न इति निवृत्तम्, न तृजकौ । नित्यं समासो विधीयते । क्रिडायां जीविकायां च नित्यं षष्ठी समस्यते, तत्पुरुषश् च समासो भवति । तृच् क्रिडा-जीविकयोर् न अस्ति इत्य् अक एव+उदाह्रियते । उद्दालकपुष्पभञ्जिका । वारनपुष्पप्रचायिका । जीविकायाम् - दन्तलेखकः । नखलेखकः । क्रिडाजीविक्योः इति किम् ? ओदनस्य भोजकः ॥ कु-गति-प्र-आदयः
na iti nivṛttam, na tṛjakau / nityaṃ samāso vidhīyate / kriḍāyāṃ jīvikāyāṃ ca nityaṃ ṣaṣṭhī samasyate, tatpuruṣaś ca samāso bhavati / tṛc kriḍā-jīvikayor na asti ity aka eva+udāhriyate / uddālakapuṣpabhañjikā / vāranapuṣpapracāyikā / jīvikāyām - dantalekhakaḥ / nakhalekhakaḥ / kriḍājīvikyoḥ iti kim ? odanasya bhojakaḥ // ku-gati-pra-ādayaḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.