Library·Jiva Gosvamin: Gopalacampu, Purvacampu·1·1.29

Jiva Gosvamin: Gopalacampu, Purvacampu 1.29

राधां पश्यसि जल्पसि स्पृशसि च स्वात्मन्न् अथालिङ्गसि स्वस्मिंस् तत् तद् अनुक्रियाम् अपि तयारब्धां भजन् नन्दसि । विश्रम्भं न हि मन्यसे तदपि चेद् अन्यां दशां यामितस् तत्-प्राप्तिं मनुषे तया कथय भो किं ते सुखं सेत्स्यति ॥ज्ग्च् १,२९।९॥ [१२] श्री-कृष्णं प्रति सखी-वचनम्- भूषणम् अग्नि-प्रायं भूषण-निभम् अग्निम् अप्य् असौ राधा । त्वद्-विरहे या कलयति सा कथम् अन्यैः समाधेया ॥ज्ग्च् १,२९।१०॥ तस्याः प्राणा भवान् सा च भवत्-प्राणा इति स्फुटम् । एतद्-वाचा लघूकर्तुं प्राणन्तीं मां तु धिक् प्रभो ॥ज्ग्च् १,२९ ११॥[१३] अथोत्कण्ठिता । तत्र च तं प्रति सखी-वचनम्- ताम् एव प्रेरयत्य् उच्चैर् उत्कण्ठा त्वां तु नैति सा । इति तस्याम् असौ कृष्ण वितृष्णा-शर्म नाञ्चति

rādhāṃ paśyasi jalpasi spṛśasi ca svātmann athāliṅgasi svasmiṃs tat tad anukriyām api tayārabdhāṃ bhajan nandasi | viśrambhaṃ na hi manyase tadapi ced anyāṃ daśāṃ yāmitas tat-prāptiṃ manuṣe tayā kathaya bho kiṃ te sukhaṃ setsyati ||JGc 1,29.9|| [12] śrī-kṛṣṇaṃ prati sakhī-vacanam- bhūṣaṇam agni-prāyaṃ bhūṣaṇa-nibham agnim apy asau rādhā | tvad-virahe yā kalayati sā katham anyaiḥ samādheyā ||JGc 1,29.10|| tasyāḥ prāṇā bhavān sā ca bhavat-prāṇā iti sphuṭam | etad-vācā laghūkartuṃ prāṇantīṃ māṃ tu dhik prabho ||JGc 1,29 11||[13] athotkaṇṭhitā | tatra ca taṃ prati sakhī-vacanam- tām eva prerayaty uccair utkaṇṭhā tvāṃ tu naiti sā | iti tasyām asau kṛṣṇa vitṛṣṇā-śarma nāñcati

Sanskrit only: no published translation is held for this verse.

अस्रैः कम्पैर् विवर्ण-च्छवि-कुल-वलनैर् गद्गदै रोमहर्षैः स्वेदैः स्तम्भैर् विमोहैर् मुरहर दलित-प्राय-देहां विधाय । न त्यक्तुं न ग्रहीतुं कथम् अपि सुशका प्राण-घातावरोधाद् उत्कण्ठा कण्ठ-लग्नाशन-कवल-निभां तां तु दुःखाकरोति ॥ज्ग्च् १,२९।१३॥ परम-गुणस् त्वं माधव दोषापूर्ण-प्रभावोऽ सि । कथम् इव तां गुण-रूपा- कृतिम् अधिचित्तं समदध्याः

asraiḥ kampair vivarṇa-cchavi-kula-valanair gadgadai romaharṣaiḥ svedaiḥ stambhair vimohair murahara dalita-prāya-dehāṃ vidhāya | na tyaktuṃ na grahītuṃ katham api suśakā prāṇa-ghātāvarodhād utkaṇṭhā kaṇṭha-lagnāśana-kavala-nibhāṃ tāṃ tu duḥkhākaroti ||JGc 1,29.13|| parama-guṇas tvaṃ mādhava doṣāpūrṇa-prabhāvo' si | katham iva tāṃ guṇa-rūpā- kṛtim adhicittaṃ samadadhyāḥ

Sanskrit only: no published translation is held for this verse.

सन्ध्यायां क्व नु यासि लोल-नयनाप्य् अग्रायनैकाग्रहा तत्राप्य् अग्रतमं स्थलं किम् अपि तच् चेतस्य् अलम् बिभ्रती । सा चैषा न हि बुध्यते तव गतिर् दृष्ट्वा तमालं मुहुर् विष्टब्धा धृत-भङ्गि-सङ्गि-सवयो-मध्ये मुहुर् लीयसे

sandhyāyāṃ kva nu yāsi lola-nayanāpy agrāyanaikāgrahā tatrāpy agratamaṃ sthalaṃ kim api tac cetasy alam bibhratī | sā caiṣā na hi budhyate tava gatir dṛṣṭvā tamālaṃ muhur viṣṭabdhā dhṛta-bhaṅgi-saṅgi-savayo-madhye muhur līyase

Sanskrit only: no published translation is held for this verse.

अम्बर-मणि-संवलितं चरमाचलम् अधिजगन्थ पूर्वाद्रिम् । शङ्के यन् निज-कृत्यं कर्तुं कृष्णान्तिकं यासि

ambara-maṇi-saṃvalitaṃ caramācalam adhijagantha pūrvādrim | śaṅke yan nija-kṛtyaṃ kartuṃ kṛṣṇāntikaṃ yāsi

Sanskrit only: no published translation is held for this verse.

अन्याश् चाभिसरन्ति भाव-वलिताः शुभ्र-क्षपायां कृतैः शुभ्रैर् वेष-वरैर् विधाय पिहितं स्वं सत्यम् एतद्-वचः । तस्मिन् गोप-वराङ्गनाः पुनर् अमूः कान्ताङ्ग-सङ्ग-स्मृतेर् जातानन्दतया स्मित-द्युति-वृतास् तेषां व्यधुर् व्यर्थताम् ॥ज्ग्च् १,२९।१७॥ सामानाधिकरण्यं तेजस्-तमसो रहो कलितम् । कवयन्त्य् अपि यत् कृष्ण-भ्रान्तिं तमसि व्रज-स्त्रीणाम् ॥ज्ग्च् १,२९।१८॥ आरम्भाद् अपि कम्पते हृदयकं प्रस्थानतः स्तम्भते पाद-द्वन्द्वम् अहो मनस्य् अनुमिलन् देहं निरुद्धे प्रियः । यासां गोप-नत-भ्रूवाम् अभिसृतौ तासां परं कारणं दैवं यन् नयते तद्-अन्तिकम् अमूस् तं वा बलात् कर्षति

anyāś cābhisaranti bhāva-valitāḥ śubhra-kṣapāyāṃ kṛtaiḥ śubhrair veṣa-varair vidhāya pihitaṃ svaṃ satyam etad-vacaḥ | tasmin gopa-varāṅganāḥ punar amūḥ kāntāṅga-saṅga-smṛter jātānandatayā smita-dyuti-vṛtās teṣāṃ vyadhur vyarthatām ||JGc 1,29.17|| sāmānādhikaraṇyaṃ tejas-tamaso raho kalitam | kavayanty api yat kṛṣṇa-bhrāntiṃ tamasi vraja-strīṇām ||JGc 1,29.18|| ārambhād api kampate hṛdayakaṃ prasthānataḥ stambhate pāda-dvandvam aho manasy anumilan dehaṃ niruddhe priyaḥ | yāsāṃ gopa-nata-bhrūvām abhisṛtau tāsāṃ paraṃ kāraṇaṃ daivaṃ yan nayate tad-antikam amūs taṃ vā balāt karṣati

Sanskrit only: no published translation is held for this verse.

आलि पश्य परितः शिखि-वृन्दं भीति-रीति-रहितं नटद् अस्ति । बाढम् अस्य विहरन्न् अधिगम्यं नव्य-नीरद-वरः प्रतिभाति ॥ज्ग्च् १,२९।२०॥[१८] अत्र निर्जनत्वं मध्य-स्थित-कृष्णत्वं च ध्वनितम् । अथ वासकसज्जा- पुष्पाण्य् आचिनुते विचित्य चिनुते तल्पं व्रजस्याङ्गना यन् नास्ति त्रिजगत्य् अपि स्फुटम् अहो वैकुण्ठ-वीथिष्व् अपि । एवं वासक-सज्जिका लसति सा छाया-द्वितीया यदा सङ्गिन्य्-आचित-सङ्गतिः पुनर् असौ वेत्तीव किञ्चिन् न हि ॥ज्ग्च् १,२९।२१॥ तत्र चोत्कण्ठावश्यायां तस्यां तं प्रति सखी-वचनम्- तल्पं कृत्वा भवद्-अभिगमं चिन्तयन्ती समन्तात् तत्रादृष्टे भवति समय-क्षेप-लेशाक्षमा सा । चक्रे चक्राङ्कित-कर महा-कम्प-सम्पद्-विहस्ता शस्त-कल्पं कृतम् अपि च तत् कल्पयन्ती विशीर्णम्

āli paśya paritaḥ śikhi-vṛndaṃ bhīti-rīti-rahitaṃ naṭad asti | bāḍham asya viharann adhigamyaṃ navya-nīrada-varaḥ pratibhāti ||JGc 1,29.20||[18] atra nirjanatvaṃ madhya-sthita-kṛṣṇatvaṃ ca dhvanitam | atha vāsakasajjā- puṣpāṇy ācinute vicitya cinute talpaṃ vrajasyāṅganā yan nāsti trijagaty api sphuṭam aho vaikuṇṭha-vīthiṣv api | evaṃ vāsaka-sajjikā lasati sā chāyā-dvitīyā yadā saṅginy-ācita-saṅgatiḥ punar asau vettīva kiñcin na hi ||JGc 1,29.21|| tatra cotkaṇṭhāvaśyāyāṃ tasyāṃ taṃ prati sakhī-vacanam- talpaṃ kṛtvā bhavad-abhigamaṃ cintayantī samantāt tatrādṛṣṭe bhavati samaya-kṣepa-leśākṣamā sā | cakre cakrāṅkita-kara mahā-kampa-sampad-vihastā śasta-kalpaṃ kṛtam api ca tat kalpayantī viśīrṇam

Sanskrit only: no published translation is held for this verse.

भुक्तिं मुक्तिं च तनुते न परं भवद्-आगमः । भक्तिं व्यनक्ति च व्यक्तं सुहृत्सु परमेश्वर

bhuktiṃ muktiṃ ca tanute na paraṃ bhavad-āgamaḥ | bhaktiṃ vyanakti ca vyaktaṃ suhṛtsu parameśvara

Sanskrit only: no published translation is held for this verse.

कुर्यास् त्वं खण्डितां कांचिन् नखराद्य्-अङ्ग-सङ्गतः । तं विना यां तथाकार्षीस् तत्र ते महती कला ॥ज्ग्च् १,२९।२४॥[२२] खण्डितां प्रति तस्याः सुहृद्-उपालम्भ-रचनं तद्-दूती-वचनम्- मानिनि वच्मि त्वाम् अहम् इह सुहृदां तव शृणोतु वृन्दं च । सहजा या निज-वृत्तिर् गोविन्दे स्वयम् उपास्व ताम् एव ॥ज्ग्च् १,२९।२५॥ [२३] तत्र कठोरायमानां प्रति च- मानाग्नि-मय-दृग्-वाणं मुञ्च त्वं किं नु गर्वसि । राधे कृष्णश् च दृक्-पर्यक्-पर्जन्यास्त्रं विमोक्ष्यति

kuryās tvaṃ khaṇḍitāṃ kāṃcin nakharādy-aṅga-saṅgataḥ | taṃ vinā yāṃ tathākārṣīs tatra te mahatī kalā ||JGc 1,29.24||[22] khaṇḍitāṃ prati tasyāḥ suhṛd-upālambha-racanaṃ tad-dūtī-vacanam- mānini vacmi tvām aham iha suhṛdāṃ tava śṛṇotu vṛndaṃ ca | sahajā yā nija-vṛttir govinde svayam upāsva tām eva ||JGc 1,29.25|| [23] tatra kaṭhorāyamānāṃ prati ca- mānāgni-maya-dṛg-vāṇaṃ muñca tvaṃ kiṃ nu garvasi | rādhe kṛṣṇaś ca dṛk-paryak-parjanyāstraṃ vimokṣyati

Sanskrit only: no published translation is held for this verse.

दयिते दयित कथं त्वं मलिन-मुखी धिग् न वेत्सि हा किम् इदम् । नख-रदन-क्षतम् ऊहेत् त्वयि सुप्ते सुप्ति-राक्षसी चक्रे ॥ज्ग्च् १,२९।२७॥[२५] अथ तस्याः सख्या संवादः- जलदे विलसति विद्युद् बिभ्यति हृदयाणि भीरूणाम् । हससि हरिं किमु मुग्धे न हि हृदि चित्रं स्तुवेऽ हम् एतस्य ॥ज्ग्च् १,२९।२८॥[२६] अथ तस्याः कृष्णं प्रति- आवृणुतामरुणांशुर् नख-पद-सिन्दूर-चिह्नानि । अञ्जनम् अपि कृष्णाभं तत् तु तवौष्ठः स्फुटं कुरुते ॥ज्ग्च् १,२९।२९॥ पूर्वां हरितम् आक्रम्य निष्क्रामन् कृष्ण-नीरदः । निह्नुते शशभृल्-लेखां हरिद्-अन्तर-लज्जया ॥ज्ग्च् १,२९ ३०॥ स्त्री-भावम् आकलयितुं कमठानुकारं गच्छन्-महाद्रि-तलम् आश्रितवान् भवान् यत् । तच् चाजितस्य न तवानुचितं यतस् त्वं स्वां देवतां रमयितुं सुधयोद्यतोऽ सि ॥ज्ग्च् १,२९।३१॥ मामपि हित्वा क्रीडसि तामपि हित्वेति नानृतं वचनम् । एकं तत्र जहातेरन्यद्रूपं दधातेर् हि ॥ज्ग्च् १,२९ ३२॥ नीरसा सरसा वेति विविक्तिर् नातिकामिनाम् । पश्य वंश्या मुखं नायं पिबन्न् उज्झति माधवः ॥ज्ग्च् १,२९ ३३॥[२७] तत्र श्री-कृष्णस्य वचनम्- राधे वपुषा तन्वी कोमल-हृदयातिसूक्ष्माधीर् असि च । मानः कथम् एतावान् माति त्वयि तत् तु पृच्छामि ॥ज्ग्च् १,२९।३४॥ मुखम् अब्जं तव रसना पल्लव-पत्री कथं वचः क्रूरम् । आं ज्ञातं किल यस्मात् तन्-मूलं भाति हृद्-वज्रम् ॥ज्ग्च् १,२९ ३५॥[२८] भवतु च- यथा मे रोचते मानो न प्रसादस् तथा तव । यत्र स्वाधीनता-व्यक्तिं कुरुषे ताडनेन च ॥ज्ग्च् १,२९।३६॥ अर्दितोऽ पि रुषा राधे लीलाब्जेनास्मि नार्दितः । हन्त मत्-कण्टकैर् एतत् त्वद्-अङ्घ्रि-सुहृद् अर्द्यते ॥ज्ग्च् १,२९ ३७॥[२९] तद् एवम् उपवदमाने तस्मिन् पुनस् तस्या वचनम्- निर्वृत्य्-अम्बुधि-कुम्भजः स्थिति-महा-मेघावली-मारुतः प्राणानां पवनाशनस् तनुवनी-नैदाघ-दावानलः । सोऽ यं ते विरहो यया बत मया सोढस्तया वा कथं सोढुं हन्त न शक्यते नव-नवः पद्मापते दुर्नयः ॥ज्ग्च् १,२९।३८॥ [३०] एवं रुदतीं सखीम् आलक्ष्य सखी तं प्राह- अनुरागवती सन्ध्या स्वच्छोऽ यं वासरस्ततः । स्थाने तया तस्य सङ्गो न रात्र्या मलिनात्मना ॥ज्ग्च् १,२९।३९॥[३१] त्वयि तु तद्-एतद्-विपरीतं प्रतीयते ततो न स्वच्छतेति व्यञ्जना । ततः सा मानिनी पुनस् ताम् आह- दीप-ज्वाला मम हृदि गता स्नेहम् उद्धूय वक्रे चक्रे येन प्रतिहति-मिता तं कथं निन्दसि त्वम् । निर्द्वन्द्वाहं सपदि भवितास्म्य् एव सोऽ प्य् एष नाना- गोपी-सङ्घात् प्रमदम् अयिता हन्त किं कस्य दुःखम् ॥ज्ग्च् १,२९।४०॥ [३२] अथ तस्य तद्-बाष्पापसारणाय व्याज-रचनं वचनम्- मीनाद् अपि तन्-मुक्ता- फलम् उद्भवतीति रत्न-शास्त्रार्थम् । पश्यन्न् इव मम हस्तस् तव मुखम् अभियाति मानिनि प्रसभम् ॥ज्ग्च् १,२९।४१॥ [३३] ततश् च सा विमुखी-भवन्ती मनसीदं वदन्ती कलहान्तरिता-भावम् आससाद । ऐषीस्त्वं यदि मानस मानेनामुं वशीकर्तुम् । वशगेऽ प्य् अस्मिन् कृष्णे त्यजसि न किं तं वृथा-भूतम् ॥ज्ग्च् १,२९।४२॥[३४] तदा च सखी तम् उवाच- या तव हृदय-विदारं नखरैर् अकरोन् मुराराते । तां मनुषे प्रिय-दयितां ज्वलति तु तस्माद् दृग् अस्माकम् ॥ज्ग्च् १,२९।४३॥ या खलु मानम् अमानं दधिरे त्वन्-मान-जीवना दयिता । घटते गोपी-वल्लभ तस्याः स्फुटम् असुगमः सुगमः ॥ज्ग्च् १,२९ ४४॥[३५] इति सखीषु पराङ्-मुखीषु बहु तटस्थतां घटयन् दूर-देशीय-देशम् अटति स्म यदासौ, तदा तु- राधाया दृष्ट-मानायाः सृष्ट-रोमाञ्च-सञ्चयाः । वैणव-ध्वनि-जातीया जीयासुः कीचक-स्वनाः ॥ज्ग्च् १,२९।४५॥ [३६] तद् अवगम्य वामाया वचनम्- न वदसि परुषं रुषं न धत्से मनसि च तत्र कथं कृतापराधे । हरि हरि सततं विमानिताहं त्वयि बत शर्म कदापि नापराधे ॥ज्ग्च् १,२९।४६॥[३७] तत्र तस्या मनः-कथा- मानं कुर्विति वक्ति सा प्रिय-सखी मानं न वेद्मि स्फुटं कौटिल्येन यदि प्रसिध्यति स तत् कौटिल्यम् एवात्र किम् । हा तस्य स्मित-कञ्ज-चारु-नयनं श्यामस्य मन्-मानसं द्रष्टुं वाञ्छति हन्त कष्टम् अपरां स्फूर्तिं कथं गच्छतु ॥ज्ग्च् १,२९।४७॥ आगस्-कृतेऽ पि तस्मै रज्यति हृदयं खलं तद् एतन् मे । त्यक्तुं तद् अपि न शक्यं कथम् इव स हरिः परित्याज्यः ॥ज्ग्च् १,२९ ४८॥ततश् च- बलान् मानं शिक्षयन्तीर् अपि तत्र सखी-ततीः । राधया सार्धम् आकर्षन् जीयाद् वेणु-कल-स्वनः ॥ज्ग्च् १,२९।४९॥[३८] तस्या मुखम् अवकलय्य तत्-तद्-उपमा-जातियतया संशय्य स्थितवन्तं कान्तं प्रति सखी-वचनम्- तस्मिन्न् अपि विधु-बुद्धिं कर्तुं मा कृष्ण साहसं कार्षीः । सर्वं जेतृ तद् एतद् भ्रू-धनुर् अनु नेत्र-वाणम् उत्क्षिपति ॥ज्ग्च् १,२९।५०॥ततश् च- भ्रमरीवाम्बुजारण्यं शफरीव जलाशयम् । कृष्णं लब्ध्वा पूर्वमेव दृष्टा साभून्न तूत्तरम् ॥ज्ग्च् १,२९।५१॥अथ स्वाधीनभर्तृका । नित्यं या याचितापि प्रियतम-हरिणा नेच्छति स्पर्श-मात्रं वाचा सेयं मुहुस् तं निदिशति रसनाम् अप्य् अहो संवरीतुम् । तन् मन्ये नूनम् अस्यावयव-समुदितिर् दिव्य-सीधु-प्रकारः सङ्गाद् अप्य् अङ्ग यस्य प्रभवति मुहुर् उन्माद-लक्ष्मीर् अमूदृक् ॥ज्ग्च् १,२९।५२॥ तत्र च वक्ति रूपं यदा कृष्णस् तदा सा राधिकाधिकम् । शृणोति नैव तत् तस्य पश्यन्ती रूपम् अद्भुतम् ॥ज्ग्च् १,२९।५३॥ [३९] एतद्-अनन्तरं सखीनां निभृतालापः- अपि लीलायितम् अनया चम्पकलतया तमालाधः । प्रागल्भ्यात् पुनर् एतां तद् उपरि रमण-स्पृहां वेद्मि ॥ज्ग्च् १,२९।५४॥ [४०] अथ श्रीमत्-परम-रूप-गुरूपदेश-मय-स्वप्न-कलितं प्रातस्तन-ललित-राग-संवलितं ललिता-गीतम्- जागरणाद् अथ कुञ्ज-वरे । वीक्षित-भास्कर-रुचि-निकरे ॥कान्ता-निद्रा-भङ्ग-करे । अपि सङ्कलित-स्व-परिकरे ॥मम धीर् मज्जति कंस-हरे । मौलि-शिखोपरि-पिञ्छ-धरे ॥[ध्रुवम्] मुहुर् उल्लासित-युवति-करे । सममन्या बहिर् अनय-चरे ॥घन-गहनाध्वनि गमन-परे । तत्र च बहु कृत-सुख-वितरे ॥आशास्तम्भित-विरह-गरे । धाम्नि सनातन-शर्म-हरे ॥इति॥

dayite dayita kathaṃ tvaṃ malina-mukhī dhig na vetsi hā kim idam | nakha-radana-kṣatam ūhet tvayi supte supti-rākṣasī cakre ||JGc 1,29.27||[25] atha tasyāḥ sakhyā saṃvādaḥ- jalade vilasati vidyud bibhyati hṛdayāṇi bhīrūṇām | hasasi hariṃ kimu mugdhe na hi hṛdi citraṃ stuve' ham etasya ||JGc 1,29.28||[26] atha tasyāḥ kṛṣṇaṃ prati- āvṛṇutāmaruṇāṃśur nakha-pada-sindūra-cihnāni | añjanam api kṛṣṇābhaṃ tat tu tavauṣṭhaḥ sphuṭaṃ kurute ||JGc 1,29.29|| pūrvāṃ haritam ākramya niṣkrāman kṛṣṇa-nīradaḥ | nihnute śaśabhṛl-lekhāṃ harid-antara-lajjayā ||JGc 1,29 30|| strī-bhāvam ākalayituṃ kamaṭhānukāraṃ gacchan-mahādri-talam āśritavān bhavān yat | tac cājitasya na tavānucitaṃ yatas tvaṃ svāṃ devatāṃ ramayituṃ sudhayodyato' si ||JGc 1,29.31|| māmapi hitvā krīḍasi tāmapi hitveti nānṛtaṃ vacanam | ekaṃ tatra jahāteranyadrūpaṃ dadhāter hi ||JGc 1,29 32|| nīrasā sarasā veti viviktir nātikāminām | paśya vaṃśyā mukhaṃ nāyaṃ pibann ujjhati mādhavaḥ ||JGc 1,29 33||[27] tatra śrī-kṛṣṇasya vacanam- rādhe vapuṣā tanvī komala-hṛdayātisūkṣmādhīr asi ca | mānaḥ katham etāvān māti tvayi tat tu pṛcchāmi ||JGc 1,29.34|| mukham abjaṃ tava rasanā pallava-patrī kathaṃ vacaḥ krūram | āṃ jñātaṃ kila yasmāt tan-mūlaṃ bhāti hṛd-vajram ||JGc 1,29 35||[28] bhavatu ca- yathā me rocate māno na prasādas tathā tava | yatra svādhīnatā-vyaktiṃ kuruṣe tāḍanena ca ||JGc 1,29.36|| ardito' pi ruṣā rādhe līlābjenāsmi nārditaḥ | hanta mat-kaṇṭakair etat tvad-aṅghri-suhṛd ardyate ||JGc 1,29 37||[29] tad evam upavadamāne tasmin punas tasyā vacanam- nirvṛty-ambudhi-kumbhajaḥ sthiti-mahā-meghāvalī-mārutaḥ prāṇānāṃ pavanāśanas tanuvanī-naidāgha-dāvānalaḥ | so' yaṃ te viraho yayā bata mayā soḍhastayā vā kathaṃ soḍhuṃ hanta na śakyate nava-navaḥ padmāpate durnayaḥ ||JGc 1,29.38|| [30] evaṃ rudatīṃ sakhīm ālakṣya sakhī taṃ prāha- anurāgavatī sandhyā svaccho' yaṃ vāsarastataḥ | sthāne tayā tasya saṅgo na rātryā malinātmanā ||JGc 1,29.39||[31] tvayi tu tad-etad-viparītaṃ pratīyate tato na svacchateti vyañjanā | tataḥ sā māninī punas tām āha- dīpa-jvālā mama hṛdi gatā sneham uddhūya vakre cakre yena pratihati-mitā taṃ kathaṃ nindasi tvam | nirdvandvāhaṃ sapadi bhavitāsmy eva so' py eṣa nānā- gopī-saṅghāt pramadam ayitā hanta kiṃ kasya duḥkham ||JGc 1,29.40|| [32] atha tasya tad-bāṣpāpasāraṇāya vyāja-racanaṃ vacanam- mīnād api tan-muktā- phalam udbhavatīti ratna-śāstrārtham | paśyann iva mama hastas tava mukham abhiyāti mānini prasabham ||JGc 1,29.41|| [33] tataś ca sā vimukhī-bhavantī manasīdaṃ vadantī kalahāntaritā-bhāvam āsasāda | aiṣīstvaṃ yadi mānasa mānenāmuṃ vaśīkartum | vaśage' py asmin kṛṣṇe tyajasi na kiṃ taṃ vṛthā-bhūtam ||JGc 1,29.42||[34] tadā ca sakhī tam uvāca- yā tava hṛdaya-vidāraṃ nakharair akaron murārāte | tāṃ manuṣe priya-dayitāṃ jvalati tu tasmād dṛg asmākam ||JGc 1,29.43|| yā khalu mānam amānaṃ dadhire tvan-māna-jīvanā dayitā | ghaṭate gopī-vallabha tasyāḥ sphuṭam asugamaḥ sugamaḥ ||JGc 1,29 44||[35] iti sakhīṣu parāṅ-mukhīṣu bahu taṭasthatāṃ ghaṭayan dūra-deśīya-deśam aṭati sma yadāsau, tadā tu- rādhāyā dṛṣṭa-mānāyāḥ sṛṣṭa-romāñca-sañcayāḥ | vaiṇava-dhvani-jātīyā jīyāsuḥ kīcaka-svanāḥ ||JGc 1,29.45|| [36] tad avagamya vāmāyā vacanam- na vadasi paruṣaṃ ruṣaṃ na dhatse manasi ca tatra kathaṃ kṛtāparādhe | hari hari satataṃ vimānitāhaṃ tvayi bata śarma kadāpi nāparādhe ||JGc 1,29.46||[37] tatra tasyā manaḥ-kathā- mānaṃ kurviti vakti sā priya-sakhī mānaṃ na vedmi sphuṭaṃ kauṭilyena yadi prasidhyati sa tat kauṭilyam evātra kim | hā tasya smita-kañja-cāru-nayanaṃ śyāmasya man-mānasaṃ draṣṭuṃ vāñchati hanta kaṣṭam aparāṃ sphūrtiṃ kathaṃ gacchatu ||JGc 1,29.47|| āgas-kṛte' pi tasmai rajyati hṛdayaṃ khalaṃ tad etan me | tyaktuṃ tad api na śakyaṃ katham iva sa hariḥ parityājyaḥ ||JGc 1,29 48||tataś ca- balān mānaṃ śikṣayantīr api tatra sakhī-tatīḥ | rādhayā sārdham ākarṣan jīyād veṇu-kala-svanaḥ ||JGc 1,29.49||[38] tasyā mukham avakalayya tat-tad-upamā-jātiyatayā saṃśayya sthitavantaṃ kāntaṃ prati sakhī-vacanam- tasminn api vidhu-buddhiṃ kartuṃ mā kṛṣṇa sāhasaṃ kārṣīḥ | sarvaṃ jetṛ tad etad bhrū-dhanur anu netra-vāṇam utkṣipati ||JGc 1,29.50||tataś ca- bhramarīvāmbujāraṇyaṃ śapharīva jalāśayam | kṛṣṇaṃ labdhvā pūrvameva dṛṣṭā sābhūnna tūttaram ||JGc 1,29.51||atha svādhīnabhartṛkā | nityaṃ yā yācitāpi priyatama-hariṇā necchati sparśa-mātraṃ vācā seyaṃ muhus taṃ nidiśati rasanām apy aho saṃvarītum | tan manye nūnam asyāvayava-samuditir divya-sīdhu-prakāraḥ saṅgād apy aṅga yasya prabhavati muhur unmāda-lakṣmīr amūdṛk ||JGc 1,29.52|| tatra ca vakti rūpaṃ yadā kṛṣṇas tadā sā rādhikādhikam | śṛṇoti naiva tat tasya paśyantī rūpam adbhutam ||JGc 1,29.53|| [39] etad-anantaraṃ sakhīnāṃ nibhṛtālāpaḥ- api līlāyitam anayā campakalatayā tamālādhaḥ | prāgalbhyāt punar etāṃ tad upari ramaṇa-spṛhāṃ vedmi ||JGc 1,29.54|| [40] atha śrīmat-parama-rūpa-gurūpadeśa-maya-svapna-kalitaṃ prātastana-lalita-rāga-saṃvalitaṃ lalitā-gītam- jāgaraṇād atha kuñja-vare | vīkṣita-bhāskara-ruci-nikare ||kāntā-nidrā-bhaṅga-kare | api saṅkalita-sva-parikare ||mama dhīr majjati kaṃsa-hare | mauli-śikhopari-piñcha-dhare ||[dhruvam] muhur ullāsita-yuvati-kare | samamanyā bahir anaya-care ||ghana-gahanādhvani gamana-pare | tatra ca bahu kṛta-sukha-vitare ||āśāstambhita-viraha-gare | dhāmni sanātana-śarma-hare ||iti||

Sanskrit only: no published translation is held for this verse.

किंचिद् विलोक्य कुञ्जे सख्याः प्रागल्भ्यम् एकान्तात् । स्मेरा करम् अनु मुरलीं प्रागाद् बर्हावलिं शिरसि

kiṃcid vilokya kuñje sakhyāḥ prāgalbhyam ekāntāt | smerā karam anu muralīṃ prāgād barhāvaliṃ śirasi

Sanskrit only: no published translation is held for this verse.

शेते मञ्जु-निकुञ्ज-तल्पम् अनु स प्रेयान् इति प्रेयसि त्वां वेणुं किल हर्तुम् अस्य कुतुकात् प्राहैषम् अस्मि द्रुतम् । तं तु त्वं परिहृत्य चागतवती श्रान्तेव च प्रेक्ष्यसे तद्-वर्त्मान्य् अदुरी-चकर्थ रभसा यन् मादृशां दुर्गमम्

śete mañju-nikuñja-talpam anu sa preyān iti preyasi tvāṃ veṇuṃ kila hartum asya kutukāt prāhaiṣam asmi drutam | taṃ tu tvaṃ parihṛtya cāgatavatī śrānteva ca prekṣyase tad-vartmāny adurī-cakartha rabhasā yan mādṛśāṃ durgamam

Sanskrit only: no published translation is held for this verse.

कृष्ण-वनं सखि भाति सरङ्गम् । भवतीम् इव लघु नेतुम् अधीशं । सेवित-मधुर-स-सङ्घम् ॥[ध्रुवम्] जागरम् इतम् इव माधविकाशतम् अनुकृत-जृम्भा-भङ्गम् । चुम्बति मधुप-गणे कृत-भङ्गि स्मारयति प्रिय-सङ्गम् ॥सरस-रसालज-मुकुल-कुलं परिपुलकयद् इव समम् अङ्गम् । आकारितम् इव तव कुरुते पिक-कलम् अनुकलयद् अनङ्गम् ॥त्वां चेला-कलि-चन्दन-मरुता वासयतानुलवङ्गम् । कर्षति मधुरिपु-मधु-पर्वोदित-वीणा-वेणु-मृदङ्गम् ॥नीतायां त्वयि माधवि माधव-माधव-गान-तरङ्गम् । किरति पराग-चयं लोचनम् इव नटयति चारु-कुरङ्गम् ॥इति सा लब्ध्वा वल्लभम् अनिशं मनसा वलितासङ्गम् । जयति निरुपम-रूपिणि मध्ये यमुना-मानस-गङ्गम् ॥ज्ग्च् १,२९।५८॥[५१] अत्र च पद्यम् एकं गद्यते- वन-रुचि-रुचिरः श्रीमान् मदन-विनोदाय नुन्न-गोपीकः । अभितः सुरभित-देशः सहचरि पश्य माधवः स्फुरति

kṛṣṇa-vanaṃ sakhi bhāti saraṅgam | bhavatīm iva laghu netum adhīśaṃ | sevita-madhura-sa-saṅgham ||[dhruvam] jāgaram itam iva mādhavikāśatam anukṛta-jṛmbhā-bhaṅgam | cumbati madhupa-gaṇe kṛta-bhaṅgi smārayati priya-saṅgam ||sarasa-rasālaja-mukula-kulaṃ paripulakayad iva samam aṅgam | ākāritam iva tava kurute pika-kalam anukalayad anaṅgam ||tvāṃ celā-kali-candana-marutā vāsayatānulavaṅgam | karṣati madhuripu-madhu-parvodita-vīṇā-veṇu-mṛdaṅgam ||nītāyāṃ tvayi mādhavi mādhava-mādhava-gāna-taraṅgam | kirati parāga-cayaṃ locanam iva naṭayati cāru-kuraṅgam ||iti sā labdhvā vallabham aniśaṃ manasā valitāsaṅgam | jayati nirupama-rūpiṇi madhye yamunā-mānasa-gaṅgam ||JGc 1,29.58||[51] atra ca padyam ekaṃ gadyate- vana-ruci-ruciraḥ śrīmān madana-vinodāya nunna-gopīkaḥ | abhitaḥ surabhita-deśaḥ sahacari paśya mādhavaḥ sphurati

Sanskrit only: no published translation is held for this verse.

पद्यां पश्यति वेणुम् आकलयति प्रेष्यादिकं प्रेषयत्य् अन्यं कृत्स्नम् उपायम् आचरति यत् कान्तः स-कान्तः पुरा । तद् गुर्वादि-निरोध-बन्ध-विधिषु प्रौढेषु हाकर्षणं जज्ञे निष्फलनम् एव येन च तयोर् मर्माणि भेदं ययुः ॥ज्ग्च् १,२९।६१॥ [५५] तत्र चोभयोर् मनः-कथा, यथा- न प्राग् दृष्टिर् अमुष्य यत् प्रिय-जनस्यासीत् तद् उच्चैः सुखं मन्ये सा बत साम्प्रतं समभवद् यत् तस्य तद् दुःखम् । तस्य स्वस्य च या क्रमेण ममता जाताधुना सा द्वयं चूर्णीकर्तुम् अथेच्छतीह किम् अहं कर्तास्मि कर्ता स किम् ॥ज्ग्च् १,२९।६२॥ रात्राव् अद्यातिमात्रं प्रणयि-जनम् अहं तं ददर्शाप्य् असौ मां नैतावन्-मात्रम् अत्र प्रतिनव-मदनं हन्त पस्पर्श च द्राक् । यद्य् एष स्वप्न एव स्फुरति न हि तदाप्य् आत्मनः प्राण-रक्षां मन्ये जाग्रद्-दशा वा तद् अपि न हि हहा कृष्ण-कान्ते क्व नु त्वम् ॥ज्ग्च् १,२९।६३॥ श्यामाङ्गम् अन्तरा देहः सुहृदः सर्व एव च । अन्तर्-मनो-भिदस् तापं दधते वह्नि-जालवत् ॥ज्ग्च् १,२९ ६४॥ इति । एवं संचक्रुधुस् ते ते रुरुधुश् च वधुर् यदा । तदा कृष्णस् तीर्थ-यात्रां तृष्णया च्छद्म निर्ममे ॥ज्ग्च् १,२९।६५॥ यदा कृष्णानुरक्ताभिः सा यात्रा ताभिर् आकलि । मनो-राज्यं तदा प्राज्यम् अचायि निरचायि च ॥ज्ग्च् १,२९।६६॥ यदा प्रतस्थे गोविन्दो विन्दन् शकटम् उन्नतम् । तदा दृक्-पक्षिणां ताभिर् लक्षिता बन्धु-विच्युतिः ॥ज्ग्च् १,२९ ६७॥ रात्रिं रात्रिं वसन्ति स्म यत्र ते तत्र निश्चितम् । अभूद् अमूषु सम्प्राप्तिर् विधोर् दाक्षायणीष्व् इव ॥ज्ग्च् १,२९ ६८॥ तथा हि- ताभिः स्वस्य विदूरकाभिर् अभिसारोऽ द्यन्-मदाभिस् तदा गत्य्-अर्थं कृत-वासकाभिर् उदित-प्रोल्लासि-तत्-केलिभिः । काभिश्चित् परिवञ्चिताभिर् अतिव्याप्ताभिर् उद्वासित- द्वन्द्वाभिर् विविध-स्व-केलिम् अभजत् तस्मिन् स कृष्णः पथि ॥ज्ग्च् १,२९।६९॥ यर्हि च तीर्थं याता गोकुललोकास्तदा हरिर्विदधे । गुणजीविस्त्रीवेशं तासामासत्तिसौख्याय ॥ज्ग्च् १,२९ ७०॥ [५६] तत्र ज्योतिर्-मन्त्र-योग-तन्त्र-विदुषी-वेषो, यथा- सर्वज्ञे किं त्रिलोक्यां सुख-कर-सदनं कृष्ण-गोष्ठं किम् अस्मिन्न् आजीव्यं कृष्ण-गानं किम् अतुल-भविक-प्रापणं कृष्ण-लिप्सा । किं भोग्यं कृष्ण-रूपं परिणतिर् इह का कृष्ण-लब्धिः समन्ताद् इत्य् एवं राधिकायां प्रतिवचन-कृती पातु नः कृष्ण-दम्भः ॥ज्ग्च् १,२९।७१॥ [५७] दूती-वेशो यथा- कासि प्रेश्या किमीया तव तम् अनुगता किंगुणा तस्य तुल्या तत्र स्यात् किं प्रमाणं विजन-गृह-गता पश्य मे सर्वम् अङ्गम् । इत्य् एवं दिग्-वितान-प्रणिहिति-वलितं स-स्मितं तन्-निदिष्टा राधा-गीर्-भङ्गि-मात्रात् परिचितिम् अकरोद् अस्तु तत् काम्य-वस्तु ॥ज्ग्च् १,२९।७२॥ [५८] तद् एवं श्री-राधया तद्-विरह-चिन्ता-संबाधयापि गत-तद्-बाधया क्वचिद् अन्यथान्यथा च रजन्य् अन्तरे पुनः पुनर् अन्य-बहु-विध-वेशं केशवं निशाम्य भणितम्, यथा- सेयं भिषग्-असिताङ्गी मम हृद्-दाहं चिकित्सितुं लब्धा । स्पृशती सखि कर-नाडीम् अन्याङ्गं धिक् कुतः स्पृशति ॥ज्ग्च् १,२९।७३॥ श्यामा वैणविकीयं विदूर-वासा निशार्धम् उद्भूतम् । सख्य-स्थलम् इदम् अल्पं तन् मम तल्पं तु संकुचद् भवतु ॥ज्ग्च् १,२९।७४॥ कविर् इयम् अतुला भवतु श्याम-व्यक्तिः स्वधीत-तद्-विद्या । अस्माकं रह एषा कथम् इव जानाति तन् न जानामि ॥ज्ग्च् १,२९ ७५॥ श्यामा चित्र-करीयं चित्रं विजने प्रकाशयति । माम् इव काम् अपि यत्र स्व-तुलित-पुंसान्वितां सखि व्यधित ॥ज्ग्च् १,२९ ७६॥ रहसि तद् एतद् वद्मि त्वयि सखि न परत्र कुत्रापि । ताम्बूलिकीयम् असिता मोहन-मन्त्रं विजानाति ॥ज्ग्च् १,२९ ७७॥ सेयं माला-कारी-मूर्तिर् मालाः प्रसारयति । तस्य श्यामल-मूर्तेः कस्मात् पुष्पेषु वासनां तनुते ॥ज्ग्च् १,२९ ७८॥ फल-विक्रयिणी श्यामा फलम् इह विविधं प्रसारयति । बिल्वं केवलम् अथ किं गृह्णत्य् अस्मान् विलोकयति ॥ज्ग्च् १,२९ ७९॥ सेयं श्यामा न सती हार-व्यतिहार-सम्भवद्-द्रव्या । अपरिचितापि स्वयम् अथ मणिसर-परिधापनं वष्टि ॥ज्ग्च् १,२९ ८०॥ यद्-अवधि तद्-अगुरु-सत्त्वं तस्या गृह्णामि गन्ध-जीविन्याः । तद्-अवधि गुरवो मयि सखि कृष्णम् अकृष्णं च ब्रुवते ॥ज्ग्च् १,२९ ८१॥[५९] अथ श्रीवत्स-लक्षणस्याप्य् एतद्-उपलक्षणं बहु-रचनं वचनं लक्षणीयम्, यथा- सीवन-विज्ञा स्वयम् अपि पर-शिल्पानां विलोकनात् कर्त्री । साहं प्रणयि-व्यक्तिर् लोकय गोपि स्व-हृद्-गतां चोलीम् ॥ज्ग्च् १,२९।८२॥ अहम् इह रञ्जन-कारी श्यामाभिख्या जगद्-गत-ख्यातिः । या मम वस्त्रं वस्ते विकसति हृत्-कञ्ज-रञ्जनाप्य् अस्याः ॥ज्ग्च् १,२९ ८३॥ दर्पण-कार्मुक-विद्रुम-मुक्ता विक्रेतुम् ईहसे स्पष्टम् । गूढं सम्पुट-युगलं क्रेतुम् अहं तु व्रजस्त्रि पृच्छामि ॥ज्ग्च् १,२९ ८४॥ संवाहन-निपुणात्मा सुतनुर् अहं तव निषेवणं लिप्सुः । मत्-स्पर्शांशज-सौख्यं सुभगे ब्राह्मं सुखं जयति ॥ज्ग्च् १,२९ ८५॥ [६०] तत्र च सति- कङ्कण-कारि-स्त्रीवद्-वेशं केशवम् उपेत्य याः काश्चित् । दक्षिण-वाम-चरित्रं तेनुस् तन् न हि करवामहे सदसि ॥ज्ग्च् १,२९।८६॥ अन्धकार-मय-पक्ष-लक्षिताम् अम्बिका-वन-गतिं विधाय ताम् । यद्य् अदिष्टम् अभवन् मुरारिणा मिष्टम् इष्टम् अतनिष्ट तद् बहु ॥ज्ग्च् १,२९।८७॥[६१] तद् एवं सति- कंसारेर् हृदयाब्ज-सम्भवद्-अली-वीथीयमाना व्रज- प्रेयस्यः स्फुटम् अन्तरान्तर-पदं याताः क्रमाद् अन्ततः । एवं चेद् भवतान् न तत्र च वयं संदिह्य विब्रूमहे राधा यत् किल कर्णिका-स्थितिम् अगाद् अस्माकम् अत्राग्रहः

padyāṃ paśyati veṇum ākalayati preṣyādikaṃ preṣayaty anyaṃ kṛtsnam upāyam ācarati yat kāntaḥ sa-kāntaḥ purā | tad gurvādi-nirodha-bandha-vidhiṣu prauḍheṣu hākarṣaṇaṃ jajñe niṣphalanam eva yena ca tayor marmāṇi bhedaṃ yayuḥ ||JGc 1,29.61|| [55] tatra cobhayor manaḥ-kathā, yathā- na prāg dṛṣṭir amuṣya yat priya-janasyāsīt tad uccaiḥ sukhaṃ manye sā bata sāmprataṃ samabhavad yat tasya tad duḥkham | tasya svasya ca yā krameṇa mamatā jātādhunā sā dvayaṃ cūrṇīkartum athecchatīha kim ahaṃ kartāsmi kartā sa kim ||JGc 1,29.62|| rātrāv adyātimātraṃ praṇayi-janam ahaṃ taṃ dadarśāpy asau māṃ naitāvan-mātram atra pratinava-madanaṃ hanta pasparśa ca drāk | yady eṣa svapna eva sphurati na hi tadāpy ātmanaḥ prāṇa-rakṣāṃ manye jāgrad-daśā vā tad api na hi hahā kṛṣṇa-kānte kva nu tvam ||JGc 1,29.63|| śyāmāṅgam antarā dehaḥ suhṛdaḥ sarva eva ca | antar-mano-bhidas tāpaṃ dadhate vahni-jālavat ||JGc 1,29 64|| iti | evaṃ saṃcakrudhus te te rurudhuś ca vadhur yadā | tadā kṛṣṇas tīrtha-yātrāṃ tṛṣṇayā cchadma nirmame ||JGc 1,29.65|| yadā kṛṣṇānuraktābhiḥ sā yātrā tābhir ākali | mano-rājyaṃ tadā prājyam acāyi niracāyi ca ||JGc 1,29.66|| yadā pratasthe govindo vindan śakaṭam unnatam | tadā dṛk-pakṣiṇāṃ tābhir lakṣitā bandhu-vicyutiḥ ||JGc 1,29 67|| rātriṃ rātriṃ vasanti sma yatra te tatra niścitam | abhūd amūṣu samprāptir vidhor dākṣāyaṇīṣv iva ||JGc 1,29 68|| tathā hi- tābhiḥ svasya vidūrakābhir abhisāro' dyan-madābhis tadā gaty-arthaṃ kṛta-vāsakābhir udita-prollāsi-tat-kelibhiḥ | kābhiścit parivañcitābhir ativyāptābhir udvāsita- dvandvābhir vividha-sva-kelim abhajat tasmin sa kṛṣṇaḥ pathi ||JGc 1,29.69|| yarhi ca tīrthaṃ yātā gokulalokāstadā harirvidadhe | guṇajīvistrīveśaṃ tāsāmāsattisaukhyāya ||JGc 1,29 70|| [56] tatra jyotir-mantra-yoga-tantra-viduṣī-veṣo, yathā- sarvajñe kiṃ trilokyāṃ sukha-kara-sadanaṃ kṛṣṇa-goṣṭhaṃ kim asminn ājīvyaṃ kṛṣṇa-gānaṃ kim atula-bhavika-prāpaṇaṃ kṛṣṇa-lipsā | kiṃ bhogyaṃ kṛṣṇa-rūpaṃ pariṇatir iha kā kṛṣṇa-labdhiḥ samantād ity evaṃ rādhikāyāṃ prativacana-kṛtī pātu naḥ kṛṣṇa-dambhaḥ ||JGc 1,29.71|| [57] dūtī-veśo yathā- kāsi preśyā kimīyā tava tam anugatā kiṃguṇā tasya tulyā tatra syāt kiṃ pramāṇaṃ vijana-gṛha-gatā paśya me sarvam aṅgam | ity evaṃ dig-vitāna-praṇihiti-valitaṃ sa-smitaṃ tan-nidiṣṭā rādhā-gīr-bhaṅgi-mātrāt paricitim akarod astu tat kāmya-vastu ||JGc 1,29.72|| [58] tad evaṃ śrī-rādhayā tad-viraha-cintā-saṃbādhayāpi gata-tad-bādhayā kvacid anyathānyathā ca rajany antare punaḥ punar anya-bahu-vidha-veśaṃ keśavaṃ niśāmya bhaṇitam, yathā- seyaṃ bhiṣag-asitāṅgī mama hṛd-dāhaṃ cikitsituṃ labdhā | spṛśatī sakhi kara-nāḍīm anyāṅgaṃ dhik kutaḥ spṛśati ||JGc 1,29.73|| śyāmā vaiṇavikīyaṃ vidūra-vāsā niśārdham udbhūtam | sakhya-sthalam idam alpaṃ tan mama talpaṃ tu saṃkucad bhavatu ||JGc 1,29.74|| kavir iyam atulā bhavatu śyāma-vyaktiḥ svadhīta-tad-vidyā | asmākaṃ raha eṣā katham iva jānāti tan na jānāmi ||JGc 1,29 75|| śyāmā citra-karīyaṃ citraṃ vijane prakāśayati | mām iva kām api yatra sva-tulita-puṃsānvitāṃ sakhi vyadhita ||JGc 1,29 76|| rahasi tad etad vadmi tvayi sakhi na paratra kutrāpi | tāmbūlikīyam asitā mohana-mantraṃ vijānāti ||JGc 1,29 77|| seyaṃ mālā-kārī-mūrtir mālāḥ prasārayati | tasya śyāmala-mūrteḥ kasmāt puṣpeṣu vāsanāṃ tanute ||JGc 1,29 78|| phala-vikrayiṇī śyāmā phalam iha vividhaṃ prasārayati | bilvaṃ kevalam atha kiṃ gṛhṇaty asmān vilokayati ||JGc 1,29 79|| seyaṃ śyāmā na satī hāra-vyatihāra-sambhavad-dravyā | aparicitāpi svayam atha maṇisara-paridhāpanaṃ vaṣṭi ||JGc 1,29 80|| yad-avadhi tad-aguru-sattvaṃ tasyā gṛhṇāmi gandha-jīvinyāḥ | tad-avadhi guravo mayi sakhi kṛṣṇam akṛṣṇaṃ ca bruvate ||JGc 1,29 81||[59] atha śrīvatsa-lakṣaṇasyāpy etad-upalakṣaṇaṃ bahu-racanaṃ vacanaṃ lakṣaṇīyam, yathā- sīvana-vijñā svayam api para-śilpānāṃ vilokanāt kartrī | sāhaṃ praṇayi-vyaktir lokaya gopi sva-hṛd-gatāṃ colīm ||JGc 1,29.82|| aham iha rañjana-kārī śyāmābhikhyā jagad-gata-khyātiḥ | yā mama vastraṃ vaste vikasati hṛt-kañja-rañjanāpy asyāḥ ||JGc 1,29 83|| darpaṇa-kārmuka-vidruma-muktā vikretum īhase spaṣṭam | gūḍhaṃ sampuṭa-yugalaṃ kretum ahaṃ tu vrajastri pṛcchāmi ||JGc 1,29 84|| saṃvāhana-nipuṇātmā sutanur ahaṃ tava niṣevaṇaṃ lipsuḥ | mat-sparśāṃśaja-saukhyaṃ subhage brāhmaṃ sukhaṃ jayati ||JGc 1,29 85|| [60] tatra ca sati- kaṅkaṇa-kāri-strīvad-veśaṃ keśavam upetya yāḥ kāścit | dakṣiṇa-vāma-caritraṃ tenus tan na hi karavāmahe sadasi ||JGc 1,29.86|| andhakāra-maya-pakṣa-lakṣitām ambikā-vana-gatiṃ vidhāya tām | yady adiṣṭam abhavan murāriṇā miṣṭam iṣṭam ataniṣṭa tad bahu ||JGc 1,29.87||[61] tad evaṃ sati- kaṃsārer hṛdayābja-sambhavad-alī-vīthīyamānā vraja- preyasyaḥ sphuṭam antarāntara-padaṃ yātāḥ kramād antataḥ | evaṃ ced bhavatān na tatra ca vayaṃ saṃdihya vibrūmahe rādhā yat kila karṇikā-sthitim agād asmākam atrāgrahaḥ

Sanskrit only: no published translation is held for this verse.

सुदर्शनस्य शापान्तकारी राधे सुदर्शनः । अतिकान्तस् तवावाति-कान्तः सोऽ यं बकान्तकः

sudarśanasya śāpāntakārī rādhe sudarśanaḥ | atikāntas tavāvāti-kāntaḥ so' yaṃ bakāntakaḥ

Sanskrit only: no published translation is held for this verse.