उदुम्बरमशकादषु उपमया क्षेपः । मातरिपुरुषः इति प्रतिषिद्धसेवनेन । पिण्डीषूरादिषु निरीहतया । अव्यक्तत्त्वाच्चाकृतिगणो ऽयम् । पात्रेसमिताः । पात्रेबहुलाः । उदुम्बरमशकाः । उदरकृमिः । कूपकच्छपः । कूपचूर्णकः । अवटकच्छपः । कूपमण्डूकः । कुम्भमण्डूकः । उदपानमःडूकः । नगरकाकः । नगरवायसः । मातरिषुरुषः । पिण्डीषूरः । पितरिषूरः । गेहेशूरः । गेहेनर्दी । गेहेक्ष्वेडी । गेहेविजिती । गेहेव्याडः । गेहेमेही । गेहेदाही । हेहेदृप्तः । गेहेधृष्टः । गर्भेतृप्तः । आखनिकबकः । गोष्ठेशूरः । गोष्ठे विजिती । गोष्ठेक्ष्वेडी । गोष्ठेपटुः । गोष्ठेपण्डितः । गोष्ठेप्रगल्भः । कर्णेटिट्टिभः । कर्णेटिरिटिरा । कर्णेचुरचुरा । चकारो ऽवधारण-अर्थः, तेन समासान्तरं न भवति, परमपात्रेसमिताः इति ॥ पूर्वकाल-एक-सर्व-जरत्-पुराणा-नव-केवलाः समानाधिकरणेन
udumbaramaśakādaṣu upamayā kṣepaḥ / mātaripuruṣaḥ iti pratiṣiddhasevanena / piṇḍīṣūrādiṣu nirīhatayā / avyaktattvāccākṛtigaṇo 'yam / pātresamitāḥ / pātrebahulāḥ / udumbaramaśakāḥ / udarakṛmiḥ / kūpakacchapaḥ / kūpacūrṇakaḥ / avaṭakacchapaḥ / kūpamaṇḍūkaḥ / kumbhamaṇḍūkaḥ / udapānamaḥḍūkaḥ / nagarakākaḥ / nagaravāyasaḥ / mātariṣuruṣaḥ / piṇḍīṣūraḥ / pitariṣūraḥ / geheśūraḥ / gehenardī / gehekṣveḍī / gehevijitī / gehevyāḍaḥ / gehemehī / gehedāhī / hehedṛptaḥ / gehedhṛṣṭaḥ / garbhetṛptaḥ / ākhanikabakaḥ / goṣṭheśūraḥ / goṣṭhe vijitī / goṣṭhekṣveḍī / goṣṭhepaṭuḥ / goṣṭhepaṇḍitaḥ / goṣṭhepragalbhaḥ / karṇeṭiṭṭibhaḥ / karṇeṭiriṭirā / karṇecuracurā / cakāro 'vadhāraṇa-arthaḥ, tena samāsāntaraṃ na bhavati, paramapātresamitāḥ iti // pūrvakāla-eka-sarva-jarat-purāṇā-nava-kevalāḥ samānādhikaraṇena
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.