मति-बुद्धि-पूजा-अर्थेभ्यश् च (*३,२।१८८) इति वक्ष्यति, तस्य+इदं ग्रहणम् । पूजा-ग्रहणम् उपलक्षण-अर्थम् । क्तो यः पूजायां विहितस्तेन षष्ठी न समस्यते । राज्ञां मतः । राज्ञां बुद्धः । राज्ञां पूजितः । पूजायाम् इति किम् ? छात्रस्य हसितम् छात्रहसितम् ॥ अधिकरण-वाचिना च
mati-buddhi-pūjā-arthebhyaś ca (*3,2.188) iti vakṣyati, tasya+idaṃ grahaṇam / pūjā-grahaṇam upalakṣaṇa-artham / kto yaḥ pūjāyāṃ vihitastena ṣaṣṭhī na samasyate / rājñāṃ mataḥ / rājñāṃ buddhaḥ / rājñāṃ pūjitaḥ / pūjāyām iti kim ? chātrasya hasitam chātrahasitam // adhikaraṇa-vācinā ca
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.