतोदृष्टस्यानवतारमाचष्टे । परोक्षमिति विषयं प्रति निर्दिशति । आप्तागमात्साध्यमिति विषयिणमाह । एतदुक्तं भवति- तस्मादपि सामान्यतोदृष्टादनुमानाद्यन्न सिद्ध्यति प्रत्यक्षग्राह्यमपि स्वयमदृष्टं कारणान्तरप्रतिबद्धविषयभावमत्यन्तपरोक्षं वा स्वर्गापवर्गदेवतादि धर्मसामान्यरहितं तदाप्तागमात्साध्यम् । सर्ववादसिद्धिप्रसङ्गादप्रामाण्यमिति चेत् स्यादेतत्, यदि तर्ह्यागमः प्रमाणीक्रियते तेन प्रतिशास्त्रं ये ऽभियुक्तास्तेषां प्रामाण्यमित्यवश्यमभ्युपगन्तव्यम् । एवं सति सर्वाचार्यप्रामाण्यादनेकविकल्पविचित्रा तर्कवृत्तिरित्यपरिनिश्चितत्वाद्भ्रान्तिः प्रसज्येत । तथा च सति जिज्ञासूनामपवर्गप्राप्तिविघातः स्यात् । तस्माद्भिषजेव भवता परोपदेशः प्रयुक्तो नास्मानयं प्रीणाति । एतच्चायुक्तम् । कस्मात् ? आप्तलक्षणस्यानवधारितत्वात् । व्यपगतरागादिदोषाणामसन्दिग्धमतीनामतीन्द्रियार्थदृश्वनामीश्वरमहर्षीणामाप्तत्वमाचक्ष्महे, न सर्वेषाम् । यदि चान्यो ऽप्येवंधर्मो ऽस्ति भवतु प्रमाणम् । किंचान्यत् । स्वविषये च तत्प्रामाण्यस्यादोषवत्त्वात् । यस्य खल्वपि यो विषयस्तस्य तस्मिन्विषये वचो ऽन्तरेणापि साधनं प्रमाणमित्यवश्यमभ्युपगन्तव्यम् । इतरथा प्रतिशास्त्रमाचारस्थितिनियमानामदृष्टार्थानामप्रतिपत्तिः स्यात् । एतेनाखिललिङ्गादागमो ऽर्थान्तरम् । यस्मान्महताभिधानेन युक्तिरन्विष्यते तस्माद्युक्त्यपेक्षाल्लिङ्गादागमो ऽर्थान्तरमिति । आह न, अन्वयव्यतिरेकाभ्यामधिगमहेतुत्वात् । यथा कृतकत्वादिधर्मो ऽनित्यत्वादौ विषये दृष्टस्तदभावे चादृष्ट इत्यनित्ये ऽर्थे निश्चयमादधाति एवं शब्दो ऽपि स्वार्थे तज्जातीये न दृष्टः प्रतिपत्तिहेतुर्भवति । तस्मादनुमानादभिन्न एवायमिति । उच्यते- चन्द्रादिष्विदानीमसाधारणविषयेषु का प्रतिपत्तिः स्यादिति ? आह- अवयवापेक्षत्वाच्चन्द्रशब्दो ह्यनेकेषु वचनेषु वर्तते, जातिद्रव्यगुणक्रियासु च, तथा डित्थादिशब्दः, तस्मादेवंजातीयकानामपि चानुमानादभेदः । उच्यते- स्वर्गादीनां तर्हि कथमनुमानत्वमिति ? आह- आप्तवचो ऽविसंवादसामर्थ्यात् । यथा हैरण्यकप्रभृतीनामाप्तानां वाक्यमव्यभिचारि एवमीश्वरमहर्षयो ऽपि चाप्ताः । तस्मादेषामपि वाक्यमव्यभिचारीति शक्यमत्रापि सामान्यविषयत्वं कल्पयितुम् । एवमनुमानमेवागम इति । उच्यते- यदुक्तमन्वयव्यतिरेकाभ्यामधिगमहेतुत्वाच्छब्दो ऽनुमानमिति अत्र ब्रूमः न, अप्रतिज्ञानात् । न हि वयं व्यवहारानुपातिनां वृक्षादीनामागमत्वमाचक्ष्महे, किं तर्हि स्वर्गादीनामत्यन्तपरोक्षविषयाणाम् । तस्मादप्रतिज्ञानादनुपालम्भो ऽयमिति । उपेत्य वा वक्त्रपेक्षत्वात् । अथवोपेत्यापि सर्वशब्दानामागमत्वमनुमानादर्थान्तरभावं ब्रूमः । तथा हि कृतकत्वादिति लिङ्गं चण्डालकापालिकैरपि प्रयुज्यमानं साहचर्यापेक्षं निश्चयमादधाति । न वक्तृविशेषमपेक्षते । वक्तृविशेषापेक्षस्तु शब्दः । तस्मान्न लिङ्गम् । किं चान्यत् विपर्ययात् । न हि लिङ्गं देशान्तरे विपर्येति । शब्दस्य तु दृष्टो विपर्ययः । स एव हि शब्दो देशान्तरे, कालान्तरे तु स्वार्थं न प्रत्याययति अर्थान्तरं च प्रशंसति । सम्बन्धानुपलब्धेरिति चेत् स्यादेतत्, सम्बन्धान्तरं देशान्तरे ऽनुपलक्षितम् । तस्माच्छब्दार्थविपर्यय इति । एतदनुपपन्नम् । लिङ्गवैधर्म्यात् । न हि प्रत्यक्षाभिमतस्य लिङ्गिन उपलब्धौ गवादेर्लिङ्गं नोपलभ्यते । शब्दस्तूपलभ्यमानो गवादौ नोपलभ्यते । तस्मान्न लिङ्गम् । किंचान्यत् । देशनियमात् । न हि लिङ्गस्य देशनियमो दृष्टः । अस्ति तु शब्दस्य देशनियमः । तद्यथा शवतिर्गतिकर्मा काम्बोजेष्वेव भाष्यते । रंहतिः प्राच्येषु, तथा दातिर्लवनार्थः, दात्रमुदीच्येषु नान्यत्र । तस्मान्न शब्दो लिङ्गम् । किंचान्यत्, इष्टतो विनियोगात् । स्वाभाविकं लिङ्गम् । न हि धूमोग्नेरपकृष्य शक्यते ऽप्सु वायावाकाशे ऽन्यत्र वा निवेशयितुम् । शब्दस्तु यत्र वक्तुरभिप्रायस्तत्र तत्र विनिवेश्यते । यथ वृद्ध्यादयः शब्दाः स्वार्थाभ्युच्चयादिषु प्रसिद्धा आदैक्षु विनिवेश्यन्ते । तस्मान्न ते लिङ्गम् । सर्वाभिधानशक्तित्वाच्छब्दस्यादोष इति चेत् स्यान्मतं सर्वाभिधानशक्तिः शब्दः सर्वाभिधेयशक्तिश्चार्थस्तयोः पुरुषव्यापारेण शक्त्यववच्छेदः क्रियते । कथम् ? अयमेव शब्दो ऽस्यार्थस्य प्रत्यायको भवतु । अयमेव चार्थो ऽनेन शब्देनाभिधीयताम् । एतावति पुरुषव्यापारः । तस्माच्छब्दस्य स्वाभाविकः सम्बन्धो वक्त्रपेक्षया व्यज्यत इति । एतदप्यन्युपपन्नम् । कस्मात् ? सुतरामनुमानादर्थान्तरत्वप्रसंगात् । एवमपि कल्पयित्वानुमानात्सुतरां शब्दस्यार्थान्तरत्वमापद्यते । कस्मात् ? न हि यथा वक्रपेक्षया सर्वार्थस्य सतः शब्दस्य शक्त्यवच्छेदस्तथा सर्वार्थं लिङ्गं वक्त्रपेक्षयार्थान्तरादवच्छिद्यते । यथा चैकः शब्दो जगत्येवमुदितः पुरुषविनियोगापेक्षः सर्वमर्थमभिधातुं समर्थस्तथैकं लिङ्गं कयाचिद्युक्त्या सर्वार्थप्रत्यायनसमर्थम् । तस्मान्न शब्दो लिङ्गम् । यत्पुनरेतदुक्तम् चन्द्रादीनामवयवापेक्षं सामान्यमभ्युपगम्यते । तदयुक्तम् । असाधारणत्वात् । अनुमानाभावे शब्दप्रसिद्धो ऽर्थ इति व्याघातः । किं चान्यत् । जात्यादिसाध्यत्वात् जातिगुणद्रव्यक्रियाणां च परस्परतो ऽर्थान्तरत्वं, समुदायश्च साध्यः । तस्मादयुक्तमेषां तदपेक्षया सामान्यविषयत्वम् । यदप्युक्तमाप्तवादाविसंवादसामान्यात्स्वर्गादिशब्दानामनुमानत्वमिति, अत्र ब्रूमः- एतदप्यनुपपन्नम् । कस्मात् ? प्रमाणविषयत्वात् । सत्यमस्त्येषां सामान्यपरिकल्पना, सा तु प्रमाणविषया न तु प्रमेयविषया । प्रमेयं तु सामान्यमनुमानमस्येत्ययमभ्युपगमो वः । तच्चासाधारणत्वात्स्वर्गादीनां प्रतिषिद्धम् । तस्मात्त्यज्यतामियमाशङ्कानुमानमेवागम इति । अन्यः पुनरनुमानागमयोरभेदप्रतिज्ञ इदमाह । स्वर्गादयः शब्दा न प्रमाणम् । कस्मात् ? प्रमाणान्तरेण तदर्थानुपलब्धेः । यस्य हि शब्दस्यार्थः प्रत्यक्षतो ऽनुमानतो वा नोपलभ्यते स न प्रमाणम् । इतरस्तु प्रमाणम् । तद्यथा नद्यास्तीरे पक्वमाम्रवनं, पथि गुडशकटं विपर्यस्तमिति । न च स्वर्गादिशब्दानामर्थः प्रमाणान्तरेणोपलभ्यते । तस्माद्यथा विभुरात्मा सर्वत्र सुखादिसम्भवादित्येवमादयो बौद्धं प्रति धर्म्यसिद्धत्वादयो यथार्थास्तथा वेदशब्दा अपि प्रायेणेति । एतत्तु न युक्तरूपम् । कस्मात् ? अन्यायेन सर्वशब्दापवादात् । का ह्यत्र युक्तिर्यदस्मदादिभिरनुपलभ्यमानार्थं प्रमाणभूतानामपि वाक्यमयथार्थं स्यात् ? सवेण चावश्यं कश्चिदाप्तस्तस्य च वाक्यमदृष्टार्थमित्यभ्युपगन्तव्यम् । अतो ऽयं तवात्रापि समानः प्रसंगः । न च प्रमाणं स्वार्थसिद्धये प्रमाणान्तरमपेक्षते । तत्र यदि शब्दस्य प्रमाणान्तरापेक्षं यथार्थत्वमाश्रीयते तेन न केवलं स्वर्गादयः किं तर्हि शब्दा एवाप्रमाणमिति प्राप्तम् । अनुमानस्य च प्रमाणान्तरनिरपेक्षस्य गमकत्वाभ्युपगमादागमस्य ततो ऽर्थान्तरत्वं सुतरां प्रसज्यते । तस्माद्युक्तागमविरोधिन एवंविधा नास्तिकवादाः श्रेयो ऽर्थिभिर्दूरादपोह्या इति स्थितमेतत्- अनुमानादसिद्धं वस्तु यत्तदाप्तागमात्साध्यमिति । एवमस्य त्रिविधस्य प्रमाणस्यैन्द्रियिकं कारणान्तरतो ऽनुपलभ्यमानं च प्रमेयं व्याख्यातम् । एतस्मात्तु यदन्यत्तदसदिति प्रत्यवगन्तव्यम् ॥ ६-७ ॥ ---------------------------------------------------------------------- कारिका ८ ---------------------------------------------------------------------- आह, यद्येवं प्रधानस्यासत्त्वप्रसङ्गः । अनुपलब्दौ कारणान्तरत्वानुपलब्धेः । तद्धि प्रत्यक्षाविषयत्वे सत्यतिदूरादिभिरनुपलब्धिकारणैर्नोपलभ्यते । तन्न तावत् अतिदूरात्सामीप्याद्व्यवधानाच्चास्याग्रहणम् । कस्मात् ? विभुत्वात् । नेन्द्रियघातात्, अविकलेन्द्रियैरग्रहणात् । न मनो ऽनवस्थानात्, अवस्थितमनोभिरग्रहणात् । न सौक्ष्म्यात्, शशविषाणादीनां सत्त्वप्रसङ्गात् । नाभिभवात्, असम्भवात् । न समानाभिहारादेकत्वात् । तस्मात् कारणान्तराभावतो ऽनुपलभ्यमानस्यासत्त्वमिच्छतः प्रधानस्यापि शशविषाणादीनामपि सत्त्वप्रसङ्गः । अथैतन्नेष्यते कारणान्तरं तर्ह्यनुपलब्धौ वक्तव्यमिति । उच्यते- यत्तावदुक्तं अनुपलब्धौ कारणान्तरानुपपत्तेः प्रधानस्यासत्त्वप्रसङ्ग इति, अत्रास्तु । सौक्ष्म्यात् तदनुपलब्धिर्नाभावात् । यत्तूक्तं शशविषाणादीनामपि सत्त्वप्रसङ्ग इति तदयुक्तम् । कस्मात् ? साधनोपपत्तेः । अस्ति हि प्रधानस्य सौक्ष्म्यात्तदनुपलब्धौ साधनं, न शशविषाणादीनाम् । किं तत् ? उच्यते कार्यतस्तदुपलब्धिः । प्रधानस्य हि कार्यत उपलब्धिरित्येतदुपरिष्टात्प्रतिपादयिष्यामः । न तु शशविषाणादीनां कार्यमस्ति । तस्माद्विषमो ऽयमुपन्यासः । आह- एवमपि प्रतिज्ञान्तरानर्थक्यम्, एकेन कृतत्वात् । सौक्ष्म्यात्तदनुपलब्धिरित्युक्ते गम्यत एतन्नाभावादिति । तस्मात्तद्वचनमनर्थकमिति । उच्यते- न, वीतावीतपरिग्रहार्थत्वात् । एवं सिद्धे यत्प्रतिज्ञाद्वयं करोति तत् ज्ञापयत्याचार्यः वीतावीताभ्यामभिप्रेतार्थसिद्धिः । प्राक्च सौक्ष्म्यातिशयात्तदनुपलब्धिरित्याचक्षाणः प्रतिपादयति पुरस्ताद्वीतः प्रयोक्तव्यव इति । एकस्मिंश्च विषये द्वौ प्रयुंजानः समुच्चयेन सिद्धिं द्योतयति । किं सिद्धं भवति ? यदुक्तं तन्त्रान्तरीयैः न पृथक्प्रतिपत्तिहेतू वीतावीताविति तदिष्टमेवं संगृहीतं भवति । तत्र वीतस्य प्रतिज्ञा सौक्ष्म्यात्तदनुपलब्धिः । तस्य चावीतस्य प्रसङ्गिधर्मान्तरनिवृत्तिरूपेण, नाभावात् हेतुरुभययोगी । कथम् ? यस्य प्रत्यक्षतो ऽनुपलभ्यमानस्य कार्यस्तदुपलब्धिस्तस्य सौक्ष्म्यात्तदनुपलब्धिर्दृष्टा । तद्यथेन्द्रियाणि । यदि पुनरस्याभावादनुपलब्धिस्स्यात्, कार्यतो ऽनुपलब्धिप्रसङ्गः । अस्ति चेयं कार्यत उपलब्धिः । तस्मान्नाभावात् । न चेदभावात्, परिशेषतः सौक्ष्म्यात् तदनुपलब्धिरिति ॥ आह, किं पुनस्तत्कार्यं यद्भवान्प्रधानस्यास्तित्वे लिङ्गमाचष्ट इति ? उच्यते- महदादि तच्च कार्यं प्रकृतिविरूपं सरूपं च
tasmādapi cāsiddhamityanenāgamaviṣaye sāmānyatodṛṣṭasyānavatāramācaṣṭe / parokṣamiti viṣayaṃ prati nirdiśati / āptāgamātsādhyamiti viṣayiṇamāha / etaduktaṃ bhavati- tasmādapi sāmānyatodṛṣṭādanumānādyanna siddhyati pratyakṣagrāhyamapi svayamadṛṣṭaṃ kāraṇāntarapratibaddhaviṣayabhāvamatyantaparokṣaṃ vā svargāpavargadevatādi dharmasāmānyarahitaṃ tadāptāgamātsādhyam / sarvavādasiddhiprasaṅgādaprāmāṇyamiti cet syādetat, yadi tarhyāgamaḥ pramāṇīkriyate tena pratiśāstraṃ ye 'bhiyuktāsteṣāṃ prāmāṇyamityavaśyamabhyupagantavyam / evaṃ sati sarvācāryaprāmāṇyādanekavikalpavicitrā tarkavṛttirityapariniścitatvādbhrāntiḥ prasajyeta / tathā ca sati jijñāsūnāmapavargaprāptivighātaḥ syāt / tasmādbhiṣajeva bhavatā paropadeśaḥ prayukto nāsmānayaṃ prīṇāti / etaccāyuktam / kasmāt ? āptalakṣaṇasyānavadhāritatvāt / vyapagatarāgādidoṣāṇāmasandigdhamatīnāmatīndriyārthadṛśvanāmīśvaramaharṣīṇāmāptatvamācakṣmahe, na sarveṣām / yadi cānyo 'pyevaṃdharmo 'sti bhavatu pramāṇam / kiṃcānyat / svaviṣaye ca tatprāmāṇyasyādoṣavattvāt / yasya khalvapi yo viṣayastasya tasminviṣaye vaco 'ntareṇāpi sādhanaṃ pramāṇamityavaśyamabhyupagantavyam / itarathā pratiśāstramācārasthitiniyamānāmadṛṣṭārthānāmapratipattiḥ syāt / etenākhilaliṅgādāgamo 'rthāntaram / yasmānmahatābhidhānena yuktiranviṣyate tasmādyuktyapekṣālliṅgādāgamo 'rthāntaramiti / āha na, anvayavyatirekābhyāmadhigamahetutvāt / yathā kṛtakatvādidharmo 'nityatvādau viṣaye dṛṣṭastadabhāve cādṛṣṭa ityanitye 'rthe niścayamādadhāti evaṃ śabdo 'pi svārthe tajjātīye na dṛṣṭaḥ pratipattiheturbhavati / tasmādanumānādabhinna evāyamiti / ucyate- candrādiṣvidānīmasādhāraṇaviṣayeṣu kā pratipattiḥ syāditi ? āha- avayavāpekṣatvāccandraśabdo hyanekeṣu vacaneṣu vartate, jātidravyaguṇakriyāsu ca, tathā ḍitthādiśabdaḥ, tasmādevaṃjātīyakānāmapi cānumānādabhedaḥ / ucyate- svargādīnāṃ tarhi kathamanumānatvamiti ? āha- āptavaco 'visaṃvādasāmarthyāt / yathā hairaṇyakaprabhṛtīnāmāptānāṃ vākyamavyabhicāri evamīśvaramaharṣayo 'pi cāptāḥ / tasmādeṣāmapi vākyamavyabhicārīti śakyamatrāpi sāmānyaviṣayatvaṃ kalpayitum / evamanumānamevāgama iti / ucyate- yaduktamanvayavyatirekābhyāmadhigamahetutvācchabdo 'numānamiti atra brūmaḥ na, apratijñānāt / na hi vayaṃ vyavahārānupātināṃ vṛkṣādīnāmāgamatvamācakṣmahe, kiṃ tarhi svargādīnāmatyantaparokṣaviṣayāṇām / tasmādapratijñānādanupālambho 'yamiti / upetya vā vaktrapekṣatvāt / athavopetyāpi sarvaśabdānāmāgamatvamanumānādarthāntarabhāvaṃ brūmaḥ / tathā hi kṛtakatvāditi liṅgaṃ caṇḍālakāpālikairapi prayujyamānaṃ sāhacaryāpekṣaṃ niścayamādadhāti / na vaktṛviśeṣamapekṣate / vaktṛviśeṣāpekṣastu śabdaḥ / tasmānna liṅgam / kiṃ cānyat viparyayāt / na hi liṅgaṃ deśāntare viparyeti / śabdasya tu dṛṣṭo viparyayaḥ / sa eva hi śabdo deśāntare, kālāntare tu svārthaṃ na pratyāyayati arthāntaraṃ ca praśaṃsati / sambandhānupalabdheriti cet syādetat, sambandhāntaraṃ deśāntare 'nupalakṣitam / tasmācchabdārthaviparyaya iti / etadanupapannam / liṅgavaidharmyāt / na hi pratyakṣābhimatasya liṅgina upalabdhau gavāderliṅgaṃ nopalabhyate / śabdastūpalabhyamāno gavādau nopalabhyate / tasmānna liṅgam / kiṃcānyat / deśaniyamāt / na hi liṅgasya deśaniyamo dṛṣṭaḥ / asti tu śabdasya deśaniyamaḥ / tadyathā śavatirgatikarmā kāmbojeṣveva bhāṣyate / raṃhatiḥ prācyeṣu, tathā dātirlavanārthaḥ, dātramudīcyeṣu nānyatra / tasmānna śabdo liṅgam / kiṃcānyat, iṣṭato viniyogāt / svābhāvikaṃ liṅgam / na hi dhūmognerapakṛṣya śakyate 'psu vāyāvākāśe 'nyatra vā niveśayitum / śabdastu yatra vakturabhiprāyastatra tatra viniveśyate / yatha vṛddhyādayaḥ śabdāḥ svārthābhyuccayādiṣu prasiddhā ādaikṣu viniveśyante / tasmānna te liṅgam / sarvābhidhānaśaktitvācchabdasyādoṣa iti cet syānmataṃ sarvābhidhānaśaktiḥ śabdaḥ sarvābhidheyaśaktiścārthastayoḥ puruṣavyāpāreṇa śaktyavavacchedaḥ kriyate / katham ? ayameva śabdo 'syārthasya pratyāyako bhavatu / ayameva cārtho 'nena śabdenābhidhīyatām / etāvati puruṣavyāpāraḥ / tasmācchabdasya svābhāvikaḥ sambandho vaktrapekṣayā vyajyata iti / etadapyanyupapannam / kasmāt ? sutarāmanumānādarthāntaratvaprasaṃgāt / evamapi kalpayitvānumānātsutarāṃ śabdasyārthāntaratvamāpadyate / kasmāt ? na hi yathā vakrapekṣayā sarvārthasya sataḥ śabdasya śaktyavacchedastathā sarvārthaṃ liṅgaṃ vaktrapekṣayārthāntarādavacchidyate / yathā caikaḥ śabdo jagatyevamuditaḥ puruṣaviniyogāpekṣaḥ sarvamarthamabhidhātuṃ samarthastathaikaṃ liṅgaṃ kayācidyuktyā sarvārthapratyāyanasamartham / tasmānna śabdo liṅgam / yatpunaretaduktam candrādīnāmavayavāpekṣaṃ sāmānyamabhyupagamyate / tadayuktam / asādhāraṇatvāt / anumānābhāve śabdaprasiddho 'rtha iti vyāghātaḥ / kiṃ cānyat / jātyādisādhyatvāt jātiguṇadravyakriyāṇāṃ ca parasparato 'rthāntaratvaṃ, samudāyaśca sādhyaḥ / tasmādayuktameṣāṃ tadapekṣayā sāmānyaviṣayatvam / yadapyuktamāptavādāvisaṃvādasāmānyātsvargādiśabdānāmanumānatvamiti, atra brūmaḥ- etadapyanupapannam / kasmāt ? pramāṇaviṣayatvāt / satyamastyeṣāṃ sāmānyaparikalpanā, sā tu pramāṇaviṣayā na tu prameyaviṣayā / prameyaṃ tu sāmānyamanumānamasyetyayamabhyupagamo vaḥ / taccāsādhāraṇatvātsvargādīnāṃ pratiṣiddham / tasmāttyajyatāmiyamāśaṅkānumānamevāgama iti / anyaḥ punaranumānāgamayorabhedapratijña idamāha / svargādayaḥ śabdā na pramāṇam / kasmāt ? pramāṇāntareṇa tadarthānupalabdheḥ / yasya hi śabdasyārthaḥ pratyakṣato 'numānato vā nopalabhyate sa na pramāṇam / itarastu pramāṇam / tadyathā nadyāstīre pakvamāmravanaṃ, pathi guḍaśakaṭaṃ viparyastamiti / na ca svargādiśabdānāmarthaḥ pramāṇāntareṇopalabhyate / tasmādyathā vibhurātmā sarvatra sukhādisambhavādityevamādayo bauddhaṃ prati dharmyasiddhatvādayo yathārthāstathā vedaśabdā api prāyeṇeti / etattu na yuktarūpam / kasmāt ? anyāyena sarvaśabdāpavādāt / kā hyatra yuktiryadasmadādibhiranupalabhyamānārthaṃ pramāṇabhūtānāmapi vākyamayathārthaṃ syāt ? saveṇa cāvaśyaṃ kaścidāptastasya ca vākyamadṛṣṭārthamityabhyupagantavyam / ato 'yaṃ tavātrāpi samānaḥ prasaṃgaḥ / na ca pramāṇaṃ svārthasiddhaye pramāṇāntaramapekṣate / tatra yadi śabdasya pramāṇāntarāpekṣaṃ yathārthatvamāśrīyate tena na kevalaṃ svargādayaḥ kiṃ tarhi śabdā evāpramāṇamiti prāptam / anumānasya ca pramāṇāntaranirapekṣasya gamakatvābhyupagamādāgamasya tato 'rthāntaratvaṃ sutarāṃ prasajyate / tasmādyuktāgamavirodhina evaṃvidhā nāstikavādāḥ śreyo 'rthibhirdūrādapohyā iti sthitametat- anumānādasiddhaṃ vastu yattadāptāgamātsādhyamiti / evamasya trividhasya pramāṇasyaindriyikaṃ kāraṇāntarato 'nupalabhyamānaṃ ca prameyaṃ vyākhyātam / etasmāttu yadanyattadasaditi pratyavagantavyam // 6-7 // ---------------------------------------------------------------------- kārikā 8 ---------------------------------------------------------------------- āha, yadyevaṃ pradhānasyāsattvaprasaṅgaḥ / anupalabdau kāraṇāntaratvānupalabdheḥ / taddhi pratyakṣāviṣayatve satyatidūrādibhiranupalabdhikāraṇairnopalabhyate / tanna tāvat atidūrātsāmīpyādvyavadhānāccāsyāgrahaṇam / kasmāt ? vibhutvāt / nendriyaghātāt, avikalendriyairagrahaṇāt / na mano 'navasthānāt, avasthitamanobhiragrahaṇāt / na saukṣmyāt, śaśaviṣāṇādīnāṃ sattvaprasaṅgāt / nābhibhavāt, asambhavāt / na samānābhihārādekatvāt / tasmāt kāraṇāntarābhāvato 'nupalabhyamānasyāsattvamicchataḥ pradhānasyāpi śaśaviṣāṇādīnāmapi sattvaprasaṅgaḥ / athaitanneṣyate kāraṇāntaraṃ tarhyanupalabdhau vaktavyamiti / ucyate- yattāvaduktaṃ anupalabdhau kāraṇāntarānupapatteḥ pradhānasyāsattvaprasaṅga iti, atrāstu / saukṣmyāt tadanupalabdhirnābhāvāt / yattūktaṃ śaśaviṣāṇādīnāmapi sattvaprasaṅga iti tadayuktam / kasmāt ? sādhanopapatteḥ / asti hi pradhānasya saukṣmyāttadanupalabdhau sādhanaṃ, na śaśaviṣāṇādīnām / kiṃ tat ? ucyate kāryatastadupalabdhiḥ / pradhānasya hi kāryata upalabdhirityetadupariṣṭātpratipādayiṣyāmaḥ / na tu śaśaviṣāṇādīnāṃ kāryamasti / tasmādviṣamo 'yamupanyāsaḥ / āha- evamapi pratijñāntarānarthakyam, ekena kṛtatvāt / saukṣmyāttadanupalabdhirityukte gamyata etannābhāvāditi / tasmāttadvacanamanarthakamiti / ucyate- na, vītāvītaparigrahārthatvāt / evaṃ siddhe yatpratijñādvayaṃ karoti tat jñāpayatyācāryaḥ vītāvītābhyāmabhipretārthasiddhiḥ / prākca saukṣmyātiśayāttadanupalabdhirityācakṣāṇaḥ pratipādayati purastādvītaḥ prayoktavyava iti / ekasmiṃśca viṣaye dvau prayuṃjānaḥ samuccayena siddhiṃ dyotayati / kiṃ siddhaṃ bhavati ? yaduktaṃ tantrāntarīyaiḥ na pṛthakpratipattihetū vītāvītāviti tadiṣṭamevaṃ saṃgṛhītaṃ bhavati / tatra vītasya pratijñā saukṣmyāttadanupalabdhiḥ / tasya cāvītasya prasaṅgidharmāntaranivṛttirūpeṇa, nābhāvāt heturubhayayogī / katham ? yasya pratyakṣato 'nupalabhyamānasya kāryastadupalabdhistasya saukṣmyāttadanupalabdhirdṛṣṭā / tadyathendriyāṇi / yadi punarasyābhāvādanupalabdhissyāt, kāryato 'nupalabdhiprasaṅgaḥ / asti ceyaṃ kāryata upalabdhiḥ / tasmānnābhāvāt / na cedabhāvāt, pariśeṣataḥ saukṣmyāt tadanupalabdhiriti // āha, kiṃ punastatkāryaṃ yadbhavānpradhānasyāstitve liṅgamācaṣṭa iti ? ucyate- mahadādi tacca kāryaṃ prakṛtivirūpaṃ sarūpaṃ ca
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.