द्वन्द्वे इति वर्तते । अल्पाच्तरं शब्दरूपं द्वन्द्वे समासे पूर्वं प्रयोक्तव्यम् । प्लक्षश् च न्यग्रोध्श् च प्लक्ष-न्यग्रोधौ । धवखदिरपलाशाः । बहुष्व् अनियमः - शङ्खदुन्दुभिवीणाः, वीणाशङ्खदुन्दुभयः । ऋतुनक्ष्त्राणामानुपूर्व्येण समानक्षरानां पूर्वनिपातो वक्तव्यः । हेमन्तशिशिरवसन्ताः । चित्रास्वाती । कृत्तिकारोहिण्यौ । समानाक्षराणाम् इति किम् ? ग्रीष्मवसन्तौ । लघ्व्-अक्षरं पूर्वं निपतति इति वक्तव्यम् । कुशकाशम् । शरशादम् । अभ्यर्हितं च पूर्वं निपतति इति वक्तव्यम् । मातापितरौ । श्रद्धमेधे । दीक्षातपसी । वर्णानामानुपूर्व्येण पूर्वनिपातः । ब्राह्मणक्षत्रियविट्शूद्राः । समानाक्षराणाम् इत्य् अत्र न अस्ति । भ्रातुश् च ज्यायसः पूर्वनिपातो वक्तव्यः । युधष्ठिरार्जुनौ । सङ्ख्याया अल्पीयस्याः पूर्वनिपातो वक्तव्यः । द्वित्राः । त्रिचतुराः । नवतिशतम् ॥ सप्तमी-विशेषने बहुव्रीहौ
dvandve iti vartate / alpāctaraṃ śabdarūpaṃ dvandve samāse pūrvaṃ prayoktavyam / plakṣaś ca nyagrodhś ca plakṣa-nyagrodhau / dhavakhadirapalāśāḥ / bahuṣv aniyamaḥ - śaṅkhadundubhivīṇāḥ, vīṇāśaṅkhadundubhayaḥ / ṛtunakṣtrāṇāmānupūrvyeṇa samānakṣarānāṃ pūrvanipāto vaktavyaḥ / hemantaśiśiravasantāḥ / citrāsvātī / kṛttikārohiṇyau / samānākṣarāṇām iti kim ? grīṣmavasantau / laghv-akṣaraṃ pūrvaṃ nipatati iti vaktavyam / kuśakāśam / śaraśādam / abhyarhitaṃ ca pūrvaṃ nipatati iti vaktavyam / mātāpitarau / śraddhamedhe / dīkṣātapasī / varṇānāmānupūrvyeṇa pūrvanipātaḥ / brāhmaṇakṣatriyaviṭśūdrāḥ / samānākṣarāṇām ity atra na asti / bhrātuś ca jyāyasaḥ pūrvanipāto vaktavyaḥ / yudhaṣṭhirārjunau / saṅkhyāyā alpīyasyāḥ pūrvanipāto vaktavyaḥ / dvitrāḥ / tricaturāḥ / navatiśatam // saptamī-viśeṣane bahuvrīhau
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.