अरम् । अर्थान्तरावस्थाने ऽर्थान्तरोत्पत्तिविनाशदर्शनादन्यत्वमिति चेत् स्यादेतत् - विद्यमानेषु तन्तुषु पटो न भवति संयोगलक्षणस्य कारणान्तरस्यानुत्पत्तेः । संयोगोत्तरकालं तु भवति । कारणसामग्र्या विधमानेष्वेव च तन्तुषु विनाशमुपयाति । विभागादर्थान्तरावस्थाने चार्थान्तरोत्पत्तिविनाशौ दृष्टौ । तद्यथा हिमवदवस्थाने दवाग्नेः । तस्मादर्थान्तरं पटस्तन्तुभ्य इति । एतदप्ययुक्तम् । कस्मात् ? साध्यत्वात् । साध्यं तावदेतत्- किमत्रार्थान्तरमुत्पद्यते विनश्यति वा ? आहोस्वित्तन्तुष्वेव समवस्थानविशेषापेक्षस्य पटाभिधानस्य प्रवृतिनिवृत्ती सेनावनवद्भवतः ? तस्मादेतदपि नावयविनो द्रव्यान्तरभावे लिङ्गम् । तत्पुरुषबहुव्रीहिद्वन्द्वसमासोपपत्तेरन्य इति चेत् स्यान्मतम्, इहार्थान्तरत्वे सति तत्पुरुषो दृष्टः । तद्यथा राज्ञः पुरुषो राजपुरुष इति । बहुव्रीहिश्च चित्रगुः शबलगुः । द्वन्द्वश्च प्लक्षन्यग्रोधाविति । अस्ति चेहापि तत्पुरुषस्तन्तूनां पटः । बहुव्रीहिश्च दृढतन्तुः शुक्लतन्तुः । द्वन्द्वश्च तन्तुपटाविति । तस्माच्चावयव्यर्थान्तरम् । एतच्चायुक्तम् । कस्मात् ? अनेकान्तात् । अनन्यत्वे ऽपि हि तत्पुरुषो दृष्टः । तद्यथा सेनागजः काननवृक्ष इति । बहुव्रीहिश्च वीरपुरुषा मत्तगजा सेना इति । द्वन्द्वस्तु यदि स्यात्सत्यमेवार्थान्तरमवयवी स्यात् । न तु कश्चित्पटावस्थायामेवं प्रयुङ्क्ते- तन्तुपटावानयेति । तस्मान्मनोरथमात्रमेतत् । एतेन समाख्यासामर्थ्यभेदाः प्रयुक्ताः । ते चापि चानर्थानत्वे सति सेनादिषु दृष्टाः । तस्मान्नावयवी द्रव्यान्तरम् । द्रव्यान्तरभूतस्यावयविनो निष्पत्तिप्रतिज्ञानात्, न सन्निवेशविशेषमात्रत्वात् सत्कार्यमित्येतदयुक्तम् । यत्पुनरेतदुक्तमनुपलब्धेरसत्कार्यमिति, अत्र ब्रूमः । एतदप्ययुक्तम् । कस्मात् ? संशयकारणत्वात् । स च सद्विषयानुपलब्धिः । इत्येतस्मादेव हेतोस्सांशयिका वयम् । तामेव तु निश्चयार्थमवलम्बमानो न युक्तिमार्गमनुयाति । यत् पुनरेतदुक्तं कारणान्तरानभिधानादिति- एतदप्यनुपपन्नम् । कस्मात् ? अभिप्रायानवबोधात् । यो हि यथा कुण्डे बदराण्यर्थान्तरभूतान्याहितानि तथा कारणे कार्यमस्तीत्येतदाचष्टे तं प्रत्ययमुपालम्भः स्यात् । वयन्तु अनेकशक्तधर्मिणः सहकारिशक्त्यन्तरानुगृहीतस्य पूर्वस्याश्शक्तेस्तिरोभावमुत्तरस्याश्चाविर्भावमुपादधानाः कारणमेव कार्यमित्यनुमन्यामहे । तयोस्तु शक्त्योर्युगपदग्रहणम् । इतरेतरप्रतिबन्धहेतुत्वात् । वस्त्रस्यायामविस्तारवत्, कूर्माङ्गमिव द्रष्टव्यम् । यथा वस्त्रस्योपसंहारप्रतिबन्धादायामविस्तारौ न ग्रहणविषयतां प्रतिपद्येते, सत्तां वा न जिहीतः कूर्मस्येवाङ्गानि, तथ तन्त्वादीनामपि भावानां कारणाभिमता कार्याभिमता चावस्था क्रमेण वा स्थिरश्च भवत् तन्निमित्तस्तद्ग्रहणाग्रहणविकल्पः । एतेन कारणग्रहणं प्रत्युक्तम् । यदप्युक्तं प्रमाणान्तरनिवृत्तिप्रसङ्गादिति सत्यमेतत् । यत्तूक्तं क्रियागुणव्यपदेशासम्भवादनुमानाभाव इति तदनुपपन्नम् । कस्मात् ? पृथक्त्वानभ्युपगमात् । कार्यकारणपृथक्त्ववादिनस्तत्क्रियागुणानां पृथक्त्वमनुमातुं युक्तमित्यतस्तन्त्ववस्थाने पटक्रियागुणग्रहणादनुमानाभाव इत्ययमुपालम्भः सावकाशः स्यात् । अस्माकन्तु कारणमात्रस्यैव संघातादाकारान्तरपरिग्रहाद्वा क्रियागुणानां प्रचितिर्व्यक्तिविशेषो भवतीति ब्रुवतामदोषः । व्यपदेशस्तु कार्यकारणपर्यायः । सो ऽयुक्तः । कस्मात् ? अनेकान्तात् । द्रव्यगुणत्वकर्मत्वादीनां क्रियागुणकार्यकारणभावो ऽथ च सत्यमिष्यते ऽथ लिङ्गपर्यायः । न तर्हि वयं पर्यनुयोज्या व्यपदेशाभावादसत्कार्यमिति । किं कारणम् ? प्रकरणात् । विप्रतिपत्तौ हि सत्यां लिङ्गतः प्रागुत्पत्तेः कार्यस्य समधिगमं करिष्याम इति प्रकृतमेवैतत् । अनैकान्तिकत्वं च समानम् । निष्पत्त्यनन्तरं द्रव्यस्यास्तित्वाभ्युपगमादगुणवतो द्रव्यस्य गुणारम्भः । कर्मगुणा अगुणा इति वचनादुत्पन्नमात्रं द्रव्यं निष्क्रियं निर्गुणमवतिष्ठते इति वः पक्षः । न चास्य तथाभूतस्य लिङ्गमस्ति । अथ चास्तित्वं भवद्भिरभ्युपगम्यते । सिद्धेर्ग्रहणात्सद्भाव इति चेन्न । सर्वविवादसिद्धिप्रसङ्गात् । दृष्टान्तविरुद्धमर्थं प्रतिज्ञाय प्रतिषिध्यमानेन सिद्धबुद्धिविषयता स्मर्तव्येत्येतस्यां कल्पनायां सर्वविवादसिद्धिप्रसंगः स्यात् । किं चान्यत् । प्रतिपक्षे समानत्वात् । अस्मत्पक्षे ऽपि तर्हि भगवत्पञ्चशिखादीनां प्रत्यक्षत्वात्सत्कार्यमभ्युपगन्तव्यम् । तस्मान्न क्रियागुणव्यपदेशासम्भवादसत्कार्यम् । यत्पुनरेतदुक्तं- कर्तृप्रयाससाफल्यादसत्कार्यमिति, अत्र ब्रूमः- एतदप्ययुक्तम् । कस्मात् ? असदकरणात् यद्युभयपक्षप्रसिद्धस्यासतः क्रियायोगः स्यात् अत एतद्युज्यते वक्तुम् कार्ये सति कर्तुः प्रयासो ऽनर्थक इति । तत्त्वसतः करणमनुपपन्नम् । तस्मादयुक्तमेतत् । हेत्वभिधानादसिद्धिरिति चेत् स्यादेतत्- यथा निष्पन्नत्वान्मध्वादीनां धारणसमर्थो घटो न क्रियत इत्ययमपदिष्टो हेतुरस्माभिः एवमित्थं कार्यस्यासतः कारणं नोपपन्नमिति नोक्तं भवता । तस्मादसिद्धिरिति । एतच्चानुपपन्नम् । कस्मात् ? सत्यसति वा सम्बन्धे दोषप्रसङ्गात् । तद्धि क्रियमाणं सति वा सम्बन्धे कारकैः क्रियते ऽसति वा ? सम्बन्धश्चास्य भवन्प्रवृत्तिकाले वा कारणानां स्यात्, निष्पत्तिकाले वा ? किं चातः ? तन्न तावत्प्रवृत्तिकाले सम्बन्धो युक्तः । कस्मात् ? अद्रव्यत्वात् । प्रवृत्तिकाले कर्त्रादीनां क्रियागुणव्यपदेशाभावादवस्तुभूतं शशविषाणस्थानीयं वः कार्यम् । न चास्ति तथाभूतस्य वस्तुभूतेन सम्बन्धः । अथ निष्पत्तिकाले ऽभिसम्बध्यते यदुक्तं सतो निष्पन्नत्वात्क्रियानुत्पत्तिरिति तस्य व्याघातः । अथ मतमसत्यपि सम्बन्धे निष्पत्तिर्भवतीति तेन कारकव्यापारवैयर्थ्यप्रसंगः । प्रागपि च कारकोपादानात्कार्यनिष्पत्तिप्रसङ्ग इति । उक्तं च असत्त्वान्नास्ति सम्बन्धः कारकैः सत्त्वसंगिभिः । असम्बन्धस्य चोत्पत्तिमिच्छतो न व्यवस्थितिः ॥ इति । आह, ननु च मध्यमे काले कर्त्रादिभिः कार्यं क्रियते । कः पुनरसौ मध्यमः काल इति ? आह- आरम्भाय प्रसृता यस्मिन्काले भवन्ति कर्त्तारः । कार्यस्यानिष्पादात्तं मध्यमं कालमिच्छन्ति ॥ इति । यदा हेतवः प्रवृत्तारम्भा भवन्त्युद्दिश्य कार्यं न च तावन्नैमित्तिकस्यात्मलाभः संवर्तते स मध्यमः कालः । तस्मिन्क्रियते कारकैः कार्यमिति । उच्यते, न, अवस्थान्तरानुपत्तेः । प्राङ्निष्पत्तेरसत्ता । निष्पन्नस्य सत्तेत्यवस्थाद्वयम् । सदसद्रूपा चावस्था नास्ति यो मध्यमः स्यात् । अतो न युक्तमेतदिति । किंचान्यत् । पूर्वदोषापरिहारादुद्दिश्य कार्यं तस्यात्मनो लाभात्मकेन सह सम्बन्ध इति ? अत्राप्ययं पर्यनुयोगो नैव निवर्तत इति । तस्माच्चित्रमपि वाक्यं प्रसार्य न किंचित्परिहृतं भवता । तस्माद्युक्तमेतत् सत्यसति वा सम्बन्धे दोषप्रसंगादसन्न क्रियत इति । यस्य पुनः सत्कार्यं तस्य दोषो नास्ति । कस्मात् ? उपादानग्रहणात् उपादानमिति कारणं तन्त्वाद्याचक्ष्महे । तद्धि तस्य कारकैर्गृह्यते अभिसम्बध्यत इत्यर्थः । तस्माच्च नार्थान्तरं कार्यम् इत्यतः कारणेनाभिसम्बद्धानां कारकाणां कार्येणैव सम्बन्धो भवतीत्यदोषः । आह- ननु च यस्यापि सत्कार्यं तस्योपादानादर्थान्तरं तत्कार्यं स्यात् । कस्मात् ? कार्यार्थिरुपादानात् । यद्यदर्थमुपादीयते तत्तस्मादर्थान्तर यथा वेमादिभ्यः पटः । तन्तवश्च पटादिभिरुपादीयन्ते । तस्मात्तेभ्यो ऽप्यर्थान्तरं पट इति । एतेन सत्त्वं प्रयुक्तम् । यद्यदर्थमुपादीयते तत्तस्मिन्नसत् । यथा वेमादिषु पट इति । उच्यते, न अवयविप्रतिषेधात् । प्रतिषिद्धस्तावदवयवी द्रव्यान्तरभूतस्तस्मादनुपपन्नार्थमेतत् । किं चान्यत् । सर्वसम्भवाभावात् उपादानसामान्याद्वेमादिवदर्थान्तरं पटस्तन्तुभ्य इति ब्रूवतो ऽर्थान्तरत्वसामान्यात्तन्तुवत्सर्वस्मात्कारणात्कार्यस्य सम्भवः स्यात् । न त्वेवमस्ति । तस्मात्सर्वसम्भवाभावादसम्यगेतत् । किंचान्यत्, जातिभेदप्रसंगादर्थान्तरारम्भप्रसङ्गाच्च उपादानसामान्याद्वेमादिवदर्थान्तरं पटस्तन्तुभ्य इति ब्रूवतो यथा वेमादिभ्यो भिन्नजातीयो भिन्नदेशश्च, तथा तन्तुभ्यः पटः स्यात् यथा चावस्थिते पटे वेमादयः पटान्तरं कुर्वन्ति तथा ह्यवस्थिते पटे तन्तवो ऽपि पटान्तरमारभेरन् । न चैतदिष्टम् । न तर्ह्युपादानसामान्याद्वेमादिवत्तन्तुभ्यः पटस्यार्थान्तरत्वम् । यत्पुनरेतदुक्तं यद्यदर्थमुपादीयते न तत् तत्रास्तीति, अत्र ब्रूमः- अयुक्तमेतत् । कस्मात् ? आधाराधेयभावानभ्युपगमात् । असकृदुक्तमस्माभिर्न तन्तुषु पटो नाम कश्चिदस्ति । किं तर्हि तन्तव एव पटः । तत्तु सन्मार्गविद्वेषाद्भवता न गृह्यते । किं चान्यत् । अनेकान्तात् । उपेत्य वा ब्रूमः कथं तावत्तिलास्तैलार्थमुपादीयन्ते, भवति चात्र तैलम् । मृद्वीका रसार्थमुपादीयते, भवति चास्यां रसः । गोधुक्च पयो ऽर्थं गामादत्ते, भवति च तस्यां क्षीरम् । शालिकलापश्च तण्डुलार्थमुपादीयते, सन्ति चात्र तण्डुला इत्यनैकान्तिको हेतुः । आह- आवरणोपलब्धेरयुक्तम् । तिलादिष्वावरणं प्रत्यक्षत उपलभ्यते । तत्प्रतिबन्धात्तैलादीनामग्रहणम् । व्यापारश्च कर्तुस्तद्विगमार्थो न तु कार्यस्यावरणमस्ति । तस्माद्विषमो दृष्टान्तः । उच्यते न, मार्गान्तरत्वात् । यद्यत्रास्ति तत्र तदर्थमुपादीयते इति पूर्वं भवतातिसृष्टम् । इदानीं त्ववगमविगमार्थं सतो ऽप्युपादानमिति ब्रूवतो मार्गान्तरगमनं पूर्ववादत्यागो ऽनैकान्तिकस्य चापरिहार इति । यत्पुनरेतदुक्तं परिणामाद्युपपत्तेरदोष इति तथा तदस्तु । यत्तूक्तं मार्गान्तरानुपपत्तेरिति अत्र ब्रूमः- एतदप्ययुक्तम् । कस्मात् ? परिणामधर्मानवबोधात् । सतो धर्मान्तरस्य निरोधमसतश्चोत्पत्तिं परिणाममभिदधतो व्यक्तमयमुपालम्भः स्यात् । न त्वनयानुसृत्या प्रतिष्ठामहे । किं तर्हि साधनानुगृहीतस्य धर्मिणो धर्मान्तरस्याविर्भावः पूर्वस्य च तिरोभावः परिणामः । न चाविर्भावतिरोभावावुत्पत्तिनिरोधौ । व्यूहसंश्लेषव्यक्तिप्रचयास्तु किमसतो धर्मा उत स्वतो ऽसन्त इति विचार्यम् । किं चातः । यदि तावदसतो धर्माः यथा कस्येति वाच्यम् । अथ स्वयमसन्तः पश्चाद्भवन्ति तदप्ययुक्तम् । कस्मात् ? अनर्थान्तरत्वात् । सत्यर्थान्तरभावे प्रागसन्तः पश्चादुपलभ्यमानाः सत्कार्यवादं निराकुर्युः । स चैषामर्थान्तरभावो न प्रसिद्धः । तस्मात्किमत्रोपपन्नम् ? ग्रहणाग्रहणविकल्पे चोक्तः परिहारः । किं चान्यत् । द्रव्यान्तरोत्पत्तिव्याघातात् । उपेत्य वैषामुत्पत्तिं ब्रूमः- यदि हि परिणामव्यूहसंश्लेषव्यक्तिप्रचयमात्रं कार्यमिष्यते यदुक्तं द्रव्याणि द्रव्यान्तरमारभन्त इति तस्य व्याघातः । कस्मात् ? न ह्येते भावा द्रव्यान्तरम् । तस्माद्दिनकरकिरणप्रतापमूर्छितस्येव दावाग्न्युपसर्पणदोषोनुतापायैव भवतः प्रतिपत्तिः । एतेनारम्भोपरमोत्पत्त्यविशेषप्रसङ्गो जन्मसच्छब्दः प्रत्युक्तः । कथम् ? आत्मभूतं हि तन्तूनां पटाख्यं व्यूहस्थानीयं सन्निवेशविशेषं यदा कारकाणि स्वेन स्वेन व्यापारेणाविष्कुर्वन्ति तदा क्रियते उत्पद्यते जायत इत्येवमादिर्लोकस्य व्यवहारः प्रवर्तते । यदा तु कारकाणि शक्त्यन्तराविर्भावात्संस्थानान्तरेणौत्सुक्यवर्तितामवस्थामुपसंहरन्ति तदा प्रागुपलब्धं संस्थानं विनाशशब्दवाच्यतां प्रतिपद्यते । परमार्थतस्तु न कस्यचिदुत्पादो ऽस्ति न विनाशः । यत्पुनरेतदुक्तं जन्मशब्दः प्रागभूतस्यार्थस्य भावोपक्रममाहेति तदपीच्छामात्रम् । कस्मात् ? विवादात् । सदसद्विषयं जन्मेति विवादे ऽनुषक्ते जन्मशब्दः प्रागभूतस्य सद्भावमाचष्ट इति ब्रूवतो ऽनुक्तसमम् । पुरुषादावदृष्टत्वादसिद्धिरिति चेत् स्यादेतत् यदि तर्हि क्रियते उत्पद्यते जायत इत्येषोर्थः सद्विषयः कल्प्यते, प्रधानपुरुषयोरपि तत्प्रसंगः, सदसदविशेषादिति । अतश्च विवादावस्थमेवैतत्प्रकरणमिति । एतच्चायुक्तम् । कस्मात् ? संस्थानविषयत्वात् । यदा भावः स्वतो ऽनर्थान्तरभूतं संस्थानं भजते तदैते शब्दाः प्रवर्तन्त इत्युक्तम् । दृष्टं च लोके तद्यथा मुष्टिग्रन्थिकुण्डलानि करोति जनयत्युत्पादयति, अभिव्यक्तात्मसु च मूलोदकादिषु भवत्युत्पन्नं जातमिति । उभयपक्षप्रसिद्धे तु शशविषाणादौ नैते शब्दाः प्रवर्तन्ते । तस्माद्भवत एवानिष्टप्रसङ्ग इति । उक्तं च यद्यसत्त्वं घटादीनामुत्पत्तौ हेतुरिष्यते । शशशृङ्गे ऽपि तुल्यत्वादुत्पत्तिस्ते प्रसज्यते ॥ इति सिद्धं सत्कार्यम् । इतश्च सत्कार्यम् । शक्त्यस्य शक्यकरणात् शक्यमिदमस्य, शक्तश्चायमस्येत्ययं नियमः सतां दृष्टः । तद्यथा चक्षुषो रूपस्य । आस्ति चायं पटस्य वेमादीनां च नियमः । तस्माच्च सत्कार्यम् । सहकारिवत्तन्नियम इति चेत् स्यान्मतम् यथापो बीजाङ्कुरस्योत्पत्तौ समर्था भवन्ति न काष्ठादग्नेर्वा । उभयं च तत्तासु च विद्यते । बीजादपां विच्छिन्नत्वात् । यथा च सूर्यः सूर्यकान्तादग्निमुत्पादयितुं समर्थो न चन्द्रकान्ताच्च पानीयम् । उभयं तत्तत्र न विद्यते । तथा च तत्त्वादीनां पटस्यैव शक्तिनियमः स्यात् । न च पटस्य तन्तुषु सत्त्वं स्यादिति । एतच्चायुक्तम् । कस्मात् ? साध्यत्वात् । अंकुरादयो ऽपि कार्यमबादीनाम् । अतः साध्यम् । किमङ्कुरो ऽस्त्यथ नास्त्येव । तथा सूर्यकान्ते ऽग्निः । तदर्थमेव चायं विवादो ऽनुषक्तः । यत्तूक्तमपां विच्छिन्नवान्न तास्वङ्कुरो ऽस्तीति तत्रापि यासामपां बीजानुप्रवेशदङ्कुरभावेन विपरिणामस्ताभ्यस्तस्यानन्यत्वं साध्यम् । अतो न किंचिदेतत् । किं चान्यत् । रूपव्यवस्थानाच्च । तद्यथा विज्ञानोत्पत्तिहेतुत्वे सति न रूपं दृष्टमिति नेदानीं तत्सामान्यात् रूपमप्यरूपं भवति । एवं पटकारणत्वाद्वेमादयो न पट इति नेदानीं तन्तवोप्यपटः । तस्माद्युक्तमेतच्छक्तस्य शक्यकरणात्सत्कार्यम् । कारणभावाच्च सत्कार्यम्
aram / arthāntarāvasthāne 'rthāntarotpattivināśadarśanādanyatvamiti cet syādetat - vidyamāneṣu tantuṣu paṭo na bhavati saṃyogalakṣaṇasya kāraṇāntarasyānutpatteḥ / saṃyogottarakālaṃ tu bhavati / kāraṇasāmagryā vidhamāneṣveva ca tantuṣu vināśamupayāti / vibhāgādarthāntarāvasthāne cārthāntarotpattivināśau dṛṣṭau / tadyathā himavadavasthāne davāgneḥ / tasmādarthāntaraṃ paṭastantubhya iti / etadapyayuktam / kasmāt ? sādhyatvāt / sādhyaṃ tāvadetat- kimatrārthāntaramutpadyate vinaśyati vā ? āhosvittantuṣveva samavasthānaviśeṣāpekṣasya paṭābhidhānasya pravṛtinivṛttī senāvanavadbhavataḥ ? tasmādetadapi nāvayavino dravyāntarabhāve liṅgam / tatpuruṣabahuvrīhidvandvasamāsopapatteranya iti cet syānmatam, ihārthāntaratve sati tatpuruṣo dṛṣṭaḥ / tadyathā rājñaḥ puruṣo rājapuruṣa iti / bahuvrīhiśca citraguḥ śabalaguḥ / dvandvaśca plakṣanyagrodhāviti / asti cehāpi tatpuruṣastantūnāṃ paṭaḥ / bahuvrīhiśca dṛḍhatantuḥ śuklatantuḥ / dvandvaśca tantupaṭāviti / tasmāccāvayavyarthāntaram / etaccāyuktam / kasmāt ? anekāntāt / ananyatve 'pi hi tatpuruṣo dṛṣṭaḥ / tadyathā senāgajaḥ kānanavṛkṣa iti / bahuvrīhiśca vīrapuruṣā mattagajā senā iti / dvandvastu yadi syātsatyamevārthāntaramavayavī syāt / na tu kaścitpaṭāvasthāyāmevaṃ prayuṅkte- tantupaṭāvānayeti / tasmānmanorathamātrametat / etena samākhyāsāmarthyabhedāḥ prayuktāḥ / te cāpi cānarthānatve sati senādiṣu dṛṣṭāḥ / tasmānnāvayavī dravyāntaram / dravyāntarabhūtasyāvayavino niṣpattipratijñānāt, na sanniveśaviśeṣamātratvāt satkāryamityetadayuktam / yatpunaretaduktamanupalabdherasatkāryamiti, atra brūmaḥ / etadapyayuktam / kasmāt ? saṃśayakāraṇatvāt / sa ca sadviṣayānupalabdhiḥ / ityetasmādeva hetossāṃśayikā vayam / tāmeva tu niścayārthamavalambamāno na yuktimārgamanuyāti / yat punaretaduktaṃ kāraṇāntarānabhidhānāditi- etadapyanupapannam / kasmāt ? abhiprāyānavabodhāt / yo hi yathā kuṇḍe badarāṇyarthāntarabhūtānyāhitāni tathā kāraṇe kāryamastītyetadācaṣṭe taṃ pratyayamupālambhaḥ syāt / vayantu anekaśaktadharmiṇaḥ sahakāriśaktyantarānugṛhītasya pūrvasyāśśaktestirobhāvamuttarasyāścāvirbhāvamupādadhānāḥ kāraṇameva kāryamityanumanyāmahe / tayostu śaktyoryugapadagrahaṇam / itaretarapratibandhahetutvāt / vastrasyāyāmavistāravat, kūrmāṅgamiva draṣṭavyam / yathā vastrasyopasaṃhārapratibandhādāyāmavistārau na grahaṇaviṣayatāṃ pratipadyete, sattāṃ vā na jihītaḥ kūrmasyevāṅgāni, tatha tantvādīnāmapi bhāvānāṃ kāraṇābhimatā kāryābhimatā cāvasthā krameṇa vā sthiraśca bhavat tannimittastadgrahaṇāgrahaṇavikalpaḥ / etena kāraṇagrahaṇaṃ pratyuktam / yadapyuktaṃ pramāṇāntaranivṛttiprasaṅgāditi satyametat / yattūktaṃ kriyāguṇavyapadeśāsambhavādanumānābhāva iti tadanupapannam / kasmāt ? pṛthaktvānabhyupagamāt / kāryakāraṇapṛthaktvavādinastatkriyāguṇānāṃ pṛthaktvamanumātuṃ yuktamityatastantvavasthāne paṭakriyāguṇagrahaṇādanumānābhāva ityayamupālambhaḥ sāvakāśaḥ syāt / asmākantu kāraṇamātrasyaiva saṃghātādākārāntaraparigrahādvā kriyāguṇānāṃ pracitirvyaktiviśeṣo bhavatīti bruvatāmadoṣaḥ / vyapadeśastu kāryakāraṇaparyāyaḥ / so 'yuktaḥ / kasmāt ? anekāntāt / dravyaguṇatvakarmatvādīnāṃ kriyāguṇakāryakāraṇabhāvo 'tha ca satyamiṣyate 'tha liṅgaparyāyaḥ / na tarhi vayaṃ paryanuyojyā vyapadeśābhāvādasatkāryamiti / kiṃ kāraṇam ? prakaraṇāt / vipratipattau hi satyāṃ liṅgataḥ prāgutpatteḥ kāryasya samadhigamaṃ kariṣyāma iti prakṛtamevaitat / anaikāntikatvaṃ ca samānam / niṣpattyanantaraṃ dravyasyāstitvābhyupagamādaguṇavato dravyasya guṇārambhaḥ / karmaguṇā aguṇā iti vacanādutpannamātraṃ dravyaṃ niṣkriyaṃ nirguṇamavatiṣṭhate iti vaḥ pakṣaḥ / na cāsya tathābhūtasya liṅgamasti / atha cāstitvaṃ bhavadbhirabhyupagamyate / siddhergrahaṇātsadbhāva iti cenna / sarvavivādasiddhiprasaṅgāt / dṛṣṭāntaviruddhamarthaṃ pratijñāya pratiṣidhyamānena siddhabuddhiviṣayatā smartavyetyetasyāṃ kalpanāyāṃ sarvavivādasiddhiprasaṃgaḥ syāt / kiṃ cānyat / pratipakṣe samānatvāt / asmatpakṣe 'pi tarhi bhagavatpañcaśikhādīnāṃ pratyakṣatvātsatkāryamabhyupagantavyam / tasmānna kriyāguṇavyapadeśāsambhavādasatkāryam / yatpunaretaduktaṃ- kartṛprayāsasāphalyādasatkāryamiti, atra brūmaḥ- etadapyayuktam / kasmāt ? asadakaraṇāt yadyubhayapakṣaprasiddhasyāsataḥ kriyāyogaḥ syāt ata etadyujyate vaktum kārye sati kartuḥ prayāso 'narthaka iti / tattvasataḥ karaṇamanupapannam / tasmādayuktametat / hetvabhidhānādasiddhiriti cet syādetat- yathā niṣpannatvānmadhvādīnāṃ dhāraṇasamartho ghaṭo na kriyata ityayamapadiṣṭo heturasmābhiḥ evamitthaṃ kāryasyāsataḥ kāraṇaṃ nopapannamiti noktaṃ bhavatā / tasmādasiddhiriti / etaccānupapannam / kasmāt ? satyasati vā sambandhe doṣaprasaṅgāt / taddhi kriyamāṇaṃ sati vā sambandhe kārakaiḥ kriyate 'sati vā ? sambandhaścāsya bhavanpravṛttikāle vā kāraṇānāṃ syāt, niṣpattikāle vā ? kiṃ cātaḥ ? tanna tāvatpravṛttikāle sambandho yuktaḥ / kasmāt ? adravyatvāt / pravṛttikāle kartrādīnāṃ kriyāguṇavyapadeśābhāvādavastubhūtaṃ śaśaviṣāṇasthānīyaṃ vaḥ kāryam / na cāsti tathābhūtasya vastubhūtena sambandhaḥ / atha niṣpattikāle 'bhisambadhyate yaduktaṃ sato niṣpannatvātkriyānutpattiriti tasya vyāghātaḥ / atha matamasatyapi sambandhe niṣpattirbhavatīti tena kārakavyāpāravaiyarthyaprasaṃgaḥ / prāgapi ca kārakopādānātkāryaniṣpattiprasaṅga iti / uktaṃ ca asattvānnāsti sambandhaḥ kārakaiḥ sattvasaṃgibhiḥ / asambandhasya cotpattimicchato na vyavasthitiḥ // iti / āha, nanu ca madhyame kāle kartrādibhiḥ kāryaṃ kriyate / kaḥ punarasau madhyamaḥ kāla iti ? āha- ārambhāya prasṛtā yasminkāle bhavanti karttāraḥ / kāryasyāniṣpādāttaṃ madhyamaṃ kālamicchanti // iti / yadā hetavaḥ pravṛttārambhā bhavantyuddiśya kāryaṃ na ca tāvannaimittikasyātmalābhaḥ saṃvartate sa madhyamaḥ kālaḥ / tasminkriyate kārakaiḥ kāryamiti / ucyate, na, avasthāntarānupatteḥ / prāṅniṣpatterasattā / niṣpannasya sattetyavasthādvayam / sadasadrūpā cāvasthā nāsti yo madhyamaḥ syāt / ato na yuktametaditi / kiṃcānyat / pūrvadoṣāparihārāduddiśya kāryaṃ tasyātmano lābhātmakena saha sambandha iti ? atrāpyayaṃ paryanuyogo naiva nivartata iti / tasmāccitramapi vākyaṃ prasārya na kiṃcitparihṛtaṃ bhavatā / tasmādyuktametat satyasati vā sambandhe doṣaprasaṃgādasanna kriyata iti / yasya punaḥ satkāryaṃ tasya doṣo nāsti / kasmāt ? upādānagrahaṇāt upādānamiti kāraṇaṃ tantvādyācakṣmahe / taddhi tasya kārakairgṛhyate abhisambadhyata ityarthaḥ / tasmācca nārthāntaraṃ kāryam ityataḥ kāraṇenābhisambaddhānāṃ kārakāṇāṃ kāryeṇaiva sambandho bhavatītyadoṣaḥ / āha- nanu ca yasyāpi satkāryaṃ tasyopādānādarthāntaraṃ tatkāryaṃ syāt / kasmāt ? kāryārthirupādānāt / yadyadarthamupādīyate tattasmādarthāntara yathā vemādibhyaḥ paṭaḥ / tantavaśca paṭādibhirupādīyante / tasmāttebhyo 'pyarthāntaraṃ paṭa iti / etena sattvaṃ prayuktam / yadyadarthamupādīyate tattasminnasat / yathā vemādiṣu paṭa iti / ucyate, na avayavipratiṣedhāt / pratiṣiddhastāvadavayavī dravyāntarabhūtastasmādanupapannārthametat / kiṃ cānyat / sarvasambhavābhāvāt upādānasāmānyādvemādivadarthāntaraṃ paṭastantubhya iti brūvato 'rthāntaratvasāmānyāttantuvatsarvasmātkāraṇātkāryasya sambhavaḥ syāt / na tvevamasti / tasmātsarvasambhavābhāvādasamyagetat / kiṃcānyat, jātibhedaprasaṃgādarthāntarārambhaprasaṅgācca upādānasāmānyādvemādivadarthāntaraṃ paṭastantubhya iti brūvato yathā vemādibhyo bhinnajātīyo bhinnadeśaśca, tathā tantubhyaḥ paṭaḥ syāt yathā cāvasthite paṭe vemādayaḥ paṭāntaraṃ kurvanti tathā hyavasthite paṭe tantavo 'pi paṭāntaramārabheran / na caitadiṣṭam / na tarhyupādānasāmānyādvemādivattantubhyaḥ paṭasyārthāntaratvam / yatpunaretaduktaṃ yadyadarthamupādīyate na tat tatrāstīti, atra brūmaḥ- ayuktametat / kasmāt ? ādhārādheyabhāvānabhyupagamāt / asakṛduktamasmābhirna tantuṣu paṭo nāma kaścidasti / kiṃ tarhi tantava eva paṭaḥ / tattu sanmārgavidveṣādbhavatā na gṛhyate / kiṃ cānyat / anekāntāt / upetya vā brūmaḥ kathaṃ tāvattilāstailārthamupādīyante, bhavati cātra tailam / mṛdvīkā rasārthamupādīyate, bhavati cāsyāṃ rasaḥ / godhukca payo 'rthaṃ gāmādatte, bhavati ca tasyāṃ kṣīram / śālikalāpaśca taṇḍulārthamupādīyate, santi cātra taṇḍulā ityanaikāntiko hetuḥ / āha- āvaraṇopalabdherayuktam / tilādiṣvāvaraṇaṃ pratyakṣata upalabhyate / tatpratibandhāttailādīnāmagrahaṇam / vyāpāraśca kartustadvigamārtho na tu kāryasyāvaraṇamasti / tasmādviṣamo dṛṣṭāntaḥ / ucyate na, mārgāntaratvāt / yadyatrāsti tatra tadarthamupādīyate iti pūrvaṃ bhavatātisṛṣṭam / idānīṃ tvavagamavigamārthaṃ sato 'pyupādānamiti brūvato mārgāntaragamanaṃ pūrvavādatyāgo 'naikāntikasya cāparihāra iti / yatpunaretaduktaṃ pariṇāmādyupapatteradoṣa iti tathā tadastu / yattūktaṃ mārgāntarānupapatteriti atra brūmaḥ- etadapyayuktam / kasmāt ? pariṇāmadharmānavabodhāt / sato dharmāntarasya nirodhamasataścotpattiṃ pariṇāmamabhidadhato vyaktamayamupālambhaḥ syāt / na tvanayānusṛtyā pratiṣṭhāmahe / kiṃ tarhi sādhanānugṛhītasya dharmiṇo dharmāntarasyāvirbhāvaḥ pūrvasya ca tirobhāvaḥ pariṇāmaḥ / na cāvirbhāvatirobhāvāvutpattinirodhau / vyūhasaṃśleṣavyaktipracayāstu kimasato dharmā uta svato 'santa iti vicāryam / kiṃ cātaḥ / yadi tāvadasato dharmāḥ yathā kasyeti vācyam / atha svayamasantaḥ paścādbhavanti tadapyayuktam / kasmāt ? anarthāntaratvāt / satyarthāntarabhāve prāgasantaḥ paścādupalabhyamānāḥ satkāryavādaṃ nirākuryuḥ / sa caiṣāmarthāntarabhāvo na prasiddhaḥ / tasmātkimatropapannam ? grahaṇāgrahaṇavikalpe coktaḥ parihāraḥ / kiṃ cānyat / dravyāntarotpattivyāghātāt / upetya vaiṣāmutpattiṃ brūmaḥ- yadi hi pariṇāmavyūhasaṃśleṣavyaktipracayamātraṃ kāryamiṣyate yaduktaṃ dravyāṇi dravyāntaramārabhanta iti tasya vyāghātaḥ / kasmāt ? na hyete bhāvā dravyāntaram / tasmāddinakarakiraṇapratāpamūrchitasyeva dāvāgnyupasarpaṇadoṣonutāpāyaiva bhavataḥ pratipattiḥ / etenārambhoparamotpattyaviśeṣaprasaṅgo janmasacchabdaḥ pratyuktaḥ / katham ? ātmabhūtaṃ hi tantūnāṃ paṭākhyaṃ vyūhasthānīyaṃ sanniveśaviśeṣaṃ yadā kārakāṇi svena svena vyāpāreṇāviṣkurvanti tadā kriyate utpadyate jāyata ityevamādirlokasya vyavahāraḥ pravartate / yadā tu kārakāṇi śaktyantarāvirbhāvātsaṃsthānāntareṇautsukyavartitāmavasthāmupasaṃharanti tadā prāgupalabdhaṃ saṃsthānaṃ vināśaśabdavācyatāṃ pratipadyate / paramārthatastu na kasyacidutpādo 'sti na vināśaḥ / yatpunaretaduktaṃ janmaśabdaḥ prāgabhūtasyārthasya bhāvopakramamāheti tadapīcchāmātram / kasmāt ? vivādāt / sadasadviṣayaṃ janmeti vivāde 'nuṣakte janmaśabdaḥ prāgabhūtasya sadbhāvamācaṣṭa iti brūvato 'nuktasamam / puruṣādāvadṛṣṭatvādasiddhiriti cet syādetat yadi tarhi kriyate utpadyate jāyata ityeṣorthaḥ sadviṣayaḥ kalpyate, pradhānapuruṣayorapi tatprasaṃgaḥ, sadasadaviśeṣāditi / ataśca vivādāvasthamevaitatprakaraṇamiti / etaccāyuktam / kasmāt ? saṃsthānaviṣayatvāt / yadā bhāvaḥ svato 'narthāntarabhūtaṃ saṃsthānaṃ bhajate tadaite śabdāḥ pravartanta ityuktam / dṛṣṭaṃ ca loke tadyathā muṣṭigranthikuṇḍalāni karoti janayatyutpādayati, abhivyaktātmasu ca mūlodakādiṣu bhavatyutpannaṃ jātamiti / ubhayapakṣaprasiddhe tu śaśaviṣāṇādau naite śabdāḥ pravartante / tasmādbhavata evāniṣṭaprasaṅga iti / uktaṃ ca yadyasattvaṃ ghaṭādīnāmutpattau heturiṣyate / śaśaśṛṅge 'pi tulyatvādutpattiste prasajyate // iti siddhaṃ satkāryam / itaśca satkāryam / śaktyasya śakyakaraṇāt śakyamidamasya, śaktaścāyamasyetyayaṃ niyamaḥ satāṃ dṛṣṭaḥ / tadyathā cakṣuṣo rūpasya / āsti cāyaṃ paṭasya vemādīnāṃ ca niyamaḥ / tasmācca satkāryam / sahakārivattanniyama iti cet syānmatam yathāpo bījāṅkurasyotpattau samarthā bhavanti na kāṣṭhādagnervā / ubhayaṃ ca tattāsu ca vidyate / bījādapāṃ vicchinnatvāt / yathā ca sūryaḥ sūryakāntādagnimutpādayituṃ samartho na candrakāntācca pānīyam / ubhayaṃ tattatra na vidyate / tathā ca tattvādīnāṃ paṭasyaiva śaktiniyamaḥ syāt / na ca paṭasya tantuṣu sattvaṃ syāditi / etaccāyuktam / kasmāt ? sādhyatvāt / aṃkurādayo 'pi kāryamabādīnām / ataḥ sādhyam / kimaṅkuro 'styatha nāstyeva / tathā sūryakānte 'gniḥ / tadarthameva cāyaṃ vivādo 'nuṣaktaḥ / yattūktamapāṃ vicchinnavānna tāsvaṅkuro 'stīti tatrāpi yāsāmapāṃ bījānupraveśadaṅkurabhāvena vipariṇāmastābhyastasyānanyatvaṃ sādhyam / ato na kiṃcidetat / kiṃ cānyat / rūpavyavasthānācca / tadyathā vijñānotpattihetutve sati na rūpaṃ dṛṣṭamiti nedānīṃ tatsāmānyāt rūpamapyarūpaṃ bhavati / evaṃ paṭakāraṇatvādvemādayo na paṭa iti nedānīṃ tantavopyapaṭaḥ / tasmādyuktametacchaktasya śakyakaraṇātsatkāryam / kāraṇabhāvācca satkāryam
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.