अन्यत्पृथगेव विद्यया क्रियते फलमित्याहुर्वदत्ति"विद्यया देवलोकः"(बृउ।१ । ६ । १६) "कर्मणा क्रियते कर्मणा पितृलोकः"(बृउ।१ । ५ । १६) इति श्रुतेः । इत्येवं शुश्रुम श्रुतवन्तो वयं धीराणां धीमतां वचनम् । ये आचार्या नो ऽस्मभ्यं तत्कर्म च ज्ञानं च विचचक्षिरे व्याख्यातवन्तस्तेषामयमागमः पारम्पर्यागत इत्यर्थः
anyatpṛthageva vidyayā kriyate phalamityāhurvadatti"vidyayā devalokaḥ"(bṛ.u.1 / 6 / 16) "karmaṇā kriyate karmaṇā pitṛlokaḥ"(bṛ.u.1 / 5 / 16) iti śruteḥ / ityevaṃ śuśruma śrutavanto vayaṃ dhīrāṇāṃ dhīmatāṃ vacanam / ye ācāryā no 'smabhyaṃ tatkarma ca jñānaṃ ca vicacakṣire vyākhyātavantasteṣāmayamāgamaḥ pāramparyāgata ityarthaḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.