ते तद्राजाः (*४,१।१७२), ञ्य-आदयस् तद्राजाः (*५,३।११९) इति वक्ष्यति, तस्य तद्राज-सञ्ज्ञस्य प्रत्ययस्य बहुषु वर्तमानस्य अस्त्रीलिङ्गस्य लुग् भवति, तेन+एव चेत् तद्राजेन कृतं बहुत्वं भवति । अङ्गाः । वङ्गाः । पुण्ड्राः । सुह्माः । मगधाः । लोहध्वजाः । व्रीहिमन्तः । तद्राजस्य इति किम् ? औपगवाः । बहुषु इति किम् ? आङ्गः । तेन+एव ग्रहणं किम् ? प्रियो वाङ्गो येषां ते इमे प्रियवाङ्गाः । अस्त्रियाम् इति किम् ? आङ्ग्यः स्त्रियः ॥ यस्क-आदिभ्यो गोत्रे
te tadrājāḥ (*4,1.172), ñya-ādayas tadrājāḥ (*5,3.119) iti vakṣyati, tasya tadrāja-sañjñasya pratyayasya bahuṣu vartamānasya astrīliṅgasya lug bhavati, tena+eva cet tadrājena kṛtaṃ bahutvaṃ bhavati / aṅgāḥ / vaṅgāḥ / puṇḍrāḥ / suhmāḥ / magadhāḥ / lohadhvajāḥ / vrīhimantaḥ / tadrājasya iti kim ? aupagavāḥ / bahuṣu iti kim ? āṅgaḥ / tena+eva grahaṇaṃ kim ? priyo vāṅgo yeṣāṃ te ime priyavāṅgāḥ / astriyām iti kim ? āṅgyaḥ striyaḥ // yaska-ādibhyo gotre
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.